For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातः संयोगशरमूलीयं वाजीकरणपादं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
वाजीकरणमन्विच्छेत् पुरुषो नित्यमात्मवान्|
तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च||३||
पुत्रस्यायतनं ह्येतद्गुणाश्चैते सुताश्रयाः|
वाजीकरणमग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी||४||
इष्टा ह्योकैकशोऽप्यर्था परं प्रीतिकरा स्मृताः|
किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः||५||
(सङ्घातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते)|
स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननोऽधिकम्|
स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्वपत्यं प्रतिष्ठितम्||६||
धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः|
सुरूपा यौवनस्था या लक्षणैर्या विभूषिता||७||
या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता|
नानाभक्त्या तु लोकस्य दैवयोगाच्च योषिताम्||८||
तं तं प्राप्य विवर्धन्ते नरं रूपादयो गुणाः|
वयोरूपवचोहावैर्या यस्य परमाङ्गना||९||
प्रविशत्याशु हृदयं दैवाद्वा कर्मणोऽपि वा|
हृदयोत्सवरूपा या या समानमनःशया||१०||
समानसत्त्वा या वश्या या यस्य प्रीयते प्रियैः|
या पाशभूता सर्वेषामिन्द्रियाणां परैर्गुणैः||११||
यया वियुक्तो निस्त्रीकमरतिर्मन्यते जगत्|
यस्या ऋते शरीरं ना धत्ते शून्यमिवेन्द्रियैः||१२||
शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते|
याति यां प्राप्य विस्रम्भं दृष्ट्वा हृष्यत्यतीव याम्||१३||
अपूर्वामिव यां याति नित्यं हर्षातिवेगतः|
गत्वा गत्वाऽपि बहुशो यां तृप्तिं नैव गच्छति||१४||
सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवाः|
अतुल्यगोत्रां वृष्यां च प्रहृष्टां निरुपद्रवाम्||१५||
शुद्धस्नातां व्रजेन्नारीमपत्यार्थी निरामयः|
अच्छायश्चैकशाखश्च निष्फलश्च यथा द्रुमः||१६||
अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नरः|
चित्रदीपः सरः शुष्कमधातुर्धातुसन्निभः||१७||
निष्प्रजस्तृणपूलीति मन्तव्यः पुरुषाकृतिः|
अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना||१८||
मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते|
बहुमूर्तिर्बहुमुखो बहुव्यूहो बहुक्रियः||१९||
बहुचक्षुर्बहुज्ञानो बह्वात्मा च बहुप्रजः|
मङ्गल्येऽयं प्रशस्योऽयं धन्योऽयं वीर्यवानयम्||२०||
बहुशाखोऽयमिति च स्तूयते ना बहुप्रजः|
प्रीतिर्बलं सुखं वृत्तिर्विस्तारो विपुलं कुलम्||२१||
यशो लोकाः सुखोदर्कास्तुष्टिश्चापत्यसंश्रिताः|
तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान्||२२||
वाजीकरणनित्यः स्यादिच्छन् कामसुखानि च|
उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्धनान्||२३||
वाजीकरणसंयोगान् प्रवक्ष्याम्यत उत्तरम्|
शरमूलेक्षुमूलानि काण्डेक्षुः सेक्षुवालिका||२४||
शतावरी पयस्या च विदारी कण्टकारिका|
जीवन्ती जीवको मेदा वीरा चर्षभको बला||२५||
ऋद्धिर्गोक्षुरकं रास्ना सात्मगुप्ता पुनर्नवा|
एषां त्रिपलिकान् भागान् माषाणामाढकं नवम्||२६||
विपाचयेज्जलद्रोणे चतुर्भागं च शेषयेत्|
तत्र पेष्याणि मधुकं द्राक्षा फल्गूनि पिप्पली||२७||
आत्मगुप्ता मधुकानि खर्जूराणि शतावरी|
विदार्यामलकेक्षूणां रसस्य च पृथक् पृथक्||२८||
सर्पिषश्चाढकं दद्यात् क्षीरद्रोणं च तद्भिषक्|
