Advertisement

Responsive Advertisement

Charak kalp chapter 1 Madankalp adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातो मदनकल्पं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

अथ खलु वमनविरेचनार्थं वमनविरेचनद्रव्याणां सुखोपभोगतमैः सहान्यैर्द्रव्यैर्विविधैः कल्पनार्थं भेदार्थं विभागार्थं चेत्यर्थः,तद्योगानां क्रियाविधेः सुखोपायस्य सम्यगुपकल्पनार्थं कल्पस्थानमुपदेक्ष्यामोऽग्निवेश!||||

तत्र दोषहरणमूर्ध्वभागं वमनसञ्ज्ञकम्, अधोभागं विरेचनसञ्ज्ञकम्; उभयं वा शरीरमलविरेचनाद्विरेचनसञ्ज्ञां लभते||||

तत्रोष्ण-तीक्ष्ण-सूक्ष्म-व्यवायि-विकाशीन्यौषधानि स्ववीर्येण हृदयमुपेत्य धमनीरनुसृत्य स्थूलाणुस्रोतोभ्यः केवलं शरीरगतंदोषसङ्घातमाग्नेयत्वाद् विष्यन्दयन्ति, तैक्ष्ण्याद् विच्छिन्दन्ति, विच्छिन्नः परिप्लवन् [] स्नेहभाविते कायेस्नेहाक्तभाजनस्थमिवक्षौद्रमसज्जन्नणुप्रवणभावादामाशयमागम्योदानप्रणुन्नोऽग्निवाय्वात्मकत्वादूर्ध्वभागप्रभावादौषधस्योर्ध्वमुत्क्षिप्यते,सलिलपृथिव्यात्मकत्वादधोभागप्रभावाच्चौषधस्याधः प्रवर्तते, उभयतश्चोभयगुणत्वात्|
इति लक्षणोद्देशः||||

तत्र फल-जीमूतकेक्ष्वाकु-धामार्गव-कुटज-कृतवेधनानां, श्यामा-त्रिवृच्चतुरङ्गुल-तिल्वक-महावृक्ष-सप्तला-शङ्खिनी-दन्ती-द्रवन्तीनां , नानाविधदेशकालसम्भवास्वाद-रस-वीर्य-विपाक-प्रभावग्रहणाद् देह-दोष-प्रकृति-वयो-बलाग्नि-भक्ति-सात्म्य-रोगावस्थादीनां नानाप्रभाववत्त्वाच्च, विचित्रगन्ध-वर्ण-रस-स्पर्शानामुपयोगसुखार्थमसङ्ख्येयसंयोगानामपि चसतां द्रव्याणां विकल्पमार्गोपदर्शनार्थं षड्विरेचनयोगशतानि व्याख्यास्यामः||||

तानि तु द्रव्याणि देश-काल-गुण-भाजन-सम्पद्वीर्यबलाधानात् क्रियासमर्थतमानि भवन्ति||||

