Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 13 udar chikitsa








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथात उदरचिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

सिद्धविद्याधराकीर्णे कैलासे नन्दनोपमे|
तप्यमानं तपस्तीव्रं साक्षाद्धर्ममिव स्थितम्||||

आयुर्वेदविदां श्रेष्ठं भिषग्विद्याप्रवर्तकम्|
पुनर्वसुं जितात्मानमग्निवेशोऽब्रवीद्वचः||||

भगवन्नुदरैर्दुःखैर्दृश्यन्ते ह्यर्दिता नराः|
शुष्कवक्त्राः कृशैर्गात्रैराध्मातोदरकुक्षयः||||

प्रनष्टाग्निबलाहाराः सर्वचेष्टास्वनीश्वराः|
दीनाः प्रतिक्रियाभावाज्जहतोऽसूननाथवत्||||

तेषामायतनं सङ्ख्यां प्राग्रूपाकृतिभेषजम्|
यथावच्छ्रोतुमिच्छामि गुरुणा सम्यगीरितम्||||

सर्वभूतहितायर्षिः शिष्येणैवं प्रचोदितः|
सर्वभूतहितं वाक्यं व्याहर्तुमुपचक्रमे||||

अग्निदोषान्मनुष्याणां रोगसङ्घाः पृथग्विधाः|
मलवृद्ध्या प्रवर्तन्ते विशेषेणोदराणि तु||||

मन्देऽग्नौ मलिनैर्भुक्तैरपाकाद्दोषसञ्चयः|
प्राणाग्न्यपानान् सन्दूष्य मार्गान्रुद्ध्वाऽधरोत्तरान्||१०||

त्वङ्मांसान्तरमागम्य कुक्षिमाध्मापयन् भृशम्|
जनयत्युदरं तस्य हेतुं शृणु सलक्षणम् ||११||

अत्युष्णलवणक्षारविदाह्यम्लगराशनात्|
मिथ्यासंसर्जनाद्रूक्षविरुद्धाशुचिभोजनात्||१२||

प्लीहार्शोग्रहणीदोषकर्शनात् कर्मविभ्रमात्|
क्लिष्टानामप्रतीकाराद्रौक्ष्याद्वेगविधारणात्||१३||

स्रोतसां दूषणादामात् सङ्क्षोभादतिपूरणात्|
अर्शोबालशकृद्रोधादन्त्रस्फुटनभेदनात्||१४||

अतिसञ्चितदोषाणां पापं कर्म कुर्वताम्|
उदराण्युपजायन्ते मन्दाग्नीनां विशेषतः||१५||

क्षुन्नाशः स्वाद्वतिस्निग्धगुर्वन्नं पच्यते चिरात्|
भुक्तं विदह्यते सर्वं जीर्णाजीर्णं वेत्ति ||१६||

सहते नातिसौहित्यमीषच्छोफश्च पादयोः|
शश्वद्बलक्षयोऽल्पेऽपि व्यायामे श्वासमृच्छति||१७||

वृद्धिः पुरीषनिचयो रूक्षोदावर्तहेतुका|
बस्तिसन्धौ रुगाध्मानं वर्धते पाट्यतेऽपि ||१८||

आतन्यते जठरमपि लघ्वल्पभोजनात्|
राजीजन्म वलीनाश इति लिङ्गं भविष्यताम्||१९||

रुद्ध्वा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः|
प्राणाग्न्यपानान् सन्दूष्य जनयन्त्युदरं नृणाम्||२०||

कुक्षेराध्मानमाटोपः शोफः पादकरस्य |
मन्दोऽग्निः श्लक्ष्णगण्डत्वं कार्श्यं चोदरलक्षणम्||२१||

पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः|
सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु||२२||

रूक्षाल्पभोजनायासवेगोदावर्तकर्शनैः|

वायुः प्रकुपितः कुक्षिहृद्बस्तिगुदमार्गगः||२३||

हत्वाऽग्निं कफमुद्धूय तेन रूद्धगतिस्ततः|
आचिनोत्युदरं जन्तोस्त्वङ्मांसान्तरमाश्रितः||२४||

तस्य रूपाणि- कुक्षिपाणिपादवृषणश्वयथुः, उदरविपाटनम्, अनियतौ वृद्धिह्रासौ,कुक्षिपार्श्वशूलोदावर्ताङ्गमर्दपर्वभेदशुष्ककासकार्श्यदौर्बल्यारोचकाविपाकाः, अधोगुरुत्वं, वातवर्चोमूत्रसङ्गः, श्यावारुणत्वं चनखनयनवदनत्वङ्मूत्रवर्चसाम्, अपि चोदरं तन्वसितराजीसिरासन्ततम्, आहतमाध्मातदृतिशब्दवद्भवति,वायुश्चोर्ध्वमधस्तिर्यक् सशूलशब्दश्चरति, एतद्वातोदरमिति विद्यात्||२५||

कट्वम्ललवणात्युष्णतीक्ष्णाग्न्यातपसेवनैः|
विदाह्यध्यशनाजीर्णैश्चाशु पित्तं समाचितम्||२६||

