For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातो योनिव्यापच्चिकित्सितं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः ||२||
दिव्यतीर्थौषधिमतश्चित्रधातुशिलावतः |
पुण्ये हिमवतः पार्श्वे सुरसिद्धर्षिसेविते ||३||
विहरन्तं तपोयोगात्तत्त्वज्ञानार्थदर्शिनम् |
पुनर्वसुं जितात्मानमग्निवेशोऽनु पृष्टवान् ||४||
भगवन्! यदपत्यानां मूलं नार्यः परं नृणाम् |
तद्विघातो गदैश्चासां क्रियते योनिमाश्रितैः ||५||
तस्मात्तेषां समुत्पत्तिमुत्पन्नानां च लक्षणम् |
सौषधं श्रोतुमिच्छामि प्रजानुग्रहकाम्यया ||६||
इति शिष्येण पृष्टस्तु प्रोवाचर्षिवरोऽत्रिजः |
विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसङ्ग्रहे ||७||
मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनार्तवेन च |
जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक् ||८||
वातलाहारचेष्टाया वातलायाः समीरणः |
विवृद्धो योनिमाश्रित्य योनेस्तोदं सवेदनम् ||९||
स्तम्भं पिपीलिकासृप्तिमिव कर्कशतां तथा |
करोति सुप्तिमायासं वातजांश्चापरान् गदान् ||१०||
सा स्यात् सशब्दरुक्फेनतनुरूक्षार्तवाऽनिलात् |
व्यापत्कट्वम्ललवणक्षाराद्यैः पित्तजा भवेत् ||११||
दाहपाकज्वरोष्णार्ता नीलपीतासितार्तवा |
भृशोष्णकुणपस्रावा योनिः स्यात्पित्तदूषिता||१२||
कफोऽभिष्यन्दिभिर्वृद्धो योनिं चेद्दूषयेत् स्त्रियाः |
स कुर्यात् पिच्छिलां शीतां कण्डुग्रस्ताल्पवेदनाम् ||१३||
पाण्डुवर्णां तथा पाण्डुपिच्छिलार्तववाहिनीम् |
समश्नन्त्या रसान् सर्वान्दूषयित्वा त्रयो मलाः ||१४||
योनिगर्भाशयस्थाः स्वैर्योनिं युञ्जन्ति लक्षणैः |
सा भवेद्दाहशूलार्ता श्वेतपिच्छिलवाहिनी ||१५|
रक्तपित्तकरैर्नार्या रक्तं पित्तेन दूषितम् |
अतिप्रवर्तते योन्यां लब्धे गर्भेऽपि सासृजा ||१६||
योनिगर्भाशयस्थं चेत् पित्तं सन्दूषयेदसृक् |
साऽरजस्का मता कार्श्यवैवर्ण्यजननी भृशम् ||१७||
योन्यामधावनात् कण्डूं जाताः कुर्वन्ति जन्तवः |
सा स्यादचरणा कण्ड्वा तयाऽतिनरकाङ्क्षिणी ||१८||
पवनोऽतिव्यवायेन शोफसुप्तिरुजः स्त्रियाः |
करोति कुपितो योनौ सा चातिचरणा मता ||१९||
मैथुनादतिबालायाः पृष्ठकट्यूरुवङ्क्षणम् |
रुजन् दूषयते योनिं वायुः प्राक्चरणा हि सा ||२०||
गर्भिण्याः श्लेष्मलाभ्यासाच्छर्दिनिःश्वासनिग्रहात् |
वायुः क्रुद्धः कफं योनिमुपनीय प्रदूषयेत् ||२१||
पाण्डुं सतोदमास्रावं श्वेतं स्रवति वा कफम् |
कफवातामयव्याप्ता सा स्याद्योनिरुपप्लुता ||२२||
पित्तलाया नृसंवासे क्षवथूद्गारधारणात् |
पित्तसम्मूर्च्छितो वायुर्योनिं दूषयति स्त्रियाः ||२३||
शूना स्पर्शाक्षमा सार्तिर्नीलपीतमसृक् स्रवेत् |
श्रोणिवङ्क्षणपृष्ठार्तिज्वरार्तायाः परिप्लुता ||२४||
वेगोदावर्तनाद्योनिमुदावर्तयतेऽनिलः |
सा रुगार्ता रजः कृच्छ्रेणोदावृत्तं विमुञ्चति ||२५||
आर्तवे सा विमुक्ते तु तत्क्षणं लभते सुखम् |
रजसो गमनादूर्ध्वं ज्ञेयोदावर्तिनी बुधैः ||२६||
अकाले वाहमानाया गर्भेण पिहितोऽनिलः |
कर्णिकां जनयेद्योनौ श्लेष्मरक्तेन मूर्च्छितः ||२७||
रक्तमार्गावरोधिन्या सा तया कर्णिनी मता |२८|
रौक्ष्याद्वायुर्यदा गर्भं जातं जातं विनाशयेत् ||२८||
दुष्टशोणितजं नार्याः पुत्रघ्नी नाम सा मता |२९|
व्यवायमतितृप्ताया भजन्त्यास्त्वन्नपीडितः ||२९||
वायुर्मिथ्यास्थिताङ्गाया योनिस्रोतसि संस्थितः |
वक्रयत्याननं योन्याः साऽस्थिमांसानिलार्तिभिः ||३०||
भृशार्तिर्मैथुनाशक्ता योनिरन्तर्मुखी मता |३१|
गर्भस्थायाः स्त्रिया रौक्ष्याद्वायुर्योनिं प्रदूषयन् ||३१||
मातृदोषादणुद्वारां कुर्यात् सूचीमुखी तु सा |३२|
व्यवायकाले रुन्धन्त्या वेगान् प्रकुपितोऽनिलः ||३२||
कुर्याद्विण्मूत्रसङ्गार्तिं शोषं योनिमुखस्य च |३३|
षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयं गतम् ||३३||
सरुजं नीरुजं वाऽपि या स्रवेत् सा तु वामिनी |३४|
बीजदोषात्तु गर्भस्थमारुतोपहताशया ||३४||
नृद्वेषिण्यस्तनी चैव षण्ढी स्यादनुपक्रमा |३५|
विषमं दुःखशय्यायां मैथुनात् कुपितोऽनिलः ||३५||
गर्भाशयस्य योन्याश्च मुखं विष्टम्भयेत् स्त्रियाः |
असंवृतमुखी सार्ती रूक्षफेनास्रवाहिनी ||३६||
मांसोत्सन्ना महायोनिः पर्ववङ्क्षणशूलिनी |३७|
इत्येतैर्लक्षणैः प्रोक्ता विंशतिर्योनिजा गदाः ||३७||
न शुक्रं धारयत्येभिर्दोषैर्योनिरुपद्रुता |
तस्माद्गर्भं न गृह्णाति स्त्री गच्छत्यामयान् बहून् ||३८||
गुल्मार्शःप्रदरादींश्च वाताद्यैश्चातिपीडनम् |३९|
आसां षोडश यास्त्वन्त्या आद्ये द्वे पित्तदोषजे ||३९||
परिप्लुता वामिनी च वातपित्तात्मिके मते |
कर्णिन्युपप्लुते वातकफाच्छेषास्तु वातजाः ||४०||
देहं वातादयस्तासां स्वैर्लिङ्गैः पीडयन्ति हि |४१|
स्नेहनस्वेदबस्त्यादि वातजास्वनिलापहम् ||४१||
कारयेद्रक्तपित्तघ्नं शीतं पित्तकृतासु च |
श्लेष्मजासु च रूक्षोष्णं कर्म कुर्याद्विचक्षणः ||४२||
सन्निपाते विमिश्रं तु संसृष्टासु च कारयेत् |
