Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 1 (1.1) Abhyamlakiyam Rasayan








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्|

प्रायश्चित्तं प्रशमनंप्रकृतिस्थापनं हितम्||||

विद्याद्भेषजनामानि,...||

भेषजं द्विविधं तत्|

स्वस्थस्योर्जस्करं किञ्चित् किञ्चिदार्तस्य रोगनुत्||||

अभेषजं द्विविधं बाधनं सानुबाधनम्||

स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम्||||

प्रायः, प्रायेण रोगाणां द्वितीयं प्रशमेमतम्|

प्रायःशब्दोविशेषार्थो ह्युभयं ह्युभयार्थकृत्||||

दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणंवयः|

प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम्||||

वाक्सिद्धिं प्रणतिंकान्तिं लभते ना रसायनात्|

लाभोपायो हि शस्तानां रसादीनां रसायनम्||||

अपत्यसन्तानकरं यत् सद्यः सम्प्रहर्षणम्|

वाजीवातिबलो येनयात्यप्रतिहतः स्त्रियः||||

भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते|

जीर्यतोऽप्यक्षयं शुक्रं फलवद्येन दृश्यते||१०||

प्रभूतशाखः शाखीव येन चैत्यो यथा महान्|

भवत्यर्च्योबहुमतः प्रजानां सुबहुप्रजः||११||

सन्तानमूलं येनेह प्रेत्य चानन्त्यमश्नुते|

यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत्||१२||

स्वस्थस्योर्जस्करं त्वेतद्द्विविधं प्रोक्तमौषधम्|

यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते||१३||

चिकित्सितार्थ एतावान् विकाराणां यदौषधम्|

रसायनविधिश्चाग्रे वाजीकरणमेव ||१४||

अभेषजमिति ज्ञेयं विपरीतं यदौषधात्|

तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम्||१५||

रसायनानां द्विविधं प्रयोगमृषयो विदुः|

कुटीप्रावेशिकं चैव वातातपिकमेव ||१६||

कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते|

नृपवैद्यद्विजातीनां साधूनांपुण्यकर्मणाम्||१७||

निवासे निर्भये शस्ते प्राप्योपकरणे पुरे|

दिशि पूर्वोत्तरस्यां सुभूमौ कारयेत् कुटीम्||१८||

विस्तारोत्सेधसम्पन्नां त्रिगर्भां सूक्ष्मलोचनाम्|

घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम्||१९||

शब्दादीनामशस्तानामगम्यं स्त्रीविवर्जिताम्|

इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम्||२०||

अथोदगयने शुक्ले तिथिनक्षत्रपूजिते|

मुहूर्तकरणोपेते प्रशस्तेकृतवापनः||२१||

धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः|

विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्तयन्||२२||

देवताःपूजयित्वाऽग्रे द्विजातींश्च प्रदक्षिणम्|

देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत्कुटीम्||२३||

तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः|

रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामिशोधनम्||२४||

हरीतकीनां चूर्णानि सैन्धवामलके गुडम्|

वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम्||२५||

पिबेदुष्णाम्बुना जन्तुःस्नेहस्वेदोपपादितः|

तेन शुद्धशरीराय कृतसंसर्जनाय ||२६||

त्रिरात्रं यावकं दद्यात् पञ्चाहंवाऽपि सर्पिषा|

सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः||२७||

शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत्|

वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत्||२८||

हरीतकीं पञ्चरसामुष्णामलवणां शिवाम्|

दोषानुलोमनीं लघ्वींविद्याद्दीपनपाचनीम्||२९||

आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम्|

सर्वरोगप्रशमनींबुद्धीन्द्रियबलप्रदाम्||३०||

कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयंमदम्|

अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम्||३१||

हृद्रोगं सशिरोरोगमतीसारमरोचकम्|

कासं प्रमेहमानाहं प्लीहानमुदरं नवम्||३२||

कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन्|

श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम्||३३||

स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः|

स्मृतिबुद्धिप्रमोहं जयेच्छीघ्रं हरीतकी||३४||

(अजीर्णिनो रूक्षभुजः स्त्रीमद्यविषकर्शिताः|

सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्चये)||३५||

तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि|

यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः||३६||

अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः|

हरीतकीनां शस्यानि भिषगामलकस्य ||३७||

ओषधीनां परा भूमिर्हिमवाञ् शैलसत्तमः|

तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु||३८||

आपूर्णरसवीर्याणि काले काले यथाविधि|

आदित्यपवनच्छायासलिलप्रीणितानि ||३९||

यान्यजग्धान्यपूतीनि निर्व्रणान्यगदानि |

तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम्||४०||

पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान्|

हरीतकीसहस्रं त्रिगुणामलकं नवम्||४१||

विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम्|

विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम्||४२||

बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम्|

पुनर्नवां शूर्पपर्ण्यौ बलामेरण्डमेव ||४३||

जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम्|

शरेक्षुदर्भकाशानां शालीनां मूलमेव ||४४||

इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत्|

भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि||४५||

दशभागावशेषं तु पूतं तं ग्राहयेद्रसम्|

हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि ||४६||

तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः|

विनीय तस्मिन्निर्यूहे चूर्णानीमानिदापयेत्||४७||

मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्यच|

मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा||४८||

मधुकस्य हरिद्राया वचायाः कनकस्य |

भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा||४९||

