Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 3 jwar chikitsa adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातो ज्वरचिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

विज्वरं ज्वरसन्देहं पर्यपृच्छत् पुनर्वसुम्|

विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः||||

देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली|

ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा||||

तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये|

प्रकृतिं प्रवृत्तिं प्रभावं कारणानि ||||

पूर्वरूपमधिष्ठानं बलकालात्मलक्षणम्|

व्यासतो विधिभेदाच्च पृथग्भिन्नस्य चाकृतिम्||||

लिङ्गमामस्य जीर्णस्य सौषधं क्रियाक्रमम्|

विमुञ्चतः प्रशान्तस्य चिह्नं यच्च पृथक् पृथक्||||

ज्वरावसृष्टो रक्ष्यश्च यावत्कालं यतो यतः|

प्रशान्तः कारणैर्यैश्च पुनरावर्तते ज्वरः||||

याश्चापि पुनरावृत्तं क्रियाः प्रशमयन्ति तम्|

जगद्धितार्थं तत् सर्वं भगवन्! वक्तुमर्हसि||||

तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्|

ज्वराधिकारे यद्वाच्यं तत् सौम्य! निखिलं शृणु||१०||

ज्वरो विकारो रोगश्च व्याधिरातङ्क एव |

एकोऽर्थो नामपर्यायैर्विविधैरभिधीयते||११||

तस्य प्रकृतिरुद्दिष्टा दोषाः शारीरमानसाः|

देहिनं हि निर्दोषं ज्वरः समुपसेवते||१२||

क्षयस्तमो ज्वरः पाप्मा मृत्युश्चोक्ता यमात्मकाः|

पञ्चत्वप्रत्ययान्नॄणां क्लिश्यतां स्वेन कर्मणा||१३||

इत्यस्य प्रकृतिः प्रोक्ता, ...|१४|

... प्रवृत्तिस्तु परिग्रहात्|

निदाने पूर्वमुद्दिष्टा रुद्रकोपाच्च दारुणात्||१४||

द्वितीये हि युगे शर्वमक्रोधव्रतमास्थितम्|

दिव्यं सहस्रं वर्षाणामसुरा अभिदुद्रुवुः||१५||

तपोविघ्नाशनाः कर्तुं तपोविघ्नं महात्मनः|

पश्यन् समर्थश्चोपेक्षां चक्रे दक्षः प्रजापतिः||१६||

पुनर्माहेश्वरं भागं ध्रुवं दक्षः प्रजापतिः|

यज्ञे कल्पयामास प्रोच्यमानः सुरैरपि||१७||

ऋचः पशुपतेर्याश्च शैव्य आहतयश्च याः|

यज्ञसिद्धिप्रदास्ताभिर्हीनं चैव इष्टवान्||१८||

अथोत्तीर्णव्रतो देवो बुद्ध्वा दक्षव्यतिक्रमम्|

रुद्रो रौद्रं पुरस्कृत्य भावमात्मविदात्मनः||१९||

सृष्ट्वा ललाटे चक्षुर्वै दग्ध्वा तानसुरान् प्रभुः|

बालं क्रोधाग्निसन्तप्तमसृजत् सत्रनाशनम्||२०||

ततो यज्ञः विध्वस्तो व्यथिताश्च दिवौकसः|

दाहव्यथापरीताश्च भ्रान्ता भूतगणा दिशः||२१||

अथेश्वरं देवगणः सह सप्तर्षिभिर्विभुम्|

तमृग्भिरस्तुवन् यावच्छैवे भावे शिवः स्थितः||२२||

शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः|

भिया भस्मप्रहरणस्त्रिशिरा नवलोचनः||२३||

ज्वालामालाकुलो रौद्रो ह्रस्वजङ्घोदरः क्रमात्|

क्रोधाग्निरुक्तवान् देवमहं किं करवाणि ते||२४||

तमुवाचेश्वरः क्रोधं ज्वरो लोके भविष्यसि|

जन्मादौ निधने त्वमपचारान्तरेषु ||२५||

सन्तापः सारुचिस्तृष्णा साङ्गमर्दो हृदि व्यथा|

ज्वरप्रभावो, जन्मादौ निधने महत्तमः||२६||

प्रकृतिश्च प्रवृत्तिश्च प्रभावश्च प्रदर्शितः|२७|

निदाने कारणान्यष्टौ पूर्वोक्तानि विभागशः||२७||

आलस्यं नयने सास्रे जृम्भणं गौरवं क्रमः|

ज्वलनातपवाय्वम्बुभक्तिद्वेषावनिश्चितौ||२८||

अविपाकास्यवैरस्ये हानिश्च बलवर्णयोः|

शीलवैकृतमल्पं ज्वरलक्षणमग्रजम्||२९||

केवलं समनस्कं ज्वराधिष्ठानमुच्यते|

शरीरं, बलकालस्तु निदाने सम्प्रदर्शितः||३०||

ज्वरप्रत्यात्मिकं लिङ्गं सन्तापो देहमानसः|

ज्वरेणाविशता भूतं हि किञ्चिन्न तप्यते||३१||

द्विविधो विधिभेदेन ज्वरः शारीरमानसः|

पुनश्च द्विविधो दृष्टः सौम्यश्चाग्नेय एव वा||३२||

अन्तर्वेगो बहिर्वेगो द्विविधः पुनरुच्यते|

प्राकृतो वैकृतश्चैव साध्यश्चासाध्य एव ||३३||

पुनः पञ्चविधो दृष्टो दोषकालबलाबलात्|

सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ||३४||

पुनराश्रयभेदेन धातूनां सप्तधा मतः|

भिन्नः कारणभेदेन पुनरष्टविधो ज्वरः||३५||

शारीरो जायते पूर्वं देहे, मनसि मानसः|

वैचित्त्यमरतिर्ग्लानिर्मनसस्तापलक्षणम्||३६||

इन्द्रियाणां वैकृत्यं ज्ञेयं सन्तापलक्षणम्|३७|

वातपित्तात्मकः शीतमुष्णं वातकफात्मकः||३७||

इच्छत्युभयमेतत्तु ज्वरो व्यामिश्रलक्षणः|३८|

योगवाहः परं वायुः संयोगादुभयार्थकृत्||३८||

दाहकृत्तेजसा युक्तः, शीतकृत् सोमसंश्रयात्|३९|

अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः||३९||

सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः|

अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत्||४०||

सन्तापोऽभ्यधिको बाह्यस्तृष्णादीनां मार्दवम्|

बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव ||४१||

प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः|

उष्णमुष्णेन संवृद्धं पित्तं शरदि कुप्यति||४२||

चितः शीते कफश्चैवं वसन्ते समुदीर्यते|

वर्षास्वम्लविपाकाभिरद्भिरोषधिभिस्तथा||४३||

सञ्चितं पित्तमुद्रिक्तं शरद्यादित्यतेजसा|

ज्वरं सञ्जनयत्याशु तस्य चानुबलः कफः||४४||

प्रकृत्यैव विसर्गस्य तत्र नानशनाद्भयम्|

अद्भिरोषधिभिश्चैव मधुराभिश्चितः कफः||४५||

हेमन्ते, सूर्यसन्तप्तः वसन्ते प्रकुप्यति|

वसन्ते श्लेष्मणा तस्माज्ज्वरः समुपजायते||४६||

आदानमध्ये तस्यापि वातपित्तं भवेदनु|

आदावन्ते मध्ये बुद्ध्वा दोषबलाबलम्||४७||

शरद्वसन्तयोर्विद्वाञ्ज्वरस्य प्रतिकारयेत्|

कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वरः||४८||

प्रायेणानिलजो दुःखः कालेष्वन्येषु वैकृतः|

हेतवो विविधास्तस्य निदाने सम्प्रदर्शिताः||४९||

बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः|

हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः||५०||

ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः|

सप्ताहाद्वा दशाहाद्वा द्वादशाहात्तथैव ||५१||

सप्रलापभ्रमश्वासस्तीक्ष्णो हन्याज्ज्वरो नरम्|

ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः||५२||

असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः|५३|

स्रोतोभिर्विसृता दोषा गुरवो रसवाहिभिः||५३||

सर्वदेहानुगाः स्तब्धा ज्वरं कुर्वन्ति सन्ततम्|

दशाहं द्वादशाहं वा सप्ताहं वा सुदुःसहः||५४||

शीघ्रं शीघ्रकारित्वात् प्रशमं याति हन्ति वा|

कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्||५५||

निष्प्रत्यनीकः कुरुते तस्माज्ज्ञेयः सुदुःसहः|

यथा धातूंस्तथा मूत्रं पुरीषं चानिलादयः||५६||

युगपच्चानुपद्यन्ते नियमात् सन्तते ज्वरे|

शुद्ध्या वाऽप्यशुद्ध्या वा रसादीनामशेषतः||५७||

सप्ताहादिषु कालेषु प्रशमं याति हन्ति वा|

यदा तु नातिशुध्यन्ति वा शुध्यन्ति सर्वशः||५८||

द्वादशैते समुद्दिष्टाः सन्ततस्याश्रयास्तदा|

विसर्गं द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणम्||५९||

दुर्लभोपशमः कालं दीर्घमप्यनुवर्तते|

इति बुद्ध्वा ज्वरं वैद्य उपक्रामेत्तु सन्ततम् ||६०||

क्रियाक्रमविधौ युक्तः प्रायः प्रागपतर्पणैः|६१|

रक्तधात्वाश्रयः प्रायो दोषः सततकं ज्वरम्||६१||

सप्रत्यनीकः कुरुते कालवृद्धिक्षयात्मकम्|

अहोरात्रे सततको द्वौ कालावनुवर्तते||६२||

कालप्रकृतिदूष्याणां प्राप्यैवान्यतमाद्बलम्|

अन्येद्युष्कं ज्वरं दोषो रुद्ध्वा मेदोवहाः सिराः||६३||

सप्रत्यनीको जनयत्येककालमहर्निशि|

दोषोऽस्थिमज्जगः कुर्यात्तृतीयकचतुर्थकौ||६४||

गतिर्द्व्येकान्तराऽन्येद्युर्दोषस्योक्ताऽन्यथा परैः|

अन्येद्युष्कं ज्वरं कुर्यादपि संश्रित्य शोणितम्||६५||

मांसस्रोतांस्यनुगतो जनयेत्तु तृतीयकम्|

संश्रितो मेदसो मार्गं दोषश्चापि चतुर्थकम् ||६६||

अन्येद्युष्कः प्रतिदिनं दिनं हित्वा तृतीयकः|

दिनद्वयं यो विश्रम्य प्रत्येति चतुर्थकः||६७||

अधिशेते यथा भूमिं बीजं काले रोहति|

अधिशेते तथा धातुं दोषः काले कुप्यति||६८||

वृद्धिं बलकालं प्राप्य दोषस्तृतीयकम्|

चतुर्थकं कुरुते प्रत्यनीकबलक्षयात्||६९||

कृत्वा वेगं गतबलाः स्वे स्वे स्थाने व्यवस्थिताः|

पुनर्विवृद्धाः स्वे काले ज्वरयन्ति नरं मलाः||७०||

कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः|

वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः||७१||

चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः|

जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः||७२||

विषमज्वर एवान्यश्चतुर्थकविपर्ययः|

त्रिविधो धातुरेकैको द्विधातुस्थः करोति यम्||७३||

प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः|

सन्निपाते तु यो भूयान् दोषः परिकीर्तितः||७४||

ऋत्वहोरात्रदोषाणां मनसश्च बलाबलात्|

कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते||७५||

गुरुत्वं दैन्यमुद्वेगः सदनं छर्द्यरोचकौ|

रसस्थिते बहिस्तापः साङ्गमर्दो विजृम्भणम्||७६||

रक्तोष्णाः पिडकास्तृष्णा सरक्तं ष्ठीवनं मुहुः|

दाहरागभ्रममदप्रलापा रक्तसंस्थिते||७७||

अन्तर्दाहः सतृण्मोहः सग्लानिः सृष्टविट्कता|

दौर्गन्ध्यं गात्रविक्षेपो ज्वरे मांसस्थिते भवेत्||७८||

स्वेदस्तीव्रा पिपासा प्रलापो वम्यभीक्ष्णशः|

स्वगन्धस्यासहत्वं मेदःस्थे ग्लान्यरोचकौ||७९||

विरेकवमने चोभे सास्थिभेदं प्रकूजनम्|

विक्षेपणं गात्राणां श्वासश्चास्थिगते ज्वरे||८०||

हिक्का श्वासस्तथा कासस्तमसश्चातिदर्शनम्|

मर्मच्छेदो बहिः शैत्यं दाहोऽन्तश्चैव मज्जगे||८१||

शुक्रस्थानगतः शुक्रमोक्षं कृत्वा विनाश्य |

प्राणं वाय्वग्निसोमैश्च सार्धं गच्छत्यसौ विभुः||८२||

रसरक्ताश्रितः साध्यो मेदोमांसगतश्च यः|

अस्थिमज्जगतः कृच्छ्रः शुक्रस्थो नैव सिद्ध्यति||८३||

हेतुभिर्लक्षणैश्चोक्तः पूर्वमष्टविधो ज्वरः|

समासेनोपदिष्टस्य व्यासतः शृणु लक्षणम्||८४||

शिरोरुक् पर्वणां भेदो दाहो रोम्णां प्रहर्षणम्|

कण्ठास्यशोषो वमथुस्तृष्णा मूर्च्छा भ्रमोऽरुचिः||८५||

स्वप्ननाशोऽतिवाग्जृम्भा वातपित्तज्वराकृतिः|

शीतको गौरवं तन्द्रा स्तैमित्यं पर्वणां रुक्||८६||

शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम्|

सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः||८७||

मुहुर्दाहो मुहुः शीतं स्वेदस्तम्भो मुहुर्मुहुः|

मोहः कासोऽरुचिस्तृष्णा श्लेष्मपित्तप्रवर्तनम्||८८||

लिप्ततिक्तास्यता तन्द्रा श्लेष्मपित्तज्वराकृतिः|

इत्येते द्वन्द्वजाः प्रोक्ताः ...|८९|

... सन्निपातज उच्यते||८९||

सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि|

प्राक्सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक्||९०||

भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक्|

वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे||९१||

शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहरुग्व्यथाः|

वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः||९२||

छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना|

मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे||९३||

सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः|

वातोल्बणे स्याद् द्व्यनुगे तृष्णा कण्ठास्यशुष्कता||९४||

रक्तविण्मूत्रता दाहः स्वेदस्तृड् बलसङ्क्षयः|

मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि||९५||

आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः|

कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत्||९६||

प्रतिश्या छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम्|

हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम्||९७||

हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः|

हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्||९८||

शिरोरुग्वेपथुः श्वासः प्रलापश्छर्द्यरोचकौ|

हीनपित्ते मध्यकफे लिङ्गं स्यान्मारुताधिके||९९||

शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक्|

हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः||१००||

