For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
गोमयचूर्णीयेन्द्रियोपक्रमः
अथातो
गोमयचूर्णीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
यस्य गोमयचूर्णाभं चूर्णं
मूर्धनि जायते|
सस्नेहं भ्रश्यते चैव
मासान्तं तस्य जीवितम्||३||
निकषन्निव यः पादौ
च्युतांसः परिधावति|
विकृत्या न स
लोकेऽस्मिंश्चिरं वसति मानवः||४||
यस्य स्नातानुलिप्तस्य
पूर्वं शुष्यत्युरो भृशम्|
आर्द्रेषु सर्वगात्रेषु
सोऽर्धमासं न जीवति||५||
यमुद्दिश्यातुरं वैद्यः
संवर्तयितुमौषधम् |
यतमानो न शक्नोति दुर्लभं
तस्य जीवितम्||६||
विज्ञातं बहुशः सिद्धं
विधिवच्चावचारितम्|
न सिध्यत्यौषधं यस्य नास्ति
तस्य चिकित्सितम्||७||
आहारमुपयुञ्जानो भिषजा
सूपकल्पितम्|
यः फलं तस्य नाप्नोति
दुर्लभं तस्य जीवितम्||८||
दूताधिकारे वक्ष्यामो
लक्षणानि मुमूर्षताम्|
यानि दृष्ट्वा भिषक्
प्राज्ञः प्रत्याख्यायादसंयमम्||९||
मुक्तकेशेऽथवा नग्ने
रुदत्यप्रयतेऽथवा|
भिषगभ्यागतं दृष्ट्वा दूतं
मरणमादिशेत्||१०||
सुप्ते भिषजि ये
दूताश्छिन्दत्यपि च भिन्दति|
आगच्छन्ति भिषक् तेषां न
भर्तारमनुव्रजेत्||११||
जुह्वत्यग्निं तथा पिण्डान्
पितृभ्यो निर्वपत्यपि|
वैद्ये दूता य आयान्ति ते
घ्नन्ति प्रजिघांसवः||१२||
कथयत्यप्रशस्तानि
चिन्तयत्यथवा पुनः|
वैद्ये दूता
मनुष्याणामागच्छन्ति मुमूर्षताम्||१३||
मृतदग्धविनष्टानि भजति
व्याहरत्यपि|
अप्रशस्तानि चान्यानि
वैद्ये दूता मुमूर्षताम्||१४||
विकारसामान्यगुणे देशे
कालेऽथवा भिषक्|
दूतमभ्यागतं दृष्ट्वा
नातुरं तमुपाचरेत्||१५||
दीनभीतद्रुतत्रस्तमलिनामसतीं
स्त्रियम्|
त्रीन् व्याकृतींश्च
षण्डांश्च दूतान् विद्यान्मुमूर्षताम्||१६||
अङ्गव्यसनिनं दूतं लिङ्गिनं
व्याधितं तथा|
सम्प्रेक्ष्य चोग्रकर्माणं
न वैद्यो गन्तुमर्हति||१७||
आतुरार्थमनुप्राप्तं
खरोष्ट्ररथवाहनम्|
दूतं दृष्ट्वा
भिषग्विद्यादातुरस्य पराभवम्||१८||
पलालबुसमांसास्थिकेशलोमनखद्विजान्|
मार्जनीं मुसलं
शूर्पमुपानच्चर्म विच्युतम् [१] ||१९||
तृणकाष्ठतुषाङ्गारं
स्पृशन्तो लोष्टमश्म च|
तत्पूर्वदर्शने दूता
व्याहरन्ति मुमूर्षताम्||२०||
यस्मिंश्च दूते ब्रुवति
वाक्यमातुरसंश्रयम्|
पश्येन्निमित्तमशुभं तं च
नानुव्रजेद्भिषक्||२१||
तथा व्यसनिनं प्रेतं
प्रेतालङ्कारमेव वा|
भिन्नं दग्धं विनष्टं वा
तद्वादीनि वचांसि वा||२२||
रसो वा कटुकस्तीव्रो गन्धो
वा कौणपो महान्|
स्पर्शो वा विपुलः क्रूरो
