Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 5 gulm chikitsa








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातो गुल्मचिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

सर्वप्रजानां पितृवच्छरण्यः पुनर्वसुर्भूतभविष्यदीशः|

चिकित्सितं गुल्मनिबर्हणार्थं प्रोवाच सिद्धं वदतां वरिष्ठः||||

विट्श्लेष्मपित्तातिपरिस्रवाद्वा तैरेव वृद्धैः परिपीडनाद्वा|

वेगैरुदीर्णैर्विहतैरधो वा बाह्यभिघातैरतिपीडनैर्वा||||

रूक्षान्नपानैरतिसेवितैर्वा शोकेन मिथ्याप्रतिकर्मणा वा|

विचेष्टितैर्वा विषमातिमात्रैः कोष्ठे प्रकोपं समुपैति वायुः||||

कफं पित्तं दुष्टवायुरुद्धूय मार्गान् विनिबद्ध्य ताभ्याम्|

हृन्नाभिपार्श्वोदरबस्तिशूलं करोत्यथो याति बद्धमार्गः||||

पक्वाशये पित्तकफाशये वा स्थितः स्वतन्त्रः परसंश्रयो वा|

स्पर्शोपलभ्यः परिपिण्डितत्वाद्गुल्मो यथादोषमुपैति नाम||||

बस्तौ ना भ्यां हृदि पार्श्वयोर्वा स्थानानि गुल्मस्य भवन्ति पञ्च|

पञ्चात्मकस्य प्रभवं तु तस्य वक्ष्यामि लिङ्गानि चिकित्सितं ||||

रूक्षान्नपानं विषमातिमात्रं विचेष्टितं वेगविनिग्रहश्च|

शोकोऽभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः||||

यः स्थानसंस्थानरुजां विकल्पं विड्वातसङ्गं गलवक्त्रशोषम्|

श्यावारुणत्वं शिशिरज्वरं हृत्कुक्षिपार्श्वांसशिरोरुजं ||१०||

करोति जीर्णेऽभ्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च|

वातात् गुल्मो तत्र रूक्षं कषायतिक्तं कटु चोपशेते||११||

कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा|

आमाभिघातो रुधिरं दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम्||१२||

ज्वरः पिपासा वदनाङ्गरागः शूलं महज्जीर्यति भोजने |

स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम्||१३||

शीतं गुरु स्निग्धमचेष्टनं सम्पूरणं प्रस्वपनं दिवा |

गुल्मस्य हेतुः कफसम्भवस्य सर्वस्तु दिष्टो निचयात्मकस्य||१४||

स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि|

शैत्यं रुगल्पा कठिनोन्नतत्वं गुल्मस्य रूपाणि कफात्मकस्य||१५||

निमित्तलिङ्गान्युपलभ्य गुल्मे द्विदोषजे दोषबलाबलं |

व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम्||१६||

महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम्|

मनःशरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत्||१७||

ऋतावनाहारतया भयेन विरूक्षणैर्वेगविनिग्रहैश्च|

संस्तम्भनोल्लेखनयोनिदोषैर्गुल्मः स्त्रियं रक्तभवोऽभ्युपैति||१८||

यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात् सशूलः समगर्भलिङ्गः|

रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः||१९||

क्रियाक्रममतः सिद्धं गुल्मिनां गुल्मनाशनम्|

प्रवक्ष्याम्यत ऊर्ध्वं योगान् गुल्मनिबर्हणान्||२०||

रूक्षव्यायामजं गुल्मं वातिकं तीव्रवेदनम्|

बद्धविण्मारुतं स्नेहैरादितः समुपाचरेत्||२१||

भोजनाभ्यञ्जनैः पानैर्निरूहैः सानुवासनैः|

स्निग्धस्य भिषजा स्वेदः कर्तव्यो गुल्मशान्तये||२२||

स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम्|

भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति||२३||

स्नेहपानं हितं गुल्मे विशेषेणोर्ध्वनाभिजे|

पक्वाशयगते बस्तिरुभयं जठराश्रये||२४|| 

दीप्तेऽग्नौ वातिके गुल्मे विबन्धेऽनिलवर्चसोः|

बृंहणान्यन्नपानानि स्निग्धोष्णानि प्रयोजयेत्||२५||

 

