Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 8 raajyakshama chikitsa








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातो राजयक्ष्मचिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

दिवौकसां कथयतामृषिभिर्वै श्रुता कथा|
कामव्यसनसंयुक्ता पौराणी शशिनं प्रति||||

रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः|
आजगामाल्पतामिन्दोर्देहः स्नेहपरिक्षयात्||||

दुहितॄणामसम्भोगाच्छेषाणां प्रजापतेः|
क्रोधो निःश्वासरूपेण मूर्तिमान् निःसृतो मुखात्||||

प्रजापतेर्हि दुहितॄरष्टाविंशतिमंशुमान्|
भार्यार्थं प्रतिजग्राह सर्वास्ववर्तत||||

गुरुणा तमवध्यातं भार्यास्वसमवर्तिनम्|
रजःपरीतमबलं यक्ष्मा शशिनमाविशत्||||

सोऽभिभूतोऽतिमहता गुरुक्रोधेन निष्प्रभः|
देवदेवर्षिसहितो जगाम शरणं गुरुम्||||

अथ चन्द्रमसः शुद्धां मतिं बुद्ध्वा प्रजापतिः|
प्रसादं कृतवान् सोमस्ततोऽश्विभ्यां चिकित्सितः||||

विमुक्तग्रहश्चन्द्रो विरराज विशेषतः|
ओजसा [] वर्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप ||१०||

क्रोधो यक्ष्मा ज्वरो रोग एकार्थो दुःखसञ्ज्ञकः|
यस्मात् राज्ञः प्रागासीद्राजयक्ष्मा ततो मतः||११||

यक्ष्मा हुङ्कृतोऽश्विभ्यां मानुषं लोकमागतः|
लब्ध्वा चतुर्विधं हेतुं समाविशति मानवान्||१२||

अयथाबलमारम्भं वेगसन्धारणं क्षयम्|
यक्ष्मणः कारणं विद्याच्चतुर्थं विषमाशनम्||१३||

युद्धाध्ययनभाराध्वलङ्घनप्लवनादिभिः|
पतनैरभिघातैर्वा साहसैर्वा तथाऽपरैः||१४||

अयथाबलमारम्भैर्जन्तोरुरसि विक्षते|
वायुः प्रकुपितो दोषावुदीर्योभौ प्रधावति||१५||

शिरःस्थः शिरःशूलं करोति गलमाश्रितः|
कण्ठोद्ध्वंसं कासं स्वरभेदमरोचकम्||१६||

पार्श्वशूलं पार्श्वस्थो वर्चोभेदं गुदे स्थितः|
जृम्भां ज्वरं सन्धिस्थ उरःस्थश्चोरसो रुजम्||१७||

क्षणनादुरसः कासात् कफं ष्ठीवेत् सशोणितम्|
जर्जरेणोरसा कृच्छ्रमुरःशूलातिपीडितः||१८||

इति साहसिको यक्ष्मा रूपैरेतैः प्रपद्यते|
एकादशभिरात्मज्ञो भजेत्तस्मान्न साहसम्||१९||

ह्रीमत्त्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम्|
वातमूत्रपुरीषाणां निगृह्णाति यदा नरः||२०||

तदा वेगप्रतीघातात् कफपित्ते समीरयन्|
ऊर्ध्वं तिर्यगधश्चैव विकारान् कुरुतेऽनिलः||२१||

प्रतिश्यायं कासं स्वरभेदमरोचकम्|
पार्श्वशूलं शिरःशूलं ज्वरमंसावमर्दनम्||२२||

अङ्गमर्दं मुहुश्छर्दिं वर्चोभेदं त्रिलक्षणम्|
रूपाण्येकादशैतानि यक्ष्मा यैरुच्यते महान्||२३||

ईर्ष्योत्कण्ठाभयत्रासक्रोधशोकातिकर्शनात्|
अतिव्यवायानशनाच्छुक्रमोजश्च हीयते||२४||