साधयेद्घृतशेषं च सुपूतं योजयेत् पुनः||२९||
शर्करायास्तुगाक्षीर्याश्चूर्णैः प्रस्थोन्मितैः पृथक्|
पलैश्चतुर्भिर्मागध्याः पलेन मरिचस्य च||३०||
त्वगेलाकेशराणां च चूर्णैरर्धपलोन्मितैः|
मधुनः कुडवाभ्यां च द्वाभ्यां तत्कारयेद्भिषक्||३१||
पलिका गुलिकास्त्यानास्ता यथाग्नि प्रयोजयेत्|
एष वृष्यः परं योगो बृंहणो बलवर्धनः||३२||
अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्|३३|
(इति बृंहणीगुटिका)
माषाणामात्मगुप्ताया बीजानामाढकं नवम्||३३||
जीवकर्षभकौ वीरां मेदामृद्धिं शतावरीम्|
मधुकं चाश्वगन्धां च साध्येत् कुडवोन्मिताम्||३४||
रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः|
विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च||३५||
दत्त्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत्|
शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक् पृथक्||३६||
भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत् पलम्|
पलं पूर्वमतो लीढ्वा ततोऽन्नमुपयोजयेत्||३७||
य इच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम्|३८|
(इति वाजीकरणं घृतम्)
शर्करा माषविदलास्तुगाक्षीरी पयो घृतम्||३८||
गोधूमचूर्णषष्ठानि सर्पिष्युत्कारिकां पचेत्|
तां नातिपक्वां मृदितां कौक्कुटे मधुरे रसे||३९||
सुगन्धे प्रक्षिपेदुष्णे यथा सान्द्रीभवेद्रसः|
एष पिण्डरसो वृष्यः पौष्टिको बलवर्धनः||४०||
अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्|
शिखितित्तिरिहंसानामेवं पिण्डरसो मतः|
बलवर्णस्वरकरः पुमांस्तेन वृषायते||४१||
(इति वाजीकरणपिण्डरसाः [२] )
घृतं माषान् सबस्ताण्डान् साधयेन्माहिषे रसे|
भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि||४२||
ईषत्सलवणं युक्तं धान्यजीरकनागरैः|
एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः||४३||
(इति वृष्यमाहिषरसः)
चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे|
कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च||४४||
नवसर्पिषि सन्तप्तान् फलाम्लान् कारयेद्रसान्|
मधुरान् वा यथासात्म्यं गन्धाढ्यान् बलवर्धनान्||४५||
(इत्यन्ये वृष्यरसाः)
तृप्तिं चटकमांसानां गत्वा योऽनुपिबेत् पयः|
न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि||४६||
(इति वृष्यमांसम्)
माषयूषेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम्|
पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान्||४७||
(इति वृष्यमाषयोगः)
न ना स्वपिति रात्रिषु नित्यस्तब्धेन शेफसा|
तृप्तः कुक्कुटमांसाना भृष्टानां नक्ररेतसि||४८||
(इति वृष्यः कुक्कुटमांसप्रयोगः)
निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत्|
हंसबर्हिणदक्षाणामेवमण्डानि भक्षयेत्||४९||
(इति वृष्योऽण्डरसः)
भवतश्चात्र-
स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा ना मितमत्ति काले|
वृषायते तेन परं मनुष्यस्तद्बृंहणं चैव बलप्रदं च||५०||
तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः|
सिध्यन्ति देहे मलिने प्रयुक्ताः क्लिष्टे यथा वाससि रागयोगाः||५१||
तत्र श्लोकौ-
वाजीकरणसामर्थ्यं क्षेत्रं स्त्री यस्य चैव या|
ये दोषा निरपत्यानां गुणाः पुत्रवतां च ये||५२||
दश पञ्च च संयोगा वीर्यापत्यविवर्धनाः|
उक्तास्ते शरमूलीये पादे पुष्टिबलप्रदाः||५३||
0 Comments