Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 10 apasmaar chikitsa








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अपस्मारचिकित्सितोपक्रमः

अथातोऽपस्मारचिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

स्मृतेरपगमं प्राहुरपस्मारं भिषग्विदः|
तमःप्रवेशं बीभत्सचेष्टं धीसत्त्वसम्प्लवात्||||

विभ्रान्तबहुदोषाणामहिताशुचिभोजनात् [] |
रजस्तमोभ्यां विहते सत्त्वे दोषावृते हृदि||||

चिन्ताकामभयक्रोधशोकोद्वेगादिभिस्तथा|
मनस्यभिहते नॄणामपस्मारः प्रवर्तते||||

धमनीभिः श्रिता दोषा हृदयं पीडयन्ति हि|
सम्पीड्यमानो व्यथते मूढो भ्रान्तेन चेतसा||||

पश्यत्यसन्ति रूपाणि पतति प्रस्फुरत्यपि|
जिह्वाक्षिभ्रूः स्रवल्लालो हस्तौ पादौ विक्षिपन्||||

दोषवेगे विगते सुप्तवत् प्रतिबुद्ध्यते|

पृथग्दोषैः समस्तैश्च वक्ष्यते चतुर्विधः||||

कम्पते प्रदशेद्दन्तान् फेनोद्वामी श्वसित्यपि|
परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात्||||

पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शनः|
सतृष्णोष्णानलव्याप्तलोकदर्शी पैत्तिकः||१०||

शुक्लफेनाङ्गवक्त्राक्षः शीतो हृष्टाङ्गजो गुरुः|
पश्यञ्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात्||११||

सर्वैरेतैः समस्तैस्तु लिङ्गैर्ज्ञेयस्त्रिदोषजः|
अपस्मारः चासाध्यो यः क्षीणस्यानवश्च यः||१२||

पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः|
अपस्माराय कुर्वन्ति वेगं किञ्चिदथान्तरम्||१३||

तैरावृतानां हृत्स्रोतोमनसां सम्प्रबोधनम्|
तीक्ष्णैरादौ भिषक् कुर्यात् कर्मभिर्वमनादिभिः||१४||

वातिकं बस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः|
श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्||१५||

सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य |
अपस्मारविमोक्षार्थं योगान् संशमनाञ्छृणु||१६||

गोशकृद्रसदध्यम्लक्षीरमूत्रैः समैर्घृतम्|
सिद्धं पिबेदपस्मारकामलाज्वरनाशनम्||१७||

इति पञ्चगव्यं घृतम्

द्वे पञ्चमूल्यौ त्रिफला रजन्यौ कुटजत्वचम्|
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम्||१८||

शम्पाकं फल्गुमूलं पौष्करं सदुरालभम्|
द्विपलानि जलद्रोणे पक्त्वा पादावशेषिते||१९||

भार्गीं पाठां त्रिकटुकं त्रिवृतां निचुलानि |
श्रेयसीमाढकीं मूर्वां दन्तीं भूनिम्बचित्रकौ||२०||

द्वे सारिवे रोहिषं भूतीकं मदयन्तिकाम्|
क्षिपेत्पिष्ट्वाऽक्षमात्राणि तेन प्रस्थं घृतात् पचेत्||२१||

गोशकृद्रसदध्यम्लक्षीरमूत्रैश्च तत्समैः|
पञ्चगव्यमिति ख्यातं महत्तदमृतोपमम्||२२||

अपस्मारे तथोन्मादे श्वयथावुदरेषु |
गुल्मार्शःपाण्डुरोगेषु कामलायां हलीमके||२३||

शस्यते घृतमेतत्तु प्रयोक्तव्यं दिने दिने|
अलक्ष्मीग्रहरोगघ्नं चातुर्थकविनाशनम्||२४||

इति महापञ्चगव्यं घृतम्

ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव |
पुराणं घृतमुन्मादालक्ष्म्यपस्मारपापनुत्||२५||