ततः स्नेहक्षयाद्वायुर्वृद्धो दोषावुदीरयन्|
प्रतिश्यायं ज्वरं कासमङ्गमर्दं शिरोरुजम्||२५||

श्वासं विड्भेदमरुचिं पार्श्वशूलं स्वरक्षयम्|
करोति चांससन्तापमेकादशगदानिमान् [] ||२६||

लिङ्गान्यावेदयन्त्येतान्येकादश महागदम्|
सम्प्राप्तं राजयक्ष्माणं क्षयात् प्राणक्षयप्रदम्||२७||

विविधान्यन्नपानानि वैषम्येण समश्नतः|
जनयन्त्यामयान् घोरान्विषमान्मारुतादयः||२८||

स्रोतांसि रुधिरादीनां वैषम्याद्विषमं गताः|
रुद्ध्वा रोगाय कल्पन्ते पुष्यन्ति धातवः||२९||

प्रतिश्यायं प्रसेकं कासं छर्दिमरोचकम्|
ज्वरमंसाभितापं छर्दनं रुधिरस्य ||३०||

पार्श्वशूलं शिरःशूलं स्वरभेदमथापि |
कफपित्तानिलकृतं लिङ्गं विद्याद्यथाक्रमम्||३१||

इति व्याधिसमूहस्य रोगराजस्य हेतुजम्|
रूपमेकादशविधं हेतुश्चोक्तश्चतुर्विधः||३२||

पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम्|
अदोषेष्वपि भावेषु काये बीभत्सदर्शनम्||३३||

घृणित्वमश्नतश्चापि बलमांसपरिक्षयः|
स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने||३४||

मक्षिकाघुणकेशानां तृणानां पतनानि |
प्रायोऽन्नपाने केशानां नखानां चाभिवर्धनम्||३५||

पतत्रिभिः पतङ्गैश्च श्वापदैश्चाभिधर्षणम्|
स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम्||३६||

जलाशयानां शैलानां वनानां ज्योतिषामपि|
शुष्यतां क्षीयमाणानां पततां यच्च दर्शनम्||३७||

प्राग्रूपं बहुरूपस्य तज्ज्ञेयं राजयक्ष्मणः|३८|

पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम्|
अदोषेष्वपि भावेषु काये बीभत्सदर्शनम्||३३||

घृणित्वमश्नतश्चापि बलमांसपरिक्षयः|
स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने||३४||

मक्षिकाघुणकेशानां तृणानां पतनानि |
प्रायोऽन्नपाने केशानां नखानां चाभिवर्धनम्||३५||

पतत्रिभिः पतङ्गैश्च श्वापदैश्चाभिधर्षणम्|
स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम्||३६||

जलाशयानां शैलानां वनानां ज्योतिषामपि|
शुष्यतां क्षीयमाणानां पततां यच्च दर्शनम्||३७||

प्राग्रूपं बहुरूपस्य तज्ज्ञेयं राजयक्ष्मणः|३८|

घ्राणमूले स्थितः श्लेष्मा रुधिरं पित्तमेव वा|
मारुताध्मातशिरसो मारुतं श्यायते प्रति||४८||

प्रतिश्यायस्ततो घोरो जायते देहकर्शनः|
तस्य रूपं शिरःशूलं गौरवं घ्राणविप्लवः||४९||

ज्वरः कासः कफोत्क्लेशः स्वरभेदोऽरुचिः क्लमः|
इन्द्रियाणामसामर्थ्यं यक्ष्मा चातः [] प्रजायते||५०||

पिच्छिलं बहलं विस्रं हरितं श्वेतपीतकम्|
कासमानो रसं यक्ष्मी निष्ठीवति [] कफानुगम्||५१||

अंसपार्श्वाभितापश्च सन्तापः करपादयोः|
ज्वरः सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः||५२||