प्राप्यानिलकफौ रुद्ध्वा मार्गमुन्मार्गमास्थितम्|
निहन्त्यामाशये वह्निं जनयत्युदरं ततः||२७||

तस्य रूपाणि- दाहज्वरतृष्णामूर्च्छातीसारभ्रमाः, कटुकास्यत्वं, हरितहारिद्रत्वं [] नखनयनवदनत्वङ्मूत्रवर्चसाम्, अपि चोदरंनीलपीतहारिद्रहरितताम्रराजीसिरावनद्धं, दह्यते, दूयते, धूप्यते, ऊष्मायते, स्विद्यते, क्लिद्य, मृदुस्पर्शं क्षिप्रपाकं चभवति; एतत् पित्तोदरमिति विद्यात्||२८||

अव्यायामदिवास्वप्नस्वाद्वतिस्निग्धपिच्छिलैः|
दधिदुग्धौदकानूपमांसैश्चाप्यतिसेवितैः||२९||

क्रुद्धेन श्लेष्मणा स्रोतःस्वावृतेष्वावृतोऽनिलः|
तमेव पीडयन् कुर्यादुदरं बहिरन्त्रगः [] ||३०||

तस्य रूपाणि- गौरवारोचकाविपाकाङ्गमर्दाः, सुप्तिः, पाणिपादमुष्कोरुशोफः, उत्क्लेशनिद्राकासश्वासाः, शुक्लत्वं चनखनयनवदनत्वङ्मूत्रवर्चसाम्; अपि चोदरं शुक्लराजीसिरासन्ततं, गुरु, स्तिमितं, स्थिरं, कठिनं भवति;एतच्छ्लेष्मोदरमिति विद्यात्||३१||

दुर्बलाग्नेरपथ्यामविरोधिगुरुभोजनैः|
स्त्रीदत्तैश्च रजोरोमविण्मूत्रास्थिनखादिभिः||३२||

विषैश्च मन्दैर्वाताद्याः कुपिताः सञ्चयं त्रयः|

शनैः कोष्ठे प्रकुर्वन्तो जनयन्त्युदरं नृणाम्||३३||

तस्य रूपाणि-सर्वेषामेव दोषाणां समस्तानि लिङ्गान्युपलभ्यन्ते, वर्णाश्च सर्वे नखादिषु, उदरमपि नानावर्णराजीसिरासन्ततंभवति; एतत् सन्निपातोदरमिति विद्यात्||३४||

अशितस्यातिसङ्क्षोभाद्यानयानातिचेष्टितैः|
अतिव्यवायभाराध्ववमनव्याधिकर्शनैः||३५||

वामपार्श्वाश्रितः प्लीहा च्युतः स्थानात् प्रवर्धते|
शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत्||३६||

तस्य प्लीहा कठिनोऽष्ठीलेवादौ वर्धमानः कच्छपसंस्थान उपलभ्यते; चोपेक्षितः क्रमेण कुक्षिं जठरमग्न्यधिष्ठानं चपरिक्षिपन्नुदरमभिनिर्वर्तयति||३७||

तस्य रूपाणि-

दौर्बल्यारोचकाविपाकवर्चोमूत्रग्रहतमःप्रवेशपिपासाङ्गमर्दच्छर्दिमूर्च्छाङ्गसाद-कासश्वासमृदुज्वरानाहाग्निनाशकार्श्यास्यवैरस्यपर्वभेदकोष्ठवातशूलानि, अपि चोदरमरुणवर्णं विवर्णं वानीलहरितहारिद्रराजिमद्भवति; एवमेव यकृदपि दक्षिणपार्श्वस्थं कुर्यात्, तुल्यहेतुलिङ्गौषधत्वात्तस्य प्लीहजठर एवावरोधइति; एतत् प्लीहोदरमिति विद्यात्||३८||

पक्ष्मबालैः सहान्नेन भुक्तैर्बद्धायने गुदे|
उदावर्तैस्तथाऽर्शोभिरन्त्रसम्मूर्च्छनेन वा||३९||

अपानो मार्गसंरोधाद्धत्वाऽग्निं कुपितोऽनिलः|
वर्चःपित्तकफान् रुद्ध्वा जनयत्युदरं ततः||४०||

तस्य रूपाणि-

तृष्णादाहज्वरमुखतालुशोषोरुसादकासश्वासदौर्बल्यारोचकाविपाक-वर्चोमूत्रसङ्गाध्मानच्छर्दिक्षवथुशिरोहृन्नाभिगुदशूलानि, अपि चोदरं मूढवातं स्थिरमरुणं नीलराजि सिरावनद्धराजिकं वा प्रायोनाभ्युपरि गोपुच्छवदभिनिर्वर्तत इति; एतद्बद्धगुदोदरमिति विद्यात्||४१||

शर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतैः|
भिद्येतान्त्रं यदा भुक्तैर्जृम्भयाऽत्यशनेन वा||४२||

