Advertisement

Responsive Advertisement

Charak Samhita Chapter 12 shwathu Chikitsa








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातः श्वयथुचिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

भिषग्वरिष्ठं सुरसिद्धजुष्टं मुनीन्द्रमत्र्यात्मजमग्निवेशः|
महागदस्य श्वयथोर्यथावत् प्रकोपरूपप्रशमानपृच्छत्||||

तस्मै जगादागदवेदसिन्धुप्रवर्तनाद्रिप्रवरोऽत्रिजस्तान्|
वातादिभेदात्त्रिविधस्य सम्यङ्निजानिजैकाङ्गजसर्वजस्य||||

शुद्ध्यामयाभक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा|
दध्याममृच्छाकविरोधिदुष्टगरोपसृष्टान्ननिषेवणं ||||

अर्शांस्यचेष्टा देहशुद्धिर्मर्मोपघातो विषमा प्रसूतिः|
मिथ्योपचारः प्रतिकर्मणां निजस्य हेतुः श्वयथोः प्रदिष्टः||||

बाह्यास्त्वचो दूषयिताऽभिघातः काष्ठाश्मशस्त्राग्निविषायसाद्यैः [] |

आगन्तुहेतुःत्रिविधो निजश्च सर्वार्धगात्रावयवाश्रितत्वात्||||

बाह्याः सिराः प्राप्य यदा कफासृक्पित्तानि सन्दूषयतीह वायुः|
तैर्बद्धमार्गः तदा विसर्पन्नुत्सेधलिङ्गं श्वयथुं करोति||||

उरःस्थितैरूर्ध्वमधस्तु [] वायोः स्थानस्थितैर्मध्यगतैस्तु मध्ये|
सर्वाङ्गगः सर्वगतैः क्वचित्स्थैर्दोषैः क्वचित् स्याच्छ्वयथुस्तदाख्यः||||

ऊष्मा तथा स्याद्दवथुः सिराणामायाम इत्येव पूर्वरूपम्|

सर्वस्त्रिदोषोऽधिकदोषलिङ्गैस्तच्छब्दमभ्येति भिषग्जितं ||१०||

सगौरवं स्यादनवस्थितत्वं सोत्सेधमुष्माऽथ सिरातनुत्वम्|
सलोमहर्षाऽङ्गविवर्णता सामान्यलिङ्गं श्वयथोः प्रदिष्टम्||११||

चलस्तनुत्वक्परुषोऽरुणोऽसितः प्रसुप्तिहर्षार्तियुतोऽनिमित्ततः|
प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली श्वयथुः समीरणात्||१२||

मृदुः सगन्धोऽसितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः|
उष्यते स्पर्शरुगक्षिरागकृत् [] पित्तशोथो भृशदाहपाकवान्||१३||

गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रावमिवह्निमान्द्यकृत्|
कृच्छ्रजन्मप्रशमो निपीडितो चोन्नमेद्रात्रिबली कफात्मकः||१४||

कृशस्य रोगैरबलस्य यो भवेदुपद्रवैर्वा वमिपूर्वकैर्युतः|
हन्ति मर्मानुगतोऽथ राजिमान् परिस्रवेद्धीनबलस्य सर्वगः||१५||

अहीनमांसस्य एकदोषजो नवो बलस्थस्य सुखः साधने|
निदानदोषर्तुविपर्ययक्रमैरुपाचरेत्तं बलदोषकालवित्||१६||

अथामजं लङ्घनपाचनक्रमैर्विशोधनैरुल्बणदोषमादितः|
शिरोगतं शीर्षविरेचनैरधो [] विरेचनैरूर्ध्वहरैस्तथोर्ध्वजम्||१७||

उपाचरेत् स्नेहभवं विरूक्षणैः प्रकल्पयेत् स्नेहविधिं रूक्षजे|
विबद्धविट्केऽनिलजे निरूहणं घृतं तु पित्तानिलजे सतिक्तकम्||१८||

पयश्च मूर्च्छारतिदाहतर्षिते विशोधनीये तु समूत्रमिष्यते|
कफोत्थितं क्षारकटूष्णसंयुतैः समूत्रतक्रासवयुक्तिभिर्जयेत्||१९||

ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं नवान्नं
गौडं पिष्टान्नं दधि तिलकृतं [] विज्जलं [] मद्यमम्लम्|
धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि
स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं ||२०||

व्योषं त्रिवृत्तिक्तकरोहिणी सायोरजस्का त्रिफलारसेन|
पीतं कफोत्थं शमयेत्तु शोफं गव्येन मूत्रेण हरीतकी ||२१||

हरीतकीनागरदेवदारु सुखाम्बुयुक्तं सपुनर्नवं वा|
सर्वं पिबेत्त्रिष्वपि मूत्रयुक्तं स्नातश्च जीर्णे पयसाऽन्नमद्यात्||२२||

पुनर्नवानागरमुस्तकल्कान् प्रस्थेन धीरः पयसाऽक्षमात्रान्|
मयूरकं मागधिकां समूलां सनागरां वा प्रपिबेत् सवाते||२३||

दन्तीत्रिवृत्त्र्यूषणचित्रकैर्वा पयः शृतं दोषहरं पिबेन्ना|
द्विप्रस्थमात्रं तु पलार्धिकैस्तैरर्धावशिष्टं पवने सपित्ते||२४||

सशुण्ठिपीतद्रुरसं प्रयोज्यं श्यामोरुबूकोषणसाधितं वा|
त्वग्दारुवर्षाभुमहौषधैर्वा गुडूचिकानागरदन्तिभिर्वा||२५||

सप्ताहमौष्ट्रं त्वथवाऽपि मासं पयः पिबेद्भोजनवारिवर्जी|
गव्यं समूत्रं महिषीपयो वा क्षीराशनो मूत्रमथो गवां वा||२६||

तक्रं पिबेद्वा गुरुभिन्नवर्चाः सव्योषसौवर्चलमाक्षिकं |
गुडाभयां वा गुडनागरं वा सदोषभिन्नामविबद्धवर्चाः||२७||

विड्वातसङ्गे पयसा रसैर्वा प्राग्भक्तमद्यादुरुबूकतैलम् [] |

स्रोतोविबन्धेऽग्निरुचिप्रणाशे मद्यान्यरिष्टांश्च पिबेत् सुजातान्||२८||

गण्डीरभल्लातकचित्रकांश्च व्योषं विडङ्गं बृहतीद्वयं |
द्विप्रस्थिकं गोमयपावकेन द्रोणे पचेत् कूर्चिकमस्तुनस्तु [] ||२९||

त्रिभागशेषं सुपूतशीतं द्रोणेन तत् प्राकृतमस्तुना |
सितोपलायाश्च शतेन युक्तं लिप्ते घटे चित्रकपिप्पलीनाम्||३०||

वैहायसे स्थापितमादशाहात् प्रयोजयंस्तद्विनिहन्ति शोफान्|
भगन्दरार्शःक्रिमिकुष्ठमेहान् वैवर्ण्यकार्श्यानिलहिक्कनं ||३१||

इति गण्डीराद्यरिष्टः

काश्मर्यधात्रीमरिचाभयाक्षद्राक्षाफलानां [] सपिप्पलीनाम्|
शतं शतं जीर्णगुडात्तुलां [१०] सङ्क्षुद्य कुम्भे मधुना प्रलिप्ते||३२||

सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेन्ना|
शोफान् विबन्धान् कफवातजांश्च निहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च||३३||

इत्यष्टशतोऽरिष्टः

पुनर्नवे द्वे बले सपाठे दन्तीं [११] गुडूचीमथ चित्रकं |
निदिग्धिकां त्रिपलानि पक्त्वा द्रोणावशेषे सलिले ततस्तम्||३४||

पूत्वा रसं द्वे गुडात् पुराणात्तुले मधुप्रस्थयुतं सुशीतम्|
मासं निदध्याद्घृतभाजनस्थं पल्ले यवानां परतस्तु मासात्||३५||

चूर्णीकृतैरर्धपलांशिकैस्तं पत्रत्वगेलामरिचाम्बुलोहैः [१२] |
गन्धान्वितं क्षौद्रघृतप्रदिग्धे जीर्णे पिबेद् व्याधिबलं समीक्ष्य||३६||

हृत्पाण्डुरोगं श्वयथुं प्रवृद्धं प्लीहज्वरारोचकमेहगुल्मान्|
भगन्दरं षड्जठराणि कासं श्वासं ग्रहण्यामयकुष्ठकण्डूः||३७||

