Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 7 kusth chikitsa








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातः कुष्ठचिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

हेतुं द्रव्यं लिङ्गं कुष्ठानामाश्रयं प्रशमनं |
शृण्वग्निवेश! सम्यग्विशेषतः स्पर्शनघ्नानाम्||||

विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि |
भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम्||||

व्यायाममतिसन्तापमतिभुक्त्वोपसेविनाम्|
शीतोष्णलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम्||||

घर्मश्रमभयार्तानां द्रुतं शीताम्बुसेविनाम्|
अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम्||||

नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम्|
माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम्||||

व्यवायं चाप्यजीर्णेऽन्ने निद्रां भजतां दिवा|
विप्रान् गुरून् धर्षयतां पापं कर्म कुर्वताम्||||

वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु |
दूषयन्ति कुष्ठानां सप्तको द्रव्यसङ्ग्रहः||||

अतः कुष्ठानि जायन्ते सप्त चैकादशैव |
चैकदोषजं किञ्चित् कुष्ठं समुपलभ्यते||१०||

स्पर्शाज्ञत्वमतिस्वेदो वा वैवर्ण्यमुन्नतिः|
कोठानां लोमहर्षश्च कण्डूस्तोदः श्रमः क्लमः||११||

व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः|
दाहः [] सुप्ताङ्गता चेति कुष्ठलक्षणमग्रजम्||१२||

अत ऊर्ध्वमष्टादशानां कुष्ठानां कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणकैककुष्ठचर्माख्य-किटिभविपादिकालसकदद्रुचर्मदलपामाविस्फोटकशतारुर्विचर्चिकानां लक्षणान्युपदेक्ष्यामः||१३||

कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु|
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्||१४||

दाहकण्डूरुजारागपरीतं लोमपिञ्जरम्|
उदुम्बरफलाभासं कुष्ठमौदुम्बरं विदुः||१५||

श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्|
कृच्छ्रमन्योन्यसंसक्तं कुष्ठं मण्डलमुच्यते||१६||

कर्कशं रक्तपर्यन्तमन्तः श्यावं सवेदनम्|
यदृष्यजिह्वासंस्थानमृष्यजिह्वं तदुच्यते||१७||

सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम्|
सोत्सेधं सदाहं पुण्डरीकं तदुच्यते||१८||

श्वेतं ताम्रं तनु यद्रजो [] घृष्टं विमुञ्चति|
अलाबूपुष्पवर्णं तत् सिध्मं प्रायेण चोरसि||१९||

यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम्|
त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिध्यति||२०||

इति सप्तमहाकुष्ठानि

अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम्|
तदेककुष्ठ

चर्माख्यं बहलं हस्तिचर्मवत्||२१||

श्यावं किणखरस्पर्शं परुषं किटिभं स्मृतम्|

वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्||२२||

कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम्|

सकण्डूरागपिडकं दद्रुमण्डलमुद्गतम्||२३||

रक्तं [] सकण्डु सस्फोटं सरुग्दलति चापि यत्|
तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते||२४||

पामाश्वेतारुणश्यावाः कण्डूलाः पिडका भृशम्|

स्फोटाः श्वेतारुणाभासो विस्फोटाः स्युस्तनुत्वचः||२५||

रक्तं श्यावं सदाहार्ति शतारुः स्याद्बहुव्रणम्|

सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका||२६||

इत्येकादश क्षुद्रकुष्ठानि

वातेऽधिकतरे कुष्ठं कापालं मण्डलं कफे|
पित्ते त्वौदुम्बरं विद्यात् काकणं तु त्रदोषजम्||२७||

वातपित्ते श्लेष्मपित्ते वातश्लेष्मणि चाधिके|
ऋष्यजिह्वं पुण्डरीकं सिध्मकुष्ठं जायते||२८||

चर्माख्यमेककुष्ठं किटिमं सविपादिकम्|
कुष्ठं चालसकं ज्ञेयं प्रायो वातकफाधिकम्||२९||

पामा शतारुर्विस्फोटं दद्रुश्चर्मदलं तथा|
पित्तश्लेष्माधिकं प्रायः कफप्राया विचर्चिका||३०||

