Advertisement

Responsive Advertisement

Charak Indriya chapter 1








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातोवर्णस्वरीयमिन्द्रियंव्याख्यास्यामः||||
इति ह स्माह भगवानात्रेयः||||

इह खलु वर्णश्च स्वरश्च गन्धश्च रसश्च स्पर्शश्च चक्षुश्च श्रोत्रं च घ्राणं च रसनं च स्पर्शनं च सत्त्वं च भक्तिश्च शौचं च शीलंचाचारश्च स्मृतिश्चाकृतिश्च प्रकृतिश्च विकृतिश्च बलं च ग्लानिश्च मेधा च हर्षश्च रौक्ष्यं च स्नेहश्च तन्द्रा चारम्भश्च गौरवं चलाघवं च गुणाश्चाहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्च व्याधिश्च व्याधिपूर्वरूपं च वेदनाश्चोपद्रवाश्च च्छाया चप्रतिच्छाया च स्वप्नदर्शनं च दूताधिकारश्च पथि चौत्पातिकं चातुरकुले भावावस्थान्तराणि च भेषजसंवृत्तिश्च भेषजविकारयुक्तिश्चेति परीक्ष्याणि प्रत्यक्षानुमानोपदेशैरायुषः प्रमाणावशेषं जिज्ञासमानेन भिषजा||||

तत्र तु खल्वेषां परीक्ष्याणां कानिचित् पुरुषमनाश्रितानि, कानिचिच्च पुरुषसंश्रयाणि|
तत्र यानि पुरुषमनाश्रितानि तान्युपदेशतो युक्तितश्च परीक्षेत, पुरुषसंश्रयाणि पुनः प्रकृतितोविकृतितश्च||||

तत्रप्रकृतिर्जातिप्रसक्ताच,कुलप्रसक्ताच,देशानुपातिनीच, कालानुपातिनी च वयोऽनुपातिनीच,प्रत्यात्मनियताचेति|
जातिकुलदेशकालवयःप्रत्यात्मनियता हि तेषां तेषां पुरुषाणां ते ते भावविशेषाभवन्ति||||

विकृतिःपुनर्लक्षणनिमित्ताच,लक्ष्यनिमित्ताच,निमित्तानुरूपाच||||

तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे लक्षणान्येव हेतुभूतानि भवन्ति दैवात्; लक्षणानि हि कानिचिच्छरीरोपनिबद्धानि भवन्ति, यानि हि तस्मिंस्तस्मिन् काले तत्राधिष्ठानमासाद्य तां तां विकृतिमुत्पादयन्ति||

लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं यथोक्तं निदानेषु||

निमित्तानुरूपा तु निमित्तार्थानुकारिणी या, तामनिमित्तां निमित्तमायुषः प्रमाणज्ञानस्येच्छन्ति भिषजो भूयश्चायुषः क्षयनिमित्तां प्रेतेलिङ्गानुरूपां, यामायुषोऽन्तर्गतस्य ज्ञानार्थमुपदिशन्ति धीराः|
यां चाधिकृत्य पुरुषसंश्रयाणि मुमूर्षतां लक्षणान्युपदेक्ष्यामः|
इत्युद्देशः|
तं विस्तरेणानुव्याख्यास्यामः||||

तत्रादितएववर्णाधिकारः|
तद्यथा- कृष्णः, श्यामः, श्यामावदातः, अवदातश्चेति प्रकृतिवर्णाः शरीरस्य भवन्ति; यांश्चापरानुपेक्षमाणो विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्तज्ज्ञैः||||

नीलश्यावताम्रहरितशुक्लाश्च वर्णाः शरीरस्य वैकारिका भवन्ति; यांश्चापरानुपेक्षमाणो विद्यात्प्राग्विकृतानभूत्वोत्पन्नान् | इति प्रकृतिविकृतिवर्णा भवन्त्युक्ताः शरीरस्य|
तत्र प्रकृतिवर्णमर्धशरीरे विकृतिवर्णमर्धशरीरे, द्वावपि वर्णौ मर्यादाविभक्तौ दृष्ट्वा; यद्येवं सव्यदक्षिणविभागेन, यद्येवंपूर्वपश्चिमविभागेन, यद्युत्तराधरविभागेन, यद्यन्तर्बहिर्विभागेन, आतुरस्यारिष्टमिति विद्यात्; एवमेव वर्णभेदोमुखेऽप्यन्यत्र वर्तमानो मरणाय भवति||||

