For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातः कल्पनासिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
का कल्पना पञ्चसु कर्मसूक्ता, क्रमश्च कः,
किं च कृताकृतेषु|
लिड्गं तथैवातिकृतेषु,
सङ्ख्या का,
किङ्गुणः, केषु च कश्च बस्तिः||३||
किं वर्जनीयं प्रतिकर्मकाले, कृते कियान् वा परिहारकालः|
प्रणीयमानश्च न याति केन, केनैति शीघ्रं,
सुचिराच्च बस्तिः||४||
साध्या गदाः स्वैः शमनैश्च केचित् कस्मात् प्रयुक्तैर्न शमं व्रजन्ति|
प्रचोदितः शिष्यवरेण सम्यगित्यग्निवेशेन भिषग्वरिष्ठः||५||
पुनर्वसुस्तन्त्रविदाह तस्मै सर्वप्रजानां हितकाम्ययेदम्|६|
त्र्यहावरं सप्तदिनं परं तु स्निग्धो नरः स्वेदयितव्य उक्तः ||६||
नातः परं स्नेहनमादिशन्ति सात्म्यीभवेत् सप्तदिनात् परं तु|७|
स्नेहोऽनिलं हन्ति मृदूकरोति देहं मलानां विनिहन्ति सङ्गम्||७||
स्निग्धस्य सूक्ष्मेष्वयनेषु लीनं स्वेदस्तु दोषं नयति द्रवत्वम्|८|
ग्राम्यौदकानूपरसैः समांसैरुत्क्लेशनीयः पयसा च वम्यः||८||
रसैस्तथा जाङ्गलजैः सयूषैः स्निग्धैः कफावृद्धिकरैर्विरेच्यः|९|
श्लेष्मोत्तरश्छर्दयति ह्यदुःखं विरिच्यते मन्दकफस्तु सम्यक्||९||
अधः कफेऽल्पे वमनं विरेचयेद्विरेचनं वृद्धकफे तथोर्ध्वम्|१०|
स्निग्धाय देयं वमनं यथोक्तं वान्तस्य पेयादिरनुक्रमश्च||१०||
स्निग्धस्य सुस्विन्नतनोर्यथावद्विरेचनं योग्यतमं प्रयोज्यम् |११|
पेयां विलेपीमकृतं कृतं च यूषं रसं त्रिर्द्विरथैकशश्च||११||
क्रमेण सेवेत विशुद्धकायः प्रधानमध्यावरशुद्धिशुद्धः|१२|
यथाऽणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण||१२||
महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तरग्निः|१३|
जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ||१३||
दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा द्वित्रिचतुर्गुणश्च|
पित्तान्तमिष्टं वमनं विरेकादर्धं कफान्तं च विरेकमाहुः||१४||
द्वित्रान् सविट्कानपनीय वेगान्मेयं विरेके वमने तु पीतम्|१५|
क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः||१५||
हृत्पार्श्वमूर्धेन्द्रियमार्गशुद्धौ तथा लघुत्वेऽपि च लक्ष्यमाणे|१६|
दुश्छर्दिते स्फोटककोठकण्डूहृत्खाविशुद्धिर्गुरुगात्रतां च||१६||
तृण्मोहमूर्च्छानिलकोपनिद्राबलादिहानिर्वमनेऽति च स्यात्|१७|
स्रोतोविशुद्धीन्द्रियसम्प्रसादौ लघुत्वमूर्जोऽग्निरनामयत्वम्||१७||
प्राप्तिश्च विट्पित्तकफानिलानां सम्यग्विरिक्तस्य भवेत् क्रमेण|१८|
स्याच्छ्लेष्मपित्तानिलसम्प्रकोपः सादस्तथाऽग्नेर्गुरुता प्रतिश्या||१८||
तन्द्रा तथा च्छर्दिररोचकश्च वातानुलोम्यं न च दुर्विरिक्ते|१९|
कफास्रपित्तक्षयजानिलोत्थाः सुप्त्यङ्गमर्दक्लमवेपनाद्याः||१९||
निद्राबलाभावतमःप्रवेशाः सोन्मादहिक्काश्च विरेचितेऽति|२०|
संसृष्टभक्तं नवमेऽह्नि सर्पिस्तं पाययेताप्यनुवासयेद्वा||२०||
तैलाक्तगात्राय ततो निरूहं दद्यात्र्यहान्नातिबुभुक्षिताय|
प्रस्यागते धन्वरसेन भोज्यः समीक्ष्य वा दोषबलं यथार्हम्||२१||