स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्पुनः ||४३||
पाणिना नामयेज्जिह्मां संवृतां वर्धयेत् पुनः |
प्रवेशयेन्निःसृतां च विवृतां परिवर्तयेत् ||४४||
योनिः स्थानापवृत्ता हि शल्यभूता मता स्त्रियाः |
सर्वां व्यापन्नयोनिं तु कर्मभिर्वमनादिभिः ||४५||
मृदुभिः पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत् |
सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते ||४६||
वातव्याधिहरं कर्म वातार्तानां सदा हितम् |
औदकानूपजैर्मांसैः क्षीरैः सतिलतण्डुलैः ||४७||
सवातघ्नौषधैर्नाडीकुम्भीस्वेदैरुपाचरेत् |
अक्तां लवणतैलेन साश्मप्रस्तरसङ्करैः ||४८||
स्विन्नां कोष्णाम्बुसिक्ताङ्गीं वातघ्नैर्भोजयेद्रसैः |४९|
बलाद्रोणद्वयक्वाथे घृततैलाढकं पचेत् ||४९||
स्थिरापयस्याजीवन्तीवीरर्षभकजीवकैः |
श्रावणीपिप्पलीमुद्गपीलुमाषाख्यपर्णिभिः ||५०||
शर्कराक्षीरकाकोलीकाकनासाभिरेव च |
पिष्टैश्चतुर्गुणक्षीरे सिद्धं पेयं यथाबलम् ||५१||
वातपित्तकृतान् रोगान् हत्वा गर्भं दधाति तत् |
काश्मर्यत्रिफलाद्राक्षाकासमर्दपरूषकैः ||५२||
पुनर्नवाद्विरजनीकाकनासासहचरैः |
शतावर्या गुडूच्याश्च प्रस्थमक्षसमैर्घृतात् ||५३||
साधितं योनिवातघ्नं गर्भदं परमं पिबेत् |
पिप्पलीकुञ्चिकाजाजिवृषकं सैन्धवं वचाम् ||५४||
यवक्षाराजमोदे च शर्करां चित्रकं तथा |
पिष्ट्वा सर्पिषि भृष्टानि पाययेत् प्रसन्नया ||५५||
योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये |
वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम् ||५६||
पिबेत् सलवणैर्मद्यैः पिप्पलीकुञ्चिके तथा |
रास्नाश्वदंष्ट्रावृषकैः पिबेच्छूले शृतं पयः ||५७||
गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचयेत् |
सैन्धवं तगरं कुष्ठं बृहती देवदारु च ||५८||
समांशैः साधितं कल्कैस्तैलं धार्यं रुजापहम् |
गुडूचीमालतीरास्नाबलामधुकचित्रकैः ||५९||
निदिग्धिकादेवदारुयूथिकाभिश्च कार्षिकैः |
तैलप्रस्थं गवां मूत्रे क्षीरे च द्विगुणे पचेत् ||६०||
वातार्तायाः पिचुं दद्याद्योनौ च प्रणयेत्ततः |
वातार्तानां च योनीनां सेकाभ्यङ्गपिचुक्रियाः ||६१||
(उष्णाः स्निग्धाः प्रकर्तव्यास्तैलानि स्नेहनानि च) |
हिंस्राकल्कं तु वातार्ता कोष्णमभ्यज्य धारयेत् |
पञ्चवल्कस्य पित्तार्ता श्यामादीनां कफातुरा ||६२||
पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः |
शीताः पित्तहराः कार्याः स्नेहनार्थं घृतानि च ||६३||
(पित्तघ्नौषधसिद्धानि कार्याणि भिषजा तथा) |
शतावरीमूलतुलाश्चतस्रः सम्प्रपीडयेत् ||६४||
रसेन क्षीरतुल्येन पचेत्तेन घृताढकम् |
जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः ||६५||
पिष्टैः प्रियालैश्चाक्षांशैर्द्वियष्टिमधुकैर्भिषक् |
सिद्धे शीते च मधुनः पिप्पल्याश्च पलाष्टकम् ||६६||
सितादशपलोन्मिश्राल्लिह्यात् पाणितलं ततः |
योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं च तत् ||६७||
क्षतं क्षयं रक्तपित्तं कासं श्वासं हलीमकम् |
कामलां वातरक्तं च वीसर्पं हृच्छिरोग्रहम् ||६८||
उन्मादारत्यपस्मारान् वातपित्तात्मकाञ्जयेत् |
इति बृहच्छतावरीघृतम् |
एवमेव क्षीरसर्पिर्जीवनीयोपसाधितम् ||६९||
गर्भदं पित्तलानां च योनीनां स्याद्भिषग्जितम् |७०|
योन्यां श्लेष्मप्रदुष्टायां वर्तिः संशोधनी हिता ||७०||
वाराहे बहुशः पित्ते भावितैर्लक्तकैः कृता |
भावितं पयसाऽर्कस्य यवचूर्णं ससैन्धवम् ||७१||
वर्तिः कृता मुहुर्धार्या ततः सेच्या सुखाम्बुना |
पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः ||७२||
वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी |७३|
उदुम्बरशलाटूनां द्रोणमब्द्रोणसंयुतम् ||७३||
सपञ्चवल्ककुलकमालतीनिम्बपल्लवम् |
निशां स्थाप्य जले तस्मिंस्तैलप्रस्थं विपाचयेत् ||७४||
लाक्षाधवपलाशत्वङ्निर्यासैः शाल्मलेन च |
पिष्टैः सिद्धस्य तैलस्य पिचुं योनौ निधापयेत् ||७५||
सशर्करैः कषायैश्च शीतैः कुर्वीत सेचनम् |
पिच्छिला विवृता कालदुष्टा योनिश्च दारुणा ||७६||
सप्ताहाच्छुध्यति क्षिप्रमपत्यं चापि विन्दति |
उदुम्बरस्य दुग्धेन षट्कृत्वो भावितात्तिलात् ||७७||
तैलं क्वाथेन तस्यैव सिद्धं धार्यं च पूर्ववत् |
धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः ||७८||
जम्ब्वाम्रमध्यकासीसलोध्रकट्फलतिन्दुकैः |
सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाटुभिः ||७९||
अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत् |
तैलप्रस्थं पिचुं दद्याद्योनौ च प्रणयेत्ततः ||८०||
कटीपृष्ठत्रिकाभ्यङ्गं स्नेहबस्तिं च दापयेत् |
पिच्छिला स्राविणी योनिर्विप्लुतोपप्लुता तथा ||८१||
उत्ताना चोन्नता शूना सिध्येत् सस्फोटशूलिनी |
करीरधवनिम्बार्कवेणुकोशाम्रजाम्बवैः ||८२||
जिङ्गिनीवृषमूलानां क्वाथैर्मार्द्वीकसीधुभिः |
सशुक्तैर्धावनं मिश्रैर्योन्यास्रावविनाशनम् ||८३||
कुर्यात् सतक्रगोमूत्रशुक्तैर्वा त्रिफलारसैः |८४|