पुनः पुनः स्नेहपानं निरूहाः सानुवासनाः|

प्रयोज्या वातगुल्मेषु कफपित्तानुरक्षिणा||२६||

कफो वाते जितप्राये पित्तं शोणितमेव वा|

यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते||२७||

यथोल्बणस्य दोषस्य तत्र कार्यं भिषग्जितम्|

आदावन्ते मध्ये मारुतं परिरक्षता||२८||

वातगुल्मे कफो वृद्धो हत्वाऽग्निमरुचिं यदि|

हृल्लासं गौरवं तन्द्रां जनयेदुल्लिखेत्तु तम्||२९||

शूलानाहविबन्धेषु गुल्मे वातकफोल्बणे|

वर्तयो गुटिकाश्चूर्णं कफवातहरं हितम्||३०||

पित्तं वा यदि संवृद्धं सन्तापं वातगुल्मिनः|

कुर्याद्विरेच्यः भवेत् सस्नेहैरानुलोमिकैः||३१||

गुल्मो यद्यनिलादीनां कृते सम्यग्भिषग्जिते|

प्रशाम्यति रक्तस्य सोऽवसेकात् प्रशाम्यति||३२||

स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम्|

रूक्षोष्णेन तु सम्भूते सर्पिः प्रशमनं परम्||३३||

पित्तं वा पित्तगुल्मं वा ज्ञात्वा पक्वाशयस्थितम्|

कालविन्निर्हरेत् सद्यः सतिक्तैः क्षीरबस्तिभिः||३४||

पयसा वा सुखोष्णेन सतिक्तेन विरेचयेत्|

भिषगग्निबलापेक्षी सर्पिषा तैल्वकेन वा||३५||

तृष्णाज्वरपरीदाहशूलस्वेदाग्निमार्दवे|

गुल्मिनामरुचौ चापि रक्तमेवावसेचयेत्||३६||

छिन्नमूला विदह्यन्ते गुल्मा यान्ति क्षयम्|

रक्तं हि व्यम्लतां याति, तच्च नास्ति चास्ति रुक्||३७||

हृतदोषं परिम्लानं जाङ्गलैस्तर्पितं रसैः|

समाश्वस्तं सशेषार्तिं सर्पिरभ्यासयेत् पुनः||३८||

रक्तपित्तातिवृद्धत्वात् क्रियामनुपलभ्य |

यदि गुल्मो विदह्येत शस्त्रं तत्र भिषग्जितम्||३९||

गुरुः कठिनसंस्थानो गूढमांसान्तराश्रयः|

अविवर्णः स्थिरश्चैव ह्यपक्वो गुल्म उच्यते||४०||

दाहशूलार्तिसङ्क्षोभस्वप्ननाशारतिज्वरैः|

विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत्||४१||

विदाहलक्षणे गुल्मे बहिस्तुङ्गे समुन्नते|

श्यावे सरक्तपर्यन्ते संस्पर्शे बस्तिसन्निभे||४२||

निपीडितोन्नते स्तब्धे सुप्ते [] तत्पार्श्वपीडनात्|

तत्रैव पिण्डिते शूले सम्पक्वं गुल्ममादिशेत्||४३||

तत्र धान्वन्तरीयाणामधिकारः क्रियाविधौ|

वैद्यानां कृतयोग्यानां व्यधशोधनरोपणे||४४||

अन्तर्भागस्य चाप्येतत् पच्यमानस्य लक्षणम्|

हृत्क्रोडशूनताऽन्तःस्थे [] बहिःस्थे पार्श्वनिर्गतिः||४५||