पाकं गच्छेद्रसस्तेभ्यश्छिद्रेभ्यः प्रस्रवद्बहिः|
पूरयन् गुदमन्त्रं जनयत्युदरं ततः||४३||

तस्य रूपाणि-तदधो नाभ्याः प्रायोऽभिवर्धमानमुदकोदरं भवति, यथाबलं दोषाणां रूपाणि दर्शयति, अपि चातुरः सलोहितनीलपीतपिच्छिलकुणपगन्ध्यामवर्च उपवेशते, हिक्काश्वासकासतृष्णाप्रमेहारोचकाविपाकदौर्बल्यपरीतश्च भवति;एतच्छिद्रोदरमिति विद्यात्||४४||

स्नेहपीतस्य मन्दाग्नेः क्षीणस्यातिकृशस्य वा|
अत्यम्बुपानान्नष्टेऽग्नौ मारुतः क्लोम्नि संस्थितः||४५||

स्रोतःसु रुद्धमार्गेषु कफश्चोदकमूर्च्छितः|
वर्धयेतां तदेवाम्बु स्वस्थानादुदराय तौ||४६||

तस्य रूपाणि-

अनन्नकाङ्क्षापिपासागुदस्रावशूलश्वासकासदौर्बल्यानि, अपि चोदरंनानावर्णराजिसिरासन्ततमुदकपूर्णदृतिक्षोभसंस्पर्शं भवति, एतदुदकोदरमिति विद्यात्||४७||

तत्र अचिरोत्पन्नमनुपद्रवमनुदकमप्राप्तमुदरं त्वरमाणश्चिकित्सेत्; उपेक्षितानां ह्येषां दोषाः स्वस्थानादपवृत्तापरिपाकाद्द्रवीभूताः सन्धीन् स्रोतांसि चोपक्लेदयन्ति, स्वेदश्च बाह्येषु स्रोतःसुप्रतिहतगतिस्तिर्यगवतिष्ठमानस्तदेवोदकमाप्याययति; तत्र पिच्छोत्पत्तौ मण्डलमुदरं गुरु स्तिमितमाकोठितमशब्दंमृदुस्पर्शमपगतराजीकमाक्रान्तं नाभ्यामेवोपसर्पति| ततोऽनन्तरमुदकप्रादुर्भावः|

तस्य रूपाणि-

कुक्षेरतिमात्रवृद्धिः, सिरान्तर्धानगमनम्, उदकपूर्णदृतिसङ्क्षोभसंस्पर्शत्वं ||४८||

तदाऽऽतुरमुपद्रवाः स्पृशन्तिछर्द्यतीसारतमकतृष्णाश्वासकासहिक्कादौर्बल्यपार्श्वशूलारुचिस्वरभेदमूत्रसङ्गादयः;तथाविधमचिकित्स्यं विद्यादिति||४९||

भवन्ति चात्र-

वातात्पित्तात्कफात् प्लीह्नः सन्निपातात्तथोदकात्|
परं परं कृच्छ्रतरमुदरं भिषगादिशेत्||५०||

पक्षाद्बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा|
प्रायो भवत्यभावाय च्छिद्रान्त्रं चोदरं नृणाम्||५१||

शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्|
बलशोणितमांसाग्निपरिक्षीणं वर्जयेत्||५२||

श्वयथुः सर्वमर्मोत्थः श्वासो हिक्काऽरुचिः सतृट्|
मूर्च्छा च्छर्दिरतीसारो निहन्त्युदरिणं नरम्||५३||

जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्|
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम्||५४||

अजातशोथमरुणं सशब्दं नातिभारिकम्|
सदा गुडगुडायच्च सिराजालगवाक्षितम्||५५||

नाभिं विष्टभ्य पायौ तु वेगं कृत्वा प्रणश्यति|
हृन्नाभिवङ्क्षणकटीगुदप्रत्येकशूलिनः||५६||

कर्कशं सृजतो वातं नातिमन्दे पावके|
लोलस्याविरसे चास्ये मूत्रेऽल्पे संहते विषि||५७||

अजातोदकमित्येतैर्लिङ्गैर्विज्ञाय तत्त्वतः|
उपाक्रमेद्भिषग्दोषबलकालविशेषवित्||५८||

वातोदरं बलमतः पूर्वं स्नेहैरुपाचरेत्|
स्निग्धाय स्वेदिताङ्गाय दद्यात् स्नेहविरेचनम्||५९||

हृते दोषे परिम्लानं वेष्टयेद्वाससोदरम्|
तथाऽस्यानवकाशत्वाद्वायुर्नाध्मापयेत् पुनः||६०||

दोषातिमात्रोपचयात् स्रोतोमार्गनिरोधनात्|
सम्भवत्युदरं तस्मान्नित्यमेव विरेचयेत्||६१||

शुद्धं संसृज्य क्षीरं बलार्थं पाययेत्तु तम्|
प्रागुत्क्लेशान्निवर्त्यं बले लब्धे क्रमात् पयः||६२||