पिप्पल्ययोरजःपथ्याप्रयोगा मधुना हिताः ||८४||
श्लेष्मलायां कटुप्रायाः समूत्रा बस्तयो हिताः |
पित्ते समधुरक्षीरा वाते तैलाम्लसंयुताः ||८५||
सन्निपातसमुत्थायाः कर्म साधारणं हितम् |८६|
रक्तयोन्यामसृग्वर्णैरनुबन्धं समीक्ष्य च ||८६||
ततः कुर्याद्यथादोषं रक्तस्थापनमौषधम् |
तिलचूर्णं दधि घृतं फाणितं शौकरी वसा ||८७||
क्षौद्रेण संयुतं पेयं वातासृग्दरनाशनम् |
वराहस्य रसो मेद्यः सकौलत्थोऽनिलाधिके ||८८||
शर्कराक्षौद्रयष्ट्याह्वनागरैर्वा युतं दधि |
पयस्योत्पलशालूकबिसकालीयकाम्बुदम् ||८९||
सपयःशर्कराक्षौद्रं पैत्तिकेऽसृग्दरे पिबेत् |९०|
पाठा जम्ब्वाम्रयोर्मध्यं शिलोद्भेदं रसाञ्जनम् ||९०||
अम्बष्ठा शाल्मलीश्लेषं समङ्गां वत्सकत्वचम् |
बाह्लीकातिविषे बिल्वं मुस्तं लोध्रं सगैरिकम् ||९१||
कट्वङ्गं मरिचं शुण्ठीं मृद्वीकां रक्तचन्दनम् |
कट्फलं वत्सकानन्ताधातकीमधुकार्जुनम् ||९२||
पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत् |
तानि क्षौद्रेण संयोज्य पिबेत्तण्डुलवारिणा ||९३||
अर्शःसु चातिसारेषु रक्तं यच्चोपवेश्यते |
दोषागन्तुकृता ये च बालानां तांश्च नाशयेत् ||९४||
योनिदोषं रजोदोषं श्वेतं नीलं सपीतकम् |
स्त्रीणां श्यावारुणं यच्च प्रसह्य विनिवर्तयेत् ||९५||
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम् |९६| इति पुष्यानुगचूर्णम् |
तण्डुलीयकमूलं तु सक्षौद्रं तण्डुलाम्बुना ||९६||
रसाञ्जनं च लाक्षां च छागेन पयसा पिबेत् |
पत्रकल्कौ घृते भृष्टौ राजादनकपित्थयोः ||९७||
पित्तानिलहरौ, पैत्ते सर्वथैवास्रपित्तजित् |
मधुकं त्रिफलां लोध्रं मुस्तं सौराष्ट्रिकां मधु ||९८||
मद्यैर्निम्बगुडूच्यौ वा कफजेऽसृग्दरे पिबेत् |
विरेचनं महातिक्तं पैत्तिकेऽसृग्दरे पिबेत् ||९९||
हितं गर्भपरिस्रावे यच्चोक्तं तच्च कारयेत् |१००|
काश्मर्यकुटजक्वाथसिद्धमुत्तरबस्तिना ||१००||
रक्तयोन्यरजस्कानां पुत्रघ्न्याश्च हितं घृतम् |
मृगाजाविवराहासृग्दध्यम्लफलसर्पिषा [१] ||१०१||
अरजस्का पिबेत् सिद्धं जीवनीयैः पयोऽपि वा |
कर्णिन्यचरणाशुष्कयोनिप्राक्चरणासु च ||१०२||
कफवाते च दातव्यं तैलमुत्तरबस्तिना |
गोपित्ते मत्स्यपित्ते वा क्षौमं त्रिःसप्तभावितम् ||१०३||
मधुना किण्वचूर्णं वा दद्यादचरणापहम् |
स्रोतसां शोधनं कण्डूक्लेदशोफहरं च तत् ||१०४||
वातघ्नैः शतपाकैश्च तैलैः प्रागतिचारिणी |
आस्थाप्या चानुवास्या च स्वेद्या चानिलसूदनैः ||१०५||
स्नेहद्रव्यैस्तथाऽऽहारैरुपनाहैश्च युक्तितः |
शताह्वायवगोधूमकिण्वकुष्ठप्रियङ्गुभिः ||१०६||
बलाखुपर्णिकाश्र्याह्वैः संयावो धारणः स्मृतः |
वामिन्युपप्लुतानां च स्नेहस्वेदादिकः क्रमः ||१०७||
कार्यस्ततः स्नेहपिचुस्ततः सन्तर्पणं भवेत् |
शल्लकीजिङ्गिनीजम्बूधवत्वक्पञ्चवल्कलैः ||१०८||
कषायैः साधितः स्नेहपिचुः स्याद्विप्लुतापहः |
कर्णिन्यां वर्तिका कुष्ठपिप्पल्यर्काग्रसैन्धवैः ||१०९||
बस्तमूत्रकृता धार्या सर्वं च श्लेष्मनुद्धितम् |
त्रैवृतं स्नेहनं स्वेदो ग्राम्यानूपौदका रसाः ||११०||
दशमूलपयोबस्तिश्चोदावर्तानिलार्तिषु |
त्रैवृतेनानुवास्या च बस्तिश्चोत्तरसञ्ज्ञितः ||१११||
एतदेव महायोन्यां स्रस्तायां च विधीयते |
वसा ऋक्षवराहाणां घृतं च मधुरैः शृतम् ||११२||
पूरयित्वा महायोनिं बध्नीयात् क्षौमलक्तकैः |
प्रस्रस्तां सर्पिषाऽभ्यज्य क्षीरस्विन्नां प्रवेश्य च ||११३||
बध्नीयाद्वेशवारस्य पिण्डेनामूत्रकालतः |
यच्च वातविकाराणां कर्मोक्तं तच्च कारयेत् ||११४||
सर्वव्यापत्सु मतिमान्महायोन्यां विशेषतः |
नहि वातादृते योनिर्नारीणां सम्प्रदुष्यति ||११५||
शमयित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम् |११६|
रोहीतकान्मूलकल्कं पाण्डुरेऽसृग्दरे पिबेत् ||११६||
जलेनामलकीबीजं कल्कं वा ससितामधुम् |
मधुनाऽऽमलकाच्चूर्णं रसं वा लेहयेच्च ताम् ||११७||
न्यग्रोधत्वक्कषायेण लोध्रकल्कं तथा पिबेत् |
आस्रावे क्षौमपट्टं वा भावितं तेन धारयेत् ||११८||
प्लक्षत्वक्चूर्णपिण्डं वा धारयेन्मधुना कृतम् |
योन्या स्नेहाक्तया लोध्रप्रियङ्गुमधुकस्य वा ||११९||
धार्या मधुयुता वर्तिः कषायाणां च सर्वशः |
स्रावच्छेदार्थमभ्यक्तां धूपयेद्वा घृताप्लुतैः ||१२०||
सरलागुग्गुलुयवैः सतैलकटुमत्स्यकैः |
कासीसं त्रिफला काङ्क्षी समङ्गाऽऽम्रास्थि धातकी ||१२१||
पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः |
पलाशसर्जजम्बूत्वक्समङ्गामोचधातकीः ||१२२||
सपिच्छिलापरिक्लिन्नास्तम्भनः कल्क इष्यते |
स्तब्धानां कर्कशानां च कार्यं मार्दवकारकम् ||१२३||
धारयेद्वेशवारं वा पायसं कृशरां तथा |
दुर्गन्धानां कषायः स्यात्तौवरः कल्क एव वा ||१२४||
चूर्णं वा सर्वगन्धानां पूतिगन्धापकर्षणम् |
एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः ||१२५||
अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति |१२६|
पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम् ||१२६||
परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत् |१२७|
भवन्ति चात्र-
सलिङ्गा व्यापदो योनेः सनिदानचिकित्सिताः ||१२७||
उक्ता विस्तरतः सम्यङ्मुनिना तत्त्वदर्शिना |
पुनरेवाग्निवेशस्तु पप्रच्छ भिषजां वरम् ||१२८||
आत्रेयमुपसङ्गम्य शुक्रदोषास्त्वयाऽनघ! |
रोगाध्याये समुद्दिष्टा ह्यष्टौ पुंसामशेषतः ||१२९||
तेषां हेतुं भिषक्श्रेष्ठ! दुष्टादुष्टस्य चाकृतिम् |
चिकित्सितं च कार्त्स्न्येन क्लैब्यं यच्च चतुर्विधम् ||१३०||
उपद्रवेषु योनीनां प्रदरो यश्च कीर्तितः |
तेषां निदानं लिङ्गं च चिकित्सां चैव तत्त्वतः ||१३१||
समासव्यासभेदेन प्रब्रूहि भिषजांवर! |
तस्मै शुश्रूषमाणाय प्रोवाच मुनिपुङ्गवः ||१३२||
बीजं यस्माद्व्यवाये तु हर्षयोनिसमुत्थितम् |
शुक्रं पौरुषमित्युक्तं तस्माद्वक्ष्यामि तच्छृणु ||१३३||
यथा बीजमकालाम्बुकृमिकीटाग्निदूषितम् |
न विरोहति सन्दुष्टं तथा शुक्रं शरीरिणाम् ||१३४||
अतिव्यवायाद्व्यायामादसात्म्यानां च सेवनात् |
अकाले वाऽप्ययोनौ वा मैथुनं न च गच्छतः ||१३५||
रूक्षतिक्तकषायातिलवणाम्लोष्णसेवनात् |
नारीणामरसज्ञानां गमनाज्जरया तथा ||१३६||
चिन्ताशोकादविस्रम्भाच्छस्त्रक्षाराग्निविभ्रमात् |
भयात्क्रोधादभीचाराद्व्याधिभिः कर्शितस्य च ||१३७||
वेगाघातात् क्षताच्चापि धातूनां सम्प्रदूषणात् |
दोषाः पृथक् समस्ता वा प्राप्य रेतोवहाः सिराः ||१३८||
शुक्रं सन्दूषयन्त्याश ... |१३९|
... तद्वक्ष्यामि विभागशः |
फेनिलं तनु रूक्षं च विवर्णं पूति पिच्छिलम् ||१३९||
अन्यधातूपसंसृष्टमवसादि तथाऽष्टमम् |
फेनिलं तनु रूक्षं च कृच्छ्रेणाल्पं च मारुतात् ||१४०||
भवत्युपहतं शुक्रं न तद्गर्भाय कल्पते |
सनीलमथवा पीतमत्युष्णं पूतिगन्धि च ||१४१||
दहल्लिङ्गं विनिर्याति शुक्रं पित्तेन दूषितम् |
श्लेष्मणा बद्धमार्गं तु भवत्यत्यर्थपिच्छिलम् ||१४२||
स्त्रीणामत्यर्थगमनादभिघातात् क्षतादपि |
शुक्रं प्रवर्तते जन्तोः प्रायेण रुधिरान्वयम् ||१४३||
वेगसन्धारणाच्छुक्रं वायुना विहतं पथि |
कृच्छ्रेण याति ग्रथितमवसादि तथाऽऽष्टमम् ||१४४||
इति दोषाः समाख्याताः शुक्रस्याष्टौ सलक्षणाः |
स्निग्धं घनं पिच्छिलं च मधुरं चाविदाहि च ||१४५||
रेतः शुद्धं विजानीयाच्छ्वेतं स्फटिकसन्निभम् |१४६|
वाजीकरणयोगैस्तैरुपयोगसुखैर्हितैः ||१४६||
रक्तपित्तहरैर्योगैर्योनिव्यापदिकैस्तथा |
दुष्टं यदा भवेच्छुक्रं तदा तत् समुपाचरेत् ||१४७||
घृतं च जीवनीयं यच्च्यवनप्राश एव च |
गिरिजस्य प्रयोगश्च रेतोदोषानपोहति ||१४८||
वातान्विते हिताः शुक्रे निरूहाः सानुवासनाः |
अभयामलकीयं च पैत्ते शस्तं रसायनम् ||१४९||
मागध्यमृतलोहानां त्रिफलाया रसायनम्|
कफोत्थितं शुक्रदोषं हन्याद्भल्लातकस्य च||१५०||
यदन्यधातुसंसृष्टं शुक्रं तद्वीक्ष्य युक्तितः|
यथादोषं प्रयुञ्जीत दोषधातुभिषग्जितम्||१५१||
सर्पिः पयो रसाः शालिर्यवगोधूमषष्टिकाः|
प्रशस्ताः शुक्रदोषेषु बस्तिकर्म विशेषतः||१५२||
इत्यष्टशुक्रदोषाणां मुनिनोक्तं चिकित्सितम्|१५३|
रेतोदोषोद्भवं क्लैब्यं यस्माच्छुद्ध्यैव सिध्यति ||१५३||
ततो वक्ष्यामि ते सम्यगग्निवेश! यथातथम् |१५४|
बीजध्वजोपघाताभ्यां जरया शुक्रसङ्क्षयात् ||१५४||
क्लैब्यं सम्पद्यते तस्य शृणु सामान्यलक्षणम् |
सङ्कल्पप्रवणो नित्यं प्रियां वश्यामपि स्त्रियम् ||१५५||
न याति लिङ्गशैथिल्यात् कदाचिद्याति वा यदि |
श्वासार्तः स्विन्नगात्रश्च मोघसङ्कल्पचेष्टितः ||१५६||
म्लानशिश्नश्च निर्बीजः स्यादेतत् क्लैब्यलक्षणम् |
सामान्यलक्षणं ह्येतद्विस्तरेण प्रवक्ष्यते ||१५७||
शीतरूक्षाल्पसङ्क्लिष्टविरुद्धाजीर्णभोजनात्|
शोकचिन्ताभयत्रासात् स्त्रीणां चात्यर्थसेवनात् ||१५८||
अभिचारादविस्रम्भाद्रसादीनां च सङ्क्षयात् |
वातादीनां च वैषम्यात्तथैवानशनाच्छ्रमात् ||१५९||
नारीणामरसज्ञत्वात् पञ्चकर्मापचारतः |
बीजोपघाताद्भवति पाण्डुवर्णः सुदुर्बलः ||१६०||
अल्पप्राणोऽल्पहर्षश्च प्रमदासु भवेन्नरः |
हृत्पाण्डुरोगतमककामलाश्रमपीडितः ||१६१||
छर्द्यतीसारशूलार्तः कासज्वरनिपीडितः |
बीजोपघातजं क्लैब्यं ... |१६२|
... ध्वजभङ्गकृतं शृणु ||१६२||
अत्यम्ललवणक्षारविरुद्धासात्म्यभोजनात् |
अत्यम्बुपानाद्विषमात् पिष्टान्नगुरुभोजनात् ||१६३||
दधिक्षीरानूपमांससेवनाद्व्याधिकर्षणात् |
कन्यानां चैव गमनादयोनिगमनादपि ||१६४||
दीर्घरोगां चिरोत्सृष्टां तथैव च रजस्वलाम् |
दुर्गन्धां दुष्टयोनिं च तथैव च परिस्रुताम् ||१६५||
ईदृशीं प्रमदां मोहाद्यो गच्छेत् कामहर्षितः |
चतुष्पदाभिगमनाच्छेफसश्चाभिघाततः ||१६६||
अधावनाद्वा मेढ्रस्य शस्त्रदन्तनखक्षतात् |
काष्ठप्रहारनिष्पेषाच्छूकानां चातिसेवनात् ||१६७||
रेतसश्च प्रतीघाताद्ध्वजभङ्गः प्रवर्तते |
(भवन्ति यानि रूपाणि तस्य वक्ष्याम्यतः परम्) |
श्वयथुर्वेदना मेढ्रे रागश्चैवोपलक्ष्यते ||१६८||
स्फोटाश्च तीव्रा जायन्ते लिङ्गपाको भवत्यपि |
मांसवृद्धिर्भवेच्चास्य व्रणाः क्षिप्रं भवन्त्यपि ||१६९||
