Advertisement

Responsive Advertisement

Charak Chikitsa Chpater 4 raktpitt chikitsa adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः ||||

इति स्माह भगवानात्रेयः||||

विहरन्तं जितात्मानं पञ्चगङ्गे पुनर्वसुम्|
प्रणम्योवाच निर्मोहमग्निवेशोऽग्निवर्चसम्||||

भगवन् रक्तपित्तस्य हेतुरुक्तः सलक्षणः|
वक्तव्यं यत् परं तस्य वक्तुमर्हसि तद्गुरो||||

गुरुरुवाच-

महागदं महावेगमग्निवच्छीघ्रकारि |
हेतुलक्षणविच्छीघ्रं रक्तपित्तमुपाचरेत्||||

तस्योष्णं तीक्ष्णमम्लं कटूनि लवणानि |
घर्मश्चान्नविदाहश्च हेतुः पूर्वं निदर्शितः||||

तैर्हेतुभिः समुत्क्लिष्टं पित्तं रक्तं प्रपद्यते|
तद्योनित्वात् प्रपन्नं वर्धतेतत् प्रदूषयत्||||

तस्योष्मणा द्रवो धातुर्धातोर्धातोः प्रसिच्यते|
स्विद्यतस्तेन संवृद्धिं भूयस्तदधिगच्छति||||

संयोगाद्दूषणात्तत्तु सामान्याद्गन्धवर्णयोः|
रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः||||

प्लीहानं यकृच्चैव तदधिष्ठाय वर्तते|
स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम्||१०||

सान्द्रं सपाण्डु सस्नेहं पिच्छिलं कफान्वितम्|
श्यावारुणं सफेनं तनु रूक्षं वातिकम्||११||

रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम्|
मेचकागारधूमाभमञ्जनाभं पैत्तिकम्||१२||

संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्|१३|

एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते||१३||

यत्त्रिदोषमसाध्यं तन्मन्दाग्नेरतिवेगवत्|व्याधिभिः
क्षीणदेहस्य वृद्धस्यानश्नतश्च यत्||१४||

गतिरूर्ध्वमधश्चैव रक्तपित्तस्य दर्शिता|
ऊर्ध्वा सप्तविधद्वारा द्विद्वारा त्वधरा गतिः||१५||

सप्त च्छिद्राणि शिरसि द्वे चाधः,साध्यमूर्ध्वगम्|
याप्यं त्वधोगं, मार्गौ तु साध्यं प्रपद्यते||१६||

यदा तु सर्वच्छिद्रेभ्यो रोमकूपेभ्य एव
तामसङ्ख्येयां गतिं तस्याहुरान्तिकीम्||१७||

यच्चोभयाभ्यां मार्गाभ्यामतिमात्रं प्रवर्तते|
तुल्यं कुणपगन्धेन रक्तं कृष्णमतीव ||१८||

संसृष्टं कफवाताभ्यां कण्ठे सज्जति चापि यत्|
यच्चाप्युपद्रवैः सर्वैर्यथोक्तैः समभिद्रुतम्||१९||

हारिद्रनीलहरितताम्रैर्वर्णैरुपद्रुतम्|
क्षीणस्य कासमानस्य यच्च सिध्यति||२०||

यद्विदोषानुगं यद्वा शान्तं शान्तं प्रकुप्यति|
मार्गान्मार्गं चरेद्यद्वा याप्यं पित्तमसृक् चतत्||२१||

एकमार्गं बलवतो नातिवेगं नवोत्थितम्|
रक्तपित्तं काले साध्यं स्यान्निरुपद्रवम्||२२||

स्निग्धोष्णमुष्णरूक्षं रक्तपित्तस्य कारणम्|
अधोगस्योत्तरं प्रायः, पूर्वं स्यादूर्ध्वगस्य तु||२३||

ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम्|
द्विमार्गं कफवाताभ्यामुभाभ्यामनुबध्यते||२४||

अक्षीणबलमांसस्य रक्तपित्तं यदश्नतः|
तद्दोषदुष्टमुत्क्लिष्टं नादौ स्तम्भनमर्हति||२५||

गलग्रहं पूतिनस्यं मूर्च्छायमरुचिं ज्वरम्|
गुल्मं प्लीहानमानाहं किलासंकृच्छ्रमूत्रताम्||२६||

कुष्ठान्यर्शांसि वीसर्पं वर्णनाशं भगन्दरम्|
बुद्धीन्द्रियोपरोधं कुर्यात् स्तम्भितमादितः||२७||