यद्वाऽन्यदशुभं भवेत्||२३||
तत्पूर्वमभितो वाक्यं
वाक्यकालेऽथवा पुनः|
दूतानां व्याहृतं श्रुत्वा
धीरो मरणमादिशेत्||२४||
इति दूताधिकारोऽयमुक्तः
कृत्स्नो मुमूर्षताम्|२५|
पथ्यातुरकुलानां च
वक्ष्याम्यौत्पातिकं पुनः||२५||
अवक्षुतमथोत्क्रुष्टं
स्खलनं पतनं तथा|
आक्रोशः सम्प्रहारो वा
प्रतिषेधो विगर्हणम्||२६||
वस्त्रोष्णीषोत्तरासङ्गश्छत्रोपानद्युगाश्रयम्|
व्यसनं दर्शनं चापि
मृतव्यसनिनां तथा||२७||
चैत्यध्वजपताकानां
पूर्णानां पतनानि च|
हतानिष्टप्रवादाश्च दूषणं
भस्मपांशुभिः||२८||
पथच्छेदो बिडालेन शुना
सर्पेण वा पुनः|
मृगद्विजानां क्रूराणां
गिरो दीप्तां दिशं प्रति||२९||
शयनासनयानानामुत्तानानां च
दर्शनम्|
इत्येतान्यप्रशस्तानि
सर्वाण्याहुर्मनीषिणः||३०||
एतानि पथि वैद्येन
पश्यताऽऽतुरवेश्मनि|
शृण्वता च न गन्तव्यं
तदागारं विपश्चिता||३१||
इत्यौत्पातिकमाख्यातं पथि
वैद्यविगर्हितम्|३२|
इमामपि च बुध्येत
गृहावस्थां मुमूर्षताम्||३२||
प्रवेशे
पूर्णकुम्भाग्निमृद्बीजफलसर्पिषाम्|
वृषब्राह्मणरत्नान्नदेवतानां
च निर्गतिम्||३३||
अग्निपूर्णानि पात्राणि
भिन्नानि विशिखानि च|
भिषङ् मुमूर्षतां वेश्म
प्रविशन्नेव पश्यति||३४||
छिन्नभिन्नानि दग्धानि
भग्नानि मृदितानि च|
दुर्बलानि च सेवन्ते
मुमूर्षोर्वैश्मिका जनाः||३५||
शयनं वसनं यानं गमनं भोजनं
रुतम्|
श्रूयतेऽमङ्गलं यस्य नास्ति
तस्य चिकित्सितम्||३६||
शयनं वसनं यानमन्यं वाऽपि
परिच्छदम्|
प्रेतवद्यस्य कुर्वन्ति
सुहृदः प्रेत एव सः||३७||
अन्नं व्यापद्यतेऽत्यर्थं
ज्योतिश्चैवोपशाम्यति|
निवाते सेन्धनं यस्य तस्य
नास्ति चिकित्सितम्||३८||
आतुरस्य गृहे यस्य
भिद्यन्ते वा पतन्ति वा|
अतिमात्रममत्राणि दुर्लभं
तस्य जीवितम्||३९||
भवन्ति चात्र-
यद्द्वादशभिरध्यायैर्व्यासतः
परिकीर्तितम्|
मुमूर्षतां मनुष्याणां
लक्षणं जीवितान्तकृत्||४०||
तत् समासेन वक्ष्यामः
पर्यायान्तरमाश्रितम्|
पर्यायवचनं
ह्यर्थविज्ञानायोपपद्यते||४१||
अत्यर्थं पुनरेवेयं विवक्षा
नो विधीयते|
तस्मिन्नेवाधिकरणे यत्
पूर्वमभिशब्दितम्||४२||
वसतां चरमं कालं शरीरेषु
शरीरिणाम्|
अभ्युग्राणां विनाशाय
देहेभ्यः प्रविवत्सताम्||४३||
इष्टांस्तितिक्षतां
प्राणान् कान्तं वासं जिहासताम्|
तन्त्रयन्त्रेषु भिन्नेषु
तमोऽन्त्यं प्रविविक्षताम्||४४||
विनाशायेह रूपाणि
यान्यवस्थान्तराणि च|
भवन्ति तानि वक्ष्यामि
यथोद्देशं यथागमम्||४५||
प्राणाः समुपतप्यन्ते