त्रिविधः खलु देशः- जाङ्गलः, आनूपः, साधारणश्चेति|
तत्र जाङ्गलः पर्याकाशभूयिष्ठः, तरुभिरपि कदर-खदिरासनाश्वकर्ण-धव-तिनिश-शल्लकी-साल-सोमवल्क-बदरी-तिन्दुकाश्वत्थ-वटामलकीवनगहनः, अनेकशमी-ककु-शिंशपाप्रायः, स्थिरशुष्कपवनबलविधूयमानप्रनृत्यत्तरुणविटपः,प्रततमृगतृष्णिकोपगूढतनुखरपरुषसिकताशर्कराबहुलः, लावतित्तिरिचकोरानुचरितभूमिभागः, वातपित्तबहुलः,स्थिरकठिनमनुष्यप्रायो ज्ञेयः, अथानूपो हिन्तालतमालनारिकेलकदलीवनगहनः, सरित्समुद्रपर्यन्तप्रायः, शिशिरपवनबहुलः,वञ्जुलवानीरोपशोभिततीराभिः सरिद्भिरुपगतभूमिभागः, क्षितिधरनिकुञ्जोपशोभितः, मन्दपवनानुवीजितक्षितिरुहगहनः,अनेकवनराजीपुष्पितवनगहनभूमिभागः, स्निग्धतरुप्रतानोपगूढः, हंस-चक्रवाक-बलाका-नन्दीमुख-पुण्डरीक-कादम्ब-मद्गु -भृङ्गराज-शतपत्र-मत्तकोकिलानुनादिततरुविटपः, सुकुमारपुरुषः, पवनकफप्रायो ज्ञेयः; अनयोरेवद्वयोर्देशयोर्वीरुद्वनस्पतिवानस्पत्यशकुनिमृगगणयुतः स्थिरसुकुमारबलवर्णसंहननोपपन्नसाधारणगुणयुक्तपुरुषःसाधारणो ज्ञेयः||||

तत्र देशे साधारणे जाङ्गले वा यथाकालं शिशिरातपपवनसलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशान-चैत्य-देवयजनागार-सभा-श्वभ्राराम-वल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमधुरमृत्तिके वामृदावफालकृष्टेऽनुपहतेऽन्यैर्बलवत्तरैर्द्रुमैरौषधानि जातानि प्रशस्यन्ते||||

तत्र यानि कालजातान्युपागतसम्पूर्णप्रमाण-रसवीर्य-गन्धानि कालातपाग्निसलिलपवनजन्तुभिरनुपहतगन्ध-वर्ण-रस-स्पर्श-प्रभावाणि प्रत्यग्राण्युदीच्यां दिशि स्थितानि; तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यं, ग्रीष्मे मूलानि शिशिरे वाशीर्णप्ररूढपर्णानां, शरदि त्वक्कन्दक्षीराणि, हेमन्ते साराणि, यथर्तु पुष्पफलमिति; मङ्गलाचारः कल्याणवृत्तः शुचिःशुक्लवासाः सम्पूज्य देवता अश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात्||१०||

गृहीत्वा चानुरूपगुणवद्भाजनस्थान्यागारेषू प्रागुदग्द्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्सु, अग्नि-सलिलोपस्वेद-धूम-रजो-मूषक-चतुष्पदामनभिगमनीयानि स्ववच्छन्नानि शिक्येष्वासज्य स्थापयेत्||११||

तानि यथादोषं प्रयुञ्जीत सुरा-सौवीरक-तुषोदक-मैरेय-मेदक-धान्याम्ल -फलाम्ल-दध्यम्लादिभिर्वाते, मृद्वीकामलक -मधु-मधुक-परूषक-फाणितक्षीरादिभिः पित्ते, श्लेष्मणि तु मधु-मूत्र-कषायादिभिर्भावितान्यालोडितानि ; इत्युद्देशः|
तं विस्तरेण द्रव्य-देह-दोष-सात्म्यादीनि प्रविभज्य व्याख्यास्यामः||१२||

वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षते, अनपायित्वात्|

तानि वसन्तग्रीष्मयोरन्तरे [पुष्याश्वयुग्भ्यां मृगशिरसा वा गृह्णीयान्मैत्रे मुहूर्ते|

यानि पक्वान्यकाणान्यहरितानि पाण्डून्यक्रिमीण्यपूतीन्यजन्तुजग्धान्यह्रस्वानि; तानि प्रमृज्य , कुशपुटे बद्ध्वा,गोमयेनालिप्य, यवतु(बु)षमाषशालिकुलत्थमुद्गपलानामन्यतमे निदध्यादष्टरात्रम्|