यूषै रसैर्वा मन्दाम्ललवणैरेधितानलम्|

सोदावर्तं पुनः स्निग्धं स्विन्नमास्थापयेन्नरम्||६३||

स्फुरणाक्षेपसन्ध्यस्थिपार्श्वपृष्ठत्रिकार्तिषु|

दीप्ताग्निं बद्धविड्वातं रूक्षमप्यनुवासयेत्||६४||

तीक्ष्णाधोभागयुक्तोऽस्य निरूहो दाशमूलिकः|

वातघ्नाम्लशृतैरण्डतिलतैलानुवासनम्||६५||

अविरेच्यं तु यं विद्याद्दुर्बलं स्थविरं शिशुम्|
सुकुमारं प्रकृत्याऽल्पदोषं वाऽथोल्बणानिलम्||६६||

तं भिषक् शमनैः सर्पिर्यूषमांसरसौदनैः|
बस्त्यभ्यङ्गानुवासैश्च क्षीरैश्चोपाचरेद्बुधः||६७||

पित्तोदरे तु बलिनं पूर्वमेव विरेचयेत्|

दुर्बलं त्वनुवास्यादौ शोधयेत् क्षीरबस्तिना||६८||

सञ्जातबलकायाग्निं पुनः स्निग्धं विरेचयेत्|

पयसा सत्रिवृत्कल्केनोरुबूकशृतेन वा||६९||

सातलात्रायमाणाभ्यां शृतेनारग्वधेन वा|
सकफे वा समूत्रेण सवाते तिक्तसर्पिषा||७०||

पुनः क्षीरप्रयोगं बस्तिकर्म विरेचनम्|
क्रमेण ध्रुवमातिष्ठन् युक्तः पित्तोदरं जयेत्||७१||

स्निग्धं स्विन्नं विशुद्धं तु कफोदरिणमातुरम्|
संसर्जयेत् कटुक्षारयुक्तैरन्नैः कफापहैः||७२||

गोमूत्रारिष्टपानैश्च चूर्णायस्कृतिभिस्तथा|
सक्षारैस्तैलपानैश्च शमयेत्तु कफोदरम्||७३||

सन्निपातोदरे सर्वा यथोक्ताः कारयेत् क्रियाः|
सोपद्रवं तु निर्वृत्तं प्रत्याख्येयं विजानता|७४|

उदावर्तरुजानाहैर्दाहमोहतृषाज्वरैः|
गौरवारुचिकाठिन्यैश्चानिलादीन् यथाक्रमम्||७५||

लिङ्गैः प्लीह्न्यधिकान् [] दृष्ट्वा रक्तं चापि स्वलक्षणैः|
चिकित्सां सम्प्रकुर्वीत यथादोषं यथाबलम्||७६||

स्नेहं स्वेदं विरेकं निरूहमनुवासनम्|
समीक्ष्य कारयेद्बाहौ वामे वा व्यधयेत् सिराम्||७७||

षट्पलं पाययेत् सर्पिः पिप्पलीर्वा प्रयोजयेत्|
सगुडामभयां वाऽपि क्षारारिष्टगणांस्तथा||७८||

एष क्रियाक्रमः प्रोक्तो योगान् संशमनाञ्छृणु|

पिप्पली नागरं दन्ती चित्रकं द्विगुणाभयम्||७९||

विडङ्गांशयुतं चूर्णमेतदुष्णाम्बुना पिबेत्|

विडङ्गं चित्रकं शुण्ठीं सघृतां सैन्धवं वचाम्||८०||

दग्ध्वा कपाले पयसा गुल्मप्लीहापहं पिबेत्|

रोहीतकलतानां तु काण्डकानभयाजले||८१||

मूत्रे वा सुनुयात्तच्च सप्तरात्रस्थितं पिबेत्|
कामलागुल्ममेहार्शःप्लीहसर्वोदरक्रिमीन्||८२||

हन्याज्जाङ्गलरसैर्जीर्णे स्याच्चात्र भोजनम्|

रोहीतकत्वचः कृत्वा पलानां पञ्चविंशतिम्||८३||

कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत्|
पलिकैः पञ्चकोलैस्तु तैः सर्वैश्चापि तुल्यया||८४||

रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत्|
प्लीहाभिवृद्धिं शमयत्येतदाशु प्रयोजितम्||८५||

तथा गुल्मोदरश्वासक्रिमिपाण्डुत्वकामलाः|

अग्निकर्म कुर्वीत भिषग्वातकफोल्बणे||८६||

पैत्तिके जीवनीयानि सर्पींषि क्षीरबस्तयः|
रक्तावसेकः संशुद्धिः क्षीरपानं शस्यते||८७||

यूषैर्मांसरसैश्चापि दीपनीयसमायुतैः|
यकृति प्लीहवत् सर्वं तुल्यत्वाद्भेषजं मतम्||८८||