पक्वः स्रोतांसि सङ्क्लेद्य व्रजत्यूर्ध्वमधोऽपि वा|

स्वयम्प्रवृत्तं तं दोषमुपेक्षेत हिताशनैः [] ||४६||

दशाहं द्वादशाहं वा रक्षन् भिषगुपद्रवान्|

अत ऊर्ध्वं हितं पानं सर्पिषः सविशोधनम्||४७||

शुद्धस्य तिक्तं सक्षौद्रं प्रयोगे सर्पिरिष्यते|४८|

शीतलैर्गुरुभिः स्निग्धैर्गुल्मे जाते कफात्मके||४८||

अवम्यस्याल्पकायाग्नेः कुर्याल्लङ्घनमादितः|

मन्दोऽग्निर्वेदना मन्दा गुरुस्तिमितकोष्ठता||४९||

सोत्क्लेशा चारुचिर्यस्य गुल्मी वमनोपगः|

उष्णैरेवोपचर्यश्च कृते वमनलङ्घने||५०||

योज्यश्चाहारसंसर्गो भेषजैः कटुतिक्तकैः|

सानाहं सविबन्धं गुल्मं कठिनमुन्नतम्||५१||

दृष्ट्वाऽऽदौ स्वेदयेद्युक्त्या स्विन्नं विलयेद्भिषक्|

लङ्घनोल्लेखने स्वेदे कृतेऽग्नौ सम्प्रधुक्षिते||५२||

कफगुल्मी पिबेत् काले सक्षारकटुकं घृतम्|

स्थानादपसृतं ज्ञात्वा कफगुल्मं विरेचनैः||५३||

सस्नेहैर्बस्तिभिर्वाऽपि शोधयेद्दाशमूलिकैः|

मन्देऽग्नावनिले मूढे ज्ञात्वा सस्नेहमाशयम्||५४||

गुटिकाचूर्णनिर्यूहाः प्रयोज्याः कफगुल्मिनाम्|

कृतमूलं महावास्तुं कठिनं स्तिमितं गुरुम्||५५||

जयेत्कफकृतं गुल्मं क्षारारिष्टाग्निकर्मभिः||

दोषप्रकृतिगुल्मर्तुयोगं बुद्ध्वा कफोल्बणे||५६||

बलदोषप्रमाणज्ञः क्षारं गुल्मे प्रयोजयेत्|

एकान्तरं द्व्यन्तरं वा त्र्यहं विश्रम्य वा पुनः||५७||

शरीरबलदोषाणां वृद्धिक्षपणकोविदः|

श्लेष्माणं मधुरं स्निग्धं मांसक्षीरघृताशिनः||५८||

छित्त्वा छित्त्वाऽऽशयात् क्षारः क्षरत्वात क्षारयत्यधः|

मन्देऽग्नावरुचौ सात्म्ये मद्ये सस्नेहमश्नताम्||५९||

प्रयोज्या मार्गशुद्ध्यर्थमरिष्टाः कफगुल्मिनाम्||

लङ्घनोल्लेखनैः स्वेदैः सर्पिःपानैर्विरेचनैः||६०||

बस्तिभिर्गुटिकाचूर्णक्षारारिष्टगणैरपि|

श्लैष्मिकः कृतमूलत्वाद्यस्य गुल्मो शाम्यति||६१||

तस्य दाहो हृते रक्ते शरलोहादिभिर्हितः|

औष्ण्यात्तैक्ष्ण्याच्च शमयेदग्निर्गुल्मे कफानिलौ||६२||

तयोः शमाच्च सङ्घातो गुल्मस्य विनिवर्तते|

दाहे धान्वन्तरीयाणामत्रापि भिषजां बलम्||६३||

क्षारप्रयोगे भिषजां क्षारतन्त्रविदां बलम्||

व्यामिश्रदोषे व्यामिश्र एष एव क्रियाक्रमः||६४||

सिद्धानतः प्रवक्ष्यामि योगान् गुल्मनिबर्हणान्|

त्र्यूषणत्रिफलाधान्यविडङ्गचव्यचित्रकैः||६५||