श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्|

कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम्||१०१||

वर्चोभेदोऽग्निदौर्बल्यं [] तृष्णा दाहोऽरुचिर्भ्रमः|

कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः||१०२||

सन्निपातज्वरस्योर्ध्वमतो वक्ष्यामि लक्षणम्|

क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा||१०३||

सास्रावे कलुषे रक्ते निर्भुग्ने चापि दर्शने [] |

सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः||१०४||

तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः|

परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्||१०५||

ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य |

शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा||१०६||

स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः|

कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्||१०७||

कोठानां श्यावरक्तानां मण्डलानां दर्शनम्|

मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य ||१०८||

चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः|१०९|

दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः||१०९||

सन्निपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्त्वतोऽन्यथा|

निदाने त्रिविधा प्रोक्ता या पृथग्जज्वराकृतिः||११०||

संसर्गसन्निपातानां तया चोक्तं स्वलक्षणम्|१११|

शस्त्रलोष्टकशाकाष्ठमुष्ट्यरत्नितलद्विजैः||११२||

तद्विधैश्च हते गात्रे ज्वरः स्यादभिघातजः|

तत्राभिघातजे वायुः प्रायो रक्तं प्रदूषयन्||११३||

सव्यथाशोफवैवर्ण्यं करोति सरुजं ज्वरम्|११४|

कामशोकभयक्रोधैरभिषक्तस्य यो ज्वरः||११४||

सोऽभिषङ्गाज्वरो ज्ञेयो यश्च भूताभिषङ्गजः|

कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः||११५||

भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः|

भूताधिकारे व्याख्यातं तदष्टविधलक्षणम्||११६||

विषवृक्षानिलस्पर्शात्तथाऽन्यैर्विषसम्भवैः|

अभिषक्तस्य चाप्याहुर्ज्वरमेकेऽभिषङ्गजम्||११७||

चिकित्सया विषघ्न्यैव शमं लभते नरः|

अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते||११८||

सन्निपातज्वरो घोरः विज्ञेयः सुदुःसहः|

सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत् स्मृतम्||११९||

चित्तोन्द्रियशरीराणामर्तयोऽन्याश्च नैकशः|

प्रयोगं त्वभिचारस्य दृष्ट्वा शापस्य चैव हि||१२०||

स्वयं श्रुत्वाऽनुमानेन लक्ष्यते प्रशमेन वा|

वैविध्यादभिचारस्य शापस्य तदात्मके||१२१||

यथाकर्मप्रयोगेण लक्षणं स्यात् पृथग्विधम्|

ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम्||१२२||

शोकजे बाष्पबहुलं त्रासप्रायं भयज्वरे|

क्रोधजे बहुसंरम्भं भूतावेशे त्वमानुषम्||१२३||

मूर्च्छामोहमदग्लानिभूयिष्ठं विषसम्भवे|

केषाञ्चिदेषां लिङ्गानां सन्तापो जायते पुरः||१२४||

पश्चात्तुल्यं तु केषाञ्चिदेषु कामज्वरादिषु|

कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम्||१२५||

कामादिजानां रोगाणामन्येषामपि तत् स्मृतम्|

मनस्यभिहते पूर्वं कामाद्यैर्न तथा बलम्||१२६||

ज्वरः प्राप्नोति वाताद्यैर्देहो यावन्न दूष्यति|

देहे चाभिह(द्रु)ते पूर्वं वाताद्यैर्न तथा बलम्||१२७||

ज्वरः प्राप्नोति कामाद्यैर्मनो यावन्न दूष्यति|

ते पूर्वं केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः||१२८||

हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः|१२९|

संसृष्टाः सन्निपतिताः पृथग्वा कुपिता मलाः||१२९||

रसाख्यं धातुमन्वेत्य पक्तिं स्थानान्निरस्य |

स्वेन तेनोष्मण चैव कृत्वा देहोष्मणो बलम्||१३०||

स्रोतांसि रुद्ध्वा सम्प्राप्ताः केवलं देहमुल्बणाः|

सन्तापमधिकं देहे जनयन्ति नरस्तदा||१३१||

भवत्यत्युष्णसर्वाङ्गो ज्वरितस्तेन चोच्यते|१३२|

अरुचिश्चाविपाकश्च गुरुत्वमुदरस्य ||१३३||

हृदयस्याविशुद्धिश्च तन्द्रा चालस्यमेव |

ज्वरोऽविसर्गी बलवान् दोषाणामप्रवर्तनम्||१३४||

लालाप्रसेको हृल्लासः क्षुन्नाशो विरसं मुखम्|

स्तब्धसुप्तगुरुवं गात्राणां बहुमूत्रता||१३५||

विड् जीर्णा ग्लानिर्ज्वरस्यामस्य लक्षणम्|

ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः||१३६||

मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्|१३७|

क्षुत् क्षामता लघुत्वं गात्राणां ज्वरमार्दवम्||१३७||

दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम्|१३८|

नवज्वरे दिवास्वप्नस्नानाभ्यङ्गान्नमैथुनम्||१३८||

क्रोधप्रवातव्यायामान् कषायांश्च विवर्जयेत्|१३९|

ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात्||१३९||

क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् |१४०|

लङ्घनेन क्षयं नीते दोषे सन्धुक्षितेऽनले||१४०||

विज्वरत्वं लघुत्वं क्षुच्चैवास्योपजायते |

प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत्||१४१||

बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः|१४२|

लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः||१४२||

पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे|१४३|

तृष्यते सलिलं चोष्णं दद्याद्वातकफज्वरे ||१४३||

मद्योत्थे पैत्तिके चाथ शीतलं तिक्तकैः शृतम्|

दीपनं पाचनं चैव ज्वरघ्नमुभयं हि तत्||१४४||

स्रोतसां शोधनं बल्यं रुचिस्वेदकरं शिवम्|१४५|

मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः||१४५||

शृतशीतं जलं दद्यात् पिपासाज्वरशान्तये|१४६|

कफप्रधानानुत्क्लिष्टान् दोषानामाशयस्थितान्||१४६||

बुद्ध्वा ज्वरकरान् काले वम्यानां वमनैर्हरेत्|१४७|

अनुपस्थितदोषाणां वमनं तरुणेज्वरे||१४७||

हृद्रोगं श्वासमानाहं मोहं जनयेद्भृशम्|

सर्वदेहानुगाः सामा धातुस्था असुनिर्हराः ||१४८||

दोषाः फलानामामानां स्वरसा इव सात्ययाः|१४९|

वमितं लङ्घितं काले यवागूभिरुपाचरेत्||१४९||

यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः|

यावज्ज्वरमृदूभावात् षडहं वा विचक्षणः||१५०||

तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः|

ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः||१५१||

वातमूत्रपुरीषाणां दोषाणां चानुलोमनाः|

स्वेदनाय द्रवोष्णत्वाद्द्रवत्वात्तृट्प्रशान्तये||१५२||

आहारभावात् प्राणाय सरत्वाल्लाघवाय |

ज्वरघ्न्यो ज्वरसात्म्यत्वात्तस्मात् पेयाभिरादितः||१५३||

ज्वरानुपचरेद्धीमानृते मद्यसमुत्थितात्|

मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफाधिके||१५४||

ऊर्ध्वगे रक्तपित्ते यवागूर्न हिता ज्वरे|१५५|

तत्र तर्पणमेवाग्रे प्रयोज्यं लाजसक्तुभिः||१५५||

ज्वरापहैः फलरसैर्युक्तं समधुशर्करम्|१५६|

ततः सात्म्यबलापेक्षी भोजयेज्जीर्णतर्पणम्||१५६||

तनुना मुद्गयूषेण जाङ्गलानां रसेन वा|

अन्नकालेषु चाप्यस्मै विधेयं दन्तधावनम्||१५७||

योऽस्य वक्त्ररसस्तस्माद्विपरीतं प्रियं यत्|

तदस्य मुखवैशद्यं प्रकाङ्क्षां चान्नपानयोः||१५८||

धत्ते रसविशेषाणामभिज्ञत्वं करोति यत्|

विशोध्य द्रुमशाखाग्रैरास्यं प्रक्षाल्य चासकृत्||१५९||

मस्त्विक्षुरसमद्याद्यैर्यथाहारमवाप्नुयात्|१६०|

पाचनं शमनीयं वा कषायं पाययेद्भिषक्||१६०||

ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम्|१६१|

स्तभ्यन्ते विपच्यन्ते कुर्वन्ति विषमज्वरम्||१६१||

दोषा बद्धाः कषायेण स्तम्भित्वात्तरुणे ज्वरे|

तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते||१६२||

यः कषायकषायः स्यात् वर्ज्यस्तरुणज्वरे|१६३|

यूषैरम्लैरनम्लैर्वा जाङ्गलैर्वा रसैर्हितैः||१६३||

दशाहं यावदश्नीयाल्लघ्वन्नं ज्वरशान्तये|१६४|

अत ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे||१६४||

परिपक्वेषु दोषेषु सर्पिष्पानं यथाऽमृतम्|

निर्दशाहमपि ज्ञात्वा कफोत्तरमलङ्घितम्||१६५||

सर्पिः पाययेद्वैद्यः कषायैस्तमुपाचरेत् |

यावल्लघुत्वादशनं दद्यान्मांसरसेन ||१६६||

बलं ह्यलं निग्रहाय दोषाणां, बलकृच्च तत् |१६७|

दाहतृष्णापरीतस्य वातपित्तोत्तरं ज्वरम्||१६७||

बद्धप्रच्युतदोषं वा निरामं पयसा जयेत्|१६८|

क्रियाभिराभिः प्रशमं प्रयाति यदा ज्वरः||१६८||

अक्षीणबलमांसाग्नेः शमयेत्तं विरेचनैः|१६९|

ज्वरक्षीणस्य हितं वमनं विरेचनम्||१६९||

कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्|

निरूहो बलमग्निं विज्वरत्वं मुदं रुचिम्||१७०||

परिपक्वेषु दोषेषु प्रयुक्तः शीघ्रमावहेत्|

पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत्||१७१||

स्रंसनं त्रीन्मलान् बस्तिर्हरेत् पक्वाशयस्थितान्|१७२|

ज्वरे पुराणे सङ्क्षीणे कफपित्ते दृढाग्नये||१७२||

रूक्षबद्धपुरीषाय प्रदद्यादनुवासनम्|१७३|

गौरवे शिरसः शूले विबद्धेष्विन्द्रियेषु ||१७३||

जीर्णज्वरे रुचिकरं कुर्यान्मूर्धविरेचनम्|१७४|

अभ्यङ्गांश्च प्रदेहांश्च परिषेकावगाहने||१७४||

विभज्य शीतोष्णकृतं कुर्याज्जीर्णे ज्वरे भिषक्|

तैराशु प्रशमं याति बहिर्मार्गगतो ज्वरः||१७५||

लभन्ते सुखमङ्गानि बलं वर्णश्च वर्धते|१७६|

धूपनाञ्जनयोगैश्च यान्ति जीर्णज्वराः शमम्||१७६||

त्वङ्मात्रशेषा येषां भवत्यागन्तुरन्वयः|१७७|

इति क्रियाक्रमः सिद्धो ज्वरघ्नः सम्प्रकाशितः||१७७||

येषां त्वेष क्रमस्तानि द्रव्याण्यूर्ध्वमतः शृणु|

रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह||१७८||

यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः|१७९|

लाजपेयां सुखजरां पिप्पलीनागरैः शृताम्||१७९||

पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादितः|

अम्लाभिलाषी तामेव दाडिमाम्लां सनागराम्||१८०||

सृष्टविट् पैत्तिको वाऽथ शीतां मधुयुतां पिबेत्|

पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि||१८१||

श्वदंष्ट्राकण्टकारिभ्यां सिद्धां ज्वरहरां पिबेत्|

ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरः||१८२||

पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः|

शृतां विदारीगन्धाद्यैर्दीपनीं स्वेदनीं नरः||१८३||

कासी श्वासी हिक्की यवागूं ज्वरितः पिबेत्|

विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम्||१८४||

सर्पिष्मतीं पिबेत् पेयां ज्वरी दोषानुलोमनीम्|

कोष्ठे विबद्धे सरुजि पिबेत् पेयां शृतां ज्वरी||१८५||

मृद्वीकापिप्पलीमूलचव्यामलकनागरैः|

पिबेत् सबिल्वां पेयां वा ज्वरे सपरिकर्तिके||१८६||

बलावृक्षाम्लकोलाम्लकलशीधावनीशृताम्|

अस्वेदनिद्रस्तृष्णार्तः पिबेत् पेयां सशर्कराम्||१८७||

नागरामलकैः सिद्धां घृतभृष्टां ज्वरापहाम्|१८८|

मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्टकान्||१८८||

यूषार्थे यूषसात्म्यानां ज्वरितानां प्रदापयेत्|१८९|

पटोलपत्रं सफलं कुलकं पापचेलिकम्||१८९||

कर्कोटकं कठिल्लं विद्याच्छाकं ज्वरे हितम्|१९०|

लावान् कपिञ्जलानेणांश्चकोरानुपचक्रकान्||१९०||

कुरङ्गान् कालपुच्छांश्च हरिणान् पृषताञ्छशान्|

प्रदद्यान्मांससात्म्याय ज्वरिताय ज्वरापहान्||१९१||

ईषदम्लाननम्लान् वा रसान् काले विचक्षणः|

कुक्कुटांश्च मयूरांश्च तित्तिरिक्रौञ्चवर्तकान्||१९२||

गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः|

लङ्घनेनानिलबलं ज्वरे यद्यधिकं भवेत्||१९३||

भिषङ्मात्राविकल्पज्ञो दद्यात्तानपि कालवित्|१९४|

घर्माम्बु चानुपानार्थं तृषिताय प्रदापयेत्||१९४||

मद्यं वा मद्यसात्म्याय यथादोषं यथाबलम्|१९५|

गुरूष्णस्निग्धमधुरान् कषायांश्च नवज्वरे||१९५||

आहारान् दोषपक्त्यर्थं प्रायशः परिवर्जयेत्|

अन्नपानक्रमः सिद्धो ज्वरघ्नः सम्प्रकाशितः||१९६||

अत ऊर्ध्वं प्रवक्ष्यन्ते कषाया ज्वरनाशनाः| पाक्यं शीतकषायं वा मुस्तपर्पटकं पिबेत्||१९७||

सनागरं पर्पटकं पिबेद्वा सदुरालभम्| किराततिक्तकं मुस्तं गुडूचीं विश्वभेषजम्||१९८||

पाठामुशीरं सोदीच्यं पिबेद्वा ज्वरशान्तये| ज्वरघ्ना दीपनाश्चैते कषाया दोषपाचनाः||१९९||