वातात्पित्तात्कफाद्रक्तात् कासवेगात् सपीनसात्|
स्वरभेदो भवेद्वाताद्रूक्षः क्षामश्चलः स्वरः||५३||

तालुकण्ठपरिप्लोषः पित्ताद्वक्तुमसूयते|
कफाद्भेदो विबद्धश्च स्वरः खुरखुरायते ||५४||

सन्नो रक्तविबद्धत्वात् स्वरः कृच्छ्रात् प्रवर्तते|
कासातिवेगात् कषणः पीनसात्कफवातिकः||५५||

पार्श्वशूलं त्वनियतं सङ्कोचायामलक्षणम्|
शिरःशूलं ससन्तापं यक्ष्मिणः स्यात्सगौरवम्||५६||

अभिसन्ने शरीरे तु यक्ष्मिणो विषमाशनात्|
कण्ठात्प्रवर्तते रक्तं श्लेष्मा चोत्क्लिष्टसञ्चितः||५७||

रक्तं विबद्धमार्गत्वान्मांसादीन्नानुपद्यते |
आमाशयस्थमुत्क्लिष्टं बहुत्वात् कण्ठमेति ||५८||

वातश्लेष्मविबद्धत्वादुरसः श्वासमृच्छति|
दोषैरुपहते चाग्नौ सपिच्छमतिसार्यते||५९||

रक्तं विबद्धमार्गत्वान्मांसादीन्नानुपद्यते |
आमाशयस्थमुत्क्लिष्टं बहुत्वात् कण्ठमेति ||५८||

वातश्लेष्मविबद्धत्वादुरसः श्वासमृच्छति|
दोषैरुपहते चाग्नौ सपिच्छमतिसार्यते||५९||

अरोचकात् कासवेगाद्दोषोत्क्लेशाद्भयादपि|
छर्दिर्या सा विकाराणामन्येषामप्युपद्रवः||६२||

सर्वस्त्रिदोषजो यक्ष्मा दोषाणां तु बलाबलम्|
परीक्ष्यावस्थिकं वैद्यः शोषिणं समुपाचरेत्||६३||

प्रतिश्याये शिरःशूले कासे श्वासे स्वरक्षये|
पार्श्वशूले विविधाः क्रियाः साधारणीः शृणु||६४||

पीनसे स्वेदमभ्यङ्गं धूममालेपनानि |
परिषेकावगाहांश्च यावकं [] वाट्यमेव ||६५||

लवणाम्लकटूष्णांश्च रसान् स्नेहोपबृंहितान्|
लावतित्तिरिदक्षाणां वर्तकानां कल्पयेत्||६६||

सपिप्पलीकं सयवं सकुलत्थं सनागरम्|
दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत्||६७||

तेन षड्विनिवर्तन्ते विकाराः पीनसादयः|
मूलकानां कुलत्थानां यूषैर्वा सूपकल्पितैः [] ||६८||

यवगोधूमशाल्यन्नैर्यथासात्म्यमुपाचरेत्|
पिबेत्प्रसादं वारुण्या जलं वा पाञ्चमूलिकम्||६९||

धान्यनागरसिद्धं वा तामलक्याऽथवा शृतम्|
पर्णिनीभिश्चतसृभिस्तेन चान्नानि कल्पयेत्||७०||

कृशरोत्कारिकामाषकुलत्थयवपायसैः|
सङ्करस्वेदविधिना कण्ठं पार्श्वमुरः शिरः||७१||

स्वेदयेत् पत्रभङ्गेण शिरश्च परिषेचयेत्|
बलागुडूचीमधुकशृतैर्वा वारिभिः सुखैः||७२||

बस्तमत्स्यशिरोभिर्वा नाडीस्वेदं प्रयोजयेत्|
कण्ठे शिरसि पार्श्वे पयोभिर्वा सवातिकैः||७३||