विज्ञानमुपरुध्यते|
वमन्ति बलमङ्गानि चेष्टा व्युपरमन्ति
च||४६||
इन्द्रियाणि विनश्यन्ति
खिलीभवति चेतना |
औत्सुक्यं भजते सत्त्वं
चेतो भीराविशत्यपि||४७||
स्मृतिस्त्यजति मेधा च
ह्रीश्रियौ चापसर्पतः|
उपप्लवन्ते पाप्मान
ओजस्तेजश्च नश्यति||४८||
शीलं व्यावर्ततेऽत्यर्थं
भक्तिश्च परिवर्तते|
विक्रियन्ते प्रतिच्छायाश्छायाश्च
विकृतिं प्रति||४९||
शुक्रं प्रच्यवते
स्थानादुन्मार्गं भजतेऽनिलः|
क्षयं मांसानि गच्छन्ति
गच्छत्यसृगपि क्षयम्||५०||
ऊष्माणः प्रलयं यान्ति
विश्लेषं यान्ति सन्धयः|
गन्धा विकृतिमायान्ति भेदं
वर्णस्वरौ तथा||५१||
वैवर्ण्यं भजते कायः
कायच्छिद्रं विशुष्यति|
धूमः सञ्जायते मूर्ध्नि
दारुणाख्यश्च चूर्णकः||५२||
सततस्पन्दना देशाः शरीरे
येऽभिलक्षिताः|
ते स्तम्भानुगताः सर्वे न
चलन्ति कथञ्चन||५३||
गुणाः शरीरदेशानां
शीतोष्णमृदुदारुणाः|
विपर्यासेन वर्तन्ते
स्थानेष्वन्येषु तद्विधाः||५४||
नखेषु जायते पुष्पं पङ्को
दन्तेषु जायते|
जटाः पक्ष्मसु जायन्ते
सीमन्ताश्चापि मूर्धनि||५५||
भेषजानि न संवृत्तिं
प्राप्नुवन्ति यथारुचि|
यानि चाप्युपपद्यन्ते तेषां
वीर्यं न सिध्यति||५६||
नानाप्रकृतयः क्रूरा विकारा
विविधौषधाः|
क्षिप्रं समभिवर्तन्ते
प्रतिहत्य बलौजसी||५७||
शब्दः स्पर्शो रसो रूपं
गन्धश्चेष्टा विचिन्तितम् |
उत्पद्यन्तेऽशुभान्येव
प्रतिकर्मप्रवृत्तिषु||५८||
दृश्यन्ते दारुणाः स्वप्ना
दौरात्म्यमुपजायते|
प्रेष्याः प्रतीपतां यान्ति
प्रेताकृतिरुदीर्यते||५९||
प्रकृतिर्हीयतेऽत्यर्थं
विकृतिश्चाभिवर्धते|
कृत्स्नमौत्पातिकं
घोरमरि(नि)ष्टमुपलक्ष्यते||६०||
इत्येतानि मनुष्याणां
भवन्ति विनशिष्यताम्|
लक्षणानि यथोद्देशं
यान्युक्तानि यथागमम्||६१||
मरणायेह रूपाणि पश्यताऽपि
भिषग्विदा|
अपृष्टेन न वक्तव्यं मरणं
प्रत्युपस्थितम्||६२||
पृष्टेनापि न वक्तव्यं तत्र
यत्रोपघातकम्|
आतुरस्य भवेद्दुःखमथवाऽन्यस्य
कस्यचित्||६३||
अब्रुवन्मरणं तस्य
नैनमिच्छेच्चिकित्सितुम्|
यस्य पश्येद्विनाशाय
लिङ्गानि कुशलो भिषक्||६४||
लिङ्गेभ्यो मरणाख्येभ्यो
विपरीतानि पश्यता|
लिङ्गान्यारोग्यमागन्तु
वक्तव्यं भिषजा ध्रुवम्||६५||
दूतैरौत्पातिकैर्भावैः
पथ्यातुरकुलाश्रयैः|
आतुराचारशीलेष्टद्रव्यसम्पत्तिलक्षणैः||६६||
स्वाचारं हृष्टमव्यङ्गं
यशस्यं शुक्लवाससम्|
अमुण्डमजटं दूतं
जातिवेशक्रियासमम्||६७||
अनुष्ट्रखरयानस्थमसन्ध्यास्वग्रहेषु
च|
अदारुणेषु