तस्मादुपेक्ष्यं बलिनो बलदोषविचारिणा |
रक्तपित्तं प्रथमतप्रवृद्धंसिद्धिमिच्छता||२८||

प्रायेण हि समुत्क्लिष्टमामदोषाच्छरीरिणाम्|
वृद्धिं प्रयातिपित्तासृक्तस्मात्तल्लङ्घ्यमादितः||२९||

मार्गौ दोषानुबन्धं निदानं प्रसमीक्ष्य |
लङ्घनं रक्तपित्तादौ तर्पणं वा प्रयोजयेत्||३०||

ह्रीबेरचन्दनोशीरमुस्तपर्पटकैः शृतम्|
केवलं शृतशीतं वा दद्यात्तोयं पिपासवे||३१||

ऊर्ध्वगे तर्पणं पूर्वं पेयां पूर्वमधोगते|
कालसात्म्यानुबन्धज्ञो दद्यात् प्रकृतिकल्पवित्||३२||

जलं खर्जूरमृद्वीकामधूकैः सपरूषकैः|
शृतशीतं प्रयोक्तव्यं तर्पणार्थे सशर्करम्||३३||

तर्पणं सघृतक्षौद्रं लाजचूर्णैः प्रदापयेत्|
ऊर्ध्वगं रक्तपित्तं तत् पीतं काले व्यपोहति||३४||

मन्दाग्नेरम्लसात्म्याय तत् साम्लमपि कल्पयेत्|
दाडिमामलकैर्विद्वानम्लार्थंचानुदापयेत्||३५||

शालिषष्टिकनीवारकोरदूषप्रशान्तिकाः|
श्यामाकश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम्||३६||

मुद्गा मसूराश्चणकाः समकुष्ठाढकीफलाः|
प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम्||३७||

पटोलनिम्बवेत्राग्रप्लक्षवेतसपल्लवाः|
किराततिक्तकं शाकं गण्डीरः सकठिल्लकः||३८||

कोविदारस्य पुष्पाणि काश्मर्यस्याथ शाल्मलेः|
अन्नपानविधौ शाकंयच्चान्यद्रक्तपित्तनुत्||३९||

शाकार्थं शाकसात्म्यानां तच्छस्तं रक्तपित्तिनाम्|
स्विन्नं वा सर्पिषा भृष्टं यूषवद्वा विपाचितम्||४०||

पारावतान् कपोतांश्च लावान् रक्ताक्षवर्तकान्|
शशान् कपिञ्जलानेणान् हरिणान्कालपुच्छकान्||४१||

रक्तपित्ते हितान् विद्याद्रसांस्तेषां प्रयोजयेत्|
ईषदम्लाननम्लान् वा घृतभृष्टान् सशर्करान्||४२||

कफानुगे यूषशाकं दद्याद्वातानुगे रसम्|
रक्तपित्ते यवागूनामतः कल्पः प्रवक्ष्यते||४३||

पद्मोत्पलानां किञ्जल्कः पृश्निपर्णी यङ्गुकाः|
जले साध्या रसे तस्मिन् पेया स्याद्रक्तपित्तिनाम्||४४||

चन्दनोशीरलोध्राणां रसे तद्वत् नागरे|
किराततिक्तकोशीरमुस्तानां तद्वदेव ||४५||

धातकीधन्वयासाम्बुबिल्वानां वा रसे शृता|
मसूरपृश्निपर्ण्योर्वा स्थिरामुद्गरसेऽथ वा||४६||

रसे हरेणुकानां वा सघृते सबलारसे|
सिद्धाः पारावतादीनां रसे वा स्युः पृथक्पृथक्||४७||

इत्युक्ता रक्तपित्तघ्न्यः शीताः समधुशर्कराः|
यवाग्वः कल्पना चैषा कार्या मांसरसेष्वपि||४८||

शशः सवास्तुकः शस्तो विबन्धे रक्तपित्तिनाम्|
वातोल्बणे तित्तिरिः स्यादुदुम्बररसे शृतः||४९||

मयूरः प्लक्षनिर्यूहे न्यग्रोधस्य कुक्कुटः|
रसे बिल्वोत्पलादीनांवर्तकक्रकरौ हितौ||५०||

तृष्यते तिक्तकैः सिद्धं तृष्णाघ्नं वा फलोदकम्|
सिद्धं विदारिगन्धाद्यैरथवाशृतशीतलम्||५१||