शाखानिलं बद्धपुरीषतां हिक्कां किलासं हलीमकं |
क्षिप्रं जयेद्वर्णबलायुरोजस्तेजोन्वितो मांसरसान्नभोजी||३८||

इति पुनर्नवाद्यरिष्टः

फलत्रिकं दीप्यकचित्रकौ सपिप्पलीलोहरजो विडङ्गम्|
चूर्णीकृतं कौडविकं द्विरंशं क्षौद्रं पुराणस्य तुलां गुडस्य||३९||

मासं निदध्याद्घृतभाजनस्थं यवेषु तानेव निहन्ति रोगान्|
ये चार्शसां पाण्डुविकारिणां प्रोक्ता हिताः शोफिषु तेऽप्यरिष्टाः||४०||

इति त्रिफलाद्यरिष्टः

कृष्णा सपाठा गजपिप्पली निदिग्धिका चित्रकनागरे |
सपिप्पलीमूलरजन्यजाजीमुस्तं चूर्णं सुखतोयपीतम्||४१||

हन्यात्त्रिदोषं चिरजं शोफं कल्कश्च भूनिम्बमहौषधस्य|
अयोरजस्त्र्यूषणयावशूकचूर्णं पीतं त्रिफलारसेन||४२||

क्षारद्वयं स्याल्लवणानि चत्वार्ययोरजो व्योषफलत्रिके |
सपिप्पलीमूलविडङ्गसारं मुस्ताजमोदामरदारुबिल्वम्||४३||

कलिङ्गकाश्चित्रकमूलपाठे यष्ट्याह्वयं सातिविषं पलांशम्|
सहिङ्गुकर्षं त्वणुशुष्कचूर्णं द्रोणं तथा मूलकशुण्ठकानाम्||४४||

स्याद्भस्मनस्तत् सलिलेन साध्यमालोड्य यावद्घनमप्रदग्धम्|
स्त्यानं ततः कोलसमां तु मात्रां कृत्वा सुशुष्कां विधिनोपयुञ्ज्यात्||४५||

प्लीहोदरश्वित्रहलीमकार्शःपाण्ड्वामयारोचकशोषशोफान्|
विसूचिकागुल्मगराश्मरीश्च सश्वासकासाः प्रणुदेत् सकुष्ठाः||४६||

इति क्षारगुडिका

प्रयोजयेदार्द्रकनागरं वा तुल्यं गुडेनार्धपलाभिवृद्ध्या|
मात्रा परं पञ्चपलानि मासं जीर्णे पयो यूषरसाश्च भक्तम्||४७||

गुल्मोदरार्शःश्वयथुप्रमेहाञ् श्वासप्रतिश्यालसकाविपाकान्|
सकामलाशोषमनोविकारान् कासं कफं चैव जयेत् प्रयोगः||४८||

रसस्तथैवार्द्रकनागरस्य पेयोऽथ जीर्णे पयसाऽन्नमद्यात्|
जत्वश्मजं [१३] त्रिफलारसेन हन्यात्त्रिदोषं श्वयथुं प्रसह्य||४९||

इति शिलाजतुप्रयोगः

द्विपञ्चमूलस्य पचेत् कषाये कंसेऽभयानां शतं गुडस्य|
लेहे सुसिद्धेऽथ विनीय चूर्णं व्योषं त्रिसौगन्ध्यमुषास्थिते ||५०||

प्रस्थार्धमात्रं मधुनः सुशीते किञ्चिच्च चूर्णादपि यावशूकात्|
एकाभयां प्राश्य ततश्च लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम्||५१||

श्वासज्वरारोचकमेहगुल्मप्लीहत्रिदोषोदरपाण्डुरोगान्|
कार्श्यामवातावसृगम्लपित्तवैवर्ण्यमूत्रानिलशुक्रदोषान्||५२||

इति कंसहरीतकी

पटोलमूलामरदारुदन्तीत्रायन्तिपिप्पल्यभयाविशालाः|
यष्ट्याह्वयं तिक्तकरोहिणी सचन्दना स्यान्निचुलानि दार्वी||५३||

