Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 11 kshatksheen chikitsa








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातः क्षतक्षीणचिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

उदारकीर्तिर्ब्रह्मर्षिरात्रेयः परमार्थवित्|
क्षतक्षीणचिकित्सार्थमिदमाह चिकित्सितम्||||

धनुषाऽऽयस्यतोऽत्यर्थं भारमुद्वहतो गुरुम्|
पततो विषमोच्चेभ्यो बलिभिः सह युध्यतः||||

वृषं हयं वा धावन्तं दम्यं वाऽन्यं निगृह्णतः|
शिलाकाष्ठाश्मनिर्घातान्क्षिपतो निघ्नतः परान्||||

अधीयानस्य वाऽत्युच्चैर्दूरं वा व्रजतो द्रुतम्|
महानदीं वा तरतो हयैर्वा सह धावतः||||

सहसोत्पततो दूरं[] तूर्णं चातिप्रनृत्यतः|
तथाऽन्यैः कर्मभिः क्रूरैर्भृशमभ्याहतस्य ||||

विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते|
स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः||||

उरो विरुज्यते तस्य भिद्यतेऽथ विभज्यते|
प्रपीड्येते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते||||

क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते|
ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधादपि||१०||

दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः|
कासमानस्य [] श्लेष्मा सरक्तः सम्प्रवर्तते||११||

क्षतः क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात्|१२|

अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम्||१२||

उरोरुक्शोणितच्छर्दिः कासो वैशेषिकः क्षते|
क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहः||१३||

अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः|
परिसंवत्सरो याप्यः सर्वलिङ्गं तु वर्जयेत्||१४||

उरो मत्वा क्षतं लाक्षां पयसा मधुसंयुताम्|
सद्य एव पिबेज्जीर्णे पयसाऽद्यात् सशर्करम्||१५||

पार्श्वबस्तिरुजी चाल्पपित्ताग्निस्तां सुरायुताम्|
भिन्नविट्कः समुस्तातिविषापाठां सवत्सकाम्||१६||

लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम्|
त्वक्क्षीरीं समितां क्षीरे पक्त्वा दीप्तानलः पिबेत्||१७||

इक्ष्वालिकाबिसग्रन्थिपद्मकेशरचन्दनैः|
शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती||१८||

यवानां चूर्णमादाय क्षीरसिद्धं घृतप्लुतम्|
ज्वरे दाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत्||१९||

मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः|
कासी पार्श्वास्थिशूली लिह्यात्सघृतमाक्षिकाः||२०||

एलापत्रत्वचोऽर्धाक्षाः पिप्पल्यर्धपलं तथा|
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः||२१||

सञ्चूर्ण्य मधुना युक्ता गुटिकाः सम्प्रकल्पयेत्|
अक्षमात्रां ततश्चैकां भक्षयेन्ना दिने दिने||२२||

कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदं भ्रमम्|
रक्तनिष्ठीवनं तृष्णां पार्श्वशूलमरोचकम्||२३||

शोषप्लीहाढ्यवातांश्च स्वरभेदं क्षतं क्षयम्|
गुटिका तर्पणी वृष्या रक्तपित्तं नाशयेत्||२४||

इत्येलादिगुटिका|

रक्तेऽतिवृत्ते दक्षाण्डं यूषैस्तोयेन वा पिबेत्|
चटकाण्डरसं वाऽपि रक्तं वा छागजाङ्गलम्||२५||

चूर्णं पौनर्नवं रक्तशालितण्डुलशर्करम्|
रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः||२६||

मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्|
मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्||२७||

क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रः सबलेऽनिले|
शृतक्षीरसरेणाद्यात् सक्षौद्रघृतशर्करम्||२८||

शर्करां यवगोधूमौ जीवकर्षभकौ मधु|
शृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षती कृशः||२९||

क्रव्यादमांसनिर्यूहं घृतभृष्टं पिबेच्च सः|
पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम्||३०||

न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभिः|
तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः||३१||

साश्वकर्णैः शृतात् क्षीरादद्याज्जातेन सर्पिषा|
शाल्योदनं क्षतोरस्कः क्षीणशुक्रश्च मानवः||३२||

यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमं घृतम्|
पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते शुभम्||३३||

कोललाक्षारसे तद्वत् क्षीराष्टगुणसाधितम्|
कल्कैः कट्वङ्गदार्वीत्वग्वत्सकत्वक्फलैर्घृतम्||३४||

जीवकर्षभकौ वीरां जीवन्तीं नागरं शटीम्|
चतस्रः पर्णिनीर्मेदे काकोल्यौ द्वे निदिग्धिके||३५||

पुनर्नवे द्वे मधुकमात्मगुप्तां शतावरीम्|
ऋद्धिं परूषकं भार्गीं मृद्वीकां बृहतीं तथा||३६||