घृतं सैन्धवहिङ्गुभ्यां वार्षे बास्ते चतुर्गुणे|
मूत्रे सिद्धमपस्मारहृद्ग्रहामयनाशनम्||२६||

वचाशम्पाककैटर्यवयःस्थाहिङ्गुचोरकैः|
सिद्धं पलङ्कषायुक्तैर्वातश्लेष्मात्मके घृतम्||२७||

तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः|
क्षीरद्रोणे पचेत् सिद्धमपस्मारविनाशनम्||२८||

कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे|
कार्षिकैर्जीवनीयैश्च घृतप्रस्थं विपाचयेत्||२९||

वातपित्तोद्भवं क्षिप्रमपस्मारं नियच्छति|
तद्वत् काशविदारीक्षुकुशक्वाथशृतं घृतम्||३०||

मधुकद्विपले कल्के द्रोणे चामलकीरसात्|
तद्वत् सिद्धो घृतप्रस्थः पित्तापस्मारभेषजम्||३१||

अभ्यङ्गः सार्षपं तैलं बस्तमूत्रे चतुर्गुणे|
सिद्धं स्याद्गोशकृन्मूत्रैः स्नानोत्सादनमेव ||३२||

कटभीनिम्बकट्वङ्गमधुशिग्रुत्वचां रसे|
सिद्धं मूत्रसमं तैलमभ्यङ्गार्थे प्रशस्यते||३३||

पलङ्कषावचापथ्यावृश्चिकाल्यर्कसर्षपैः|
जटिलापूतनाकेशीनाकुलीहिङ्गुचोरकैः||३४||

लशुनातिरसाचित्राकुष्ठैर्विड्भिश्च पक्षिणाम्|
मांसाशिनां यथालाभं बस्तमूत्रे चतुर्गुणे||३५||

सिद्धमभ्यञ्जनं तैलमपस्मारविनाशनम्|
एतैश्चैवौषधैः कार्यं धूपनं सप्रलेपनम्||३६||

पिप्पलीं लवणं चित्रां हिङ्गु हिङ्गुशिवाटिकाम्|
काकोलीं सर्षपान् काकनासां कैटर्यचन्दने||३७||

शुनःस्कन्धास्थिनखरान् पर्शुकां चेति पेषयेत्|
बस्तमूत्रेण पुष्यर्क्षे प्रदेहः स्यात् सधूपनः||३८||

अपेतराक्षसीकुष्ठपूतनाकेशिचोरकैः|
उत्सादनं मूत्रपिष्टैर्मूत्रैरेवावसेचनम्||३९||

जलौकःशकृता तद्वद्दग्धैर्वा बस्तरोमभिः|
खरास्थिभिर्हस्तिनखैस्तथा गोपुच्छलोमभिः||४०||

कपिलानां गवां मूत्रं [] नावनं परमं हितम्|
श्वशृगालबिडालानां सिंहादीनां शस्यते||४१||

भार्गी वचा नागदन्ती श्वेता श्वेता विषाणिका|
ज्योतिष्मती नागदन्ती पादोक्ता मूत्रपेषिताः||४२||

त्रिफलाव्योषपीतद्रुयवक्षारफणिज्झकैः||४३||

श्यामापामार्गकारञ्जफलैर्मूत्रेऽथ बस्तजे|
साधितं नावनं तैलमपस्मारविनाशनम्||४४||

पिप्पली वृश्चिकाली कुष्ठं लवणानि |
भार्गी चूर्णितं नस्तः कार्यं प्रधमनं परम्||४५||

कायस्थां शारदान्मुद्गान्मुस्तोशीरयवांस्तथा|
सव्योषान् बस्तमूत्रेण पिष्ट्वा वर्तीः प्रकल्पयेत्||४६||