लघून्यन्नानि संसृज्य दद्यात् प्लीहोदरे भिषक्|

स्विन्नाय बद्धोदरिणे मूत्रतीक्ष्णौषधान्वितम्||८९||

सतैललवणं दद्यान्निरूहं सानुवासनम्|
परिस्रंसीनि चान्नानि तीक्ष्णं चैव विरेचनम्||९०||

उदावर्तहरं कर्म कार्यं वातघ्नमेव |

छिद्रोदरमृते स्वेदाच्छ्लेष्मोदरवदाचरेत्||९१||

जातं जातं जलं स्राव्यमेवं तद्यापयेद्भिषक्|
तृष्णाकासज्वरार्तं तु क्षीणमांसाग्निभोजनम्||९२||

वर्जयेच्छ्वासिनं तद्वच्छूलिनं दुर्बलेन्द्रियम्|

अपां दोषहराण्यादौ प्रदद्यादुदकोदरे||९३||

मूत्रयुक्तानि तीक्ष्णानि विविधक्षारवन्ति |

दीपनीयैः कफघ्नैश्च तमाहारैरुपाचरेत्||९४||

द्रवेभ्यश्चोदकादिभ्यो नियच्छेदनुपूर्वशः|

सर्वमेवोदरं प्रायो दोषसङ्घातजं मतम्||९५||

तस्मात्त्रिदोषशमनीं क्रियां सर्वत्र कारयेत्|

दोषैः कुक्षौ हि सम्पूर्णे वह्निर्मन्दत्वमृच्छति||९६||

तस्माद्भोज्यानि भोज्यानि दीपनानि लघूनि |

रक्तशालीन् यवान्मुद्गाञ्जाङ्गलांश्च मृगद्विजान्||९७||

पयोमूत्रासवारिष्टान्मधुसीधुं तथा सुराम्|
यवागूमोदनं वाऽपि यूषैरद्याद्रसैरपि||९८||

मन्दाम्लस्नेहकटुभिः पञ्चमूलोपसाधितैः|

औदकानूपजं मांसं शाकं पिष्टकृतं तिलान्||९९||

व्यायामाध्वदिवास्वप्नं यानयानं वर्जयेत्|
तथोष्णलवणाम्लानि विदाहीनि गुरूणि ||१००||

नाद्यादन्नानि जठरी तोयपानं वर्जयेत्|

नातिसान्द्रं हितं पाने स्वादु तक्रमपेलवम्||१०१||

त्र्यूषणक्षारलवणैर्युक्तं तु निचयोदरी|
वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम्||१०२||

शर्करामधुकोपेतं स्वादु पित्तोदरी पिबेत्|
यवानीसैन्धवाजाजीव्योषयुक्तं कफोदरी||१०३||

पिबेन्मधुयुतं तक्रं कवोष्णं नातिपेलवम्|
मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः||१०४||

युक्तं प्लीहोदरी जातं सव्योषं तूदकोदरी|
बद्धोदरी तु हपुषायवान्यजाजिसैन्धवैः ||१०५||

पिबेच्छिद्रोदरी तक्रं पिप्पलीक्षौद्रसंयुतम्|
गौरवारोचकार्तानां समन्दाग्न्यतिसारिणाम्||१०६||

तक्रं वातकफार्तानाममृतत्वाय कल्पते|

शोफानाहार्तितृण्मूर्च्छापीडिते कारभं पयः||१०७||

शुद्धानां क्षामदेहानां गव्यं छागं समाहिषम्|

देवदारुपलाशार्कहस्तिपिप्पलिशिग्रुकैः||१०८||

साश्वगन्धैः सगोमूत्रैः प्रदिह्यादुदरं समैः|

वृश्चिकालीं वचां कुष्ठं पञ्चमूलीं पुनर्नवाम्||१०९||

भूतीकं [] नागरं धान्यं जले पक्त्वाऽवसेचयेत्|

पलाशं कत्तृणं रास्नां तद्वत् पक्त्वाऽवसेचयेत्||११०||

मूत्राण्यष्टावुदरिणां सेके पाने योजयेत्|

रूक्षाणां बहुवातानां तथा संशोधनार्थिनाम्||१११||

दीपनीयानि सर्पींषि जठरघ्नानि चक्ष्महे|११२|

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः||११२||

सक्षारैरर्धपलिकैर्द्विप्रस्थं सर्पिषः पचेत्|

कल्कैर्द्विपञ्चमूलस्य तुलार्धस्वरसेन ||११३||

दधिमण्डाढकोपेतं तत् सर्पिर्जठरापहम्|

श्वयथुं वातविष्टम्भं गुल्मार्शांसि नाशयेत्||११४||

नागरत्रिफलाप्रस्थं घृततैलात्तथाऽऽढकम्|
मस्तुनः साधयित्वैतत् पिबेत् सर्वोदरापहम्||११५||

