Advertisement

Responsive Advertisement

Charak kalp chapter 4 dhamargv kalp adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातो धामार्गवकल्पं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

कर्कोटकी कोठफला महाजालिनिरेव |
धामार्गवस्य पर्याया राजकोशातकी तथा||||

गरे गुल्मोदरे कासे वाते श्लेष्माशयस्थिते|
कफे कण्ठवक्रस्थे कफसञ्चयजेषु ||||

रोगेष्वेषु प्रयोज्यं स्यात् स्थिराश्च गुरवश्च ये
फलं पुष्पं प्रवालं विधिना तस्य संहरेत्||||

प्रवालस्वरसं शुष्कं कृत्वा गुलिकाः पृथक्|
कोविदारादिभिः पेयाः कषायैर्मधुकस्य ||||

पुष्पादिषु पयोयोगाश्चत्वारः पञ्चमी सुरा| पूर्ववत्...||

... जीर्णशुष्काणामतः कल्पः प्रवक्ष्यते||||

मधुकस्य कषायेण बीजकण्ठोद्धृतं फलम्|
सगुडं व्युषितं रात्रिं कोविदारादिभिस्तथा||||

दद्याद्गुल्मोदरार्तेभ्यो ये चाप्यन्ये कफामयाः||

दद्यादन्नेन संयुक्तं छर्दिहृद्रोगशान्तये||||

चूर्णैर्वाऽप्युत्पलादीनि भावितानि प्रभूतशः|
रसक्षीरयवाग्वादितृप्तो घ्रात्वा वमेत् सुखम्||१०||

चूर्णीकृतस्य वर्तिं वा कृत्वा बदरसम्मिताम्|
विनीयाञ्जलिमात्रे तु पिबेद्गोऽश्वशकृद्रसे ||११||

पृषतर्ष्यकुरङ्गाह्वगजोष्ट्राश्वतराविके|
श्वदंष्ट्रखरखङ्गानां चैवं पेया शकृद्रसे ||१२||

जीवकर्षभकौ वीरामात्मगुप्तां शतावरीम्|
काकोलीं श्रावणीं मेदां महामेदां मधूलिकाम्||१३||

एकैकशोऽभिसञ्चूर्ण्य सह धामार्गवेण ते|
शर्करामधुसंयुक्ता लेहा हृद्दाहकासिनाम्||१४||

सुखोदकानुपानाः स्युः पित्तोष्मसहिते कफे
धान्यतुम्बुरुयूषेण कल्कः सर्वविषापहः||१५||

जात्याः सौमनसायिन्या रजन्याश्चोरकस्य |
वृश्चीरस्य महाक्षुद्रसहाहैमवतस्य ||१६||

बिम्ब्याः पुनर्नवाया वा कासमर्दस्य वा पृथक् |
एकं धामार्गवं द्वे वा कषाये परिमृद्य तु||१७||

पूतं मनोविकारेषु पिबेद्वमनमुत्तमम्|१८|

तच्छृतक्षीरजं सर्पिः साधितं वा फलादिभिः||१८||

तत्र श्लोकौ-

पल्लवे नव चत्वारः क्षीर एकः सुरासवे|
कषाये विंशतिः कल्के दश द्वौ शकृद्रसे||१९||

अन्न एकस्तथा घ्रेये दश लेहास्तथा घृतम्|
कल्पे धामार्गवस्योक्ताः षष्टिर्योगा महर्षिणा||२०||

 

Post a Comment

0 Comments