कल्कीकृतैर्घृतं सिद्धं सक्षीरं वातगुल्मनुतिति त्र्यूषणादिघृतम् |

एत एव कल्काः स्युः कषायः पाञ्चमूलिकः ||६६||

द्विपञ्चमूलिको वाऽपि तद्घृतं गुल्मनुत् परमिति त्र्यूषणादिघृतमपरम्

(षट्पलं वा पिबेत् सर्पिर्यदुक्तं राजयक्ष्मणि)||६७||

प्रसन्नया वा क्षीरार्थं सुरया दाडिमेन वा|

दध्नः सरेण वा कार्यं घृतं मारुतगुल्मनुत्||६८||

हिङ्गुसौवर्चलाजाजीबिडदाडिमदीप्यकैः|

पुष्करव्योषधन्याकवेतसक्षारचित्रकैः||६९||

शटीवचाजगन्धैलासुरसैश्च विपाचितम्|

शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम्||७०||

इति हिङ्गुसौवर्चलाद्यं घृतम्

हपुषाव्योषपृथ्वीकाचव्यचित्रकसैन्धवैः|

साजाजीपिप्पलीमूलदीप्यकैर्विपचेद्घृतम्||७१||

सकोलमूलकरसं सक्षीरदधिदाडिमम्|

तत् परं वातगुल्मघ्नं शूलानाहविमोक्षणम्||७२||

योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान्|

बस्तिहृत्पार्श्वशूलं घृतमेतद्व्यपोहति||७३||

इति हपुषाद्यं घृतम्

पिप्पल्या पिचुरध्यर्धो दाडिमाद्द्विपलं पलम्|

धान्यात्पञ्च घृताच्छुण्ठ्याः कर्षः क्षीरं चतुर्गुणम्||७४||

सिद्धमेतैर्घृतं सद्यो वातगुल्मं व्यपोहति|

योनिशूलं शिरःशूलमर्शांसि विषमज्वरम्|| ||

इति पिप्पल्याद्यं घृतम्

घृतानामौषधगणा एते परिकीर्तिताः|

ते चूर्णयोगा वर्त्यस्ताः कषायास्ते गुल्मिनाम्||७६||

कोलदाडिमघर्माम्बुसुरामण्डाम्लकाञ्जिकैः|

शूलानाहहरी पेया बीजपूररसेन वा||७७||

चूर्णानि मातुलुङ्गस्य भावितानि रसेन वा|

कुर्याद्वर्तीः सगुटिका गुल्मानाहार्तिशान्तये||७८||

हिङ्गु त्रिकटुकं पाठां हपुषामभयां शटीम्|

अजमोदाजगन्धे तिन्तिडीकाम्लवेतसौ||७९||

दाडिमं पुष्करं धान्यमजाजीं चित्रकं वचाम्|

द्वौ क्षारौ लवणे द्वे चव्यं चैकत्र चूर्णयेत्||८०||

चूर्णमेतत् प्रयोक्तव्यमन्नपानेष्वनत्ययम्|

प्राग्भक्तमथवा पेयं मद्येनोष्णोदकेन वा||८१||

पार्श्वहृद्बस्तिशूलेषु गुल्मे वातकफात्मके|

आनाहे मूत्रकृच्छ्रे शूले गुदयोनिजे [] ||८२||

ग्रहण्यर्शोविकारेषु प्लीह्नि पाण्ड्वामयेऽरुचौ|

उरोविबन्धे हिक्कायां कासे श्वासे गलग्रहे||८३||

भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन वा|

बहुशो गुटिकाः कार्याः कार्मुकाः स्युस्ततोऽधिकम्||८४||

इति हिङ्ग्वादिचूर्णं गुटिका |

 