कफमारुतसम्भूते गुल्मे चैतत् प्रशस्यते|

चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात् पले||११६||

कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत्|

यवकोलकुलत्थानां पञ्चमूलरसेन ||११७||

सुरासौवीरकाभ्यां सिद्धं वाऽपि पिबेद्घृतम्|

एभिः स्निग्धाय सञ्जाते बले शान्ते मारुते||११८||

स्रस्ते दोषाशये दद्यात् कल्पदिष्टं विरेचनम्|११९|

पटोलमूलं रजनीं विडङ्गं त्रिफलात्वचम्||११९||

कम्पिल्लकं नीलिनीं त्रिवृतां चेति चूर्णयेत्|
षडाद्यान् कार्षिकानन्त्यांस्त्रींश्च द्वित्रिचतुर्गुणान्||१२०||

कृत्वा चूर्णमतो मुष्टिं गवां मूत्रेण ना पिबेत्|
विरिक्तो मृदु भुञ्जीत भोजनं जाङ्गलै रसैः||१२१||

मण्डं पेयां पीत्वा ना सव्योषं षडहं पयः|
शृतं पिबेत्ततश्चूर्णं पिबेदेवं पुनः पुनः||१२२||

हन्ति सर्वोदराण्येतच्चूर्णं जातोदकान्यपि|
कामलां पाण्डुरोगं श्वयथुं चापकर्षति||१२३||

पटोलाद्यमिदं चूर्णमुदरेषु प्रपूजितम्|

गवाक्षीं शङ्खिनीं दन्तीं तिल्वकस्य त्वचं वचाम्||१२४||

पिबेद्द्राक्षाम्बुगोमूत्रकोलकर्कन्धुसीधुभिः|

यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका||१२५||

कारवी पिप्पलीमूलमजगन्धा शटी वचा|
शताह्वा जीरकं व्योषं स्वर्णक्षीरी सचित्रका||१२६||

द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम्|
विडङ्गं समांशानि दन्त्या भागत्रयं तथा||१२७||

त्रिवृद्विशाले द्विगुणे सातला स्याच्चतुर्गुणा|
एतन्नारायणं नाम चूर्णं रोगगणापहम्||१२८||

नैनत् प्राप्यातिवर्तन्ते रोगा विष्णुमिवासुराः|
तक्रेणोदरिभिः पेयं गुल्मिभिर्बदराम्बुना||१२९||

आनद्धवाते सुरया वातरोगे प्रसन्नया|
दधिमण्डेन विट्सङ्गे दाडिमाम्बुभिरर्शसैः||१३०||

परिकर्ते सवृक्षाम्लमुष्णाम्बुभिरजीर्णके|
भगन्दरे पाण्डुरोगे श्वासे कासे गलग्रहे||१३१||

हृद्रोगे ग्रहणीदोषे कुष्ठे मन्देऽनले ज्वरे|
दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे||१३२||

यथार्हं स्निग्धकोष्ठेन पेयमेतद्विरेचनमिति नारायणचूर्णम्

हपुषां काञ्चनक्षीरीं त्रिफलां कटुरोहिणीम्||१३३||

नीलिनीं त्रायमाणां सातलां त्रिवृतां वचाम्|
सैन्धवं काललवणं पिप्पलीं चेति चूर्णयेत्||१३४||

दाडिमत्रिफलामांसरसमूत्रसुखोदकैः|
पेयोऽयं सर्वगुल्मेषु प्लीह्नि सर्वोदरेषु ||१३५||

श्वित्रे कुष्ठे सरुजके सवाते विषमाग्निषु|
शोथार्शःपाण्डुरोगेषु कामलायां हलीमके||१३६||

वातं पित्तं कफं चाशु विरेकात् सम्प्रसाधयेतिति
हपुषाद्यं चूर्ण

नींलिनीं निचुलं व्योषं द्वौ क्षारौ लवणानि ||१३७||

चित्रकं पिबेच्चूर्णं सर्पिषोदरगुल्मनुतिति नीलिन्याद्यं चूर्णम्||

क्षीरद्रोणं सुधाक्षीरप्रस्थार्धसहितं दधि||१३८||

जातं विमथ्य तद्युक्त्या त्रिवृत्सिद्धं पिबेद्घृतम्|
तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत्||१३९||

स्नुक्क्षीरपलकल्केन त्रिवृताषट्पलेन |
गुल्मानां गरदोषाणामुदराणां शान्तये||१४०||

इति स्नुहीक्षीरघृतम्

दधिमण्डाढके सिद्धात् स्नुक्क्षीरपलकल्कितात्|
घृतप्रस्थात् पिबेन्मात्रां तद्वज्जठरशान्तये||१४१||

एषां चानु पिबेत् पेयां पयो वा स्वादु वा रसम्|

घृते जीर्णे विरिक्तस्तु कोष्णं नागरकैः शृतम्||१४२||

पिबेदम्बु ततः पेयां यूषं कौलत्थकं ततः|
पिबेद्रूक्षस्त्र्यहं त्वेवं भूयो [] वा प्रतिभोजितः||१४३||

पुनः पुनः पिबेत् सर्पिरानुपूर्व्या तयैव |
घृतान्येतानि सिद्धानि विदध्यात् कुशलो भिषक्||१४४||