औदकानूपमांसानि सलिलं पाञ्चमूलिकम्|
सस्नेहमारनालं वा नाडीस्वेदे प्रयोजयेत्||७४||

जीवन्त्याः शतपुष्पाया बलाया मधुकस्य |
वचाया वेशवारस्य विदार्या मूलकस्य ||७५||

औदकानूपमांसानामुपनाहाः सुसंस्कृताः|
शस्यन्ते सचतुःस्नेहाः शिरःपार्श्वांसशूलिनाम्||७६||

शतपुष्पा समधुकं कुष्ठं तगरचन्दने|
आलेपनं स्यात् सघृतं शिरःपार्श्वांसशूलनुत्||७७||

बला रास्ना तिलाः सर्पिर्मधुकं नीलमुत्पलम्|
पलङ्कषा देवदारु चन्दनं केशरं घृतम्||७८||

वीरा बला विदारी कृष्णगन्धा पुनर्नवा|
शतावरी पयस्या कत्तृणं मधुकं घृतम्||७९||

चत्वार एते श्लोकार्धैः प्रदेहाः परिकीर्तिताः|
शस्ताः संसृष्टदोषाणां शिरःपार्श्वांसशूलिनाम्||८०||

नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः|
तैलान्यभ्यङ्गयोगीनि [] बस्तिकर्म तथा परम्||८१||

शृङ्गालाबुजलौकोभिः प्रदुष्टं व्यधनेन वा|
शिरःपार्श्वांसशूलेषु रुधिरं तस्य निर्हरेत्||८२||

प्रदेहः सघृतश्चेष्टः पद्मकोशीरचन्दनैः|
दूर्वामधुकमञ्जिष्ठाकेशरैर्वा घृताप्लुतैः||८३||

प्रपौण्डरीकनिर्गुण्डीपद्मकेशरमुत्पलम् [] |
कशेरुकाः पयस्या ससर्पिष्कं प्रलेपनम्||८४||

चन्दनाद्येन तैलेन शतधौतेन सर्पिषा|
अभ्यङ्गः, पयसा सेकः शस्तश्च मधुकाम्बुना||८५||

माहेन्द्रेण सुशीतेन चन्दनादिशृतेन वा|
परिषेकः प्रयोक्तव्य इति संशमनी क्रिया||८६||

दोषाधिकानां वमनं शस्यते सविरेचनम्|
स्नेहस्वेदोपपन्नानां सस्नेहं यन्न कर्शनम्||८७||

शोषी मुञ्चति गात्राणि पुरीषस्रंसनादपि|
अबलापेक्षिणीं मात्रां किं पुनर्यो विरिच्यते||८८||

योगान् संशुद्धकोष्ठानां कासे श्वासे स्वरक्षये|
शिरःपार्श्वांसशूलेषु सिद्धानेतान्प्रयोजयेत्||८९||

बलाविदारिगन्धाद्यैर्विदार्या [] मधुकेन वा|
सिद्धं सलवणं सर्पिर्नस्यं स्यात्स्वर्यमुत्तमम्||९०||

प्रपौण्डरीकं मधुकं पिप्पली बृहती बला|
क्षीरं [] सर्पिश्च तत्सिद्धं स्वर्यं स्यान्नावनं परम्||९१||

शिरःपार्श्वांसशूलघ्नं कासश्वासनिबर्हणम्|
प्रयुज्यमानं बहुशो घृतं चौत्तरभक्तिकम्||९२||

दशमूलेन पयसा सिद्धं मांसरसेन |
बलागर्भं घृतं सद्यो रोगानेतान् प्रबाधते||९३||

भक्तस्योपरि मध्ये वा यथाग्न्यभ्यवचारितम्|
रास्नाघृतं वा सक्षीरं सक्षीरं वा बलाघृतम्||९४||

लेहान् कासापहान् स्वर्याञ् श्वासहिक्कानिबर्हणान्|
शिरःपार्श्वांसशूलघ्नान् स्नेहांश्चातः परं शृणु||९५||

