Advertisement

Responsive Advertisement

Charak Indriya Chapter 10








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातः सद्योमरणीयमिन्द्रियं व्याख्यास्यामः||||

इति ह स्माह भगवानात्रेयः||||

सद्यस्तितिक्षतः प्राणाँल्लक्षणानि पृथक् पृथक्|

अग्निवेश! प्रवक्ष्यामि संस्पृष्टो यैर्न जीवति||||

वाताष्ठीला सुसंवृद्धा तिष्ठन्ती दारुणा हृदि|

तृष्णयाऽभिपरीतस्य सद्यो मुष्णाति जीवितम्||||

पिण्डिके शिथिलीकृत्य जिह्मीकृत्य च नासिकाम्|

वायुः शरीरे विचरन् सद्यो मुष्णाति जीवितम्||||

भ्रुवौ यस्य च्युते स्थानादन्तर्दाहश्च दारुणः|

तस्य हिक्काकरो रोगः सद्यो मुष्णाति जीवितम्||||

क्षीणशोणितमांसस्य वायुरूर्ध्वगतिश्चरन्|

उभे मन्ये समे यस्य सद्यो मुष्णाति जीवितम्||||

अन्तरेण गुदं गच्छन् नाभिं च सहसाऽनिलः|

कृशस्य वङ्क्षणौ गृह्णन् सद्यो मुष्णाति जीवितम्||||

वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः|

स्तिमितस्यायताक्षस्य सद्यो मुष्णाति जीवितम्||||

हृदयं च गुदं चोभे गृहीत्वा मारुतो बली|

दुर्बलस्य विशेषेण सद्यो मुष्णाति जीवितम्||१०||

वङ्क्षणं च गुदं चोभे गृहीत्वा मारुतो बली|

श्वासं सञ्जनयञ्जन्तोः सद्यो मुष्णाति जीवितम्||११||

नाभिं मूत्रं बस्तिशीर्षं पुरीषं चापि मारुतः|

प्रच्छिन्नं जनयञ्छूलं सद्यो मुष्णाति जीवितम्||१२||

भिद्येते वङ्क्षणौ यस्य वातशूलैः समन्ततः|

भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः||१३||

आप्लुतं मारुतेनेह शरीरं यस्य केवलम्|

भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्||१४||

शरीरं शोफितं यस्य वाताशोफेन देहिनः|

भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्||१५||

आमाशयसमुत्थाना यस्य स्यात् परिकर्तिका|

भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः||१६||

पक्वाशयसमुत्थाना यस्य स्यात् परिकर्तिका|

तृष्णा गुदग्रहश्चोग्रः सद्यो जह्यात् स जीवितम्||१७||

पक्वाशयमधिष्ठाय हत्वा सञ्ज्ञां च मारुतः|

कण्ठे घुर्घुरकं कृत्वा सद्यो हरति जीवितम्||१८||

दन्ताः कर्दमदिग्धाभा मुखं चूर्णकसन्निभम्|

सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः||१९||

तृष्णाश्वासशिरोरोगमोहदौर्बल्यकूजनैः|

स्पृष्टः प्राणाञ्जहात्याशु शकृद्भेदेन चातुरः||२०||

तत्र श्लोकः-
एतानि खलु लिङ्गानि यः सम्यगवबुध्यते|
स जीवितं च मर्त्यानां मरणं चावबुध्यते||२१||

Post a Comment

0 Comments