गुल्मानां गरदोषाणामुदराणां शान्तये|

पीलुकल्कोपसिद्धं वा घृतमानाहभेदनम्||१४५||

गुल्मघ्नं नीलिनीसर्पिः स्नेहं वा मिश्रकं पिबेत्|

क्रमान्निर्हृतदोषाणां जाङ्गलप्रतिभोजिनाम् ||१४६||

दोषशेषनिवृत्त्यर्थं योगान् वक्ष्याम्यतः परम्|

चित्रकामरदारुभ्यां कल्कं क्षीरेण ना पिबेत्||१४७||

मासं युक्तस्तथा हस्तिपिप्पली विश्वभेषजम्|

विडङ्गं चित्रकं दन्ती चव्यं व्योषं तैः पयः||१४८||

कल्कैः कोलसमैः पीत्वा प्रवृद्धमुदरं जयेत्|

पिबेत् कषायं त्रिफलादन्तीरोहितकैः शृतम्||१४९||

व्योषक्षारयुतं जीर्णे रसैरद्यात्तु जाङ्गलैः|

मांसं वा भोजनं भोज्यं सुधाक्षीरघृतान्वितम्||१५०||

क्षीरानुपानां गोमूत्रेणाभयां वा प्रयोजयेत्|
सप्ताहं माहिषं मूत्रं क्षीरं चानन्नभुक् पिबेत्||१५१||

मासमौष्ट्रं पयश्छागं त्रीन्मासान् व्योषसंयुतम्|
हरीतकीसहस्रं वा क्षीराशी वा शिलाजतु||१५२||

शिलाजतुविधानेन गुग्गुलुं वा प्रयोजयेत्|
शृङ्गवेरार्द्रकरसः पाने क्षीरसमो हितः||१५३||

तैलं रसेन तेनैव सिद्धं दशगुणेन वा|
दन्तीद्रवन्तीफलजं तैलं दूष्योदरे हितम्||१५४||

शूलानाहविबन्धेषु मस्तुयूषरसादिभिः|
सरलामधुशिग्रूणां बीजेभ्यो मूलकस्य ||१५५||

तैलान्यभ्यङ्गपानार्थं शूलघ्नान्यनिलोदरे|
स्तैमित्यारुचिहृल्लासे मन्देऽग्नौ मद्यपाय ||१५६||

अरिष्टान् दापयेत् क्षारान् कफस्त्यानस्थिरोदरे|

श्लेष्मणो विलयार्थं तु दोषं वीक्ष्य भिषग्वरः||१५७||

पिप्पलीं तिल्वकं हिङ्गु नागरं हस्तिपिप्पलीम्|
भल्लातकं शिग्रुफलं त्रिफलां कटुरोहिणीम्||१५८||

देवदारु हरिद्रे द्वे सरलातिविषे वचाम् |
कुष्ठं मुस्तं तथा पञ्च लवणानि प्रकल्प्य ||१५९||

दधिसर्पिर्वसामज्जतैलयुक्तानि दाहयेत्|
अन्नादूर्ध्वमतः क्षाराद्बिडालकपदं पिबेत्||१६०||

मदिरादधिमण्डोष्णजलारिष्टसुरासवैः|
हृद्रोगं श्वयथुं गुल्मं प्लीहार्शोजठराणि ||१६१||

विसूचिकामुदावर्तं वाताष्ठीलां नाशयेत्|

क्षारं चाजकरीषाणां स्रुतं मूत्रैर्विपाचयेत्||१६२||

कार्षिकं पिप्पलीमूलं पञ्चैव लवणानि |
पिप्पलीं चित्रकं शुण्ठीं त्रिफलां त्रिवृतां वचाम्||१६३||

द्वौ क्षारौ सातलां दन्तीं स्वर्णक्षीरीं विषाणिकाम्|
कोलप्रमाणां वटिकां पिबेत् सौवीरसंयुताम्||१६४||

श्वयथावविपाके प्रवृद्धे दकोदरे|

भावितानां गवां मूत्रे षष्टिकानां तु तण्डुलैः||१६५||

यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम्|
पिबेदिक्षुरसं चानु जठराणां निवृत्तये||१६६||

स्वं स्वं स्थानं व्रजन्त्येवं तथा पित्तकफानिलाः|

शङ्खिनीस्नुक्त्रिवृद्दन्तीचिरबिल्वादिपल्लवैः||१६७||

शाकं गाढपुरीषाय प्राग्भक्तं दापयेद्भिषक् |
ततोऽस्मै शिथिलीभूतवर्चोदोषाय शास्त्रवित्||१६८||

दद्यान्मूत्रयुतं क्षीरं दोषशेषहरं शिवम्|

पार्श्वशूलमुपस्तम्भं हृद्ग्रहं चापि मारुतः||१६९||

जनयेद्यस्य तं तैलं बिल्वक्षारेण पाययेत्|

तथाऽग्निमन्थस्योनाकपलाशतिलनालजैः||१७०||

बलाकदल्यपामार्गक्षारैः प्रत्येकशः स्रुतैः|
तैलं पक्त्वा भिषग्दद्यादुदराणां प्रशान्तये||१७१||