कर्षोन्मितैस्तैः क्वथितः कषायो घृतेन पेयः कुडवेन युक्तः|
वीसर्पदाहज्वरसन्निपाततृष्णाविषाणि श्वयथुं हन्ति||५४||

सचित्रकं [१४] धान्ययवान्यजाजीसौवर्चलं त्र्यूषणवेतसाम्लम्|
बिल्वात् फलं दाडिमयावशूकौ सपिप्पलीमूलमथापि चव्यम्||५५||

पिष्ट्वाऽक्षमात्राणि जलाढकेन पक्त्वा घृतप्रस्थमथ प्रयुञ्ज्यात्|
अर्शांसि गुल्मं श्वयथुं कृच्छ्रं निहन्ति वह्निं करोति दीप्तम्||५६||

पिबेद्घृतं वाऽष्टगुणाम्बुसिद्धं सचित्रकक्षारमुदारवीर्यम्|
कल्याणकं वाऽपि सपञ्चगव्यं तिक्तं महद्वाऽप्यथ तिक्तकं वा||५७||

क्षीरं घटे चित्रककल्कलिप्ते दध्यागतं साधु विमथ्य तेन|
तज्जं घृतं चित्रकमूलगर्भं तक्रेण सिद्धं श्वयथुघ्नमग्र्यम्||५८||

अर्शोऽतिसारानिलगुल्ममेहांश्चैतन्निहन्त्यग्निबलप्रदं [१५] |
तक्रेण चाद्यात् सघृतेन तेन भोज्यानि सिद्धामथवा यवागूम्||५९||

इति चित्रकघृतम्

जीवन्त्यजाजीशटिपुष्कराह्वैः सकारवीचित्रकबिल्वमध्यैः|
सयावशूकैर्बदरप्रमाणैर्वृक्षाम्लयुक्ता घृततैलभृष्टा||६०||

अर्शोऽतिसारानिलगुल्मशोफहृद्रोगमन्दाग्निहिता यवागूः|
या पञ्चकोलैर्विधिनैव [१६] तेन सिद्धा भवेत् सा समा तयैव||६१||

कुलत्थयूषश्च सपिप्पलीको मौद्गश्च सत्र्यूषणयावशूकः|
रसस्तथा विष्किरजाङ्गलानां सकूर्मगोधाशिखिशल्लकानाम्||६२||

सुवर्चला गृञ्जनकं पटोलं सवायसीमूलकवेत्रनिम्बम्|
शाकार्थिनां शाकमिति प्रशस्तं भोज्ये पुराणश्च यवः सशालिः||६३||

आभ्यन्तरं भेषजमुक्तमेतद्बर्हिर्हितं यच्छृणु तद्यथावत्|
स्नेहान् प्रदेहान् परिषेचनानि स्वेदांश्च वातप्रबलस्य कुर्यात्||६४||

शैलेयकुष्ठागुरुदारुकौन्तीत्वक्पद्मकैलाम्बुपलाशमुस्तैः|
प्रियङ्गुथौणेयकहेममांसीतालीशपत्रप्लवपत्रधान्यैः||६५||

श्रीवेष्टकध्यामकपिप्पलीभिः स्पृक्कानखैश्चैव यथोपलाभम्|
वातान्वितेऽभ्यङ्गमुशन्ति तैलं सिद्धं सुपिष्टैरपि प्रदेहम्||६६||

जलैश्च वासार्ककरञ्जशिग्रुकाश्मर्यपत्रार्जकजैश्च सिद्धैः|
स्विन्नो मृदूष्णै रवितप्ततोयैः स्नातश्च गन्धैरनुलेपनीयः||६७||

सवेतसाः क्षीरवतां द्रुमाणां त्वचः समञ्जिष्ठलतामृणालाः|
सचन्दनाः पद्मकवालकौ पैत्ते प्रदेहस्तु सतैलपाकः||६८||

आक्तस्य तेनाम्बु रविप्रतप्तं सचन्दनं साभयपद्मकं |
स्नाने हितं क्षीरवतां कषायः क्षीरोदकं चन्दनलेपनं ||६९||

कफे तु कृष्णासिकतापुराणपिण्याकशिग्रुत्वगुमाप्रलेपः|
कुलत्थशुण्ठीजलमूत्रसेकश्चण्डागुरुभ्यामनुलेपनं ||७०||