अत ऊर्ध्वं मृदूभूतानि मध्विष्टगन्धान्युद्धृत्य शोषयेत्|

सुशुष्काणां फलपिप्पलीरुद्धरेत् |

तासां घृतदधिमधुपललविमृदितानां पुनः शुष्काणां नवं कलशं सुप्रमृष्टवालुकमरजस्कमाकण्ठं पूरयित्वा स्ववच्छन्नं स्वनुगुप्तंशिक्येष्वासज्य सम्यक् स्थापयेत्||१३||

अथ च्छर्दनीयमातुरं द्व्यहं त्र्यहं वा स्नेहस्वेदोपपन्नं श्वश्छर्दयितव्यमिति ग्राम्यानूपौदकमांसरस-क्षीर-दधि-माष-तिल-शाकादिभिः समुत्क्लेशितश्लेष्माणं व्युषितं जीर्णाहारं पूर्वाह्णे कृतबलिहोममङ्गलप्रायश्चित्तं निरन्नमनतिस्निग्धं यवाग्वाघृतमात्रां पीतवन्तं, तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत जर्जरीकृत्य यष्टिमधुकषायेण कोविदार-कर्बुदार-नीप-विदुल-बिम्बी-शणपुष्पी-सदापुष्पी-प्रत्यक्पुष्पीकषायाणामन्यतमेन वा रात्रिमुषितं विमृद्य पूतं मधुसैन्धवयुक्तंसुखोष्णं कृत्वा पूर्णं शरावं मन्त्रेणानेनाभिमन्त्रयेत्- ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः| ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु ते|

रसायनमिवर्षीणां देवानाममृतं यथा| सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते|

इत्येवमभिमन्त्र्योदङ्मुखं प्राङ्मुखं वाऽऽतुरं पाययेच्छ्लेष्मज्वरगुल्मप्रतिश्यायार्तं विशेषेण पुनः पुनरापित्तागमनात्, तेन साधुवमति; हीनवेगं तु पिप्पल्यामलक-सर्षप-वचाकल्कलवणोष्णोदकैः पुनः पुनः प्रवर्तयेदापित्तदर्शनात्|

इत्येष सर्वश्छर्दनयोगविधिः||१४||

सर्वेषु तु मधुसैन्धवं कफविलयनच्छेदार्थं वमनेषु विदध्यात्|

चोष्णविरोधो मधुनश्छर्दनयोगयुक्तस्य, अविपक्वप्रत्यागमनाद्दोषनिर्हरणाच्च||१५||

फलपिप्पलीनां द्वौ द्वौ भागौ कोविदारादिकषायेण त्रिःसप्तकृत्वः स्रावयेत्, तेन रसेन तृतीयं भागं पिष्ट्वा मात्रांहरीतकीभिर्बिभीतकैरामलैर्वा तुल्यां वर्तयेत्, तासामेकां द्वे वा पूर्वोक्तानां कषायाणामन्यतमस्याञ्जलिमात्रेण विमृद्यबलवच्छ्लेष्मप्रसेकग्रन्थिज्वरोदरारुचिषु पाययेदिति समानं पूर्वेण||१६||

फलपिप्पलीक्षीरं, तेन वा क्षीरयवागूमधोभागे रक्तपित्ते हृद्दाहे ; तज्जस्य वा दध्न उत्तरकं कफच्छर्दितमकप्रसेकेषु ; तस्यवा पयसः शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरःकण्ठहृदये तनुकफोपदिग्धे, इति समानं पूर्वेण||१७||

फलपिप्पलीशृतक्षीरान्नवनीतमुत्पन्नं फलादिकल्ककषायसिद्धं कफाभिभूताग्निं विशुष्यद्देहं मात्रया पाययेदिति समानंपूर्वेण||१८||

