Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 9 unmaad chikitsa








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथात उन्मादचिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

बुद्धिस्मृतिज्ञानतपोनिवासः पुनर्वसुः प्राणभृतां शरण्यः|

उन्मादहेत्वाकृतिभेषजानि कालेऽग्निवेशाय शशंस पृष्टः||||

विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्|
उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमाश्च चेष्टाः||||

तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य|
स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः||||

धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता |
अबद्धवाक्त्वं हृदयं शून्यं सामान्यमुन्मादगदस्य लिङ्गम्||||

मूढचेता सुखं दुःखं नाचारधर्मौ कुत एव शान्तिम्|
विन्दत्यपास्तस्मृतिबुद्धिसञ्ज्ञो भ्रमत्ययं चेत इतस्ततश्च||||

समुद्भ्रमं बुद्धिमनःस्मृतीनामुन्मादमागन्तुनिजोत्थमाहुः|
तस्योद्भवं पञ्चविधं पृथक् तु वक्ष्यामि लिङ्गानि चिकित्सितं ||||

रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः|
चिन्तादिजुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम्||||

अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि|
पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलं चानिलजस्य रूपम्||१०||

अजीर्णकट्वम्लविदाह्यशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम्|
उन्मादमत्युग्रमनात्मकस्य हृदि श्रितं पूर्ववदाशु कुर्यात्||११||

अमर्षसंरम्भविनग्नभावाः सन्तर्जनातिद्रवणौष्ण्यरोषाः |
प्रच्छायशीतान्नजलाभिलाषाः पीता भाः पित्तकृतस्य लिङ्गम्||१२||

सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि सम्प्रवृद्धः|
बुद्धिं स्मृतिं चाप्युपहत्य चित्तं प्रमोहयन् सञ्जनयेद्विकारम्||१३||

वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियताऽतिनिद्रा|
छर्दिश्च लाला बलं भुङ्क्ते नखादिशौक्ल्यं कफात्मकस्य||१४||

यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः हेतुभिः स्यात्|
सर्वाणि रूपाणि बिभर्ति तादृग्विरुद्घभैषज्यविधिर्विवर्ज्यः||१५||

देवर्षिगन्धर्वपिशाचयक्षरक्षःपितॄणामभिधर्षणानि|
आगन्तुहेतुर्नियमव्रतादि मिथ्याकृतं कर्म पूर्वदेहे||१६||

अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः|
उन्मादकालोऽनियतश्च यस्य भूतोत्थमुन्मादमुदाहरेत्तम्||१७||

अदूषयन्तः पुरुषस्य देहं देवादयः स्वैस्तु गुणप्रभावैः|
विशन्त्यदृश्यास्तरसा यथैव च्छायातपौ दर्पणसूर्यकान्तौ||१८||

आघातकालो हि पूर्वरूपः प्रोक्तो निदानेऽथ सुरादिभिश्च|
उन्मादरूपाणि पृथङ्निबोध कालं गम्यान् पुरुषांश्च तेषाम्||१९||

तद्यथा-

सौम्यदृष्टिं गम्भीरमधृष्यमकोपनमस्वप्नभोजनाभिलाषिणमल्पस्वेदमूत्रपुरीषवातं शुभगन्धंफुल्लपद्मवदनमिति देवोन्मत्तं विद्यात्;

गुरुवृद्धसिद्धर्षीणामभिशापाभिचाराभिध्यानानुरूपचेष्टाहारव्याहारं तैरुन्मत्तंविद्यात्;

अप्रसन्नदृष्टिमपश्यन्तं निद्रालुं प्रतिहतवाचमनन्नाभिलाषमरोचकाविपाकपरीतं पितृभिरुन्मत्तं विद्यात्;

(चण्डं साहसिकं तीक्ष्णं गम्भीरमधृष्यं)

मुखवाद्यनृत्यगीतान्नपानस्नानमाल्यधूपगन्धरतिं रक्तवस्त्रबलिकर्महास्यकथानुयोगप्रियंशुभगन्धं गन्धर्वोन्मत्तं विद्यात्;