तृष्णारुचिप्रशमना मुखवैरस्यनाशनाः|२००|

कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी||२००||

पटोलः सारिवा मुस्तं पाठा कटुकरोहिणी|

निम्बः पटोलस्त्रिफला मृद्वीका मुस्तवत्सकौ|| २०१||

किराततिक्तममृता चन्दनं विश्वभेषजम्|

गुडूच्यामलकं मुस्तमर्धश्लोकसमापनाः||c०२||

कषायाः शमयन्त्याशु पञ्च पञ्चविधाञ्ज्वरान्|

सन्ततं सततान्येद्युस्तृतीयकचतुर्थकान्||२०३||

वत्सकारग्वधौ पाठां षड्ग्रन्थां कटुरोहिणीम्|

मूर्वां सातिविषां निम्बं पटोलं धन्वयासकम्||२०४||

वचां मुस्तमुशीरं मधुकं त्रिफलां बलाम्|

पाक्यं शीतकषायं वा पिबेज्ज्वरहरं नरः||२०५||

मधूकमुस्तमृद्वीकाकाश्मर्याणि परूषकम्|

त्रायमाणामुशीरं त्रिफलां कटुरोहिणीम्||२०६||

पीत्वा निशिस्थितं जन्तुर्ज्वराच्छीघ्रं विमुच्यते|२०७|

जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्||२०७||

विबद्धदोषो ज्वरितः कषायं सगुडं पिबेत्|

त्रिफलां त्रायमाणां मृद्वीकां कटुरोहिणीम्||२०८||

पित्तश्लेष्महरस्त्वेष कषायो ह्यानुलोमिकः|

त्रिवृताशर्करायुक्तः पित्तश्लेष्मज्वरापहः||२०९||

बृहत्यौ वत्सकं मुस्तं देवदारु महौषधम्|

कोलवल्ली योगोऽयं सन्निपातज्वरापहः||२१०||

शटी पुष्करमूलं व्याघ्री शृङ्गी दुरालभा|

गुडूची नागरं पाठा किरातं कटुरोहिणी||२११||

एष शट्यादिको वर्गः सन्निपातज्वरापहः|

कासहृद्ग्रहपार्श्वार्तिश्वासतन्द्रासु शस्यते||२१२||

बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा|

वत्सकस्य बीजानि पटोलं कटुरोहिणी||२१३||

बृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः|

कासादिषु सर्वेषु दद्यात् सोपद्रवेषु ||२१४||

कषायाश्च यवाग्वश्च पिपासाज्वरनाशनाः|

निर्दिष्टा भेषजाध्याये भिषक्तानपि योजयेत्||२१५||

कषायाश्च यवाग्वश्च पिपासाज्वरनाशनाः|

निर्दिष्टा भेषजाध्याये भिषक्तानपि योजयेत्||२१५||

कषायाः सर्व एवैते सर्पिषा सह योजिताः|

प्रयोज्या ज्वरशान्त्यर्थमग्निसन्धुक्षणाः शिवाः||२१८||

पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी|

कलिङ्गकास्तामलकी सारिवाऽतिविषा स्थिरा||२१९||

द्राक्षामलकबिल्वानि त्रायमाणा निदिग्धिका|

सिद्धमितैर्घृतं सद्यो जीर्णज्वरमपोहति||२२०||

क्षयं कासं शिरःशूलं पार्श्वशूलं हलीमकम्|

अंसाभितापमाग्निं विषमं सन्नियच्छति||२२१||

वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम्|

पक्त्वा तेन कषायेण पयसा द्विगुणेन ||२२२||

पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागरैः|

कल्कीकृतैश्च विपचेद्धृतं जीर्णज्वरापहम्||२२३||

बलां श्वदंष्ट्रां बृहतीं कलसीं धावनीं स्थिराम्|

निम्बं पर्पटकं मुस्तं त्रायमाणां दुरालभाम्||२२४||

कृत्वा कषायं पेष्यार्थे दद्यात्तामलकीं शटीम्|

द्राक्षां पुष्करमूलं मेदामामलकानि ||२२५||

घृतं पयश्च तत् सिद्धं सर्पिर्ज्वरहरं परम्|

क्षयकासशिरःशूलपार्श्वशूलांसतापनुत् ||२२६||

ज्वरिभ्यो बहुदोषेभ्य ऊर्ध्वं चाधश्च बुद्धिमान्|

दद्यात् संशोधनं काले कल्पे यदुपदेक्ष्यते||२२७||

मदनं पिप्पलीभिर्वा कलिङ्गैर्मधुकेन वा|

युक्तमुष्णाम्बुना पेयं वमनं ज्वरशान्तये||२२८||

क्षौद्राम्बुना रसेनेक्षोरथवा लवणाम्बुना|

ज्वरे प्रच्छर्दनं शस्तं मद्यैर्वा तर्पणेन वा||२२९||

मृद्वीकामलकानां वा रसं प्रस्कन्दनं पिबेत्|

रसमामलकानां वा घृतभृष्टं ज्वरापहम्||२३०||

लिह्याद्वा त्रैवृतं चूर्णं संयुक्तं मधुसर्पिषा|

पिबेद्वा क्षौद्रमावाप्य सघृतं त्रिफलारसम्||२३१||

आरग्वधं वा पयसा मृद्वीकानां रसेन वा|

त्रिवृतां त्रायमाणां वा पयसा ज्वरितः पिबेत्||२३२||

ज्वराद्विमुच्यते पीत्वा मृद्वीकाभिः सहाभयाम्|

पयोऽनुपानमुष्णं वा पीत्वा द्राक्षारसं नरः||२३३||

कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलाच्चिरज्वरात्|

मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः||२३४||

एरण्डमूलोत्क्वथितं ज्वरात् सपरिकर्तिकात्|

पयो विमुच्यते पीत्वा तद्वद्बिल्वशलाटुभिः||२३५||

त्रिकण्टकबलाव्याघ्रीगुडनागरसाधितम्|

वर्चोमूत्रविबन्धघ्नं शोफज्वरहरं पयः||२३६||

सनागरं समृद्वीकं सघृतक्षौद्रशर्करम्|

शृतं पयः सखर्जूरं पिपासाज्वरनाशनम्||२३७||

चतुर्गुणेनाम्भसा वा शृतं ज्वरहरं पयः|

धारोष्णं वा पयः सद्यो वातपित्तज्वरं जयेत्||२३८||

जीर्णज्वराणां सर्वेषां पयः प्रशमनं परम्|

पेयं तदुष्णं शीतं वा यथास्वं भेषजैः शृतम्||२३९||

प्रयोजयेज्ज्वरहरान्निरूहान् सानुवासनान्|

पक्वाशयगते दोषे वक्ष्यन्ते ये सिद्धिषु||२४०||

पटोलारिष्टपत्राणि सोशीरश्चतुरङ्गुलः|

ह्रीबेरं रोहिणी तिक्ता श्वदंष्ट्रा मदनानि ||२४१||

स्थिरा बला तत् सर्वं पयस्यर्धोदके शृतम्|

क्षीरावशेषं निर्यूहं संयुक्तं मधुसर्पिषा||२४२||