घृतं खर्जूरमृद्वीकाशर्कराक्षौद्रसंयुतम् [] |
सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम्||९६||

दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम्|
सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम्||९७||

शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम्|
पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद्घृतम्||९८||

पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे|
सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम्||९९||

खर्जूरं पिप्पली द्राक्षा पथ्या शृङ्गी दुरालभा|
त्रिफला पिप्पली मुस्तं शृङ्गाटगुडशर्कराः||१००||

वीरा शटी पुष्कराख्यं सुरसः शर्करा गुडः|
नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः||१०१||

श्लोकार्धैर्विहितानेतांल्लिह्यान्ना मधुसर्पिषा|
कासश्वासापहान्स्वर्यान्पार्श्वशूलापहांस्तथा||१०२||

सितोपलां तुगाक्षीरीं पिप्पलीं बहुलां त्वचम्|
अन्त्यादूर्ध्वं द्विगुणितं लेहयेन्मधुसर्पिषा||१०३||

चूर्णितं प्राशयेद्वा तच्छ्वासकासकफातुरम् [] |
सुप्तजिह्वारोचकिनमल्पाग्निं पार्श्वशूलिनम्||१०४||

हस्तपादाङ्गदाहेषु ज्वरे रक्ते तथोर्ध्वगे|
वासाघृतं शतावर्या सिद्धं वा परमं हितम्||१०५||

दुरालभां श्वदंष्ट्रां चतस्रः पर्णिनीर्बलाम्|
भागान्पलोन्मितान् कृत्वा पलं पर्पटकस्य ||१०६||

पचेद्दशगुणे तोये दशभागावशेषिते|
रसे सुपूते द्रव्याणामेषां कल्कान् समावपेत्||१०७||

शट्याः पुष्करमूलस्य पिप्पलीत्रायमाणयोः|
तामलक्याः किरातानां तिक्तस्य कुटजस्य ||१०८||

फलानां सारिवायाश्च सुपिष्टान् कर्षसम्मितान्|
ततस्तेन घृतप्रस्थं क्षीरद्विगुणितं पचेत्||१०९||

ज्वरं दाहं भ्रमं कासमंसपार्श्वशिरोरुजम्|
तृष्णां छर्दिमतीसारमेतत् सर्पिर्व्यपोहति||११०||

जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य |
शटीं पुष्करमूलं व्याघ्रीं गोक्षुरकं बलाम्||१११||

नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम्|
पिप्पलीं समं पिष्ट्वा घृतं वैद्यो विपाचयेत्||११२||

एतद्व्याधिसमूहस्य रोगेशस्य समुत्थितम्|
रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति||११३||

बलां स्थिरां पृश्निपर्णीं बृहतीं सनिदिग्धिकाम्|
साधयित्वा रसे तस्मिन्पयो गव्यं सनागरम्||११४||

द्राक्षाखर्जूरसर्पिर्भिः पिप्पल्या शृतं सह|
सक्षौद्रं ज्वरकासघ्नं स्वर्यं चैतत् प्रयोजयेत्||११५||

आजस्य पयसश्चैवं प्रयोगो जाङ्गला रसाः|
यूषार्थे चणका मुद्गा मकुष्ठाश्चोपकल्पिताः||११६||

ज्वराणां शमनीयो यः पूर्वमुक्तः क्रियाविधिः|
यक्ष्मिणां ज्वरदाहेषु ससर्पिष्कः प्रशस्यते||११७||

कफप्रसेके बलवाञ् श्लैष्मिकश्छर्दयेन्नरः|
पयसा फलयुक्तेन माधुकेन [] रसेन वा||११८||

सर्पिष्मत्या यवाग्वा वा वमनीयोपसिद्धया|
वान्तोऽन्नकाले लघ्वन्नमाददीत सदीपनम्||११९||