नरस्ततो निश्यनुवासनार्हो नात्याशितः स्यादनुवासनीयः |२२|
शीते वसन्ते च दिवाऽनुवास्यो रात्रौ शरद्ग्रीष्मघनागमेषु||२२||
तानेव दोषान् परिरक्षता ये स्नेहस्य पाने परिकीर्तिताः प्राक्|२३|
प्रत्यागते चाप्यनुवासनीये दिवा प्रदेयं व्युषिताय भोज्यम्||२३||
सायं च भोज्यं परतो द्व्यहे वा त्र्यहेऽनुवास्योऽहनि पञ्चमे वा |
त्र्यहे त्र्यहे वाऽप्यथ पञ्चमे वा दद्यान्निरूहादनुवासनं च||२४||
एकं तथा त्रीन् कफजे विकारे पित्तात्मके पञ्च तु सप्त वाऽपि|
वाते नवैकादश वा पुनर्वा बस्तीनयुग्मान् कुशलो विदध्यात्||२५||
नरो विरिक्तस्तु निरूहदानं विवर्जयेत् सप्तदिनान्यवश्यम्|
शुद्धो निरूहेण विरेचनं च तद्ध्यस्य शून्यं विकसेच्छरीरम्||२६||
बस्तिर्वयःस्थापयिता सुखायुर्बलाग्निमेधास्वरवर्णकृच्च|
सर्वार्थकारी शिशुवृद्धयूनां निरत्ययः सर्वगदापहश्च||२७||
विट्श्लेष्मपित्तानिलमूत्रकर्षी दार्ढ्यावहः शुक्रबलप्रदश्च|
विश्वक्स्थितं दोषचयं निरस्य सर्वान् विकारान् शमयेन्निरूहः||२८||
देहे निरूहेण विशुद्धमार्गे संस्नेहनं वर्णबलप्रदं च|
न तैलदानात् परमस्ति किञ्चिद्द्रव्यं विशेषेण समीरणार्ते ||२९||
स्नेहेन रौक्ष्यं लघुतां गुरुत्वादौष्ण्याच्च शैत्यं पवनस्य हत्वा|
तैलं ददात्याशु मनःप्रसादं वीर्यं बलं वर्णमथाग्निपुष्टिम् ||३०||
मूले निषिक्तो हि यथा द्रुमः स्यान्नीलच्छदः कोमलपल्लवाग्र्यः|
काले महान् पुष्पफलप्रदश्च तथा नरः स्यादनुवासनेन||३१||
स्तब्धाश्च ये सङ्कुचिताश्च येऽपि ये पङ्गवो येऽपि च भग्नरुग्णाः|
येषां च शाखासु चरन्ति वाताः शस्तो विशेषेण हि तेषु बस्तिः||३२||
आध्मापने विग्रथिते पुरीषे शूले च भक्तानभिनन्दने च|
एवम्प्रकाराश्च भवन्ति कुक्षौ ये चामयास्तेषु च बस्तिरिष्टः||३३||
याश्च स्त्रियो वातकृतोपसर्गा गर्भं न गृह्णन्ति नृभिः समेताः|
क्षीणेन्द्रिया ये च नराः कृशाश्च बस्तिः प्रशस्तः परमं च तेषु||३४||
उष्णाभिभूतेषु वदन्ति शीताञ्छीताभिभूतेषु तथा सुखोष्णान्|
तत्प्रत्यनीकौषधसम्प्रयुक्तान् सर्वत्र बस्तीन् प्रविभज्य युञ्ज्यात् ||३५||
न बृंहणीयान् विदधीत बस्तीन् विशोधनीयेषु गदेषु वैद्यः|
कुष्ठप्रमेहादिषु मेदुरेषु नरेषु ये चापि विशोधनीयाः||३६||
क्षीणक्षतानां न विशोधनीयान्न शोषिणां नो भृशदुर्बलानाम्|
न मूर्च्छितानां न विशोधितानां येषां च दोषेषु निबद्धमायुः||३७||
शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च|
ये सन्ति तेषां न हि कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति||३८||
विण्मूत्रपित्तादिमलाशयानां विक्षेपसङ्घातकरः स यस्मात्|
तस्यातिवृद्धस्य शमाय नान्यद्बस्तिं विना भेषजमस्ति किञ्चित्||३९||
तस्माच्चिकित्सार्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके|४०|
नाभिप्रदेशं कटिपार्श्वकुक्षिं गत्वा शकृद्दोषचयं विलोड्य ||४०||
संस्नेह्य कायं सपुरीषदोषः सम्यक् सुखेनैति च यः स बस्तिः |४१|
प्रसृष्टविण्मूत्रसमीरणत्वं रुच्यग्निवृद्ध्याशयलाघवानि||४१||