कल्कैर्मदनमुस्तानां पिप्पल्या मधुकस्य |

वत्सकस्य संयुक्तं बस्तिं दद्याज्ज्वरापहम्||२४३||

शुद्धे मार्गे हृते दोषे विप्रसन्नेषु धातुषु|

गताङ्गशूलो लघ्वङ्गः सद्यो भवति विज्वरः||२४४||

आरग्वधमुशीरं मदनस्य फलं तथा|

चतस्रः पर्णिनीश्चैव [] निर्यूहमुपकल्पयेत्||२४५||

प्रियङ्गुर्मदनं मुस्तं शताह्वा मधुयष्टिका|

कल्कः सर्पिर्गुडः क्षौद्रं ज्वरघ्नो बस्तिरुत्तमः||२४६||

गुडूचीं त्रायमाणां चन्दनं मधुकं वृषम्|

स्थिरां बलां पृश्निपर्णीं मदनं चेति साधयेत्||२४७||

रसं जाङ्गलमांसस्य रसेन सहितं भिषक्|

पिप्पलीफलमुस्तानां कल्केन मधुकस्य ||२४८||

ईषत्सलवणं युक्त्या निरूहं मधुसर्पिषा|

ज्वरप्रशमनं दद्याद्बलस्वेदरुचिप्रदम्||२४९||

जीवन्तीं मधुकं मेदां पिप्पलीं मदनं वचाम्|

ऋद्धिं रास्नां बलां विश्वं [] शतपुष्पां शतावरीम्||२५०||

पिष्ट्वा क्षीरं जलं सर्पिस्तैलं विपचेद्भिषक्|

आनुवासनिकं स्नेहमेतं विद्याज्ज्वरापहम्||२५१||

पटोलपिचुमर्दाभ्यां गुडूच्या मधुकेन |

मदनैश्च शृतः स्नेहो ज्वरघ्नमनुवासनम्||२५२||

चन्दनागुरुकाश्मर्यपटोलमधुकोत्पलैः|

सिद्धः स्नेहो ज्वरहरः स्नेहबस्तिः प्रशस्यते||२५३||

यदुक्तं भेषजाध्याये विमाने रोगभेषजे|

शिरोविरेचनं कुर्याद्युक्तिज्ञस्तज्ज्वरापहम्||२५४||

यच्च नावनिकं तैलं याश्च तैलं याश्च प्राग्धूमवर्तयः|

मात्राशितीये निर्दिष्टाः प्रयोज्यास्ता ज्वरेष्वपि||२५५||

अभ्यङ्गांश्च प्रदेहांश्च परिषेकांश्च कारयेत्|

यथाभिलाषं शीतोष्णं विभज्य द्विविधं ज्वरम्||२५६||

सहस्रधौतं सर्पिर्वा तैलं वा चन्दनादिकम्|

दाहज्वरप्रशमनं दद्यादभ्यञ्जनं भिषक्||२५७||

अथ चन्दनाद्यं तैलमुपदेक्ष्यामः-

चन्दनभद्रश्रीकालानुसार्यकालीयकपद्मापद्मकोशीरसारिवामधुकप्रपौण्डरीकनागपुष्पोदीच्यवन्यपद्मोत्पलनलिनकुमुद-सौगन्धिकपुण्डरीकशतपत्रबिसमृणालशालूकशैवालकशेरुकानन्ताकुशकाशेक्षुदर्भशरनलशालिमूलजम्बुवेतसवानीरगुन्द्रा-ककुभासनाश्वकर्णस्यन्दनवातपोथशालतालधवतिनिशखदिरकदरकदम्बकाश्मर्यफलसर्जप्लक्षवटकपीतनोदुम्बराश्वत्थ-न्यग्रोधधातकीदूर्वेत्कटशृङ्गाटकमञ्जिष्ठाज्योतिष्मतीपुष्करबीजक्रौञ्चादनबदरीकोविदारकदली-संवर्तकारिष्टशतपर्वाशीतकुम्भिकाशतावरीश्रीपर्णीश्रावणीमहाश्रावणीरोहिणीशीतपाक्योदनपाकीकालबलापयस्याविदारी-जीवकर्षभकमेदामहामेदामधुरसर्ष्यप्रोक्तातृणशून्यमोचरसाटरूषकबकुलकुटजपटोलनिम्बशाल्मलीनारिकेल-खर्जूरमृद्वीकाप्रियालप्रियङ्गुधन्वनात्मागुप्तामधूकानामन्येषां शीतवीर्याणां यथालाभमौषधानां कषायं कारयेत्|

तेन कषायेण द्विगुणितपयसा तेषामेव कल्केन कषायार्धमात्रं मृद्वग्निना साधयेत्तैलम्| एतत्तैलमभ्यङ्गात् सद्यो दाहज्वरमपनयति|

एतैरेव चौषधैरश्लक्ष्णपिष्टैः सुशीतैः प्रदेहं कारयेत्|

एतैरेव शृतशीतं सलिलमवगाहपरिषेकार्थं प्रयुञ्जीत||२५८||

इति चन्दनाद्यं तैलम्|

मध्वारनालक्षीरदधिघृतसलिलसेकावगाहाश्च सद्यो दाहज्वरमपनयन्ति शीतस्पर्शत्वात्||२५९||

भवन्ति चात्र-

पौष्करेषु सुशीतेषु पद्मोत्पलदलेषु |

कदलीनां पत्रेषु क्षौमेषु विमलेषु ||२६०||

चन्दनोदकशीतेषु शीते धारागृहेऽपि वा|

हिमाम्बुसिक्ते सदने दाहार्तः संविशेत् सुखम्||२६१||

हेमशङ्खप्रवालानां मणीनां मौक्तिकस्य |

चन्दनोदकशीतानां संस्पर्शानुरसान् स्पृशेत्||२६२||

स्रग्भिर्नीलोत्पलैः पद्मैर्व्यजनैर्विविधैरपि|

शीतवातावहैर्व्यज्ज्येच्चन्दनोदकवर्षिभिः ||२६३||

नद्यस्तडागाः पद्मिन्यो ह्रदाश्च विमलोदकाः|

अवगाहे हिता दाहतृष्णाग्लानिज्वरापहाः||२६४||

प्रियाः प्रदक्षिणाचाराः प्रमदाश्चन्दनोक्षिताः|

सान्त्वयेयुः परैः कामैर्मणिमौक्तिकभूषणाः||२६५||

शीतानि चान्नपानानि शीतान्युपवनानि |

वायवश्चन्द्रपादाश्च शीता दाहज्वरापहाः||२६६||

अथोष्णाभिप्रायिणां ज्वरितानामभ्यङ्गादीनुपक्रमानुपदेक्ष्यामः-अगुरुकुष्ठतगरपत्रनलदशैलेयध्यामकहरेणुकास्थौणेयकक्षेमकैलावराङ्गदलपुरतमालपत्रभूतीकरोहिषसरलशल्लकी-देवदार्वग्निमन्थबिल्वस्योनाककाश्मर्यपाटलापुनर्नवावृश्चीरकण्टकारीबृहतीशालपर्णीपृश्निपर्णीमाषपर्णीमुद्गपर्णीगोक्षुरकैरण्ड-शोभाञ्जनकवरुणार्कचिरबिल्वतिल्वकशटीपुष्करमूलगण्डीरोरुबूकपत्तूराक्षीवाश्मान्तकशिग्रुमातुलुङ्गपीलुकमूलकपर्णी-तिलपर्णीपीलुपर्णीमेषशृङ्गीहिंस्रादन्तशठैरावतकभल्लातकास्फोतकाण्डीरात्मजैकेषीकाकरञ्जधान्यकाजमोद-पृथ्वीकासुमुखसुरसकुठेरककालमालकपर्णासक्षवकफणिज्झकभूस्तृणशृङ्गवेरपिप्पलीसर्षपाश्वगन्धारास्नारुहारोहावचाबलातिबला-गुडूचीशतपुष्पाशीतवल्लीनाकुलीगन्धनाकुलीश्वेताज्योतिष्मतीचित्रकाध्यण्डाम्लचाङ्गेरी-तिलबदरकुलत्थमाषाणामेवंविधानामन्येषां चोष्णवीर्याणां यथालाभमौषधानां कषायं कारयेत्, तेन कषायेण तेषामेव चकल्केन सुरासौवीरकतुषोदकमैरेयमेदकदधिमण्डारनालकट्वरप्रतिविनीतेन तैलपात्रं विपाचयेत्|