मातुलुङ्गरसो हिङ्गु दाडिमं बिडसैन्धवे|

सुरामण्डेन पातव्यं वातगुल्मरुजापहम्||८५||

शटीपुष्करहिङ्ग्वम्लवेतसक्षारचित्रकान्|

धान्यकं यवानीं विडङ्गं सैन्धवं वचाम्||८६||

सचव्यपिप्पलीमूलामजगन्धां सदाडिमाम्|

अजाजीं चाजमोदां चूर्णं कृत्वा प्रयोजयेत्||८७||

रसेन मातुलुङ्गस्य मधुशुक्तेन वा पुनः|

भावितं गुटिकां कृत्वा सुपिष्टां कोलसम्मिताम्||८८||

गुल्मं प्लीहानमानाहं श्वासं कासमरोचकम्|

हिक्कां हृद्रोगमर्शांसि विविधां शिरसो रुजम्||८९||

पाण्ड्वामयं कफोत्क्लेशं सर्वजां प्रवाहिकाम्|

पार्श्वहृद्बस्तिशूलं गुटिकैषा व्यपोहति||९०||

नागरार्धपलं पिष्ट्वा द्वे पले लुञ्चितस्य |

तिलस्यैकं गुडपलं क्षीरेणोष्णेन ना पिबेत्||९१||

वातगुल्ममुदावर्तं योनिशूलं नाशयेत्|

पिबेदेरण्डजं तैलं वारुणीमण्डमिश्रितम्||९२||

तदेव तैलं पयसा वातगुल्मी पिबेन्नरः|

श्लेष्मण्यनुबले पूर्वं हितं पित्तानुगे परम्||९३||

साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम्|

क्षीरोदकेऽष्टगुणिते क्षीरशेषं ना पिबेत्||९४||

वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम्|

हृद्रोगं विद्रधिं शोथं साधयत्याशु तत्पयः||९५||

इति लशुनक्षीरम् |

तैलं प्रसन्ना गोमूत्रमारनालं यवाग्रजम्|

गुल्मं जठरमानाहं पीतमेकत्र साधयेत्||९६||

इति तैलपञ्चकम् |

पञ्चमूलीकषायेण सक्षारेण शिलाजतु|

पिबेत्तस्य प्रयोगेण वातगुल्मात् प्रमुच्यते||९७||

इति शिलाजतुप्रयोगः |

वाट्यं पिप्पलीयूषेण मूलकानां रसेन वा|

भुक्त्वा स्निग्धमुदावर्ताद्वातगुल्माद्विमुच्यते||९८||

शूलानाहविबन्धार्तं स्वेदयेद्वातगुल्मिनम्|

स्वेदैः स्वेदविधावुक्तैर्नाडीप्रस्तरसङ्करैः||९९||

बस्तिकर्म परं विद्याद्गुल्मघ्नं तद्धि मारुतम्|

स्वे स्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति||१००||

तस्मादभीक्ष्णशो गुल्मा निरूहैः सानुवासनैः|

प्रयुज्यमानैः शाम्यन्ति वातपित्तकफात्मकाः||१०१||

गुल्मघ्ना विविधा दिष्टाः सिद्धाः सिद्धिषु बस्तयः|

बस्तिकर्म परं विद्याद्गुल्मघ्नं तद्धि मारुतम्|

स्वे स्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति||१००||

तस्मादभीक्ष्णशो गुल्मा निरूहैः सानुवासनैः|

प्रयुज्यमानैः शाम्यन्ति वातपित्तकफात्मकाः||१०१||

गुल्मघ्ना विविधा दिष्टाः सिद्धाः सिद्धिषु बस्तयः|

नीलिनीचूर्णसंयुक्तं पूर्वोक्तं घृतमेव|

समलाय प्रदातव्यं शोधनं वातगुल्मिने||१०४||

नीलिनीत्रिवृतादन्तीपथ्याकम्पिल्लकैः सह|

शोधनार्थं घृतं देयं सबिडक्षारनागरम्||१०५||

नीलिनीं त्रिफलां रास्नां बलां कटुकरोहिणीम्|

पचेद्विडङ्गं व्याघ्रीं पलिकानि जलाढके||१०६||

तेन पादावशेषेण घृतप्रस्थं विपाचयेत्|

दध्नः प्रस्थेन संयोज्य सुधाक्षीरपलेन ||१०७||

ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम्|

जीर्णे सम्यग्विरिक्तं भोजयेद्रसभोजनम्||१०८||

गुल्मकुष्ठोदरव्यङ्गशोफपाण्ड्वामयज्वरान्|

श्वित्रं प्लीहानमुन्मादं घृतमेतद्व्यपोहति||१०९||

इति नीलिन्याद्यं घृतम्

कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तकाः|

शालयो मदिरा सर्पिर्वातगुल्मभिषग्जितम्||११०||

हितमुष्णं द्रवं स्निग्धं भोजनं वातगुल्मिनाम्|