ज्ञात्वा दोषावनुबलौ बलमाहारमेव |
जलं पिपासवे दद्याद्विसर्गादल्पशोऽपि वा||५२||

निदानं रक्तपित्तस्य यत्किञ्चित् सम्प्रकाशितम्|
जीवितारोग्यकामैस्तन्न सेव्यं रक्तपित्तिभिः||५३||

इत्यन्नपानं निर्दिष्टं क्रमशो रक्तपित्तनुत्|५४|

वक्ष्यते बहुदोषाणां कार्यं बलवतां यत्||५४||

अक्षीणबलमांसस्य यस्य सन्तर्पणोत्थितम्|
बहुदोषं बलवतो रक्तपित्तं शरीरिणः||५५||

काले संशोधनार्हस्य तद्धरेन्निरुपद्रवम्|
विरेचनेनोर्ध्वभागमधोगं वमनेन ||५६||

त्रिवृतामभयां प्राज्ञःफलान्यारग्वधस्य वा|
त्रायमाणां गवाक्ष्या वा मूलमामलकानि वा||५७||

विरेचनं प्रयुञ्जीत प्रभूतमधुशर्करम्|
रसः शस्यते तेषां रक्तपित्ते विशेषतः||५८||

वमनं मदनोन्मिश्रो मन्थः सक्षौद्रशर्करः|
सशर्करं वा सलिलमिक्षूणां रस एव वा||५९||

वत्सकस्य फलं मुस्तं मदनं मधुकं मधु|
अधोवहे रक्तपित्ते वमनं परमुच्यते||६०||

ऊर्ध्वगे शुद्धकोष्ठस्य तर्पणादिः क्रमो हितः|
अधोगते यवाग्वादिर्न चेत्स्यान्मारुतोबली||६१||

बलमांसपरिक्षीणं शोकभाराध्वकर्शितम्|
ज्वलनादित्यसन्तप्तमन्यैर्वा क्षीणमामयैः||६२||

गर्भिणीं स्थविरं बालं रूक्षाल्पप्रमिताशिनम्|
अवम्यमविरेच्यं वा यं पश्येद्रक्तपित्तिनम्||६३||

शोषेण सानुबन्धं वा तस्य संशमनी या|
शस्यते रक्तपित्तस्य परं साऽथ प्रवक्ष्यते||६४||

अटरूषकमृद्वीकापथ्याक्वाथः सशर्करः|
मधुमिश्रः श्वासकासरक्तपित्तनिबर्हणः||६५||

अटरूषकनिर्यूहे प्रियङ्गुं मृत्तिकाञ्जने|
विनीयलोध्रं क्षौद्रं रक्तपित्तहरं पिबेत्||६६||

पद्मकं पद्मकिञ्जल्कं दूर्वां वास्तूकमुत्पलम्|
नागपुष्पं लोध्रं तेनैव विधिना पिबेत्||६७||

प्रपौण्डरीकं मधुकं मधु चाश्वशकृद्रसे|
यवासभृङ्गरजसोर्मूलं वा गोशकृद्रसे||६८||

विनीय रक्तपित्तघ्नं पेयं स्यात्तण्डुलाम्बुना|
युक्तं वा मघुसर्पिर्भ्यां लिह्याद्गोश्वशकृद्रसम्||६९||

खदिरस्य प्रियङ्गूणां कोविदारस्य शाल्मलेः|
पुष्पचूर्णानि मधुना लिह्यान्ना रक्तपित्तिकः||७०||

शृङ्गाटकानां लाजानां मुस्तखर्जूरयोरपि|
लिह्याच्चूर्णानि मधुना पद्मानां केशरस्य ||७१||

धन्वजानामसृग्लिह्यान्मधुना मृगपक्षिणाम्|
सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावतं शकृत्||७२||

उशीरकालीयकलोध्रपद्मकप्रियङ्गुकाकट्फलशङ्खगैरिकाः|
पृथक् पृथक् चन्दनतुल्यभागिकाःशर्करास्तण्डुलधावनाप्लुताः||७३||

रक्तं सपित्तं तमकं पिपासां दाहं पीताः शमयन्ति सद्यः|
किराततिक्तं क्रमुकं समुस्तं कमलोत्पले ||७४||

ह्रीबेरमूलानि पटोलपत्रं दुरालभा पर्पटको मृणालम्|
धनञ्जयोदुम्बरवेतसत्वङ्न्यग्रोधशालेययवासकत्वक्||७५||