तेन सुखोष्णेन तैलेनोष्णाभिप्रायिणं ज्वरितमभ्यञ्ज्यात्, तथा शीतज्वरः प्रशाम्यति; एतैरेव चौषधैः श्लक्ष्णपिष्टैः सुखोष्णैः प्रदेहंकारयेत्, एतैरेव शृतं सुखोष्णं सलिलमवगाहनार्थं परिषेकार्थं प्रयुञ्जीत शीतज्वरप्रशमार्थम्||२६७||

इत्यगुर्वाद्यं तैलम्

भवन्ति चात्र-

त्रयोदशविधः स्वेदः स्वेदाध्याये निदर्शितः|

मात्राकालविदा युक्तः शीतज्वरापहः||२६८||

सा कुटी तच्च शयनं तच्चावच्छादनं ज्वरम्|

शीतं प्रशमयन्त्याशु धूपाश्चागुरुजा घनाः||२६९||

चारूपचितगात्र्यश्च तरुण्यो यौवनोष्मणा|

आश्लेषाच्छमयन्त्याशु प्रमदाः शिशिरज्वरम्||२७०||

स्वेदनान्यन्नपानानि वातश्लेष्महराणि |

शीतज्वरं जयन्त्याशु संसर्गबलयोजनात्||२७१||

वातजे श्रमजे चैव पुराणे क्षतजे ज्वरे|

लङ्घनं हितं विद्याच्छमनैस्तानुपाचरेत्||२७२||

विक्षिप्यामाशयोष्माणं यस्माद्गत्वा रसं नृणाम्|

ज्वरं कुर्वन्ति दोषास्तु हीयतेऽग्निबलं ततः||२७३||

यथा प्रज्वलितो वह्निः स्थाल्यामिन्धनवानपि|

पचत्योदनं सम्यगनिलप्रेरितो बहिः||२७४||

पक्तिस्थानात्तथा दोषैरूष्मा क्षिप्तो बहिर्नृणाम्|

पचत्यभ्यवहृतं कृच्छ्रात् पचति वा लघु||२७५||

अतोऽग्निबलरक्षार्थं लङ्घनादिक्रमो हितः|

सप्ताहेन हि पच्यन्ते सप्तधातुगता मलाः||२७६||

निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि|

उदीर्णदोषस्त्वल्पाग्निरश्नन् गुरु विशेषतः||२७७||

मुच्यते सहसा प्राणैश्चिरं क्लिश्यति वा नरः|

एतस्मात्कारणाद्विद्वान् वातिकेऽप्यादितो ज्वरे||२७८||

नाति गुर्वति वा स्निग्धं भोजयेत् सहसा नरम्|

ज्वरे मारुतजे त्वादावनपेक्ष्यापि हि क्रमम्||२७९||

कुर्यान्निरनुबन्धानामभ्यङ्गादीनुपक्रमान्|

पाययित्वा कषायं भोजयेद्रसभोजनम्||२८०||

जीर्णज्वरहरं कुर्यात् सर्वशश्चाप्युपक्रमम्|

श्लेष्मलानामवातानां ज्वरोऽनुष्णः कफाधिकः||२८१||

परिपाकं सप्ताहेनापि याति मृदूष्मणाम्|

तं क्रमेण यथोक्तेन लङ्घनाल्पाशनादिना||२८२||

आदशाहमुपक्रम्य कषायाद्यैरुपाचरेत्|२८३|

सामा ये ये कफजाः कफपित्तज्वराश्च ये||२८३||

लङ्घनं लङ्घनीयोक्तं तेषु कार्यं प्रति प्रति|२८४|

वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम्||२८४||

ज्वरानुपचरेद्धीमान् कफपित्तानिलोद्भवान्|

संसृष्टान् सन्निपतितान् बुद्ध्वा तरतमैः समैः||२८५||

ज्वरान् दोषक्रमापेक्षी यथोक्तैरौषधैर्जयेत्|

वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा||२८६||

कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत्|२८७|

सन्निपातज्वरस्यान्ते कर्णमूले सुदारूणः||२८७||

शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते|

रक्तावसेचनैः शीघ्रं सर्पिष्पानैश्च तं जयेत्||२८८||

प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः|२८९|

शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य शाम्यति||२८९||

शाखानुसारी रक्तस्य सोऽवसेकात् प्रशाम्यति|२९०|

विसर्पेणाभिघातेन यश्च विस्फोटकैर्ज्वरः||२९०||

तत्रादौ सर्पिषः पानं कफपित्तोत्तरो चेत्|२९१|

दौर्बल्याद्देहधातूनां ज्वरो जीर्णोऽनुवर्तते||२९१||

बल्येः सम्बृंहणैस्तस्मादाहारैस्तमुपाचरेत्|२९२|

कर्म साधारणं जह्यात्तृतीयकचतुर्थकौ ||२९२||

आगन्तुरनुबन्धो हि प्रायशो विषमज्वरे|

वातप्रधानं सर्पिर्भिर्बस्तिभिः सानुवासनैः||२९३||

स्निग्धोष्णैरन्नपानैश्च शमयेद्विषमज्वरम्|

विरेचनेन पयसा सर्पिषा संस्कृतेन ||२९४||

विषमं तिक्तशीतैश्च ज्वरं पित्तोत्तरं जयेत्|

वमनं पाचनं रूक्षमन्नपानं विलङ्घनम्||२९५||

कषायोष्णं विषमे ज्वरे शस्तं कफोत्तरे|२९६|

योगाः पराः प्रवक्ष्यन्ते विषमज्वरनाशनाः||२९६||

प्रयोक्तव्या मतिमता दोषादीन् प्रविभज्य ते|

सुरा समण्डा पानार्थे भक्ष्यार्थे चरणायुधः||२९७||

तित्तिरिश्च मयूरश्च प्रयोज्या विषमज्वरे|

पिबेद्वा षट्पलं सर्पिरभयां वा प्रयोजयेत्||२९८||

त्रिफलायाः कषायं वा गुडूच्या रसमेव वा|

नीलिनीमजगन्धां त्रिवृतां कटुरोहिणीम्||२९९||

पिबेज्ज्वरागमे युक्त्या स्नेहस्वेदोपपादितः|

सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः||३००||

उपयुज्यान्नपानं वा प्रभूतं पुनरुल्लिखेत्|

सान्नं मद्यं प्रभूतं वा पीत्वा स्वप्याज्ज्वरागमे||३०१||

आस्थापनं यापनं वा कारयेद्विषमज्वरे|

पयसा वृषदंशस्य शकृद्वा तदहः पिबेत्||३०२||

वृषस्य दधिमण्डेन सुरया वा ससैन्धवम्|

पिप्पल्यास्त्रिफलायाश्च दध्नस्तक्रस्य सर्पिषः||३०३||

पञ्चगव्यस्य पयसः प्रयोगो विषमज्वरे|

रसोनस्य सतैलस्य प्राग्भक्तमुपसेवनम्||३०४||

मेद्यानामुष्णवीर्याणामामिषाणां भक्षणम्|

हिङ्गुतुल्या तु वैयाघ्री वसा नस्यं ससैन्धवा||३०५||