समण्डवारुणीपानं पक्वं वा धान्यकैर्जलम्||१११||

मन्देऽग्नौ वर्धते गुल्मो दीप्ते चाग्नौ प्रशाम्यति|

तस्मान्ना नातिसौहित्यं कुर्यान्नातिविलङ्घनम्||११२||

सर्वत्र गुल्मे प्रथमं स्नेहस्वेदोपपादिते|

या क्रिया क्रियते सिद्धिं सा याति विरूक्षिते||११३||

भिषगात्ययिकं बुद्ध्वा पित्तगुल्ममुपाचरेत्|

वैरेचनिकसिद्धेन सर्पिषा तिक्तकेन वा||११४||

रोहिणीकटुकानिम्बमधुकत्रिफलात्वचः|

कर्षांशास्त्रायमाणा पटोलत्रिवृतोः पले||११५||

द्वे पले मसूराणां साध्यमष्टगुणेऽम्भसि|

शृताच्छेषं घृतसमं सर्पिषश्च चतुष्पलम्||११६||

पिबेत् सम्मूर्च्छितं तेन गुल्मः शाम्यति पैत्तिकः|

ज्वरस्तृष्णा शूलं भ्रमो मूर्च्छाऽरुचिस्तथा||११७||

इति रोहिण्याद्यं घृतम्

जले दशगुणे साध्यं त्रायमाणाचतुष्पलम्|

पञ्चभागस्थितं पूतं कल्कैः संयोज्य कार्षिकैः||११८||

रोहिणी कटुका मुस्ता त्रायमाणा दुरालभा|

कल्कैस्तामलकीवीराजीवन्तीचन्दनोत्पलैः||११९||

रसस्यामलकानां क्षीरस्य घृतस्य |

पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत्||१२०||

पित्तरक्तभवं गुल्मं वीसर्पं पैत्तिकं ज्वरम्|

हृद्रोगं कामलां कुष्ठं हन्यादेतद्घृतोत्तमम्||१२१||

इति त्रायमाणाद्यं घृतम्

रसेनामलकेक्षूणां घृतपादं विपाचयेत्|

पथ्यापदं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत्||१२२||

इत्यामलकाद्यं घृतम्

द्राक्षां मधूकं खर्जूरं विदारीं सशतावरीम्|

परूषकाणि त्रिफलां साधयेत्पलसम्मितम्||१२३||

जलाढके पादशेषे रसमामलकस्य |

घृतमिक्षुरसं क्षीरमभयाकल्कपादिकम्||१२४||

साधयेत्तद्घृतं सिद्धं शर्कराक्षौद्रपादिकम्|

प्रयोगात् पित्तगुल्मघ्नं सर्वपित्तविकारनुत्||१२५||

इति द्राक्षाद्यं घृतम्

वृषं समूलमापोथ्य पचेदष्टगुणे जले|

शेषेऽष्टभागे तस्यैव पुष्पकल्कं प्रदापयेत्||१२६||

तेन सिद्धं घृतं शीतं सक्षौद्रं पित्तगुल्मनुत्|

रक्तपित्तज्वरश्वासकासहृद्रोगनाशनम्||१२७||

इति वासाघृतम्

द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम्|

अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत्||१२८||

पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम्|

तेन निर्हृतदोषस्य गुल्मः शाम्यति पैत्तिकः||१२९||

द्राक्षाभयारसं गुल्मे पैत्तिके सगुडं पिबेत्|

लिह्यात्कम्पिल्लकं वाऽपि विरेकार्थं मधुद्रवम्||१३०||

दाहप्रशमनोऽभ्यङ्गः सर्पिषा पित्तगुल्मिनाम्|

चन्दनाद्येन तैलेन तैलेन मधुकस्य वा||१३१||

ये पित्तज्वरहराः सतिक्ताः क्षीरबस्तयः|

हितास्ते पित्तगुल्मिभ्यो वक्ष्यन्ते ये सिद्धिषु||१३२||

शालयो जाङ्गलं मांसं गव्याजे पयसी घृतम्|

खर्जूरामलकं द्राक्षां दाडिमं सपरूषकम्||१३३||

आहारार्थं प्रयोक्तव्यं पानार्थं सलिलं शृतम्|

बलाविदारीगन्धाद्यैः पित्तगुल्मचिकित्सितम्||१३४||

आमान्वये पित्तगुल्मे सामे वा कफवातिके|

यवागूभिः खडैर्यूषैः सन्धुक्ष्योऽग्निर्विलङ्घिते||१३५||

शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितौ|

तस्मादग्निं सदा रक्षेन्निदानानि वर्जयेत्||१३६||

वमनं वमनार्हाय प्रदद्यात् कफगुल्मिने|

स्निग्धस्विन्नशरीराय गुल्मे शैथिल्यमागते||१३७||

परिवेष्ट्य प्रदीप्तांस्तु बल्वजानथवा कुशान्|

