Advertisement

Responsive Advertisement

Charak kalp chapter 3 ikshvaku kalp adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथात इक्ष्वाकुकल्पं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

सिद्धं वक्ष्याम्यथेक्ष्वाकुकल्पं येषां प्रशस्यते||

लम्बाऽथ कटुकालाबूस्तुम्बी पिण्डफला तथा||||

इक्ष्वाकुः फलिनी चैव प्रोच्यते तस्य कल्पना||

सिद्धं वक्ष्याम्यथेक्ष्वाकुकल्पं येषां प्रशस्यते||

लम्बाऽथ कटुकालाबूस्तुम्बी पिण्डफला तथा||||

इक्ष्वाकुः फलिनी चैव प्रोच्यते तस्य कल्पना||

अपुष्पस्य प्रवालानां मुष्टिं प्रादेशसम्मितम्||||

क्षीरप्रस्थे शृतं दद्यात् पित्तोद्रिक्ते कफज्वरे|
पुष्पादिषु चत्वारः क्षीरे जीमूतके यथा||||

योगा हरितपाण्डूनां सुरामण्डेन पञ्चमः|
फलस्वरसभागं त्रिगुणक्षीरसाधितम्||||

उरःस्थिते कफे दद्यात् स्वरभेदे पीनसे|
जीर्णे मध्योद्धृते क्षीरं प्रक्षिपेत्तद्यदा दधि||||

जातं स्यात् सकफे कासे श्वासे वम्यां तत् पिबेत्|
अजाक्षीरेण बीजानि भावयेत् पाययेत् ||||

विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु |
मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्दितः||१०||

तेन तक्रं विपक्वं वा सक्षौद्रलवणं पिबेत्|११|

तुम्ब्या फलरसैः शुष्कैः सपुष्पैरवचूर्णितम्||११||

छर्दयेन्माल्यमाघ्राय गन्धसम्पत्सुखोचितः भक्षयेत् फलमध्यं वा गुडेन पललेन ||12||

इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्ववद्घृतम्|१३| |

पञ्चाशद्दशवृद्धानि फलादीनां यथोत्तरम्||१३||

पिबेद्विमृद्य बीजानि कषायेष्वाशतं पृथक्|
यष्ट्याह्वकोविदाराद्यैर्मुष्टिमन्तर्नखं पिबेत्||१४||

बिल्वमूलकषायेण तुम्बीबीजाञ्जलिं पचेत्||१५||

पूतस्यास्य त्रयो भागाश्चतुर्थः फाणितस्य तु|
सघृतो बीजभागश्च पिष्टानर्धांशिकांस्तथा ||१६||

महाजालिनिजीमूतकृतवेधनवत्सकान्|
तं लेहं साधयेद्दर्व्या घट्टयन्मृदुनाऽग्निना||१७||

यावत् स्यात्तन्तुमत्तोये पतितं तु शीर्यते|
तं लिहन्मात्रया लेहं प्रमथ्यां पिबेदनु||१८||

कल्प एषोऽग्निमन्थादौ चतुष्के पृथगुच्यते|१९|

शक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः||१९||

कफजेऽथ ज्वरे कासे कण्ठरोगेष्वरोचके|
गुल्मे मेहे प्रसेके कल्कं मांसरसैः पिबेत्॥ २०॥

नरः साधु वमत्येवं दौर्बल्यमश्नुते।

तत्र श्लोकाः-

पयस्यष्टौ सुरामण्ड-मस्तु-तक्रेषु त्रयः|
घ्रेयं सपललं तैलं वर्धमानाः फलेषु षट्||२१||

घृतमेकं कषायेषु नवान्ये मधुकादिषु|
अष्टौ वर्तिक्रिया लेहाः पञ्च मन्थो रसस्तथा||२२||

योगा इक्ष्वाकुकल्पे ते चत्वारिंशच्च पञ्च |
उक्ता महर्षिणा सम्यक् प्रजानां हितकाम्यया||२३||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने इक्ष्वाकुकल्पो नाम तृतीयोऽध्यायः||||

Post a Comment

0 Comments