For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातोऽणुज्योतीयमिन्द्रियं
व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
अणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा|
रतिं न लभते
याति परलोकं समान्तरम्||३||
बलिं बलिभृतो यस्य प्रणीतं
नोपभुञ्जते|
लोकान्तरगतः पिण्डं
भुङ्क्ते संवत्सरेण सः||४||
सप्तर्षीणां समीपस्थां यो न
पश्यत्यरुन्धतीम्|
संवत्सरान्ते जन्तुः स
सम्पश्यति महत्तमः||५||
विकृत्या विनिमित्तं यः
शोभामुपचयं धनम्|
प्राप्नोत्यतो वा विभ्रंशं
समान्तं तस्य जीवितम्||६||
भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्|
षडेतानि
निवर्तन्ते षड्भिर्मासैर्मरिष्यतः||७||
धमनीनामपूर्वाणां
जालमत्यर्थशोभनम्|
ललाटे दृश्यते यस्य
षण्मासान्न स जीवति||८||
लेखाभिश्चन्द्रवक्राभिर्ललाटमुपचीयते|
यस्य तस्यायुषः
षड्भिर्मासैरन्तं समादिशेत्||९||
शरीरकम्पः सम्मोहो गतिर्वचनमेव
च|
मत्तस्येवोपलभ्यन्ते यस्य
मासं न जीवति||१०||
रेतोमूत्रपुरीषाणि यस्य
मज्जन्ति चाम्भसि|
स मासात् स्वजनद्वेष्टा
मृत्युवारिणि मज्जति||११||
हस्तपादं मुखं चोभे
विशेषाद्यस्य शुष्यतः|
शूयेते वा विना देहात् स च
मासं न जीवति||१२||
ललाटे मूर्ध्नि बस्तौ वा नीला
यस्य प्रकाशते|
राजी बालेन्दुकुटिला न स
जीवितुमर्हति||१३||
प्रवालगुटिकाभासा यस्य
गात्रे मसूरिकाः|
उत्पद्याशु विनश्यन्ति न
चिरात् स विनश्यति||१४||
ग्रीवावमर्दो
बलवाञ्जिह्वाश्वयथुरेव च|
ब्रध्नास्यगलपाकश्च यस्य
पक्वं तमादिशेत्||१५||
सम्भ्रमोऽतिप्रलापोऽतिभेदोऽस्थ्नामतिदारुणः
|
कालपाशपरीतस्य त्रयमेतत्
प्रवर्तते||१६||
प्रमुह्य लुञ्चयेत् केशान्
परिगृह्णात्यतीव च|
नरः स्वस्थवदाहारमबलः
कालचोदितः||१७||
समीपे चक्षुषोः कृत्वा
मृगयेताङ्गुलीकरम्|
स्मयतेऽपि च कालान्ध
ऊर्ध्वगानिमिषेक्षणः ||१८||
शयनादासनादङ्गात् काष्ठात्
कुड्यादथापि वा|
असन्मृगयते किञ्चित् स
मुह्यन् कालचोदितः||१९||
अहास्यहासी सम्मुह्यन्
प्रलेढि दशनच्छदौ|
शीतपादकरोच्छ्वासो यो नरो न
स जीवति||२०||
आह्वयंस्तं समीपस्थं स्वजनं
जनमेव वा|
महामोहावृतमनाः पश्यन्नपि न
पश्यति||२१||
अयोगमतियोगं वा शरीरे मतिमान् भिषक्|
खादीनां
युगपद्दृष्ट्वा भेषजं नावचारयेत्||२२||
अतिप्रवृद्ध्या रोगाणां
मनसश्च बलक्षयात्|
वासमुत्सृजति क्षिप्रं
शरीरी देहसञ्ज्ञकम्||२३||
वर्णस्वरावग्निबलं
वागिन्द्रियमनोबलम्|
हीयतेऽसुक्षये निद्रा
नित्या भवति वा न वा||२४||
भिषग्भेषजपानान्नगुरुमित्रद्विषश्च
ये|
वशगाः सर्व एवैते
बोद्धव्याः समवर्तिनः||२५||
एतेषु रोगः क्रमते भेषजं
प्रतिहन्यते|
नैषामन्नानि भुञ्जीत न
चोदकमपि स्पृशेत्||२६||
पादाः समेताश्चत्वारः सम्पन्नाः साधकैर्गुणैः|
व्यर्था
गतायुषो द्रव्यं विना नास्ति गुणोदयः||२७||
परीक्ष्यमायुर्भिषजा नीरुजस्यातुरस्य च|
आयुर्ज्ञानफलं
कृत्स्नमायुर्ज्ञे ह्यनुवर्तते||२८||
तत्र श्लोकः-
क्रियापथमतिक्रान्ताः
केवलं देहमाप्लुताः|
चिह्नं
कुर्वन्ति यद्दोषास्तदरिष्टं निरुच्यते||२९||
0 Comments