पुलाकोदकसङ्काशः स्रावः श्यावारुणप्रभः |
वलयीकुरुते चापि कठिनश्च परिग्रहः ||१७०||
ज्वरस्तृष्णा भ्रमो मूर्च्छा च्छर्दिश्चास्योपजायते |
रक्तं कृष्णं स्रवेच्चापि नीलमाविललोहितम् ||१७१||
अग्निनेव च दग्धस्य तीव्रो दाहः सवेदनः |
बस्तौ वृषणयोर्वाऽपि सीवन्यां वङ्क्षणेषु च ||१७२||
कदाचित्पिच्छिलो वाऽपि पाण्डुः स्रावश्च जायते |
श्वयथुर्जायते मन्दः स्तिमितोऽल्पपरिस्रवः ||१७३||
चिराच्च पाकं व्रजति शीघ्रं वाऽथ प्रमुच्यते |
जायन्ते क्रिमयश्चापि क्लिद्यते पूतिगन्धि च ||१७४||
विशीर्यते मणिश्चास्य मेढ्रं मुष्कावथापि च |
ध्वजभङ्गकृतं क्लैब्यमित्येतत् समुदाहृतम् ||१७५||
एतं पञ्चविधं केचिद्ध्वजभङ्गं प्रचक्षते |१७६|
क्लैब्यं जरासम्भवं हि प्रवक्ष्याम्यथ तच्छृणु ||१७६||
जघन्यमध्यप्रवरं वयस्त्रिविधमुच्यते |
अतिप्रवयसां शुक्रं प्रायशः क्षीयते नृणाम् ||१७७||
रसादीनां सङ्क्षयाच्च तथैवावृष्यसेवनात् |
बलवीर्येन्द्रियाणां च क्रमेणैव परिक्षयात् ||१७८||
परिक्षयादायुषश्चाप्यनाहाराच्छ्रमात् क्लमात् |
जरासम्भवजं क्लैब्यमित्येतैर्हेतुभिर्नृणाम् ||१७९||
जायते तेन सोऽत्यर्थं क्षीणधातुः सुदुर्बलः |
विवर्णो दुर्बलो दीनः क्षिप्रं व्याधिमथाश्नुते ||१८०||
एतज्जरासम्भवं हि ... |१८१|
... चतुर्थं क्षयजं शृणु |
अतीव चिन्तनाच्चैव शोकात्क्रोधाद्भयात्तथा ||१८१||
ईर्ष्योत्कण्ठामदोद्वेगान् सदा विशति यो नरः |
कृशो वा सेवते रूक्षमन्नपानं तथौषधम् ||१८२||
दुर्बलप्रकृतिश्चैव निराहारो भवेद्यदि |
असात्म्यभोजनाच्चापि हृदये यो व्यवस्थितः ||१८३||
रसः प्रधानधातुर्हि क्षीयेताशु ततो नृणाम् |
रक्तादयश्च क्षीयन्ते धातवस्तस्य देहिनः ||१८४||
शुक्रावसानास्तेभ्योऽपि शुक्रं धाम परं मतम् |
चेतसो वाऽतिहर्षेण व्यवायं सेवतेऽति यः ||१८५||
तस्याशु क्षीयते शुक्रं ततः प्राप्नोति सङ्क्षयम् |
घोरं व्याधिमवाप्नोति मरणं वा स गच्छति ||१८६||
शुक्रं तस्माद्विशेषेण रक्ष्यमारोग्यमिच्छता |
एवं निदानलिङ्गाभ्यामुक्तं क्लैब्यं चतुर्विधम् ||१८७||
केचित् क्लैब्ये त्वसाध्ये द्वे ध्वजभङ्गक्षयोद्भवे |
वदन्ति शेफसश्छेदाद्वृषणोत्पाटनेन च ||१८८||
मातापित्रोर्बीजदोषादशुभैश्चाकृतात्मनः |
गर्भस्थस्य यदा दोषाः प्राप्य रेतोवहाःसिराः ||१८९||
शोषयन्त्याशु तन्नाशाद्रेतश्चाप्युपहन्यते |
तत्र सम्पूर्णसर्वाङ्गः स भवत्यपुमान् पुमान् ||१९०||
एते त्वसाध्या व्याख्याताः सन्निपातसमुच्छ्रयात् |१९१|
चिकित्सितमतस्तूर्ध्वं समासव्यासतः शृणु ||१९१||
शुक्रदोषेषु निर्दिष्टं भेषजं यन्मयाऽनघ! |
क्लैब्योपशान्तये कुर्यात् क्षीणक्षतहितं च यत् ||१९२||
बस्तयः क्षीरसर्पींषि वृष्ययोगाश्च ये मताः |
रसायनप्रयोगाश्च सर्वानेतान् प्रयोजयेत् ||१९३||
समीक्ष्य देहदोषाग्निबलं भेषजकालवित् |
व्यवायहेतुजे क्लैब्ये तथा धातुविपर्ययात् ||१९४||
दैवव्यपाश्रयं चैव भेषजं चाभिचारजे |
समासेनैतदुद्दिष्टं भेषजं क्लैब्यशान्तये ||१९५||
विस्तरेण प्रवक्ष्यामि क्लैब्यानां भेषजं पुनः |
सुस्विन्नस्निग्धगात्रस्य स्नेहयुक्तं विरेचनम् ||१९६||
अन्नाशनं ततः कुर्यादथवाऽऽस्थापनं पुनः |
प्रदद्यान्मतिमान् वैद्यस्ततस्तमनुवासयेत् ||१९७||
पलाशैरण्डमुस्ताद्यैः पश्चादास्थापयेत्ततः |
वाजीकरणयोगाश्च पूर्वं ये समुदाहृताः ||१९८||
भिषजा ते प्रयोज्याः स्युः क्लैब्ये बीजोपघातजे |
ध्वजभङ्गकृतं क्लैब्यं ज्ञात्वा तस्याचरेत् क्रियाम् ||१९९||
प्रदेहान् परिषेकांश्च कुर्याद्वा रक्तमोक्षणम् |
स्नेहपानं च कुर्वीत सस्नेहं च विरेचनम् ||२००||
अनुवासं ततः कुर्यादथवाऽऽस्थापनं पुनः |
व्रणवच्च क्रियाः सर्वास्तत्र कुर्याद्विचक्षणः ||२०१||
जरासम्भवजे क्लैब्ये क्षयजे चैव कारयेत् |
स्नेहस्वेदोपपन्नस्य सस्नेहं शोधनं हितम् ||२०२||
क्षीरसर्पिर्वृष्ययोगा बस्तयश्चैव यापनाः |
रसायनप्रयोगाश्च तयोर्भेषजमुच्यते ||२०३||
विस्तरेणैतदुद्दिष्टं क्लैब्यानां भेषजं मया |२०४|
यः पूर्वमुक्तः प्रदरः शृणु हेत्वादिभिस्तु तम् ||२०४||
याऽत्यर्थं सेवते नारी लवणाम्लगुरूणि च |
कटून्यथ विदाहीनि स्निग्धानि पिशितानि च ||२०५||
ग्राम्यौदकानि मेद्यानि कृशरां पायसं दधि |
शुक्तमस्तुसुरादीनि भजन्त्याः कुपितोऽनिलः ||२०६||
रक्तं प्रमाणमुत्क्रम्य गर्भाशयगताः सिराः |
रजोवहाः समाश्रित्य रक्तमादाय तद्रजः ||२०७||
यस्माद्विवर्धयत्याशु रसभावाद्विमानता |
तस्मादसृग्दरं प्राहुरेतत्तन्त्रविशारदाः ||२०८||
रजः प्रदीर्यते यस्मात् प्रदरस्तेन स स्मृतः |
सामान्यतः समुद्दिष्टं कारणं लिङ्गमेव च ||२०९||
चतुर्विधं व्यासतस्तु वाताद्यैः सन्निपाततः |
अतःपरं प्रवक्ष्यामि हेत्वाकृतिभिषग्जितम् ||२१०||
रूक्षादिभिर्मारुतस्तु रक्तमादाय पूर्ववत् |
कुपितः प्रदरं कुर्याल्लक्षणं तस्य मे शृणु ||२११||
फेनिलं तनु रूक्षं च श्यावं चारुणमेव च |
किंशुकोदकसङ्काशं सरुजं वाऽथ नीरुजम् ||२१२||
कटिवङ्क्षणहृत्पार्श्वपृष्ठश्रोणिषु मारुतः |
कुरुते वेदनां तीव्रामेतद्वातात्मकं विदुः ||२१३||
