Advertisement

Responsive Advertisement

Charak kalp chapter 2 jimutak kalp adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातो जीमूतककल्पं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

कल्पं जीमूतकस्येमं फलपुष्पाश्रयं शुणु|
गरागरी वेणी तथा स्याद्देवताडकः||||

जीमूतकं त्रिदोषघ्नं यथास्वौषधकल्पितम्|
प्रयोक्तव्यं ज्वरश्वासहिक्काद्येष्वामयेषु ||||

यथोक्तगुणयुक्तानां देशजानां यथाविधि|
पयः पुष्पेऽस्य, निर्वृत्ते फले पेया पयस्कृता||||

लोमशे क्षीरसन्तानं, दध्युत्तरमलोमशे|
शृते पयसि दध्यम्लं जातं हरितपाण्डुके||||

जीर्णानां सुशुष्काणां न्यस्तानां भाजने शुचौ|
चूर्णस्य पयसा शुक्तिं वातपित्तार्दितः पिबेत्||||

आसुत्य सुरामण्डे मृदित्वा प्रस्रुतं पिबेत्|
कफजेऽरोचके कासे पाण्डुरोगे सयक्ष्मणि||||

द्वे चापोथ्याथवा त्रीणि गुडूच्या मधुकस्य वा|
कोविदारादिकानां वा निम्बस्य कुटजस्य वा||||

कषायेष्वासुतं पूत्वा तेनैव विधिना पिबेत्|
अथवाऽऽरग्वधादीनां सप्तानां पूर्ववत् पिबेत्||१०||

एकैकस्य कषायेण पित्तश्लेष्मज्वरार्दितः|११|

जीवकर्षभकेक्षूणां शतावर्या रसेन वा|
पित्तश्लेष्मज्वरे दद्याद्वातपित्तज्वरेऽथवा||१२||

तथा जीमूतकक्षीरात् समुत्पन्नं पचेद्घृतम्|
फलादीनां कषायेण श्रेष्ठं तद्वमनं मतम्||१३||

तत्र श्लोकौ-

षट् क्षीरे मदिरामण्डे एको द्वादश चापरे|
सप्त चारग्वधादीनां कषायेऽष्टौ वर्तिषु||१४||

जीवकादिषु चत्वारो घृतं चैकं प्रकीर्तितम्|
कल्पे जीमूतकानां योगास्त्रिंशन्नवाधिकाः||१५||

 

Post a Comment

0 Comments