बिभीतकानां फलमध्यलेपः सर्वेषु दाहार्तिहरः प्रदिष्टः|
यष्ट्याह्वमुस्तैः सकपित्थपत्रैः सचन्दनैस्तत्पिडकासु लेपः||७१||

रास्नावृषार्कत्रिफलाविडङ्गं शिग्रुत्वचो मूषिकपर्णिका |
निम्बार्जकौ व्याघ्रनखः सदूर्वा सुवर्चला तिक्तकरोहिणी ||७२||

सकाकमाची बृहती सकुष्ठा पुनर्नवा चित्रकनागरे |
उन्मर्दनं शोफिषु मूत्रपिष्टं शस्तस्तथा मूलकतोयसेकः||७३||

शोफास्तु गात्रावयवाश्रिता ये ते स्थानदूष्याकृतिनामभेदात्|
अनेकसङ्ख्याः कतिचिच्च तेषां निदर्शनार्थं गदतो निबोध||७४||

दोषास्त्रयः स्वैः कुपिता निदानैः कुर्वन्ति शोफं शिरसः सुघोरम्|
अन्तर्गले घुर्घुरिकान्वितं शालूकमुच्छ्वासनिरोधकारि||७५||

गलस्य सन्धौ चिबुके गले सदाहरागः श्वसनासु चोग्रः|
शोफो भृशार्तिस्तु बिडालिका स्याद्धन्याद्गले चेद्वलयीकृता सा||७६||

स्यात्तालुविद्रध्यपि दाहरागपाकान्वितस्तालुनि सा त्रिदोषात्|
जिह्वोपरिष्टादुपजिह्विका स्यात् कफादधस्तादधिजिह्विका ||७७||

यो दन्तमांसेषु तु रक्तपित्तात् पाको भवेत् सोपकुशः प्रदिष्टः|
स्याद्दन्तविद्रध्यपि दन्तमांसे शोफः कफाच्छोणितसञ्चयोत्थः||७८||

गलस्य पार्श्वे गलगण्ड एकः स्याद्गण्डमाला बहुभिस्तु गण्डैः|
साध्याः स्मृताः पीनसपार्श्वशूलकासज्वरच्छर्दियुतास्त्वसाध्याः||७९||

तेषां सिराकायशिरोविरेका धूमः पुराणस्य घृतस्य पानम्|
स्याल्लङ्घनं वक्त्रभवेषु चापि प्रघर्षणं स्यात् कवलग्रहश्च||८०||

अङ्गैकदेशेष्वनिलादिभिः स्यात् स्वरूपधारी स्फुरणः सिराभिः|
ग्रन्थिर्महान्मांसभवस्त्वनर्तिर्मेदोभवः स्निग्धतमश्चलश्च||८१||

संशोधिते स्वेदितमश्मकाष्ठैः साङ्गुष्ठदण्डैर्विलयेदपक्वम्|
विपाट्य चोद्धृत्य भिषक् सकोशं शस्त्रेण दग्ध्वा व्रणवच्चिकित्सेत्||८२||

अदग्ध ईषत् परिशेषितश्च प्रयाति भूयोऽपि शनैर्विवृद्धिम्|
तस्मादशेषः कुशलैः समन्ताच्छेद्यो भवेद्वीक्ष्य शरीरदेशान्||८३||

शेषे कृते पाकवशेन शीर्यात्ततः क्षतोत्थः प्रसरेद्विसर्पः|
उपद्रवं तं प्रविचार्य तज्ज्ञस्तैर्भेषजैः पूर्वतरैर्यथोक्तैः||८४||

निवारयेदादित एव यत्नाद्विधानवित् स्वस्वविधिं विधाय|
ततः क्रमेणास्य यथाविधानं व्रणं व्रणज्ञस्त्वरया चिकित्सेत्||८५||

विवर्जयेत् कुक्ष्युदराश्रितं तथा गले मर्मणि संश्रितं |
स्थूलः खरश्चापि भवेद्विवर्ज्यो यश्चापि बालस्थविराबलानाम्||८६||

ग्रन्थ्यर्बुदानां यतोऽविशेषः प्रदेशहेत्वाकृतिदोषदूष्यैः|
ततश्चिकित्सेद्भिषगर्बुदानि विधानविद्ग्रन्थिचिकित्सितेन||८७||