अम्लोष्णलवणक्षारैः पित्तं प्रकुपितं यदा |
पूर्ववत् प्रदरं कुर्यात् पैत्तिकं लिङ्गतः शृणु ||२१४||
सनीलमथवा पीतमत्युष्णमसितं तथा |
नितान्तरक्तं स्रवति मुहुर्मुहुरथार्तिमत् ||२१५||
दाहरागतृषामोहज्वरभ्रमसमायुतम् |
असृग्दरं पैत्तिकं स्याच्छ्लैष्मिकं तु प्रवक्ष्यते ||२१६||
गुर्वादिभिर्हेतुभिश्च पूर्ववत् कुपितः कफः |
प्रदरं कुरुते तस्य लक्षणं तत्त्वतः शृणु ||२१७||
पिच्छिलं पाण्डुवर्णं च गुरु स्निग्धं च शीतलम् |
स्रवत्यसृक् श्लेष्मलं च घनं मन्दरुजाकरम् ||२१८||
छर्द्यरोचकहृल्लासश्वासकाससमन्वितम् |
(वक्ष्यते [४] क्षीरदोषाणां सामान्यमिह कारणम् ||२१९||
यत्तदेव त्रिदोषस्य कारणं प्रदरस्य तु | )
त्रिलिङ्गसंयुतं विद्यान्नैकावस्थमसृग्दरम् ||२२०||
नारी त्वतिपरिक्लिष्टा यदा प्रक्षीणशोणिता |
सर्वहेतुसमाचारादतिवृद्धस्तदाऽनिलः ||२२१||
रक्तमार्गेण सृजति प्रत्यनीकबलं कफम् |
दुर्गन्धं पिच्छिलं पीतं विदग्धं पित्ततेजसा ||२२२||
वसां मेदश्च यावद्धि समुपादाय वेगवान् |
सृजत्यपत्यमार्गेण सर्पिर्मज्जवसोपमम् ||२२३||
शश्वत् स्रवत्यथास्रावं तृष्णादाहज्वरान्विताम् |
क्षीणरक्तां दुर्बलां स तामसाध्यां विवर्जयेत् ||२२४||
मासान्निष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च |
नैवातिबहु नात्यल्पमार्तवं शुद्धमादिशेत् ||२२५||
गुञ्जाफलसवर्णं च पद्मालक्तकसन्निभम् |
इन्द्रगोपकसङ्काशमार्तवं शुद्धमादिशेत् ||२२६||
योनीनां वातलाद्यानां यदुक्तमिह भेषजम् |
चतुर्णां प्रदराणां च तत् सर्वं कारयेद्भिषक् ||२२७||
रक्तातिसारिणां यच्च तथा शोणितपित्तिनाम् |
रक्तार्शसां च यत् प्रोक्तं भेषजं तच्च कारयेत् ||२२८||
धात्रीस्तनस्तन्यसम्पदुक्ता विस्तरतः पुरा |
स्तन्यसञ्जननं चैव स्तन्यस्य च विशोधनम् ||२२९||
वातादिदुष्टे लिङ्गं च क्षीणस्य च चिकित्सितम् |
तत्सर्वमुक्तं ये त्वष्टौ क्षीरदोषाः प्रकीर्तिताः ||२३०||
वातादिष्वेव तान् विद्याच्छास्त्रचक्षुर्भिषक्तमः |
त्रिविधास्तु यतः शिष्यास्ततो वक्ष्यामि विस्तरम् ||२३१|
अजीर्णासात्म्यविषमविरुद्धात्यर्थभोजनात् |
लवणाम्लकटुक्षारप्रक्लिन्नानां च सेवनात् ||२३२||
मनःशरीरसन्तापादस्वप्नान्निशि चिन्तनात् |
प्राप्तवेगप्रतीघातादप्राप्तोदीरणेन च ||२३३||
परमान्नं गुडकृतं कृशरां दधि मन्दकम् |
अभिष्यन्दीनि मांसानि ग्राम्यानूपौदकानि च ||२३४||
भुक्त्वा भुक्त्वा दिवास्वप्नान्मद्यस्यातिनिषेवणात् |
अनायासादभीघातात् क्रोधाच्चातङ्ककर्शनैः ||२३५||
दोषाः क्षीरवहाः प्राप्य सिराः स्तन्यं प्रदूष्य च |
कुर्युरष्टविधं भूयो दोषतस्तन्निबोध मे ||२३६||
वैरस्यं फेनसङ्घातो रौक्ष्यं चेत्यनिलात्मके |
पित्ताद्वैवर्ण्यदौर्गन्ध्ये स्नेहपैच्छिल्यगौरवम् ||२३७||
कफाद्भवति रूक्षाद्यैरनिलः स्वैः प्रकोपणैः |
क्रुद्धः क्षीराशयं प्राप्य रसं स्तन्यस्य [३] दूषयेत् ||२३८||
विरसं वातसंसृष्टं कृशीभवति तत् पिबन् |
न चास्य स्वदते क्षीरं कृच्छ्रेण च विवर्धते ||२३९||
तथैव वायुः कुपितः स्तन्यमन्तर्विलोडयन् |
करोति फेनसङ्घातं तत्तु कृच्छ्रात् प्रवर्तते ||२४०||
तेन क्षामस्वरो बालो बद्धविण्मूत्रमारुतः |
वातिकं शीर्षरोगं वा पीनसं वाऽधिगच्छति ||२४१||
पूर्ववत् कुपितः स्तन्ये स्नेहं शोषयतेऽनिलः |
रूक्षं तत् पिबतो रौक्ष्याद्बलह्रासः प्रजायते ||२४२||
पित्तमुष्णादिभिः क्रुद्धं स्तन्याशयमभिप्लुतम् |
करोति स्तन्यवैवर्ण्यं नीलपीतासितादिकम् ||२४३||
विवर्णगात्रः स्विन्नः स्यात्तृष्णालुर्भिन्नविट् शिशुः |
नित्यमुष्णशरीरश्च नाभिनन्दति तं स्तनम् ||२४४||
पूर्ववत् कुपिते पित्ते दौर्गन्ध्यं क्षीरमृच्छति |
पाण्ड्वामयस्तत्पिबतः कामला च भवेच्छिशोः ||२४५||
क्रुद्धो गुर्वादिभिः श्लेष्मा क्षीराशयगतः स्त्रियाः |
स्नेहान्वितत्वात्तत्क्षीरमतिस्निग्धं करोति तु ||२४६||
छर्दनः कुन्थनस्तेन लालालुर्जायते शिशुः |
नित्योपदिग्धैः स्रोतोभिर्निद्राक्लमसमन्वितः ||२४७||
श्वासकासपरीतस्तु प्रसेकतमकान्वितः |
अभिभूय कफः स्तन्यं पिच्छिलं कुरुते यदा ||२४८||
लालालुः शूनवक्त्राक्षिर्जडः स्यात्तत् पिबञ्छिशुः |
कफः क्षीराशयगतो गुरुत्वात् क्षीरगौरवम् ||२४९||
करोति गुरु तत् पीत्वा बालो हृद्रोगमृच्छति |
अन्यांश्च विविधात्रोगान्कुर्यात्क्षीरसमाश्रितान् ||२५०||
क्षीरे वातादिभिर्दुष्टे सम्भवन्ति तदात्मकाः |
तत्रादौ स्तन्यशुद्ध्यर्थं धात्रीं स्नेहोपपादिताम् ||२५१||
संस्वेद्य विधिवद्वैद्यो वमनेनोपपादयेत् |
वचाप्रियङ्गुयष्ट्याह्वफलवत्सकसर्षपैः ||२५२||
कल्कैर्निम्बपटोलानां क्वाथैः सलवणैर्वमेत् |
सम्यग्वान्तां यथान्यायं कृतसंसर्जनां ततः ||२५३||
दोषकालबलापेक्षी स्नेहयित्वा विरेचयेत् |
त्रिवृतामभयां वाऽपि त्रिफलारससंयुताम् ||२५४||
पाययेन्मधुसंयुक्तामभयां वाऽपि केवलाम् |
(पाययेन्मूत्रसंयुक्तां विरेकार्थं च शास्त्रवित् ) ||२५५||
सम्यग्विरिक्तां मतिमान् कृतसंसर्जनां पुनः |
ततो दोषावशेषघ्नैरन्नपानैरुपाचरेत् ||२५६||