तुगालतावेतसतण्डुलीयंससारिवंमोचरसः समङ्गा|
पृथक् पृथक् चन्दनयोजितानि तेनैव कल्पेन हितानि तत्र||७६||

निशिस्थिता वा स्वरसीकृता वा कल्कीकृतावा मृदिताः शृता वा|
एते समस्ता गणशः पृथग्वा रक्तं सपित्तं शमयन्ति योगाः||७७||

मुद्गाः सलाजाःसयवाः कृष्णाः सोशीरमुस्ताःसह चन्दनेन|
बलाजले पर्युषिताः कषाया रक्तं सपित्तं शमयन्त्युदीर्णम्||७८||

वैदूर्यमुक्तामणिगैरिकाणां मृच्छङ्खहेमामलकोदकानाम्|
मधूदकस्येक्षुरसस्य चैव पानाच्छमं गच्छति रक्तपित्तम्||७९||

उशीरपद्मोत्पलचन्दनानां पक्वस्य लोष्टस्य यः प्रसादः
सशर्करः क्षौद्रयुतः सुशीतो रक्तातियोगप्रशमाय देयः||८०||

प्रियङ्गुकाचन्दनलोध्रसारिवामधूकमुस्ताभयधातकीजलम्|
समृत्प्रसादं सह यष्टिकाम्बुना सशर्करं रक्तनिबर्हणं परम्||८१||

कषाययोगैर्विविधैर्यथोक्तैर्दीप्तेऽनले श्लेष्मणि निर्जिते |
यद्रक्तपित्तं प्रशमं याति तत्रानिलःस्यादनु तत्र कार्यम्||८२||

छागं पयः स्यात् परमं प्रयोगे गव्यं शृतं पञ्चगुणे जले वा|
सशर्करं माक्षिकसम्प्रयुक्तं विदारिगन्धादिगणैः शृतं वा||८३||

द्राक्षाशृतं नागरकैःशृतं वा बलाशृतं गोक्षुरकैः शृतं वा|
सजीवकं सर्षभकं ससर्पिः पयः प्रयोज्यं सितया शृतं वा||८४||

शतावरीगोक्षुरकैः शृतं वा शृतं पयो वाऽप्यथ पर्णिनीभिः|
रक्तं निहन्त्याशु विशेषतस्तु यन्मूत्रमार्गात् सरुजं याति||८५||

विशेषतो विट्पथसम्प्रवृत्ते पयो मतं मोचरसेन सिद्धम्|
वटावरोहैर्वटशुङ्गकैर्वा ह्रीबेरनीलोत्पलनागरैर्वा||८६||

कषाययोगान् पयसा पुरा वा पीत्वाऽनु चाद्यात् पयसैव शालीन्|
कषाययोगैरथवा विपक्वमेतैः पिबेत् सर्पिरतिस्रवे ||८७||

वासां सशाखां सपलाशमूलां कृत्वा कषायं कुसुमानि चास्याः|
प्रदाय कल्कं विपचेद्घृतं तत् सक्षौद्रमाश्वेवनिहन्ति रक्तम्||८८||

इति वासाघृतम्|

पलाशवृन्तस्वरसेन सिद्धं तस्यैव कल्केन मधुद्रवेण|
लिह्याद्घृतं वत्सककल्कसिद्धं तद्वत् समङ्गोत्पललोध्रसिद्धम्||८९||

स्यात्त्रायमाणाविधिरेष एव सोदुम्बरे चैव पटोलपत्रे |
सर्पींषि पित्तज्वरनाशनानि सर्वाणि शस्तानि रक्तपित्ते||९०||

अभ्यङ्गयोगाः परिषेचनानि सेकावगाहाः शयनानि वेश्म|
शीतो विधिर्बस्तिविधानमग्र्यं पित्तज्वरे यत् प्रशमाय दिष्टम्||९१||

तद्रक्तपित्ते निखिलेन कार्यं कालं मात्रां पुरा समीक्ष्य|
सर्पिर्गुडा ये हिताः क्षतेभ्यस्ते रक्तपित्तं शमयन्ति सद्यः||९२||

कफानुबन्धे रुधिरे सपित्ते कण्ठागते स्याद्ग्रथिते प्रयोगः|
युक्तस्य युक्त्यामधुसर्पिषोश्च क्षारस्य चैवोत्पलनालजस्य||९३||