रोगोपशान्तिः प्रकृतिस्थता च बलं च तत् स्यात् सुनिरूढलिङ्गम्|४२|
स्याद्रुक्छिरोहृद्गुदबस्तिलिङ्गे शोफः प्रतिश्यायविकर्तिके च||४२||
हृल्लासिका मारुतमूत्रसङ्गः श्वासो न सम्यक् च निरूहिते स्युः|४३|
लिङ्गं यदेवातिविरेचितस्य भवेत्तदेवातिनिरूहितस्य||४३||
प्रत्येत्यसक्तं सशकृच्च तैलं रक्तादिबुद्धीन्द्रियसम्प्रसादः |
स्वप्नानुवृत्तिर्लघुता बलं च सृष्टाश्च वेगाः स्वनुवासिते स्युः||४४||
अधःशरीरोदरबाहुपृष्ठपार्श्वेषु रुग्रूक्षखरं च गात्रम् |
ग्रहश्च विण्मूत्रसमीरणानामसम्यगेतान्यनुवासितस्य ||४५||
हृल्लासमोहक्लमसादमूर्च्छाविकर्तिका चात्यनुवासितस्य|४६|
यस्येह यामाननुवर्तते त्रीन् स्नेहो नरः स्यात् स विशुद्धदेहः||४६||
आश्वागतेऽन्यस्तु पुनर्विधेयः स्नेहो न संस्नेहयति ह्यतिष्ठन्|४७|
त्रिंशन्मताः कर्म नु बस्तयो हि कालस्ततोऽर्धेन ततश्च योगः||४७||
सान्वासना द्वादश वै निरूहाः प्राक् स्नेह एकः परतश्च पञ्च|
काले त्रयोऽन्ते पुरतस्तथैकः स्नेहा निरूहान्तरिताश्च षट् स्युः||४८||
योगे निरूहास्त्रय एव देयाः स्नेहाश्च पञ्चैव परादिमध्याः|४९|
त्रीन् पञ्च वाऽऽहुश्चतुरोऽथ षड्वा वातादिकानामनुवासनीयान् ||४९||
स्नेहान् प्रदायाशु भिषग्विदध्यात् स्रोतोविशुद्यर्थमतो निरूहान्|५०|
विशुद्धदेहस्य ततः क्रमेण स्निग्धं तलस्वेदितमुत्तमाङ्गम्||५०||
विरेचयेत्त्रिर्द्विरथैकशो वा बलं समीक्ष्य त्रिविधं मलानाम्|
उरःशिरोलाघवमिन्द्रियाच्छ्यं स्रोतोविशुद्धिश्च भवेद्विशुद्धे||५१||
गलोपलेपः शिरसो गुरुत्वं निष्ठीवनं चाप्यथ दुर्विरिक्ते|
शिरोक्षिशङ्खश्रवणार्तितोदावत्यर्थशुद्धे तिमिरं च पश्येत्||५२||
स्यात्तर्पणं तत्र मृदु द्रवं च स्निग्धस्य तीक्ष्णं तु पुनर्न योगे|५३|
इत्यातुरस्वस्थसुखः प्रयोगो बलायुषोर्वृद्धिकृदामयघ्नः||५३||
कालस्तु बस्त्यादिषु याति यावांस्तावान् भवेद्द्विः परिहारकालः|५४|
अत्यासनस्थानवचांसि यानं स्वप्नं दिवा मैथुनवेगरोधान्||५४||
शीतोपचारातपशोकरोषांस्त्यजेदकालाहितभोजनं च|५५|
बद्धे प्रणीते विषमं च नेत्रे मार्गे तथाऽर्शःकफविड्विबद्धे ||५५||
न याति बस्तिर्न सुखं निरेति दोषावृतोऽल्पो यदि वाऽल्पवीर्यः|५६|
प्राप्ते तु वर्चोनिलमूत्रवेगे वातेऽतिवृद्धेऽल्पबले गुदे वा||५६||
अत्युष्णतीक्ष्णश्च मृदौ च कोष्ठे प्रणीतमात्रः पुनरेति बस्तिः|५७|
मेदःकफाभ्यामनिलो निरुद्धः शूलाङ्गसुप्तिश्वयथून् करोति||५७||
स्नेहं तु युञ्जन्नबुधस्तु तस्मै संवर्धयत्येव हि तान् विकारान्|
रोगास्तथाऽन्येऽप्यवितर्क्यमाणाः परस्परेणावगृहीतमार्गाः||५८||
सन्दूषिता धातुभिरेव चान्यैः स्वैर्भेषजैर्नोपशमं व्रजन्ति|५९|
सर्वं च रोगप्रशमाय कर्म हीनातिमात्रं विपरीतकालम्||५९||
मिथ्योपचाराच्च न तं विकारं शान्तिं नयेत् पथ्यमपि प्रयुक्तम्|६०|
तत्र श्लोकः-
प्रश्नानिमान् द्वादश पञ्चकर्माण्युद्दिश्य सिद्धाविह कल्पनायाम्||६०||
प्रजाहितार्थं भगवान् महार्थान् सम्यग्जगादर्षिवरोऽत्रिपुत्रः||६१||
0 Comments