सितोपलासहस्रं चूर्णितंतुलयाऽधिकम्|

तैलस्य द्व्याढकं तत्र दद्यात्त्रीणि सर्पिषः||५०||

साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाऽग्निना|

ज्ञात्वालेह्यमदग्धं शीतं क्षौद्रेण संसृजेत्||५१||

क्षौद्रप्रमाणं स्नेहार्धं तत् सर्वं घृतभाजने|

तिष्ठेत्सम्मूर्च्छितं तस्य मात्रां काले प्रयोजयेत्||५२||

या नोपरुन्ध्यादाहारमेकं मात्रा जरांप्रति|

षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते||५३||

वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः|

रसायनमिदं प्राश्यबभूवुरमितायुषः||५४||

मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः|

वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः||५५||

मेधास्मृतिबलोपेताश्चिररात्रं तपोधनाः|

ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया||५६||

रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत्|

दीर्घमायुर्वयश्चाग्र्यं कामांश्चेष्टान् समश्नुते||५७||

(इति ब्राह्मरसायनम्)|

यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत्| तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृताचन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा, पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य, जीर्णे षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति||५८||

भवन्ति चात्र-

इदं रसायनं ब्राह्मं महर्षिगणसेवितम्|

भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः||५९||

कान्तः प्रजानांसिद्धार्थश्चन्द्रादित्यसमद्युतिः|

श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते||६०||

धरणीधरसारश्च वायुना समविक्रमः|

भवत्यविषं चास्य गात्रे सम्पद्यते विषम्||६१||

(इति द्वितीयं ब्राह्मरसायनम्)|

बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला|

पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम्||६२||

शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु|

अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी||६३||

मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम्|

विदारी वृषमूलानि काकोली काकनासिका||६४||

एषां पलोन्मितान् भागाञ्छतान्यामलकस्य |

पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत्||६५||

ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम्|

तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः||६६||

पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्|

मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत्||६७||

षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्|

चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा||६८||

पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्|

इत्ययं च्यवनप्राशः परमुक्तो रसायनः||६९||

कासश्वासहरश्चैव विशेषेणोपदिश्यते|

क्षीणक्षतानां वृद्धानां बालानांचाङ्गवर्धनः||७०||

स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्|

पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति||७१||

अस्य मात्रांप्रयुञ्जीत योपरुन्ध्यान्न भोजनम्|

अस्य प्रयोगाच्च्यवनःसुवृद्धोऽभूत्पुनर्युवा||७२||

मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम्|

स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादंपवनानुलोम्यम्||७३||

रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्|

जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य||७४||

(इति च्यवनप्राशः)|

अथामलकहरीतकीनामामलकबिभीतकानांहरीतकीबिभीतकानामामलकहरीतकीबिभीतकानां वा पलाशत्वगवनद्धानांमृदाऽवलिप्तानांकुकूलस्विन्नानामकुलकानां पलसहस्रमुलूखले सम्पोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना; तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनम् अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च, अयं रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलमभिसमीक्ष्यप्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः, अतः परं यथासुखविहारः कामभक्ष्यः स्यात्| अनेन प्रयोगेणर्षयः पुनर्युवत्वमवापुर्बभूवुश्चानेकवर्षशतजीविनो निर्विकाराः परं शरीरबुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया तपः||७५||

(इतिचतुर्थामलकरसायनम्)|

हरीतक्यामलकबिभीतकपञ्चपञ्चमूलनिर्यूहेपिप्पलीमधुकमधूककाकोलीक्षीरकाकोल्यात्मगुप्ताजीवकर्षभकक्षीरशुक्लाकल्कसम्प्रयुक्तेनविदारीस्वरसेनक्षीराष्टगुणसम्प्रयुक्तेन सर्पिषः कुम्भं साधयित्वा प्रयुञ्जानोऽग्निबलसमांमात्रां जीर्णे क्षीरसर्पिर्भ्यां शालिषष्टिकमुष्णोदकानुपानमश्नञ्जराव्याधिपापाभिचारव्यपगतभयःशरीरेन्द्रियबुद्धिबलमतुलमुपलभ्याप्रतिहतसर्वारम्भःपरमायुरनवाप्नुयात्|७६||

(इति पञ्चमो हरीतकीयोगः)|

हरीतक्यामलकबिभीतकहरिद्रास्थिराबलाविडङ्गामृतवल्लीविश्वभेषजमधुकपिप्पलीसोमवल्कसिद्धेन क्षीरसर्पिषा मधुशर्कराभ्यामपि सन्नीयामलकस्वरसशतपरिपीतमामलकचूर्णमयश्चूर्णचतुर्भागसम्प्रयुक्तंपाणितलमात्रं प्रातः प्रातः प्राश्य यथोक्तेन विधिना सायं मुद्गयूषेण पयसा वा ससर्पिष्कंशालिषष्टिकान्नमश्नीयात्, त्रिवर्षप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठति,श्रुतमवतिष्ठते, सर्वामयाः प्रशाम्यन्ति, विषमविषं भवति गात्रे, गात्रमश्मवत्स्थिरीभवति, अधृष्यो भूतानांभवति||७७||

भवन्तिचात्र-

यथाऽमराणाममृतं यथा भोगवतांसुधा|

तथाऽभवन्महर्षीणां रसायनविधिपुरा||७८||

जरां दौर्बल्यं नातुर्यं निधनं |

जग्मुर्वर्षसहस्राणि रसायनपराः पुरा||७९||

केवलं दीर्घमिहायुरश्नुते रसायनं योविधिवन्निषेवते|

गतिं देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम्||८०||

तत्रश्लोकः-

अभयामलकीयेऽस्मिन् षड्योगाः परिकीर्तिताः|

रसायनानां सिद्धानामायुर्यैरनुवर्तते||८१||

 

Post a Comment

0 Comments