मृणालपद्मोत्पलकेशराणां तथा पलाशस्य तथा प्रियङ्गोः|
तथा मधूकस्य तथाऽसनस्य क्षाराः प्रयोज्या विधिनैव तेन||९४||

शतावरीदाडिमतिन्तिडीकं काकोलिमेदे मधुकं विदारीम्|
पिष्ट्वा मूलं फलपूरकस्य घृतं पचेत् क्षीरचतुर्गुणं ज्ञः||९५||

कासज्वरानाहविबन्धशूलं तद्रक्तपित्तं घृतं निहन्यात्|
यत् पञ्चमूलैरथ पञ्चभिर्वा सिद्धं घृतं तच्च तदर्थकारि||९६||

इति शतावर्यादिघृतम्|

कषाययोगा इहोपदिष्टास्ते चावपीडे भिषजा प्रयोज्याः|
घ्राणात् प्रवृत्तं रुधिरं सपित्तं यदा भवेन्निःसृतदुष्टदोषम्||९७||

रक्ते प्रदुष्टे ह्यवपीडबन्धे दुष्टप्रतिश्यायशिरोविकाराः|
रक्तं सपूयं कुणपश्चगन्धः स्याद् घ्राणनाशः कृमयश्चदुष्टाः||९८||

नीलोत्पलं गैरिकशङ्खयुक्तं सचन्दनं स्यात्तु सिताजलेन|
नस्यं तथाऽऽम्रास्थिरसः समङ्गा सधातकीमोचरसः सलोध्रः||९९||

द्राक्षारसस्येक्षुरसस्य नस्यं क्षीरस्य दूर्वास्वरसस्य चैव|
यवासमूलानि पलाण्डुमूलं नस्यं तथा दाडिमपुष्पतोयम्||१००||

प्रियालतैलं मधुकं पयश्च सिद्धं घृतं माहिषमाजिकं वा|
आम्रास्थिपूर्वैः पयसा नस्यं ससारिवैः स्यात् कमलोत्पलैश्च||१०१||

भद्रश्रियं लोहितचन्दनं प्रपौण्डरीकं कमलोत्पले |
उशीरवानीरजलं मृणालं सहस्रवीर्या मधुकं पयस्या||१०२||

शालीक्षुमूलानि यवासगुन्द्रामूलं नलानां कुशकाशयोश्च|
कुचन्दनं शैवलमप्यनन्ता कालानुसार्या तृणमूलमृद्धिः||१०३||

मूलापुष्पाणि वारिजानां प्रलेपनं पुष्करिणीमृदश्च|
उदुम्बराश्वत्थमधूकलोध्राः कषायवृक्षाः शिशिराश्च सर्वे||१०४||

प्रदेहकल्पे परिषेचने तथाऽवगाहे घृततैलसिद्धौ|
रक्तस्य पित्तस्य शान्तिमिच्छन् भद्रश्रियादीनि भिषक् प्रयुञ्ज्यात्||१०५||

धारागृहं भूमिगृहं सुशीतं वनं रम्यं जलवातशीतम्|
वैदूर्यमुक्तामणिभाजनानास्पर्शाश्च दाहे शिशिराम्बुशीताः||१०६||

पत्राणि पुष्पाणि वारिजानां क्षौमं शीतं कदलीदलानि|
प्रच्छादनार्थं शयनासनानां पद्मोत्पलानां दलाः प्रशस्ताः||१०७||

प्रियङ्गुकाचन्दनरूषितानां स्पर्शाः प्रियाणां वराङ्गनानाम्|
दाहे प्रशस्ताः सजलाः सुशीताः पद्मोत्पलानां कलापवाताः||१०८||

सरिद्ध्रदानां हिमवद्दरीणां चन्द्रोदयानां कमलाकराणाम्|
मनोऽनुकूलाः शिशिराश्च सर्वाः कथाः सरक्तं शमयन्ति पित्तम्||१०९||

तत्र श्लोकौ-

हेतुं वृद्धिं सञ्ज्ञां स्थानं लिङ्गंपृथक् प्रदुष्टस्य|
मार्गौ साध्यमसाध्यं याप्यं कार्यक्रमं चैव||११०||

पानान्नमिष्टमेव वर्ज्यं संशोधनं शमनं |
गुरुरुक्तवान्यथावच्चिकित्सिते रक्तपित्तस्य||१११||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेचिकित्सितस्थाने रक्तपित्तचिकित्सितं नाम चतुर्थोऽध्यायः||||

 

Post a Comment

0 Comments