भिषक्कुम्भे समावाप्य गुल्मं घटमुखे न्यसेत्||१३८||

सङ्गृहीतो यदा गुल्मस्तदा घटमथोद्धरेत्|

वस्त्रान्तरं ततः कृत्वा भिन्द्याद्गुल्मं प्रमाणवित्||१३९||

विमार्गाजपदादर्शैर्यथालाभं प्रपीडयेत्|

मृद्नीयाद्गुल्ममेवैकं त्वन्त्रहृदयं स्पृशेत्||१४०||

तिलैरण्डातसीबीजसर्षपैः परिलिप्य |

श्लेष्मगुल्ममयःपात्रैः सुखोष्णैः स्वेदयेद्भिषक्||१४१||

सव्योषक्षारलवणं दशमूलीशृतं घृतम्|

कफगुल्मं जयत्याशु सहिङ्गुबिडदाडिमम्||१४२||

इति दशमूलीघृतम्|

भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम्|

साध्यं विदारीगन्धाद्यमापोथ्य सलिलाढके||१४३||

पादशेषे रसे तस्मिन् पिप्पलीं नागरं वचाम्|

विडङ्गं सैन्धवं हिङ्गु यावशूकं बिडं शटीम्||१४४||

चित्रकं मधुकं रास्नां पिष्ट्वा कर्षसमं भिषक्|

प्रस्थं पयसो दत्त्वा घृतप्रस्थं विपाचयेत्||१४५||

एतद्भल्लातकघृतं कफगुल्महरं परम्|

प्लीहपाण्ड्वामयश्वासग्रहणीरोगकासनुत्||१४६||

इति भल्लातकाद्यं घृतम्

भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम्|

साध्यं विदारीगन्धाद्यमापोथ्य सलिलाढके||१४३||

पादशेषे रसे तस्मिन् पिप्पलीं नागरं वचाम्|

विडङ्गं सैन्धवं हिङ्गु यावशूकं बिडं शटीम्||१४४||

चित्रकं मधुकं रास्नां पिष्ट्वा कर्षसमं भिषक्|

प्रस्थं पयसो दत्त्वा घृतप्रस्थं विपाचयेत्||१४५||

एतद्भल्लातकघृतं कफगुल्महरं परम्|

प्लीहपाण्ड्वामयश्वासग्रहणीरोगकासनुत्||१४६||

इति भल्लातकाद्यं घृतम्

त्रिवृतां त्रिफलां दन्तीं दशमूलं पलोन्मितम्|

जले चतुर्गुणे पक्त्वा चतुर्भागस्थितं रसम्||१४९||

सर्पिरेरण्डजं तैलं क्षीरं चैकत्र साधयेत्|

सिद्धो मिश्रकस्नेहः सक्षौद्रः कफगुल्मनुत्||१५०||

कफवातविबन्धेषु कुष्ठप्लीहोदरेषु |

प्रयोज्यो मिश्रकः स्नेहो योनिशूलेषु चाधिकम्||१५१||

इति मिश्रकः स्नेहः

यदुक्तं वातगुल्मघ्नं स्रंसनं नीलिनीघृतम्|

द्विगुणं तद्विरेकार्थं प्रयोज्यं कफगुल्मिनाम्||१५२||

सुधाक्षीरद्रवे चूर्णं त्रिवृतायाः सुभावितम्|

कार्षिकं मधुसर्पिभ्यां लीढ्वा साधु विरिच्यते||१५३||

जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः|

दन्त्याः पलानि तावन्ति चित्रकस्य तथैव ||१५४||

अष्टभागावशेषं तु रसं पूतमधिक्षिपेत्|

दन्तीसमं गुडं पूतं क्षिपेत्तत्राभयाश्च ताः||१५५||

तैलार्धकुडवं चैव त्रिवृतायाश्चतुष्पलम्|

चूर्णितं पलमेकं तु पिप्पलीविश्वभेषजम्||१५६||

तत् साध्यं लेहवच्छीते तस्मिंस्तैलसमं मधु|

क्षिपेच्चूर्णपलं चैकं त्वगेलापत्रकेशरात्||१५७||

ततो लेहपलं लीढ्वा जग्ध्वा चैकां हरीतकीम्|

सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयम्||१५८||

गुल्मं श्वयथुमर्शांसि पाण्डुरोगमरोचकम्|

हृद्रोगं ग्रहणीदोषं कामलां विषमज्वरम्||१५९||

कुष्ठं प्लीहानमानाहमेषा हन्युपसेविता|

निरत्ययः क्रमश्चास्या द्रवो मांसरसौदनः||१६०||

इति दन्तीहरीतकी

सिद्धाः सिद्धिषु वक्ष्यन्ते निरूहाः कफगुल्मिनाम्|

अरिष्टयोगाः सिद्धाश्च ग्रहण्यर्शश्चिकित्सिते||१६१||

यच्चूर्णं गुटिका याश्च विहिता वातगुल्मिनाम्|

द्विगुणक्षारहिङ्ग्वम्लवेतसास्ताः कफे हिताः||१६२||

एव ग्रहणीदोषे क्षारास्ते कफगुल्मिनाम्|