असकृत्स्वप्नरोदनहास्यं नृत्यगीतवाद्यपाठकथान्नपानस्नानमाल्यधूपगन्धरतिंरक्तविप्लुताक्षं द्विजातिवैद्यपरिवादिनं रहस्यभाषिणं यक्षोन्मत्तं विद्यात्;

नष्टनिद्रमन्नपानद्वेषिणमनाहारमप्यतिबलिनं शस्त्रशोणितमांसरक्तमाल्याभिलाषिणं सन्तर्जकं राक्षसोन्मत्तं विद्यात्;

प्रहासनृत्यप्रधानं देवविप्रवैद्यद्वेषावज्ञाभिः स्तुतिवेदमन्त्रशास्त्रोदाहरणैः काष्ठादिभिरात्मपीडनेन ब्रह्मराक्षसोन्मत्तंविद्यात्;

अस्वस्थचित्तं स्थानमलभमानं नृत्यगीतहासिनं बद्धाबद्धप्रलापिनंसङ्करकूटमलिनरथ्याचेलतृणाश्मकाष्ठाधिरोहणरतिं भिन्नरूक्षस्वरं नग्नं विधावन्तं नैकत्र तिष्ठन्तं दुःखान्यावेदयन्तंनष्टस्मृतिं पिशाचोन्मत्तं विद्यात्||२०||

तत्र चौक्षाचारं तपःस्वाध्यायकोविदं नरं प्रायः शुक्लप्रतिपदि त्रयोदश्यां छिद्रमवेक्ष्याभिधर्षयन्ति देवाः,स्नानशुचिविविक्तसेविनं धर्मशास्त्रश्रुतिवाक्यकुशलं प्रायः षष्ठ्यां नवम्यां चर्षयः, मातृपितृगुरुवृद्धसिद्धाचार्योपसेविनं प्रायोदशम्याममावस्यायां पितरः, गन्धर्वाः स्तुतिगीतवादित्ररतिं परदारगन्धमाल्यप्रियं चौक्षाचारं प्रायो द्वादश्यां चतुर्दश्यां ,सत्त्वबलरूपगर्वशौर्ययुक्तं माल्यानुलेपनहास्यप्रियमतिवाक्करणं प्रायः शुक्लैकादश्यां सप्तम्यां यक्षाः,स्वाध्यायतपोनियमोपवासब्रह्मचर्यदेवयतिगुरुपूजाऽरतिं भ्रष्टशौचं ब्राह्मणमब्राह्मणं वा ब्राह्म्णवादिनं शूरमानिनंदेवागारसलिलक्रीडनरतिं प्रायः शुक्लपञ्चम्यां पूर्णचन्द्रदर्शने ब्रह्मराक्षसाः, रक्षःपिशाचास्तु हीनसत्त्वं पिशुनं स्त्रैणं लुब्धंशठं प्रायो द्वितीयातृतीयाष्टमीषु; इत्यपरिसङ्ख्येयानां ग्रहाणामाविष्कृततमा ह्यष्टावेते व्याख्याताः||२१||

सर्वेष्वपि तु खल्वेषु यो हस्तावुद्यम्य रोषसंरम्भान्निःशङ्कमन्येष्वात्मनि वा निपातयेत् ह्यसाध्यो ज्ञेयः; तथा यः साश्रुनेत्रोमेढ्रप्रवृत्तरक्तः क्षतजिह्वः प्रस्रुतनासिकश्छिद्यमानचर्माऽप्रतिहन्यमानवाणिः सततं विकूजन् दुर्वर्णस्तृषार्तः पूतिगन्धश्च सहिंसार्थिनोन्मत्तो ज्ञेयः; तं परिवर्जयेत्||२२||

रत्यर्चनाकामोन्मादिनौ तु भिषगभिप्रायाचाराभ्यां बुद्ध्वा तदङ्गोपहारबलिमिश्रेण|
मन्त्रभैषज्यविधिनोपक्रमेत्||२३||

तत्र द्वयोरपि निजागन्तुनिमित्तयोरुन्मादयोः
समासविस्तराभ्यां भेषजविधिमनुव्याख्यास्यामः||२४||