वर्णभेदेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याताः||१०||

तथा पिप्लुव्यङ्गतिलकालकपिडकानामन्यतमस्यानने जन्मातुरस्यैवमेवाप्रशस्तं विद्यात्||११||

नखनयनवदनमूत्रपुरीषहस्तपादौष्ठादिष्वपि च वैकारिकोक्तानां वर्णानामन्यतमस्य प्रादुर्भावो हीनबलवर्णेन्द्रियेषुलक्षणमायुषः क्षयस्य भवति||१२||

यच्चान्यदपि किञ्चिद्वर्णवैकृतमभूतपूर्वं सहसोत्पद्येतानिमित्तमेव हीयमानस्यातुरस्य शश्वत्, तदरिष्टमिति विद्यात्| इति वर्णाधिकारः||१३||

स्वराधिकारस्तु- हंसक्रौञ्चनेमिदुन्दुभिकलविङ्ककाककपोतजर्जरानुकाराः प्रकृतिस्वरा भवन्ति; यांश्चापरानुपेक्षमाणोऽपि विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्तज्ज्ञैः|
एडककलग्रस्ताव्यक्तगद्गदक्षामदीनानुकीर्णास्त्वातुराणां स्वरा वैकारिका भवन्ति; यांश्चापरानुपेक्षमाणोऽपि विद्यात्प्राग्विकृतानभूत्वोत्पन्नान् | इति प्रकृतिविकृतिस्वरा व्याख्याता भवन्ति||१४||

तत्र प्रकृतिवैकारिकाणां स्वराणामाश्वभिनिर्वृत्तिः स्वरानेकत्वमेकस्य चानेकत्वमप्रशस्तम्| इतिस्वराधिकारः||१५||

इति वर्णस्वराधिकारौ यथावदुक्तौ मुमूर्षतां लक्षणज्ञानार्थमिति||१६||

भवन्तिचात्र-
यस्यवैकारिकोवर्णःशरीरउपपद्यते| अर्धे वा यदि वा कृत्स्ने निमित्तं न च नास्ति सः||१७||

नीलंवायदिवाश्यावंताम्रंवायदिवाऽरुणम्| मुखार्धमन्यथा वर्णो मुखार्धेऽरिष्टमुच्यते||१८||

स्नेहोमुखार्धेसुव्यक्तोरौक्ष्यमर्धमुखेभृशम्| ग्लानिरर्धे तथा हर्षो मुखार्धे प्रेतलक्षणम्||१९||

तिलकाःपिप्लवोव्यङ्गाराजयश्चपृथग्विधाः| आतुरस्याशुजायन्तेमुखे प्राणान् मुमुक्षतः||२०||

पुष्पाणिनखदन्तेषुपङ्कोवादन्तसंश्रितः| चूर्णको वाऽपि दन्तेषु लक्षणं मरणस्य तत्||२१||

ओष्ठयोःपादयोःपाण्योरक्ष्णोर्मूत्रपुरीषयोः| नखेष्वपिचवैवर्ण्यमेतत्क्षीणबलेऽन्तकृत्||२२||

यस्यनीलावुभावोष्ठौपक्वजाम्बवसन्निभौ| मुमूर्षुरिति तं विद्यान्नरो धीरो गतायुषम्||२३||

एकोवायदिवाऽनेकोयस्यवैकारिकःस्वरः| सहसोत्पद्यते जन्तोर्हीयमानस्नास्ति सः||२४||

यच्चान्यदपिकिञ्चित्स्याद्वैकृतंस्वरवर्णयोः| बलमांसविहीनस्यतत्सर्वं मरणोदयम् ||२५||

तत्रश्लोकः-
इति वर्णस्वरावुक्तौ लक्षणार्थं मुमूर्षताम्| यस्तौ सम्यग्विजानाति नायुर्ज्ञाने स मुह्यति||२६||

 

 

Post a Comment

0 Comments