शालयः षष्टिका वा स्युः श्यामाका भोजने हिताः |
प्रियङ्गवः कोरदूषा यवा वेणुयवास्तथा ||२५७||
वंशवेत्रकलायाश्च शाकार्थे स्नेहसंस्कृताः |
मुद्गान् मसूरान् यूषार्थे कुलत्थांश्च प्रकल्पयेत् ||२५८||
निम्बवेत्राग्रकुलकवार्ताकामलकैः शृतान् |
सव्योषसैन्धवान् यूषान्दापयेत्स्तन्यशोधनान् ||२५९||
शशान् कपिञ्जलानेणान् संस्कृतांश्च प्रदापयेत् |
शार्ङ्गेष्टासप्तपर्णत्वगश्वगन्धाशृतं जलम् ||२६०||
पाययेताथवा स्तन्यशुद्धये रोहिणीशृतम् |
अमृतासप्तपर्णत्वक्क्वाथं चैव सनागरम् ||२६१||
किराततिक्तकक्वाथं श्लोकपादेरितान् पिबेत् |
त्रीनेतान्स्तन्यशुद्ध्यर्थमिति सामान्यभेषजम् ||२६२||
कीर्तितं स्तन्यदोषाणां पृथगन्यं निबोधत |
पाययेद्विरसक्षीरां द्राक्षामधुकसारिवाः ||२६३||
श्लक्ष्णपिष्टां पयस्यां च समालोड्य सुखाम्बुना |
पञ्चकोलकुलत्थैश्च पिष्टैरालेपयेत् स्तनौ ||२६४||
शुष्कौ प्रक्षाल्य निर्दुह्यात्तथा स्तन्यं विशुध्यति |
फेनसङ्घातवत्क्षीरं यस्यास्तां पाययेत् स्त्रियम् ||२६५||
पाठानागरशार्ङ्गेष्टामूर्वाः पिष्ट्वा सुखाम्बुना |
अञ्जनं नागरं दारु बिल्वमूलं प्रियङ्गवः ||२६६||
स्तनयोः पूर्ववत् कार्यं लेपनं क्षीरशोधनम् |
किराततिक्तकं शुण्ठीं सामृतां क्वाथयेद्भिषक् ||२६७||
तं क्वाथं पाययेद्धात्रीं स्तन्यदोषनिबर्हणम् |
स्तनौ चालेपयेत् पिष्टैर्यवगोधूमसर्षपैः ||२६८||
षड्विरेकाश्रितीयोक्तैरौषधैः स्तन्यशोधनैः |
रूक्षक्षीरा पिबेत् क्षीरं तैर्वा सिद्धं घृतं पिबेत् ||२६९||
पूर्ववज्जीवकाद्यं च पञ्चमूलं प्रलेपनम् |
स्तनयोः संविधातव्यं सुखोष्णं स्तन्यशोधनम् ||२७०||
यष्टीमधुकमृद्वीकापयस्यासिन्धुवारिकाः |
शीताम्बुना पिबेत्कल्कं क्षीरवैवर्ण्यनाशनम् ||२७१||
द्राक्षामधुककल्केन स्तनौ चास्याः प्रलेपयेत् |
प्रक्षाल्य वारिणा चैव निर्दुह्यात्तौ पुनः पुनः ||२७२||
विषाणिकाजशृङ्ग्यौ च त्रिफलां रजनीं वचाम् |
पिबेच्छीताम्बुना पिष्ट्वा क्षीरदौर्गन्ध्यनाशिनीम् ||२७३||
लिह्याद्वाऽप्यभयाचूर्णं सव्योषं माक्षिकप्लुतम् |
क्षीरदौर्गन्ध्यनाशार्थं धात्री पथ्याशिनी तथा ||२७४||
सारिवोशीरमञ्जिष्ठाश्लेष्मातककुचन्दनैः |
पत्राम्बुचन्दनोशीरैः स्तनौ चास्याः प्रलेपयेत् ||२७५||
स्निग्धक्षीरा दारुमुस्तपाठाः पिष्ट्वा सुखाम्बुना |
पीत्वा ससैन्धवाः क्षिप्रं क्षीरशुद्धिमवाप्नुयात् ||२७६||
पाययेत् पिच्छिलक्षीरां शार्ङ्गेष्टामभयां वचाम् |
मुस्तनागरपाठाश्च पीताः स्तन्यविशोधनाः ||२७७||
तक्रारिष्टं पिबेच्चापि यदुक्तं गुदजापहम् |
विदारीबिल्वमधुकैः स्तनौ चास्याः प्रलेपयेत् ||२७८||
त्रायमाणामृतानिम्बपटोलत्रिफलाशृतम् |
गुरुक्षीरा पिबेदाशु स्तन्यदोषविशुद्धये ||२७९||
पिबेद्वा पिप्पलीमूलचव्यचित्रकनागरम् |
बलानागरशार्ङ्गेष्टामूर्वाभिर्लेपयेत् स्तनौ ||२८०||
पृश्निपर्णीपयस्याभ्यां स्तनौ चास्याः प्रलेपयेत् |
अष्टावेते क्षीरदोषा हेतुलक्षणभेषजैः ||२८१||
निर्दिष्टाः क्षीरदोषोत्थास्तथोक्ताः केचिदामयाः |२८२|
दोषदूष्यमलाश्चैव महतां व्याधयश्च ये ||२८२||
त एव सर्वे बालानां मात्रा त्वल्पतरा मता |
निवृत्तिर्वमनादीनां मृदुत्वं परतन्त्रताम् ||२८३||
वाक्चेष्टयोरसामर्थ्यं वीक्ष्य बालेषु शास्त्रवित् |
भेषजं स्वल्पमात्रं तु यथाव्याधि प्रयोजयेत् ||२८४||
मधुराणि कषायाणि क्षीरवन्ति मृदूनि च |
प्रयोजयेद्भिषग्बाले मतिमानप्रमादतः ||२८५||
अत्यर्थस्निग्धरूक्षोष्णमम्लं कटुविपाकि च |
गुरु चौषधपानान्नमेतद्बालेषु गर्हितम् ||२८६||
समासात् सर्वरोगाणामेतद्बालेषु भेषजम् |
निर्दिष्टं शास्त्रविद्वैद्यः प्रविविच्य प्रयोजयेत् ||२८७||
भवन्ति चात्र-
इति सर्वविकाराणामुक्तमेतच्चिकित्सितम् |
स्थानमेतद्धि तन्त्रस्य रहस्यं परमुत्तमम्||२८८||
अस्मिन् सप्तदशाध्यायाः कल्पाः सिद्धय एव च |
नासाद्यन्तेऽग्निवेशस्य तन्त्रे चरकसंस्कृते ||२८९||
तानेतान् कापिलबलिः शेषान् दृढबलोऽकरोत् |
तन्त्रस्यास्य महार्थस्य पूरणार्थं यथातथम् ||२९०||
रोगा येऽप्यत्र नोद्दिष्टा बहुत्वान्नामरूपतः |
तेषामप्येतदेव स्याद्दोषादीन् वीक्ष्य भेषजम् ||२९१||
दोषदूष्यनिदानानां विपरीतं हितं ध्रुवम् |
उक्तानुक्तान् गदान् सर्वान् सम्यग्युक्तं नियच्छति ||२९२||
देशकालप्रमाणानां सात्म्यासात्म्यस्य चैव हि |
सम्यग्योगोऽन्यथा ह्येषां पथ्यमप्यन्यथा भवेत् ||२९३||
आस्यादामाशयस्थान् हि रोगान् नस्तःशिरोगतान् |
गुदात् पक्वाशयस्थांश्च हन्त्याशु दत्तमौषधम् ||२९४||
शरीरावयवोत्थेषु विसर्पपिडकादिषु |
यथादेशं प्रदेहादि शमनं स्याद्विशेषतः ||२९५||
दिनातुरौषधव्याधिजीर्णलिङ्गर्त्ववेक्षणम् |
कालं विद्याद्दिनावेक्षः पूर्वाह्णे वमनं यथा ||२९६||
रोग्यवेक्षो यथा प्रातर्निरन्नो बलवान् पिबेत् |
भेषजं लघुपथ्यान्नैर्युक्तमद्यात्तु दुर्बलः ||२९७||
भैषज्यकालो भुक्तादौ मध्ये पश्चान्मुहुर्मुहुः |
सामुद्गं भक्तसंयुक्तं ग्रासग्रासान्तरे दश ||२९८||
अपाने विगुणे पूर्वं, समाने मध्यभोजनम् |
व्याने तु प्रातरशितमुदाने भोजनोत्तरम् ||२९९||