उन्मादे वातजे पूर्वं स्नेहपानं विशेषवित्|
कुर्यादावृतमार्गे तु सस्नेहं मृदु शोधनम्||२५||

कफपित्तोद्भवेऽप्यादौ वमनं सविरेचनम्|
स्निग्धस्विन्नस्य कर्तव्यं शुद्धे संसर्जनक्रमः||२६||

निरूहं स्नेहबस्तिं शिरसश्च विरेचनम्|
ततः कुर्याद्यथादोषं तेषां भूयस्त्वमाचरेत्||२७||

हृदिन्द्रियशिरःकोष्ठे संशुद्धे वमनादिभिः|
मनःप्रसादमाप्नोति स्मृतिं सञ्ज्ञां विन्दति||२८||

शुद्धस्याचारविभ्रंशे तीक्ष्णं नावनमञ्जनम्|
ताडनं मनोबुद्धिदेहसंवेजनं हितम्||२९||

यः सक्तोऽविनये पट्टैः संयम्य सुदृढैः सुखैः|
अपेतलोहकाष्ठाद्ये संरोध्यश्च तमोगृहे||३०||

तर्जनं त्रासनं दानं हर्षणं सान्त्वनं भयम्|
विस्मयो विस्मृतेर्हेतोर्नयन्ति प्रकृतिं मनः||३१||

प्रदेहोत्सादनाभ्यङ्गधूमाः पानं सर्पिषः|
प्रयोक्तव्यं मनोबुद्धिस्मृतिसञ्ज्ञाप्रबोधनम्||३२||

सर्पिःपानादिरागन्तोर्मन्त्रादिश्चेष्यते विधिः|३३|

अतः सिद्धतमान्योगाञ्छृणून्मादविनाशनान्||३३||

हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्|
चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम्||३४||

विशाला त्रिफला कौन्ती देवदार्वेलवालुकम्|
स्थिरा नतं रजन्यौ द्वे सारिवे द्वे प्रियङ्गुका||३५||

नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम्|
तालीशपत्रं बृहती मालत्याः कुसुमं नवम्||३६||

विडङ्गं पृश्निपर्णी कुष्ठं चन्दनपद्मकौ|
अष्टाविंशतिभिः कल्कैरेतैरक्षसमन्वितैः||३७||

चतुर्गुणे जले सम्यग्घृतप्रस्थं विपाचयेत्|
अपस्मारे ज्वरे कासे शोषे मन्देऽनले क्षये||३८||

वातरक्ते प्रतिश्याये तृतीयकचतुर्थके|
छर्द्यर्शोमूत्रकृच्छ्रेषु विसर्पोपहतेषु ||३९||

कण्डूपाण्ड्वामयोन्मादविषमेहगदेषु |
भूतोपहतचित्तानां गद्गदानामचेसाम्||४०||

शस्तं स्त्रीणां वन्ध्यानां धन्यमायुर्बलप्रदम्|
अलक्ष्मीपापरक्षोघ्नं सर्वग्रहविनाशनम्||४१||

कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु चैति कल्याणकं घृतम्

एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम्||४२||

रसे तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरे चतुर्गुणे|
वीरार्द्रमाषकाकोलीस्वयङ्गुप्तर्षभर्धिभिः||४३||

मेदया समैः कल्कैस्तत् स्यात् कल्याणकं महत्|
बृंहणीयं विशेषेण सन्निपातहरं परम्||४४||

इति महाकल्याणकं घृतम्

जटिलां पूतनां केशीं चारटीं मर्कटीं वचाम्|
त्रायमाणां जयां वीरां चोरकं कटुरोहिणीम्||४५||

वयःस्थां शूकरीं छत्रामतिच्छत्रां पलङ्कषाम्|
महापुरुषदन्तां कायस्थां नाकुलीद्वयम्||४६||

कटम्भरां वृश्चिकालीं स्थिरां चाहृत्य तैर्घृतम्|
सिद्धं चातुर्थकोन्मादग्रहापस्मारनाशनम्||४७||

महापैशाचिकं नाम घृतमेतद्यथाऽमृतम्|
बुद्धिस्मृतिकरं चैव बालानां चाङ्गवर्धनम्||४८||