शृङ्गाटकं तामलकीं पयस्यां पिप्पलीं बलाम्|
बदराक्षोटखर्जूरवातामाभिषुकाण्यपि||३७||

फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान्|
धात्रीरसविदारीक्षुच्छागमांसरसं पयः||३८||

कुर्यात् प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत्|
प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा||३९||

द्विकार्षिकाणि[] पत्रैलाहेमत्वङ्मरिचानि |
विनीय चूर्णितं तस्माल्लिह्यान्मात्रां सदा नरः||४०||

अमृतप्राशमित्येतन्नराणाममृतं घृतम्|
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना||४१||

नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्|
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्||४२||

कासहिक्काज्वरश्वासदाहतृष्णास्रपित्तनुत्|
पुत्रदं वमिमूर्च्छाहृद्योनिमूत्रामयापहम्||४३||

इत्यमृतप्राशघृतम्|

श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्|
दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम्||४४||

पलिकं साधयेत्तेषां रसे क्षीरचतुर्गुणे|
कल्कः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः||४५||

शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीबिसैः|
प्रस्थः सिद्धो घृताद्वातपित्तहृद्द्र(द्भ)वशूलनुत्||४६||

मूत्रकृच्छ्रप्रमेहार्शःकासशोषक्षयापहः|
धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः||४७||

इति श्वदंष्ट्रादिघृतम्|

मधुकाष्टपलद्राक्षाप्रस्थक्वाथे घृतं पचेत्|
पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे शीतले||४८||

पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत्|
समसक्तु क्षतक्षीणे रक्तगुल्मे तद्धितम्||४९||

धात्रीफलविदारीक्षुजीवनीयरसैर्घृतम्|
अजागोपयसोश्चैव सप्त प्रस्थान् पचेद्भिषक्||५०||

सिद्धशीते सिताक्षौद्रद्विप्रस्थं विनयेच्च तत्|
यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम्||५१||

वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्|
घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत्||५२||

लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम्|
आक्रामत्यनिलं पीतमूष्माणं निरुणद्धि ||५३||

क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु|
त्वक्क्षीरीशर्करालाजचूर्णैः स्त्यानानि योजयेत्||५४||

सर्पिर्गुडान् समध्वंशाञ्जग्ध्वा चानु पयः पिबेत्|
रेतो वीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात्||५५||

इति सर्पिर्गुडाः|

बला विदारी ह्रस्वा पञ्चमूली पुनर्नवा|
पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशका अपि||५६||

एषां कषाये द्विक्षीरे विदार्याजरसांशिके|
जीवनीयैः पचेत् कल्कैरक्षमात्रैर्घृताढकम्||५७||

सितापलानि पूते शीते द्वात्रिंशतं क्षिपेत्|
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य ||५८||

समाक्षिकं कौडविकं तत् सर्वं खजमूर्च्छितम्|
स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत्||५९||

ताञ्जग्ध्वा पलिकान् क्षीरं मद्यं वाऽनुपिबेत् कफे|
शोषे कासे क्षते क्षीणे श्रमस्त्रीभारकर्शिते||६०||

रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते|
शस्ताः पार्श्वशिरःशूले भेदे स्वरवर्णयोः||६१||

इति द्वितीयसर्पिर्गुडाः|

त्वक्क्षीरीश्रावणीद्राक्षामूर्वर्षभकजीवकैः|
वीरर्धिक्षीरकाकोलीबृहतीकपिकच्छुभिः||६२||

खर्जूरफलमेदाभिः क्षीरपिष्टैः पलोन्मितैः|
धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतात् पचेत्||६३||

शर्करार्धतुलां शीते क्षौद्रार्धप्रस्थमेव |
दत्त्वा सर्पिर्गुडान् कुर्यात्कासहिक्काज्वरापहान्||६४||

यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम्|
शुक्रनिद्राक्षयं तृष्णां हन्युः कार्श्यं सकामलम्||६५||

इति तृतीयाः सर्पिर्गुडाः|

नवमामलकं द्राक्षामात्मगुप्तां पुनर्नवाम्|
शतावरीं विदारीं समङ्गां पिप्पलीं तथा||६६||

पृथग्दशपलान् भागान् पलान्यष्टौ नागरात्|
यष्ट्याह्वसौवर्चलयोर्द्विपलं मरिचस्य ||६७||

क्षीरतैलघृतानां त्र्याढके शर्कराशते|
क्वथिते तानि चूर्णानि दत्त्वा बिल्वसमान् गुडान्||६८||

कुर्यात्तान् भक्षयेत् क्षीणः क्षतः शुष्कश्च मानवः|
तेन सद्यो रसादीनां वृद्ध्या पुष्टिं विन्दति||६९||

इति चतुर्थसर्पिर्गुडाः|

गोक्षीरार्धाढकं सर्पिः प्रस्थमिक्षुरसाढकम्|
विदार्याः स्वरसात्प्रस्थं रसात्प्रस्थं तैत्तिरात्||७०||