वायौ प्राणे प्रदुष्टे तु ग्रासग्रासान्तरिष्यते |
श्वासकासपिपासासु त्ववचार्यं मुहुर्मुहुः ||३००||
सामुद्गं हिक्किने देयं लघुनाऽन्नेन संयुतम् |
सम्भोज्यं त्वौषधं भोज्यैर्विचित्रैररुचौ हितम् ||३०१||
ज्वरे पेयाः कषायाश्च क्षीरं सर्पिर्विरेचनम् |
षडहे षडहे देयं कालं वीक्ष्यामयस्य च ||३०२||
क्षुद्वेगमोक्षौ लघुता विशुद्धिर्जीर्णलक्षणम् |
तदा भेषजमादेयं स्याद्धि दोषवदन्यथा ||३०३||
चयादयश्च दोषाणां वर्ज्यं सेव्यं च यत्र यत् |
ऋताववेक्ष्यं यत् कर्म पूर्वं सर्वमुदाहृतम् ||३०४||
(उपक्रमाणां करणं प्रतिषेधे च कारणम् |
व्याख्यातमबलानां सविकल्पानामवेक्षणे ||३०५||
मुहुर्मुहुश्च रोगाणामवस्थामातुरस्य च |
अवेक्षमाणस्तु भीषक् चिकित्सायां न मुह्यति) ||३०६||
इत्येवं षड्विधं कालमनवेक्ष्य भिषग्जितम् |
प्रयुक्तमहिताय स्यात् सस्यस्याकालवर्षवत् ||३०७||
व्याधीनामृत्वहोरात्रवयसां भोजनस्य च |
विशेषो भिद्यते यस्तु कालावेक्षः स उच्यते ||३०८||
वसन्ते श्लेष्मजा रोगाः शरत्काले तु पित्तजाः |
वर्षासु वातिकाश्चैव प्रायः प्रादुर्भवन्ति हि ||३०९||
निशान्ते दिवसान्ते च वर्षान्ते वातजा गदाः |
प्रातः क्षपादौ कफजास्तयोर्मध्ये तु पित्तजाः ||३१०||
वयोन्तमध्यप्रथमे वातपित्तकफामयाः |
बलवन्तो भवन्त्येव स्वभावाद्वयसो नृणाम् ||३११||
जीर्णान्ते वातजा रोगा जीर्यमाणे तु पित्तजाः |
श्लेष्मजा भुक्तमात्रे तु लभन्ते प्रायशो बलम् ||३१२||
नाल्पं हन्त्यौषधं व्याधिं यथाऽऽपोऽल्पा महानलम् |
दोषवच्चातिमात्रं स्यात्सस्यस्यात्युदकं यथा ||३१३||
सम्प्रधार्य बलं तस्मादामयस्यौषधस्य च |
नैवातिबहु नात्यल्पं भैषज्यमवचारयेत् ||३१४||
औचित्याद्यस्य यत् सात्म्यं देशस्य पुरुषस्य च |
अपथ्यमपि नैकान्तात्तत्त्यजंल्लभते सुखम् ||३१५||
बाह्लीकाः पह्लवाश्चीनाः शूलीका यवनाः शकाः |
मांसगोधूममाध्वीकशस्त्रवैश्वानरोचिताः ||३१६||
मत्स्यसात्म्यास्तथा प्राच्याः क्षीरसात्म्याश्च सैन्धवाः |
अश्मकावन्तिकानां तु तैलाम्लं सात्म्यमुच्यते ||३१७||
कन्दमूलफलं सात्म्यं विद्यान्मलयवासिनाम् |
सात्म्यं दक्षिणतः पेया मन्थश्चोत्तरपश्चिमे ||३१८||
मध्यदेशे भवेत् सात्म्यं यवगोधूमगोरसाः |
तेषां तत्सात्म्ययुक्तानि भैषजान्यवचारयेत् ||३१९||
सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि |
योगैरेव चिकित्सन् हि देशाद्यज्ञोऽपराध्यति ||३२०||
वयोबलशरीरादिभेदा हि बहवो मताः |
तथाऽन्तःसन्धिमार्गाणां दोषाणां गूढचारिणाम् ||३२१||
भवेत् कदाचित् कार्याऽपि विरुद्धाभिमता क्रिया |
पित्तमन्तर्गतं गूढं स्वेदसेकोपनाहनैः ||३२२||
नीयते बहिरुष्णैर्हि तथोष्णं शमयन्ति ते |
बाह्यैश्च शीतैः सेकाद्यैरूष्माऽन्तर्याति पीडितः ||३२३||
सोऽन्तर्गूढं कफं हन्ति शीतं शीतैस्तथा जयेत् |
श्लक्ष्णपिष्टो घनो लेपश्चन्दनस्यापि दाहकृत् ||३२४||
त्वग्गतस्योष्मणो रोधाच्छीतकृच्चान्यथाऽगुरोः |
छर्दिघ्नी मक्षिकाविष्ठा मक्षिकैव तु वामयेत् ||३२५||
द्रव्येषु स्विन्नजग्धेषु चैव तेष्वेव विक्रिया |
तस्माद्दोषौषधादीनि परीक्ष्य दशतत्वतः ||३२६||
कुर्याच्चिकित्सितं प्राज्ञो न योगैरेव केवलम् |
निवृत्तोऽपि पुनर्व्याधिः स्वल्पेनायाति हेतुना ||३२७||
क्षीणे मार्गीकृते देहे शेषः सूक्ष्म इवानलः |
तस्मात्तमनुबध्नीयात् प्रयोगेणानपायिना ||३२८||
सिद्ध्यर्थं प्राक्प्रयुक्तस्य सिद्धस्याप्यौषधस्य तु |
काठिन्यादूनभावाद्वा दोषोऽन्तः कुपितो महान् ||३२९||
पथ्यैर्मृद्वल्पतां नीतो मृदुदोषकरो भवेत् |
पथ्यमप्यश्नतस्तस्माद्यो व्याधिरुपजायते ||३३०||
ज्ञात्वैवं वृद्धिमभ्यासमथवा तस्य कारयेत् |
सातत्यात्स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम् ||३३१||
कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः |
मनसोऽर्थानुकूल्याद्धि तुष्टिरूर्जा रुचिर्बलम् ||३३२||
सुखोपभोगता च स्याद्व्याधेश्चातो बलक्षयः |
लौल्याद्दोषक्षयाद्व्याधेर्वैधर्म्याच्चापि या रुचिः ||३३३||
तासु पथ्योपचारः स्याद्योगेनाद्यं विकल्पयेत् |
तत्र श्लोकाः-
विंशतिर्व्यापदो योनेर्निदानं लिङ्गमेव च ||३३४||
चिकित्सा चापि निर्दिष्टा शिष्याणां हितकाम्यया |
शुक्रदोषास्तथा चाष्टौ निदानाकृतिभेषजैः ||३३५||
क्लैब्यान्युक्तानि चत्वारि चत्वारः प्रदरास्तथा |
तेषां निदानं लिङ्गं च भैषज्यं चैव कीर्तितम् ||३३६||
क्षीरदोषास्तथा चाष्टौ हेतुलिङ्गभिषग्जितैः |
रेतसो रजसश्चैव कीर्तितं शुद्धिलक्षणम् ||३३७||
उक्तानुक्तचिकित्सा च सम्यग्योगस्तथैव च |
देशादिगुणशंसा च कालः षङ्विध एव च ||३३८||
देशे देशे च यत् सात्म्यं यथा वैद्योऽपराध्यति |
चिकित्सा चापि निर्दिष्टा दोषाणां गूढचारिणाम् ||३३९||
यो हि सम्यङ्ग जानाति शास्त्रं शास्त्रार्थमेव च |
न कुर्यात् स क्रियां चित्रमचक्षुरिव चित्रकृत् ||३४०||
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते |
चिकित्सितमिदं स्थानं षष्ठं परिसमापितम् ||३४१||
0 Comments