यवगोधूममाध्वीकसिध्वरिष्टसुरासवान्|
जाङ्गलानि शूल्यानि सेवमानः कफं जयेत्||१२०||

श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति|
कफप्रसेकं तं विद्वान् स्निग्धोष्णेनैव निर्जयेत्||१२१||

क्रिया कफप्रसेके या वम्यां सैव प्रशस्यते|
हृद्यानि चान्नपानानि वातघ्नानि लघूनि ||१२२||

प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते|
प्राप्नोति चास्यवैरस्यं चान्नमभिनन्दति||१२३||

तस्याग्निदीपनान् योगानतीसारनिबर्हणान्|
वक्त्रशुद्धिकरान् कुर्यादरुचिप्रतिबाधकान्||१२४||

सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बुना|
सिद्धां यवागूं जीर्णे चाङ्गेरीतक्रदाडिमैः||१२५||

पाठा बिल्वं यमानी पातव्यं तक्रसंयुतम्|
दुरालभा शृङ्गवेरं पाठा सुरया सह||१२६||

जम्ब्वाम्रमध्यं बिल्वं सकपित्थं सनागरम्|
पेयामण्डेन पातव्यमतीसारनिवृत्तये||१२७||

एतानेव योगांस्त्रीन् पाठादीन् कारयेत् खडान्|
ससूप्यधान्यान्सस्नेहान् [] साम्लान्सङ्ग्रहणान् परम्||१२८||

वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः|
श्रीपर्ण्या मदयन्त्याश्च यूथिकायाश्च पल्लवान्||१२९||

मातुलुङ्गस्य धातक्या दाडिमस्य कारयेत्|
स्नेहाम्ललवणोपेतान् खडान् साङ्ग्राहिकान् परम्||१३०||

चाङ्गेर्याश्चुक्रिकायाश्च दुग्धिकायाश्च कारयेत्|
खडान्दधिसरोपेतान् ससर्पिष्कान्सदाडिमान्||१३१||

मांसानां लघुपाकानां रसाः साङ्ग्राहिकैर्युताः|
व्यञ्जनार्थं प्रशस्यन्ते भोज्यार्थं रक्तशालयः||१३२||

स्थिरादिपञ्चमूलेन पाने शस्तं शृतं जलम्|
तक्रं सुरा सचुक्रीका दाडिमस्याथवा रसः||१३३||

इत्युक्तं भिन्नशकृतां दीपनं ग्राहि भेषजम्|१३४|

परं मुखस्य वैरस्यनाशनं रोचनं शृणु [] ||१३४||

द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनम्|
तद्वत् प्रक्षालयेदास्यं धारयेत् कवलग्रहान्||१३५||

पिबेद्धूमं ततो मृष्टमद्याद्दीपनपाचनम्|
भेषजं पानमन्नं हितमिष्टोपकल्पितम्||१३६||

त्वङ्मुस्तमेला धान्यानि मुस्तमामलकं त्वचम्|
दार्वीत्वचो यवानी तेजोह्वा पिप्पली तथा||१३७||

यवानी तिन्तिडीकं पञ्चैते मुखधावनाः|
श्लोकपादेष्वभिहिता रोचना मुखशोधनाः||१३८||

गुटिकां धारयेदास्ये चूर्णैर्वा शोधयेन्मुखम्|
एषामालोडितानां वा धारयेत् कवलग्रहान्||१३९||

सुरामाध्वीकसीधूनां तैलस्य मधुसर्पिषोः|
कवलान् धारयेदिष्टान् क्षीरस्येक्षुरसस्य ||१४०||

यवानीं तिन्तिडीकं नागरं साम्लवेतसम्|
दाडिमं बदरं चाम्लं कार्षिकं चोपकल्पयेत्||१४१||

धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्|
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य ||१४२||

शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत्|
जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम्||१४३||

हृत्प्लीहपार्श्वशूलघ्नं विबन्धानाहनाशनम्|
कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत्||१४४||