दद्यात् सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान्|
मधूकपुष्पकुडवं प्रियालकुडवं तथा||७१||

कुडवार्धं तुगाक्षीर्याः खर्जूराणां विंशतिम्|
पृथग्बिभीतकानां पिप्पल्याश्च चतुर्थिकाम्||७२||

त्रिंशत्पलानि खण्डाच्च मधुकात् कर्षमेव |
तथाऽर्धपलिकान्यत्र जीवनीयानि दापयेत्||७३||

सिद्धेऽस्मिन् कुडवं क्षौद्रं शीते क्षिप्त्वाऽथ मोदकान्|
कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान्||७४||

वातासृक्पित्तरोगेषु क्षतकासक्षयेषु |
शुष्यतां क्षीणशुक्राणां रक्ते चोरसि संस्थिते||७५||

कृशदुर्बलवृद्धानां पुष्टिवर्णबलार्थिनाम्|
योनिदोषकृतस्रावहतानां चापि योषिताम्||७६||

गर्भार्थिनीनां गर्भश्च स्रवेद्यासां म्रियेत वा|
धन्या बल्या हितास्ताभ्यः शुक्रशोणितवर्धनाः||७७||

इति पञ्चमसर्पिर्मोदकाः|

बस्तिदेशे विकुर्वाणे स्त्रीप्रसक्तस्य मारुते|
वातघ्नान् बृंहणान् वृष्यान् योगांस्तस्य प्रयोजयेत्||७८||

शर्करापिप्पलीचूर्णैः सर्पिषा माक्षिकेण |
संयुक्तं वा शृतं क्षीरं पिबेत् कासज्वरापहम्||७९||

फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे शृतम्|
स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम्||८०||

सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम्|
यवान्नसात्म्यो दीप्ताग्निः क्षतक्षीणः पिबेन्नरः||८१||

जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम्|
रसं प्रयोजयेत् क्षीणे व्यञ्जनार्थं सशर्करम्||८२||

गोमहिष्यश्वनागाजैः क्षीरैर्मांसरसैस्तथा|
यवान्नं भोजयेद्यूषैः फलाम्लैर्घृतसंस्कृतैः||८३||

दीप्तेऽग्नौ विधिरेषः स्यान्मन्दे दीपनपाचनः|
यक्ष्मिणां विहितो ग्राही भिन्ने शकृति चेष्यते||८४||

पलिकं सैन्धवं शुण्ठी द्वे सौवर्चलात् पले|
कुडवांशानि वृक्षाम्लं दाडिमं पत्रमर्जकात्||८५||

एकैकं मरिचाजाज्योर्धान्यकाद्द्वे चतुर्थिके|
शर्करायाः पलान्यत्र दश द्वे प्रदापयेत्||८६||

कृत्वा चूर्णमतो मात्रामन्नपाने प्रयोजयेत्|
रोचनं दीपनं बल्यं पार्श्वार्तिश्वासकासनुत्||८७||

इति सैन्धवादिचूर्णम्|

एका षोडशिका धान्याद्द्वे द्वेऽजाज्यजमोदयोः|
ताभ्यां दाडिमवृक्षाम्लं द्विर्द्विः सौवर्चलात्पलम्||८८||

शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्च पलानि |
तच्चूर्णं षोडशपले शर्कराया विमिश्रयेत्||८९||

षाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्ववत्|
मन्दानले शकृद्भेदे यक्ष्मिणामग्निवर्धनः||९०||

इति षाडवः|

पिबेन्नागबलामूलमर्धकर्षविवर्धितम्[ |
पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्||९१||

एष प्रयोगः पुष्ट्यायुर्बलारोग्यकरः परः|
मण्डूकपर्ण्याः कल्पोऽयं शुण्ठीमधुकयोस्तथा||९२||

यद्यत् सन्तर्पणं शीतमविदाहि हितं लघु|
अन्नपानं निषेव्यं तत्क्षतक्षीणैः सुखार्थिभिः||९३||

यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम्|
तच्च कुर्यादवेक्ष्याग्निं व्याधिं सात्म्यं बलं तथा||९४||

उपेक्षिते भवेत्तस्मिन्ननुबन्धो हि यक्ष्मणः|
प्रागेवागमनात्तस्य तस्मात्तं त्वरया जयेत्||९५||

उपेक्षिते भवेत्तस्मिन्ननुबन्धो हि यक्ष्मणः|
प्रागेवागमनात्तस्य तस्मात्तं त्वरया जयेत्||९५||

उपेक्षिते भवेत्तस्मिन्ननुबन्धो हि यक्ष्मणः|
प्रागेवागमनात्तस्य तस्मात्तं त्वरया जयेत्||९५||

Post a Comment

0 Comments