अपस्मारे तथोन्मादे सर्पदष्टे गरार्दिते|
विषपीते जलमृते चैताः स्युरमृतोपमाः||४७||

मुस्तं वयःस्थां त्रिफलां कायस्थां हिङ्गु शाद्वलम्|
व्योषं माषान् यवान्मूत्रैर्बास्तमैषार्षभैस्त्रिभिः||४८||

पिष्ट्वा कृत्वा तां वर्तिमपस्मारे प्रयोजयेत्|
किलासे तथोन्मादे ज्वरेषु विषमेषु ||४९||

पुष्योद्धृतं शुनः पित्तमपस्मारघ्नमञ्जनम्|
तदेव सर्पिषा युक्तं धूपनं परमं मतम्||५०||

नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः|
तुण्डैः [] पक्षैः पुरीषैश्च धूपनं कारयेद्भिषक्||५१||

आभिः क्रियाभिः सिद्धाभिर्हृदयं सम्प्रबुध्यते|
स्रोतांसि चापि शुध्यन्ति ततः [] सञ्ज्ञां विन्दति||५२||

यस्यानुबन्धस्त्वागन्तुर्दोषलिङ्गाधिकाकृतिः|
दृश्येत तस्य कार्यं स्यादागन्तून्मादभेषजम्||५३||

अनन्तरमुवाचेदमग्निवेशः कृताञ्जलिः|
भगवन्! प्राक् समुद्दिष्टः श्लोकस्थाने महागदः||५४||

अतत्त्वाभिनिवेशो यस्तद्धेत्वाकृतिभेषजम्|
तत्र नोक्तमतः श्रोतुमिच्छामि तदिहोच्यताम्||५५||

शुश्रूषवे वचः श्रुत्वा शिष्यायाह पुनर्वसुः|
महागदं सौम्य! शृणु सहेत्वाकृतिभेषजम्||५६||

मलिनाहारशीलस्य वेगान् प्राप्तान्निगृह्णतः|
शीतोष्णस्निग्धरूक्षाद्यैर्हेतुभिश्चातिसेवितैः||५७||

हृदयं समुपाश्रित्य मनोबुद्धिवहाः सिराः|
दोषाः सन्दूष्य तिष्ठन्ति रजोमोहावृतात्मनः||५८||

रजस्तमोभ्यां वृद्धाभ्यां बुद्धौ [] मनसि चावृते|
हृदये व्याकुले दोषैरथ मूढोऽल्पचेतनः [] ||५९||

विषमां कुरुते बुद्धिं नित्यानित्ये हिताहिते|
अतत्त्वाभिनिवेशं तमाहुराप्ता महागदम्||६०||

स्नेहस्वेदोपपन्नं तं संशोध्य वमनादिभिः|
कृतसंसर्जनं मेध्यैरन्नपानैरुपाचरेत्||६१||

ब्राह्मीस्वरसयुक्तं यत् पञ्चगव्यमुदाहृतम्|
तत् सेव्यं शङ्खपुष्पी यच्च मेध्यं रसायनम्||६२||

सुहृदश्चानुकूलास्तं स्वाप्ता धर्मार्थवादिनः|
संयोजयेयुर्विज्ञानधैर्यस्मृतिसमाधिभिः [] ||६३||

प्रयुञ्ज्यात्तैललशुनं पयसा वा शतावरीम्|
ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम्||६४||

दुश्चिकित्स्यो ह्यपस्मारश्चिरकारी कृतास्पदः [] |
तस्माद्रसायनैरेनं प्रायशः समुपाचरेत्||६५||

जलाग्निद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा|
रक्षेदुन्मादिनं चैव सद्यः प्राणहरा हि ते||६६||

तत्र श्लोकौ-

हेतुं कुर्वन्त्यपस्मारं दोषाः प्रकुपिता यथा|
सामान्यतः पृथक्त्वाच्च लिङ्गं तेषां भेषजम्||६७||

महागदसमुत्थानं लिङ्गं चोवाच सौषधम्|
मुनिर्व्याससमासाभ्यामपस्मारचिकित्सिते [] ||६८||

 

Post a Comment

0 Comments