इति यवानीषाडवम्

तालीशपत्रं मरिचं नागरं पिप्पली शुभा|
यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके||१४५||

पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा|
कासश्वासारुचिहरं तच्चूर्णं दीपनं परम्||१४६||

हृत्पाण्डुग्रहणीदोषशोषप्लीहज्वरापहम्|
वम्यतीसारशूलघ्नं मूढवातानुलोमनम्||१४७||

कल्पयेद्गुटिकां चैतच्चूर्णं पक्त्वा सितोपलाम्|
गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतराः स्मृताः||१४८||

इति तालीशाद्यं चूर्णं गुटिकाश्च

तालीशपत्रं मरिचं नागरं पिप्पली शुभा|
यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके||१४५||

पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा|
कासश्वासारुचिहरं तच्चूर्णं दीपनं परम्||१४६||

हृत्पाण्डुग्रहणीदोषशोषप्लीहज्वरापहम्|
वम्यतीसारशूलघ्नं मूढवातानुलोमनम्||१४७||

कल्पयेद्गुटिकां चैतच्चूर्णं पक्त्वा सितोपलाम्|
गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतराः स्मृताः||१४८||

इति तालीशाद्यं चूर्णं गुटिकाश्च

मांसानि यान्यनभ्यासादनिष्टानि प्रयोजयेत्|
तेषूपधा, सुखं भोक्तुं तथा शक्यानि तानि हि||१५६||

जानञ्जुगुप्सन्नैवाद्याज्जग्धं वा पुनरुल्लिखेत्|
तस्माच्छद्मोपसिद्धानि मांसान्येतानि दापयेत्||१५७||

बर्हितित्तिरिदक्षाणां हंसानां शूकरोष्ट्रयोः|
खरगोमहिषाणां मांसं मांसकरं परम्||१५८||

योनिरष्टविधा चोक्ता मांसानामन्नपानिके|
तां परीक्ष्य भिषग्विद्वान् दद्यान्मांसानि शोषिणे||१५९||

प्रसहा भूशयानूपवारिजा वारिचारिणः|
आहारार्थं प्रदातव्या मात्रया वातशोषिणे||१६०||

प्रतुदा विष्किराश्चैव धन्वजाश्च मृगद्विजाः|
कफपित्तपरीतानां प्रयोज्याः शोषरोगिणाम्||१६१||

विधिवत्सूपसिद्धानि मनोज्ञानि मृदूनि |
रसवन्ति सुगन्धीनि मांसान्येतानि भक्षयेत्||१६२||

मांसमेवाश्नतः शोषो माध्वीकं पिबतोऽपि |
नियतानल्पचित्तस्य चिरं काये तिष्ठति||१६३||

वारुणीमण्डनित्यस्य बहिर्मार्जनसेविनः|
अविधारितवेगस्य यक्ष्मा लभतेऽन्तरम्||१६४||

प्रसन्नां वारुणीं सीधुमरिष्टानासवान्मधु|
यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन्||१६५||

मद्यं तैक्ष्ण्यौष्ण्यवैशद्यसूक्ष्मत्वात् स्रोतसां मुखम्|
प्रमथ्य विवृणोत्याशु तन्मोक्षात् सप्त धातवः||१६६||

पुष्यन्ति धातुपोषाच्च शीघ्रं शोषः प्रशाम्यति|

मांसादमांसस्वरसे सिद्धं सर्पिः प्रयोजयेत्||१६७||

सक्षौद्रं, पयसा सिद्धं सर्पिर्दशगुणेन वा|
सिद्धं मधुरकैर्द्रव्यैर्दशमूलकषायकैः||१६८||

क्षीरमांसरसोपेतैर्घृतं शोषहरं परम्|
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः||१६९||

सयावशूकैः सक्षीरैः स्रोतसां शोधनं घृतम्|
रास्नाबलागोक्षुरकस्थिरावर्षाभुसाधितम्||१७०||