नक्षत्रेष्वनुग्रेषु ध्रुवेषु च||६८||
विना चतुर्थीं नवमीं विना
रिक्तां चतुर्दशीम्|
मध्याह्नमर्धरात्रं च
भूकम्पं राहुदर्शनम्||६९||
विना देशमशस्तं
चाशस्तौत्पातिकलक्षणम्|
दूतं प्रशस्तमव्यग्रं
निर्दिशेदागतं भिषक्||७०||
दध्यक्षतद्विजातीनां
वृषभाणां नृपस्य च||७१||
रत्नानां पूर्णकुम्भानां
सितस्य तुरगस्य च|
सुरध्वजपताकानां फलानां
यावकस्य च||७२||
कन्यापुंवर्धमानानां
बद्धस्यैकपशोस्तस्था|
पृथिव्या उद्धृतायाश्च
वह्नेः प्रज्वलितस्य च||७३||
मोदकानां सुमनसां शुक्लानां
चन्दनस्य च|
मनोज्ञस्यान्नपानस्य
पूर्णस्य शकटस्य च||७४||
नृभिर्धेन्वाः सवत्साया
वडवायाः स्त्रियास्तथा|
जीवञ्जीवकसिद्धार्थसारसप्रियवादिनाम्||७५||
हंसानां शतपत्राणां चाषाणां
शिखिनां तथा|
मत्स्याजद्विजशङ्खानां
प्रियङ्गूनां घृतस्य च||७६||
रुचकादर्शसिद्धार्थरोचनानां
च दर्शनम्|
गन्धः सुरभिर्वर्णश्च
सुशुक्लो मधुरो रसः||७७||
मृगपक्षिमनुष्याणां
प्रशस्ताश्च गिरः शुभाः|
छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः||७८||
भेरीमृदङ्गशङ्खानां शब्दाः
पुण्याहनिस्वनाः|
वेदाध्ययनशब्दाश्च सुखो
वायुः प्रदक्षिणः||७९||
पथि वेश्मप्रवेशे तु
विद्यादारोग्यलक्षणम्|८०|
मङ्गलाचारसम्पन्नः सातुरो
वैश्मिको जनः||८०||
श्रद्दधानोऽनुकूलश्च
प्रभूतद्रव्यसङ्ग्रहः|
धनैश्वर्यसुखावाप्तिरिष्टलाभः
सुखेन च||८१||
द्रव्याणां तत्र योग्यानां
योजना सिद्धिरेव च|
गृहप्रासादशैलानां
नागानामृषभस्य च||८२||
हयानां पुरुषाणां च स्वप्ने
समधिरोहणम्|
सोमार्काग्निद्विजातीनां
गवां नॄणां पयस्विनाम्||८३||
अर्णवानां प्रतरणं वृद्धिः
सम्बाधनिःसृतिः|
स्वप्ने देवैः सपितृभिः
प्रसन्नैश्चाभिभाषणम्||८४||
दर्शनं शुक्लवस्त्राणां
ह्रदस्य विमलस्य च|
मांसमत्स्यविषामेध्यच्छत्रादर्शपरिग्रहः||८५||
स्वप्ने सुमनसां चैव
शुक्लानां दर्शनं शुभम्|
अश्वगोरथयानं च यानं
पूर्वोत्तरेण च|
रोदनं पतितोत्थानं द्विषतां
चावमर्दनम्||८६||
सत्त्वलक्षणसंयोगो
भक्तिर्वैद्यद्विजातिषु|
साध्यत्वं न च
निर्वेदस्तदारोग्यस्य लक्षणम्||८७||
आरोग्याद्बलमायुश्च सुखं च
लभते महत्|
इष्टांश्चाप्यपरान् भावान्
पुरुषः शुभलक्षणः||८८||
तत्र श्लोकौ-
उक्तं
गोमयचूर्णीये मरणारोग्यलक्षणम्|
दूतस्वप्नातुरोत्पातयुक्तिसिद्धिव्यपाश्रयम्||८९||
इतीदमुक्तं प्रकृतं यथातथं तदन्ववेक्ष्यं सततं
भिषग्विदा|
तथा हि
सिद्धिं च यशश्च शाश्वतं स सिद्धकर्मा लभते धनानि च||९०||
0 Comments