इति महापैशाचिकं घृतम्

लशुनानां शतं त्रिंशदभयास्त्र्यूषणात् पलम्|
गवां चर्ममसीप्रस्थो द्व्याढकं क्षीरमूत्रयोः||४९||

पुराणसर्पिषः प्रस्थ एभिः सिद्धं प्रयोजयेत्|
हिङ्गुचूर्णपलं शीते दत्त्वा मधुमाणिकाम्||५०||

तद्दोषागन्तुसम्भूतानुन्मादान् विषमज्वरान्|
अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः||५१||

इति लशुनाद्यं घृतम्लशुनस्याविनष्टस्य तुलार्धं निस्तुषीकृतम्|
तदर्धं दशमूलस्य द्व्याढकेऽपां विपाचयेत्||५२||

पादशेषे घृतप्रस्थं लशुनस्य रसं तथा|
कोलमूलकवृक्षाम्लमातुलुङ्गार्द्रकै रसैः||५३||

दाडिमाम्बुसुरामस्तुकाञ्जिकाम्लैस्तदर्धिकैः|
साधयेत्त्रिफलादारुलवणव्योषदीप्यकैः||५४||

यवानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धिकैः|
सिद्धमेतत् पिबेच्छूलगुल्मार्शोजठरापहम्||५५||

ब्रध्नपाण्ड्वामयप्लीहयोनिदोषज्वरकृमीन्|
वातश्लेष्मामयान् सर्वानुन्मादांश्चापकर्षति||५६||

इत्यपरं लशुनाद्यं घृतम्

हिङ्गुना हिङ्गुपर्ण्या सकायस्थवयःस्थया|
सिद्धं सर्पिर्हितं तद्वद्वयःस्थाहिङ्गुचोरकैः||५७||

केवलं सिद्धमेभिर्वा पुराणं पाययेद्घृतम्|
पाययित्वोत्तमां मात्रां श्वभ्रे रुन्ध्याद्गृहेऽपि वा||५८||

विशेषतः पुराणं घृतं तं पाययेद्भिषक्|
त्रिदोषघ्नं पवित्रत्वाद्विशेषाद्ग्रहनाशनम्||५९||

गुणकर्माधिकं पानादास्वादात् कटुतिक्तकम्|
उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम्||६०||

लाक्षारसनिभं शीतं तद्धि सर्वग्रहापहम्|
मेध्यं विरेचनेष्वग्र्यं प्रपुराणमतः परम्||६१||

नासाध्यं नाम तस्यास्ति यत् स्याद्वर्षशतस्थितम्|
दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्वग्रहापहम्||६२||

अपस्मारग्रहोन्मादवतां शस्तं विशेषतः|६३|

एतानौषधयोगान् वा विधेयत्वमगच्छति||६३||

अञ्जनोत्सादनालेपनावनादिषु योजयेत्|
शिरीषो मधुकं हिङ्गु लशुनं तगरं वचा||६४||

कुष्ठं बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्|
तद्वद्व्योषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्षपाः||६५||

शिरीषबीजं चोन्मादग्रहापस्मारनाशनम्|
पिष्ट्वा तुल्यमपामार्गं हिङ्ग्वालं हिङ्गुपत्रिकाम्||६६||

वार्तिः स्यान्मरिचार्धांशा पित्ताभ्यां गोशृगालयोः|
तयाऽञ्जयेदपस्मारभूतोन्मादज्वरार्दितान्||६७||

भूतार्तानमरार्तांश्च नरांश्चैव दृगामये|
मरिचं चातपे मांसं सपित्तं स्थितमञ्जनम्||६८||

वैकृतं पश्यतः कार्यं दोषभूतहतस्मृतेः|
सिद्धार्थको वचा हिङ्गु करञ्जो देवदारु ||६९||

मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम्|
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम्||७०||

बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम्|
नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा||७१||

अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः|
भूतेभ्यश्च भयं हन्ति राजद्वारे शस्यते||७२||

सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत्|
प्रसेके पीनसे गन्धैर्धूमवर्तिं कृतां पिबेत्||७३||