पुराणसर्पिः सिंहस्य वसा तद्वत् ससैन्धवा|

सैन्धवं पिप्पलीनां तण्डुलाः समनःशिलाः||३०६||

नेत्राञ्जनं तैलपिष्टं शस्यते विषमज्वरे|

पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी||३०७||

सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम्|

ये धूमा धूपनं यच्च नावनं चाञ्जनं यत्||३०८||

मनोविकारे निर्दिष्टं कार्यं तद्विषमज्वरे|

मणीनामोषधीनां मङ्गल्यानां विषस्य ||३०९||

धारणादगदानां सेवनान्न भवेज्ज्वरः|३१०|

सोमं सानुचरं देवं समातृगणमीश्वरम्||३१०||

पूजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात्|

विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम्||३११||

स्तुवन्नामसहस्रेण ज्वरान् सर्वानपोहति|

ब्रह्माणमश्विनाविन्द्रं हुतभक्षं हिमाचलम्||३१२||

गङ्गां मरुद्गणांश्चेष्ट्या पूजयञ्जयति ज्वरान्|

भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन ||३१३||

ब्रह्मचर्येण तपसा सत्येन नियमेन |

जपहोमप्रदानेन वेदानां श्रवणेन ||३१४||

ज्वराद्विमुच्यते शीघ्रं साधूनां दर्शनेन |

ज्वरे रसस्थे वमनमुपवासं कारयेत्||३१५||

सेकप्रदेहौ रक्तस्थे तथा संशमनानि |

विरेचनं सोपवासं मांसमेदःस्थिते हितम्||३१६||

अस्थिमज्जगते देया निरूहाः सानुवासनाः|३१७|

शापाभिचाराद्भूतानामभिषङ्गाच्च यो ज्वरः||३१७||

दैवव्यपाश्रयं तत्र सर्वमौषधमिष्यते|

अभिघातज्वरो नश्येत् पानाभ्यङ्गेन सर्पिषः||३१८||

रक्तावसेकैर्मद्यैश्च सात्म्यैर्मांसरसौदनैः|

सानाहो मद्यसात्म्यानां मदिरारसभोजनैः||३१९||

क्षतानां व्रणितानां क्षतव्रणचिकित्सया|

आश्वासेनेष्टलाभेन वायोः प्रशमनेन ||३२०||

हर्षणैश्च शमं यान्ति कामशोकभयज्वराः|

काम्यैरर्थैर्मनोज्ञैश्च पित्तघ्नैश्चाप्युपक्रमैः||३२१||

सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः|

कामात् क्रोधज्वरो नाशं क्रोधात् कामसमुद्भवः||३२२||

याति ताभ्यामुभाभ्यां भयशोकसमुत्थितः|

ज्वरस्य वेगं कालं चिन्तयञ्ज्वर्यते तु यः||३२३||

तस्येष्टैस्तु विचित्रैश्च विषयैर्नाशयेत् स्मृतिम्|३२४|

ज्वरप्रमोक्षे पुरुषः कूजन् वमति चेष्टते|

श्वसन्विवर्णः स्विन्नाङ्गो वेपते लीयते मुहुः||३२४||

प्रलपत्युष्णसर्वाङ्गः शीताङ्गश्च भवत्यपि|

विसञ्ज्ञो ज्वरवेगार्तः सक्रोध इव वीक्ष्यते ||३२५||

सदोषशब्दं शकृद्द्रवं स्रवति वेगवत्|

लिङ्गान्येतानि जानीयाज्ज्वरमोक्षे विचक्षणः||३२६||

बहुदोषस्य बलवान् प्रायेणाभिनवो ज्वरः|

सत्क्रियादोषपक्त्या चेद्विमुञ्चति सुदारुणम्||३२७||

कृत्वा दोषवशाद्वेगं क्रमादुपरमन्ति ये|

तेषामदारुणो मोक्षो ज्वराणां चिरकारिणाम्||३२८||

विगतक्लमसन्तापमव्यथं विमलेन्द्रियम्|

युक्तं प्रकृतिसत्त्वेन विद्यात् पुरुषमज्वरम्||३२९||

सज्वरो ज्वरमुक्तश्च विदाहीनि गुरूणि |

असात्म्यान्यन्नपानानि विरुद्धानि वर्जयेत्||३३०||

व्यवायमतिचेष्टाश्च स्नानमत्यशनानि |

तथा ज्वरः शमं याति प्रशान्तो जायते ||३३१||

व्यायामं व्यवायं स्नानं चङ्क्रमणानि |

ज्वरमुक्तो सेवेत यावन्न बलवान् भवेत्||३३२||

असञ्जातबलो यस्तु ज्वरमुक्तो निषेवते|

वर्ज्यमेतन्नरस्तस्य पुनरावर्तते ज्वरः||३३३||

दुर्हृतेषु दोषेषु यस्य वा विनिवर्तते|

स्वल्पेनप्यपचारेण तस्य व्यावर्तते पुनः||३३४||

चिरकालपरिक्लिष्टं दुर्बलं हीनतेजसम् [] |

अचिरेणैव कालेन हन्ति पुनरागतः||३३५||

अथवाऽपि परीपाकं धातुष्वेव क्रमान्मलाः|

यान्ति ज्वरमकुर्वन्तस्ते तथाऽप्यपकुर्वते||३३६||

दीनतां श्वयथुं ग्लानिं पाण्डुतां नान्नकामताम्|

कण्डूरुत्कोठपिडकाः कुर्वन्त्यग्निं ते मृदुम्||३३७||

एवमन्येऽपि गदा व्यावर्तन्ते पुनर्गताः|

अनिर्घातेन दोषाणामल्पैरप्यहितैर्नृणाम्||३३८||

निर्वृत्तेऽपि ज्वरे तस्माद्यथावस्थं यथाबलम्|

यथाप्राणं हरेद्दोषं प्रयोगैर्वा शमं नयेत्||३३९||

मृदुभिः शोधनैः शुद्धिर्यापना बस्तयो हिताः|

हिताश्च लघवो यूषा जाङ्गलामिषजा रसाः||३४०||

अभ्यङ्गोद्वर्तनस्नानधूपनान्यञ्जनानि |

हितानि पुनरावृत्ते ज्वरे तिक्तघृतानि ||३४१||

गुर्व्यभिष्यन्द्यसात्म्यानां भोजनात् पुनरागते|

लङ्घनोष्णोपचारादिः क्रमः कार्यश्च पूर्ववत्||३४२||

किराततिक्तकं तिक्ता मुस्तं पर्पटकोऽमृता|

घ्नन्ति पीतानि चाभ्यासात् पुनरावर्तकं ज्वरम्||३४३||

तस्यां तस्यामवस्थायां ज्वरितानां विचक्षणः| ज्वराक्रियाक्रमापेक्षी कुर्यात्तत्तच्चिकित्सितम्||३४४||

रोगराट् सर्वभूतानामन्तकृद्दारुणो ज्वरः| तस्माद्विशेषतस्तस्य यतेत प्रशमे भिषक्||३४५||

तत्र श्लोकः-

यथाक्रमं यथाप्रश्नमुक्तं ज्वरचिकित्सितम्| आत्रेयेणाग्निवेशाय भूतानां हितकाम्यया||३४६||

 

Post a Comment

0 Comments