निवर्तते चोदरिणां हृद्ग्रहश्चानिलोद्भवः|१७२|

कफे वातेन पित्तेन ताभ्यां वाऽप्यावृतेऽनिले||१७२||

बलिनः स्वौषधयुतं तैलमेरण्डजं हितम्|
सुविरिक्तो नरो यस्तु पुनराध्मापितो भवेत्||१७३||

सुस्निग्धैरम्ललवणैर्निरूहैस्तमुपाचरेत्|
सोपस्तम्भोऽपि वा वायुराध्मापयति यं नरम्||१७४||

तीक्ष्णैः सक्षारगोमूत्रैर्बस्तिभिस्तमुपाचरेत्|१७५|

क्रियातिवृत्ते जठरे त्रिदोषे चाप्रशाम्यति||१७५||

ज्ञातीन् ससुहृदो दारान् ब्राह्मणान्नृपतीन् गुरून्|
अनुज्ञाप्य भिषक् कर्म विदध्यात् संशयं ब्रुवन्||१७६||

अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्|
एवमाख्याय तस्येदमनुज्ञातः सुहृद्गणैः||१७७||

पानभोजनसंयुक्तं विषमस्मै प्रयोजयेत्|
यस्मिन् वा कुपितः सर्पो विसृजेद्धि फले विषम्||१७८||

भोजयेत्तदुदरिणं प्रविचार्य भिषग्वरः|
तेनास्य दोषसङ्घातः स्थिरो लीनो विमार्गगः||१७९||

विषेणाशुप्रमाथित्वादाशु भिन्नः प्रवर्तते|
विषेण हृतदोषं तं शीताम्बुपरिषेचितम्||१८०||

पाययेत भिषग्दुग्धं यवागूं वा यथाबलम्|
त्रिवृन्मण्डूकपर्ण्योश्च शाकं सयववास्तुकम्||१८१||

भक्षयेत् कालशाकं वा स्वरसोदकसाधितम् |
निरम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुक्||१८२||

मासमेकं ततश्चैव तृषितः स्वरसं पिबेत्|
एवं विनिर्हृते दोषे शाकैर्मासात् परं ततः||१८३||

दुर्बलाय प्रयुञ्जीत प्राणभृत् कारभं पयः|१८४|

इदं तु शल्यहर्तॄणां कर्म स्याद्दृष्टकर्मणाम्||१८४||

वामं कुक्षिं मापयित्वा नाभ्यधश्चतुरङ्गुलम्|
मात्रायुक्तेन शस्त्रेण पाटयेन्मतिमान् भिषक्||१८५||

विपाट्यान्त्रं ततः पश्चाद्वीक्ष्य बद्धक्षतान्त्रयोः|
सर्पिषाऽभ्यज्य केशादीनवमृज्य विमोक्षयेत्||१८६||

मूर्च्छनाद्यच्च सम्मूढमन्त्रं तच्च विमोक्षयेत्|
छिद्राण्यन्त्रस्य तु स्थूलैर्दंशयित्वा पिपीलिकैः||१८७||

बहुशः सङ्गृहीतानि ज्ञात्वा च्छित्वा पिपीलिकान्|
प्रतियोगैः [] प्रवेश्यान्त्रं प्रेयैः [] सीव्येद्व्रणं ततः||१८८||

तथा जातोदकं सर्वमुदरं व्यधयेद्भिषक्|
वामपार्श्वे त्वधो नाभेर्नाडीं दत्त्वा गालयेत्||१८९||

विस्राव्य विमृद्यैतद्वेष्टयेद्वाससोदरम्|
तथा बस्तिविरेकाद्यैर्म्लानं सर्वं वेष्टयेत्||१९०||

निःस्रुते लङ्घितः पेयामस्नेहलवणां पिबेत्|
अतः परं तु षण्मासान् क्षीरवृत्तिर्भवेन्नरः||१९१||

त्रीन् मासान् पयसा पेयां पिबेत्त्रींश्चापि भोजयेत्|
श्यामाकं कोरदूषं वा क्षीरेणालवणं लघु||१९२||

नरः संवत्सरेणैवं जयेत् प्राप्तं जलोदरम्|

प्रयोगाणां सर्वेषामनु क्षीरं प्रयोजयेत्||१९३||

दोषानुबन्धरक्षार्थं बलस्थैर्यार्थमेव |

प्रयोगापचिताङ्गानां हितं ह्युदरिणां पयः|
सर्वधातुक्षयार्तानां देवानाममृतं यथा||१९४||

तत्र श्लोकौ-

हेतुं प्राग्रूपमष्टानां लिङ्गं व्याससमासतः|
उपद्रवान् गरीयस्त्वं साध्यासाध्यत्वमेव ||१९५||

जाताजाताम्बुलिङ्गानि चिकित्सां चोक्तवानृषिः|
समासव्यासनिर्देशैरुदराणां चिकित्सिते||१९६||

 

Post a Comment

0 Comments