जीवन्तीपिप्पलीगर्भं सक्षीरं शोषनुद्घृतम्|
यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुना सह||१७१||

सिद्धानां सर्पिषामेषामद्यादन्नेन वा सह|
शुष्यतामेष निर्दिष्टो विधिराभ्यवहारिकः||१७२||

बहिःस्पर्शनमाश्रित्य वक्ष्यतेऽतः परं विधिः|
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्||१७३||

स्रोतोविबन्धमोक्षार्थं बलपुष्ट्यर्थमेव |
उत्तीर्णं मिश्रकैःस्नेहैः पुनराक्तैः सुखैः करैः||१७४||

मृद्नीयात् सुखमासीनं सुखं चोत्सादयेन्नरम्|
जीवन्तीं शतवीर्यां विकसां सपुनर्नवाम्||१७५||

अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्|
विदारीं सर्षपं कुष्ठं तण्डुलानतसीफलम्||१७६||

माषांस्तिलांश्च किण्वं सर्वमेकत्र चूर्णयेत्|
यवचूर्णत्रिगुणितं दध्ना युक्तं समाक्षिकम्||१७७||

एतदुत्सादनं कार्यं पुष्टिवर्णबलप्रदम्|
गौरसर्षपकल्केन कल्कैश्चापि सुगन्धिभिः||१७८||

स्नायादृतुसुखैस्तोयैर्जीवनीयौषधैः शृतैः|१७९|

गन्धैः समाल्यैर्वासोभिर्भूषणैश्च विभूषितः||१७९||

स्पृश्यान् संस्पृश्य सम्पूज्य देवताः सभिषग्द्विजाः|
इष्टवर्णरसस्पर्शगन्धवत् पानभोजनम्||१८०||

इष्टमिष्टैरुपहितं सुखमद्यात् [] सुखप्रदम्|
समातीतानि धान्यानि कल्पनीयानि शुष्यताम्||१८१||

लघून्यहीनवीर्याणि स्वादूनि गन्धवन्ति |
यानि प्रहर्षकारीणि तानि पथ्यतमानि हि||१८२||

यच्चोपदेक्ष्यते पथ्यं [] क्षतक्षीणचिकित्सिते|
यक्ष्मिणस्तत् प्रयोक्तव्यं बलमांसाभिवृद्धये||१८३||

अभ्यङ्गोत्सादनैश्चैव वासोभिरहतैः प्रियैः|
यथर्तुविहितैः स्नानैरवगाहैर्विमार्जनैः||१८४||

बस्तिभिः क्षीरसर्पिर्भिर्मांसैर्मांसरसौदनैः|
इष्टैर्मद्यैर्मनोज्ञानां गन्धानामुपसेवनैः||१८५||

सुहृदां रमणीयानां प्रमदानां दर्शनैः|
गीतवादित्रशब्दैश्च प्रियश्रुतिभिरेव ||१८६||

हर्षणाश्वासनैर्नित्यं गुरूणां समुपासनैः|
ब्रह्मचर्येण दानेन तपसा देवतार्चनैः||१८७||

सत्येनाचारयोगेन मङ्गल्यैरप्यहिंसया|
वैद्यविप्रार्चनाच्चैव रोगराजो निवर्तते||१८८||

यया प्रयुक्तया चेष्ट्या राजयक्ष्मा पुरा जितः|
तां वेदविहितामिष्टिमारोग्यार्थी प्रयोजयेत्||१८९||

तत्र श्लोकौ-

प्रागुत्पत्तिर्निमित्तानि प्राग्रूपं रूपसङ्ग्रहः|
समासाद् व्यासतश्चोक्तं भेषजं राजयक्ष्मणः||१९०||

नामहेतुरसाध्यत्वं साध्यत्वं कृच्छ्रसाध्यता|
इत्युक्तः सङ्ग्रहः कृत्स्नो राजयक्ष्मचिकित्सिते||१९१||

 

Post a Comment

0 Comments