फलपिप्पलीनां फलादिकषायेण त्रिःसप्तकृत्वः सुपरिभावितेन पुष्परजःप्रकाशेन चूर्णेन सरसि सञ्जातं [] बृहत्सरोरुहंसायाह्नेऽवचूर्णयेत्, तद्रात्रिव्युषितं प्रभाते पुनरवचूर्णितमुद्धृत्य हरिद्राकृसरक्षीरयवागूनामन्यतमंसैन्धवगुडफाणितयुक्तमाकण्ठं पीतवन्तमाघ्रापयेत् सुकुमारमुत्क्लिष्टपित्तकफमौषधद्वेषिणमिति समानं पूर्वेण||१९||

फलपिप्पलीनां भल्लातकविधिपरिस्रुतं स्वरसं पक्त्वा फाणितीभूतमातन्तुलीभावाल्लेहयेत्; आतपशुष्कं वा चूर्णीकृतंजीमूतकादिकषायेण पित्ते कफस्थानगते पाययेदिति समानं पूर्वेण||२०||

फलपिप्पलीचूर्णानि पूर्ववत् फलादीनां षण्णामन्यतमकषायस्रुतानि वर्तिक्रियाः फलादिकषायोपसर्जनाः पेया इति समानंपूर्वेण||२१||

फलपिप्पलीनामारग्वध -वृक्षक-स्वादुकण्टक-पाठा-पाटला-शार्ङ्गेष्टा-मूर्वा-सप्तपर्ण-नक्तमाल-पिचुमर्द-पटोल-सुषवी-गुडूची-सोमवल्क-द्वीपिकानां पिप्पली-पिप्पलीमूल-हस्तिपिप्पली-चित्रक-शृङ्गवेराणां चान्यतमकषायेण सिद्धो लेह इतिसमानं पूर्वेण||२२||

फलपिप्पलीष्वेला-हरेणुका-शतपुष्पा-कुस्तुम्बुरु-तगर-कुष्ठ-त्वक्-चोरक-मरुबकागुरु-गुग्गुल्वेलवालुक-श्रीवेष्टक-परिपेलव-मांसी-शैलेयक-स्थौणेयक-सरल-पारावतपद्यशोकरोहिणीनां विंशतेरन्यतमस्य कषायेण साधितोत्कारिका उत्कारिकाकल्पेन,मोदका वा मोदककल्पेन, यथादोषरोगभक्ति प्रयोज्या इति समानं पूर्वेण||२३||

फलपिप्पलीस्वरसकषायपरिभावितानि तिलशालितण्डुलपिष्टानि तत्कषायोपसर्जनानि शष्कुलीकल्पेन वा शष्कुल्यः,पूपकल्पेन वा पूपाः इति समानं पूर्वेण||२४||

एतेनैव कल्पेन सुमुख-सुरस-कुठेरक-काण्डीर-कालमालक-पर्णासक-क्षवक-फणिज्झक-गृञ्जन-कासमर्द-भृङ्गराजानांपोटेक्षुवालिका-कालङ्कतक-दण्डैरकाणां चान्यतमस्य कषायेण कारयेत्||२५||

तथा बदरषाडव-राग-लेह-मोदकोत्कारिका-र्पण-पानक-मांसरस-यूष-मद्यानां मदनफलान्यन्यतमेनोपसृज्ययथादोषरोगभक्ति दद्यात्; तैः साधु वमतीति||२६||

मदनः करहाटश्च राठः पिण्डीतकः फलम्|
श्वसनश्चेति पर्यायैरुच्यते तस्य कल्पना||२७||

तत्र श्लोकाः-

नव योगाः कषायेषु, मात्रास्वष्टौ , पयोघृते|
पञ्च, फाणितचूर्णे द्वौ घ्रेये, वर्तिक्रियासु षट्||२८||

विंशतिर्विंशतिर्लेहमोदकोत्कारिकासु |
शष्कुलीपूपयोश्चोक्ता योगाः षोडश षोडश||२९||

दशान्ये षाडवाद्येषु त्रयस्त्रिंशदिदं शतम्|
योगानां विधिवद्दिष्टं फलकल्पे महर्षिणा||३०||

 

Post a Comment

0 Comments