सिद्धा निरत्ययाः शस्ता दाहस्त्वन्ते प्रशस्यते||१६३||

प्रपुराणानि धान्यानि जाङ्गला मृगपक्षिणः|

कौलत्थो मुद्गयूषश्च पिप्पल्या नागरस्य ||१६४||

शुष्कमूलकयूषश्च बिल्वस्य वरुणस्य |

चिरबिल्वाङ्कुराणां यवान्याश्चित्रकस्य ||१६५||

बीजपूरकहिङ्ग्वम्लवेतसक्षारदाडिमैः|

तक्रेण तैलसर्पिर्भ्यां व्यञ्जनान्युपकल्पयेत्||१६६||

पञ्चमूलीशृतं तोयं पुराणं वारुणीरसम्|

कफगुल्मी पिबेत्काले जीर्णं माध्वीकमेव वा||१६७||

यवानीचूर्णितं तक्रं बिडेन लवणीकृतम्|

पिबेत् सन्दीपनं वातकफमूत्रानुलोमनम् ||१६८||

सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः|

कृतमूलः सिरानद्धो यदा कूर्म इवोन्नतः||१६९||

दौर्बल्यारुचिहृल्लासकासवम्यरतिज्वरैः |

तृष्णातन्द्राप्रतिश्यायैर्युज्यते सिध्यति||१७०||

गृहीत्वा सज्वरश्वासं वम्यतीसारपीडितम्|

हृन्नाभिहस्तपादेषु शोफः कर्षति गुल्मिनम्||१७१||

रौधिरस्य तु गुल्मस्य गर्भकालव्यतिक्रमे|

स्निग्धस्विन्नशरीरायै दद्यात् स्नेहविरेचनम्||१७२||

पलाशक्षारपात्रे द्वे द्वे पात्रे तैलसर्पिषोः|

गुल्मशैथिल्यजननीं पक्त्वा मात्रां प्रयोजयेत्||१७३||

प्रभिद्येत यद्येवं दद्याद्योनिविशोधनम् |

क्षारेण युक्तं पललं सुधाक्षीरेण वा पुनः||१७४||

आभ्यां वा भावितान् दद्याद्योनौ कटुकमत्स्यकान्|

वराहमत्स्यपित्ताभ्यां लक्तकान् वा सुभावितान्||१७५||

अधोहरैश्चोर्ध्वहरैर्भावितान् वा समाक्षिकैः|

किण्वं वा सगुडक्षारं दद्याद्योनिविशोधनम्||१७६||

रक्तपित्तहरं क्षारं लेहयेन्मधुसर्पिषा|

लशुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रदापयेत्||१७७||

बस्तिं सक्षीरगोमूत्रं सक्षारं दाशमूलिकम्|

अदृश्यमाने रुधिरे दद्याद्गुल्मप्रभेदनम्||१७८||

प्रवर्तमाने रुधिरे दद्यान्मांसरसौदनम्|

घृततैलेन चाभ्यङ्गं पानार्थं तरुणीं सुराम्||१७९||

रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहरीः क्रियाः|

कार्या वातरुगार्तायाः सर्वा वातहरीः पुनः||१८०||

घृततैलावसेकांश्च तित्तिरींश्चरणायुधान्|

सुरां समण्डां पूर्वं पानमम्लस्य सर्पिषः||१८१||

प्रयोजयेदुत्तरं वा जीवनीयेन सर्पिषा|

अतिप्रवृत्ते रुधिरे सतिक्तेनानुवासनम्||१८२||

तत्र श्लोकाः-

स्नेहः स्वेदः सर्पिर्बस्तिश्चूर्णानि बृंहणं गुडिकाः|

वमनविरेकौ मोक्षः क्षतजस्य वातगुल्मवताम्||१८३||

सर्पिः सतिक्तसिद्धं क्षीरं प्रस्रंसनं निरूहाश्च|

रक्तस्य चावसेचनमाश्वासनसंशमनयोगाः||१८४||

उपनाहनं सशस्त्रं पक्वस्याभ्यन्तरप्रभिन्नस्य|

संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य||१८५||

स्नेहः स्वेदो भेदो लङ्घनमुल्लेखनं विरेकश्च|

सर्पिर्बस्तिर्गुटिकाश्चूर्णमरिष्टाश्च सक्षाराः||१८६||

गुल्मस्यान्ते दाहः कफजस्याग्रेऽपनीतरक्तस्य|

गुल्मस्य रौधिरस्य क्रियाक्रमः स्त्रीभवस्योक्तः||१८७||

पथ्यान्नपानसेवा हेतूनां वर्जनं यथास्वं |

नित्यं चाग्निसमाधिः स्निग्धस्य सर्वकर्माणि||१८८||

हेतुर्लिङ्गं सिद्धिः क्रियाक्रमः साध्यता योगाश्च|

गुल्मचिकित्सितसङ्ग्रह एतावान् व्याहृतोऽग्निवेशस्य||१८९||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने

गुल्मचिकित्सितं नाम पञ्चमोऽध्यायः||||

 

Post a Comment

0 Comments