Advertisement

Responsive Advertisement

Charak indriya Sthan Chapter 2








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातः पुष्पितकमिन्द्रियं व्याख्यास्यामह||||

इति ह स्माह भगवानात्रेयः||||

पुष्पं यथा पूर्वरूपं फलस्येह भविष्यतः|
तथा लिङ्गमरिष्टाख्यं पूर्वरूपं मरिष्यतः||||

अप्येवं तु भवेत् पुष्पं फलेनाननुबन्धि यत्|
फलं चापि भवेत् किञ्चिद्यस्य पुष्पं न पूर्वजम् ||||

न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते|
मरणं चापि तन्नास्ति यन्नारिष्टपुरःसरम्||||

मिथ्यादृष्टमरिष्टाभमनरिष्टमजानता|
अरिष्टं वाऽप्यसम्बुद्धमेतत् प्रज्ञापराधजम्||||

सम्बोधनार्थं तु लिङ्गैर्मरणपूर्वजैः|
पुष्पितानुपदेक्ष्यामो नरान् बहुविधैर्बहून् ||||

नानापुष्पोपमो गन्धो यस्य भाति दिवानिशम्|
पुष्पितस्य वनस्येव नानाद्रुमलतावतः||||

तमाहुः पुष्पितं धीरा नरं मरणलक्षणैः|
स ना संवत्सराद्देहं जहातीति विनिश्चयः||||

एवमेकैकशः पुष्पैर्यस्य गन्धः समो भवेत्|
इष्टैर्वा यदि वाऽनिष्टैः स च पुष्पित उच्यते||१०||

समासेनाशुभान् गन्धानेकत्वेनाथवा पुनः|
आजिघ्रेद्यस्य गात्रेषु तं विद्यात् पुष्पितं भिषक्||११||

आप्लुतानाप्लुते काये यस्य गन्धाः शुभाशुभाः|
व्यत्यासेनानिमित्ताः स्युः स च पुष्पित उच्यते||१२||

तद्यथा- चन्दनं कुष्ठं तगरागुरुणी मधु|
माल्यं मूत्रपुरीषे च मृतानि कुणपानि च||१३||

ये चान्ये विविधात्मानो गन्धा विविधयोनयः|
तेऽप्यनेनानुमानेन विज्ञेया विकृतिं गताः||१४||

इदं चाप्यतिदेशार्थं लक्षणं गन्धसंश्रयम्|
वक्ष्यामो यदभिज्ञाय भिषङ्मरणमादिशेत्||१५||

वियोनिर्विदुरो गन्धो यस्य गात्रेषु जायते|
इष्टो वा यदि वाऽनिष्टो न स जीवति तां समाम्||१६||

एतावद्गन्धविज्ञानं,...|१७|

...रसज्ञानमतः परम्|
आतुराणां शरीरेषु वक्ष्यते विधिपूर्वकम्||१७||

यो रसः प्रकृतिस्थानां नराणां देहसम्भवः|
स एषां चरमे काले विकारं भजते द्वयम्||१८||

कश्चिदेवास्यवैरस्यमत्यर्थमुपपद्यते|
स्वादुत्वमपरश्चापि विपुलं भजते रसः||१९||

तमनेनानुमानेन विद्याद्विकृतिमागतम्|
मनुष्यो हि मनुष्यस्य कथं रसमवाप्नुयात्||२०||

मक्षिकाश्चैव यूकाश्च दंशाश्च मशकैः सह|
विरसादपसर्पन्ति जन्तोः कायान्मुमूर्षतः||२१||

अत्यर्थरसिकं कायं कालपक्वस्य मक्षिकाः|
अपि स्नातानुलिप्तस्य भृशमायान्ति सर्वशः||२२||

तत्र श्लोकः-
सामान्येन मयोक्तानि लिङ्गानि रसगन्धयोः|
पुष्पितस्य नरस्यैतत्फलं मरणमादिशेत्||२३||

Post a Comment

0 Comments