ताम्रा सशूला पिडका भवेद्या सा चालजी नाम परिस्रुताग्रा|
शोफोऽक्षतश्चर्मनखान्तरे स्यान्मांसास्रदूषी भृशशीघ्रपाकः||८८||

ताम्रा सशूला पिडका भवेद्या सा चालजी नाम परिस्रुताग्रा|
शोफोऽक्षतश्चर्मनखान्तरे स्यान्मांसास्रदूषी भृशशीघ्रपाकः||८८||

विस्फोटकाः सर्वशरीरगास्तु स्फोटाः [२७] सरागज्वरतर्षयुक्ताः||९०||

यज्ञोपवीतप्रतिमाः प्रभूताः पित्तानिलाभ्यां जनितास्तु कक्षाः [२८] |

याश्चापराः स्युः पिडकाः प्रकीर्णाः स्थूलाणुमध्या अपि पित्तजास्ताः||९१||

क्षुद्रप्रमाणाः पिडकाः शरीरे सर्वाङ्गगाः सज्वरदाहतृष्णाः|
कण्डूयुताः सारुचिसप्रसेका रोमान्तिकाः पित्तकफात् प्रदिष्टाः||९२||

याः सर्वगात्रेषु मसूरमात्रा मसूरिकाः पित्तकफात् प्रदिष्टाः|
वीसर्पशान्त्यै विहिता क्रिया या तां तेषु कुष्ठे हितां विदध्यात्||९३||

ब्रध्नोऽनिलाद्यैर्वृषणे स्वलिङ्गैरन्त्रं निरेति प्रविशेन्मुहुश्च|
मूत्रेण पूर्णं मृदु मेदसा चेत् स्निग्धं विद्यात् कठिनं शोथम्||९४||

विरेचनाभ्यङ्गनिरूहलेपाः पक्वेषु चैव व्रणवच्चिकित्सा|
स्यान्मूत्रसेकः कफजं विपाट्य विशोध्य सीव्येद्व्रणवच्च पक्वम्||९५||

क्रिम्यस्थिसूक्ष्मक्षणनव्यवायप्रवाहणान्युत्कटकाश्वपृष्ठैः |
गुदस्य पार्श्वे पिडका भृशार्तिः पक्वप्रभिन्ना तु भगन्दरः स्यात्||९६||

विरेचनं चैषणपाटनं विशुद्धमार्गस्य तैलदाहः|
स्यात् क्षारसूत्रेण सुपाचितेन छिन्नस्य चास्य व्रणवच्चिकित्सा||९७||

जङ्घासु पिण्डीप्रपदोपरिष्टात् [३५] स्याच्छ्लीपदं मांसकफास्रदोषात्|
सिराकफघ्नश्च विधिः समग्रस्तत्रेष्यते सर्षपलेपनं ||९८||

मन्दास्तु पित्तप्रबलाः प्रदुष्टा दोषाः सुतीव्रं तनुरक्तपाकम्|
कुर्वन्ति शोथं ज्वरतर्षयुक्तं विसर्पणं जालकगर्दभाख्यम्||९९||

विलङ्घनं रक्तविमोक्षणं विरूक्षणं कायविशोधनं |
धात्रीप्रयोगाञ् शिशिरान् प्रदेहान् कुर्यात् सदा जालकगर्दभस्य||१००||

एवंविधांश्चाप्यपरान् परीक्ष्य शोथप्रकाराननिलादिलिङ्गैः|
शान्तिं नयेद्दोषहरैर्यथास्वमालेपनच्छेदनभेददाहैः||१०१||

प्रायोऽभिघातादनिलः सरक्तः शोथं सरागं प्रकरोति तत्र|
वीसर्पनुन्मारुतरक्तनुच्च कार्यं विषघ्नं विषजे कर्म||१०२||

तत्र श्लोकः-

त्रिविधस्य दोषभेदात् सर्वार्धावयवगात्रभेदाच्च|
श्वयथोर्द्विविधस्य तथा लिङ्गानि चिकित्सितं चोक्तम्||१०३||

इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने श्वयथुचिकित्सितं नाम द्वादशोऽध्यायः||१२||

 

Post a Comment

0 Comments