वैरेचनिकधूमोक्तैः श्वेताद्यैर्वा सहिङ्गुभिः|
शल्लकोलूकमार्जारजम्बूकवृकबस्तजैः||७४||

मूत्रपित्तशकृल्लोमनखैश्चर्मभिरेव |
सेकाञ्जनं प्रधमनं नस्यं धूमं कारयेत्||७५||

वातश्लेष्मात्मके प्रायः ...|७६|

... पैत्तिके तु प्रशस्यते|
तिक्तकं जीवनीयं सर्पिः स्नेहश्च मिश्रकः||७६||

शीतानि चान्नपानानि मधुराणि मृदूनि |
शङ्खकेशान्तसन्धौ वा मोक्षयेज्ज्ञो भिषक् सिराम्|
उन्मादे विषमे चैव ज्वरेऽपस्मार एव ||७७||

घृतमांसवितृप्तं वा निवाते स्थापयेत् सुखम्|
त्यक्त्वा मतिस्मृतिभ्रंशं सञ्ज्ञां लब्ध्वा प्रमुच्यते ||७८||

आश्वासयेत् सुहृद्वा तं वाक्यैर्धर्मार्थसंहितैः|
ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा||७९||

बद्धं सर्षपतैलाक्तं न्यसेद्वोत्तानमातपे|
कपिकच्छ्वाऽथवा तप्तैर्लोहतैलजलैः स्पृशेत्||८०||

कशाभिस्ताडयित्वा वा सुबद्धं विजने गृहे|
रुन्ध्याच्चेतो हि विभ्रान्तं व्रजत्यस्य तथा शमम्||८१||

सर्पेणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम्|
त्रासयेच्छस्त्रहस्तैर्वा तस्करैः शत्रुभिस्तथा||८२||

अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्|
त्रासयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया||८३||

देहदुःखभयेभ्यो हि परं प्राणभयं स्मृतम्|
तेन याति शमं तस्य सर्वतो विप्लुतं मनः||८४||

इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते|
तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः शमं नयेत्||८५||

कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान्|
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्||८६||

बुद्ध्वा देशं वयः सात्म्यं दोषं कालं बलाबले|
चिकित्सितमिदं कुर्यादुन्मादे भूतदोषजे||८७||

देवर्षिपितृगन्धर्वैरुन्मत्तस्य तु बुद्धिमान्|
वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरकर्म ||८८||

सर्पिष्पानादि तस्येह मृदु भैषज्यमाचरेत्|
पूजां बल्युपहारांश्च मन्त्राञ्जनविधींस्तथा||८९||

शान्तिकर्मेष्टिहोमांश्च जपस्वस्त्ययनानि |
वेदोक्तान् नियमांश्चापि प्रायश्चित्तानि चाचरेत्||९०||

भूतानामधिपं देवमीश्वरं जगतः प्रभुम्|
पूजयन् प्रयतो नित्यं जयत्युन्मादजं भयम्||९१||

रुद्रस्य प्रमथा नाम गणा लोके चरन्ति ये|
तेषां पूजां कुर्वाण उन्मादेभ्यः प्रमुच्यते||९२||

बलिभिर्मङ्गलैर्होमैरोषध्यगदधारणैः|
सत्याचारतपोज्ञानप्रदाननियमव्रतैः||९३||

देवगोब्रह्मणानां गुरूणां पूजनेन |
आगन्तुः प्रशमं याति सिद्धैर्मन्त्रौषधैस्तथा||९४||

यच्चोपदेक्ष्यते किञ्चिदपस्मारचिकित्सिते|
उन्मादे तच्च कर्तव्यं सामान्याद्धेतुदूष्ययोः||९५||

निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः|
निजागन्तुभिरुन्मादैः सत्त्ववान् युज्यते||९६||

प्रसादश्चेन्द्रियार्थनां बुद्ध्यात्ममनसां तथा|
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्||९७||

तत्र श्लोकः-

उन्मादानां समुत्थानं लक्षणं सचिकित्सितम्|
निजागन्तुनिमित्तानामुक्तवान् भिषगुत्तमः||९८||

 

Post a Comment

0 Comments