सर्वं त्रिदोषजं कुष्ठं दोषाणां तु बलाबलम्|
यथास्वैर्लक्षणैर्बुद्ध्वा कुष्ठानां क्रियते क्रिया||३१||

दोषस्य यस्य पश्येत् कुष्ठेषु विशेषलिङ्गमद्रिक्तम्|
तस्यैव शमं कुर्यात्ततः परं चानुबन्धस्य||३२||

कुष्ठविशेषैर्दोषा दोषविशेषैः पुनश्च कुष्ठानि|
ज्ञायन्ते तैर्हेतुर्हेतुस्तांश्च [] प्रकाशयति||३३||

रौक्ष्यं शोषस्तोदः शूलं सङ्कोचनं तथाऽऽयामः|
पारुष्यं खरभावो हर्षः श्यावारुणत्वं ||३४||

कुष्ठेषु वातलिङ्गं, दाहो रागः परिस्रवः पाकः|
विस्रो गन्धः क्लेदस्तथाऽङ्गपतनं पित्तकृतम्||३५||

श्वैत्यं शैत्यं कण्डूः स्थैर्यं चोत्सेधगौरवस्नेहाः|
कुष्ठेषु तु कफलिङ्गं जन्तुभिरभिभक्षणं क्लेदः||३६||

सर्वैर्लिङ्गैर्युक्तं मतिमान् विवर्जयेदबलम्|
तृष्णादाहपरीतं शान्ताग्निं जन्तुभिर्जग्धम्||३७||

वातकफप्रबलं यद्यदेकदोषोल्बणं तत् कृच्छ्रम्|
कफपित्त-वातपित्तप्रबलानि तु कृच्छ्रसाध्यानि||३८||

वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु|
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे||३९||

वमनविरेचनयोगाः कल्पोक्ताः कुष्ठिनां प्रयोक्तव्याः|
प्रच्छनमल्पे कुष्ठे महति शस्तं सिराव्यधनम्||४०||

बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्|
दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु||४१||

स्नेहस्य पानमिष्टं शुद्धे कोष्ठे प्रवाहिते रक्ते|
वायुर्हि शुद्धकोष्ठं कुष्ठिनमबलं विशति शीघ्रम्||४२||

दोषोत्क्लिष्टे हृदये वाम्यः कुष्ठेषु चोर्ध्वभागेषु|
कुटजफलमदनमधुकैः सपटोलैर्निम्बरसयुक्तैः||४३||

शीतरसः पक्वरसो मधूनि मधुकं वमनानि|

कुष्ठेषु त्रिवृता दन्ती त्रिफला विरेचने शस्ता||४४||

सौवीरकं तुषोदकमालोडनमासवाश्च सीधूनि|
शंसन्त्यधोहराणां यथाविरेकं क्रमश्चेष्टः||४५||

दार्वीबृहतीसेव्यैः पटोलपिचुमर्दमदनकृतमालैः|
सस्नेहैरास्थाप्यः कुष्ठी सकलिङ्गयवमुस्तैः||४६||

वातोल्बणं विरिक्तं निरूढमनुवासनार्हमालक्ष्य|
फलमधुकनिम्बकुटजैः सपटोलैः साधयेत्स्नेहम्||४७||

सैन्धवदन्तीमरिचं फणिज्झकः पिप्पली करञ्जफलम्|
नस्यं स्यात्सविडङ्गं क्रिमिकुष्ठकफप्रकोपघ्नम् [] ||४८||

वैरेचनिकैर्धूमैः श्लोकस्थानेरितैः प्रशाम्यन्ति|
कृमयः कुष्ठकिलासाः प्रयोजितैरुत्तमाङ्गस्थाः||४९||

स्थिरकठिनमण्डलानां स्विन्नानां प्रस्तरप्रणाडीभिः|
कूर्चैर्विघट्टितानां रक्तोत्क्लेशोऽपनेतव्यः||५०||

आनूपवारिजानां मांसानां पोट्टलैः सुखोष्णैश्च|
स्विन्नोत्सन्नं [] विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण||५१||

रुधिरागमार्थमथवा शृङ्गालाबूनि [] योजयेत् कुष्ठे|
प्रच्छितमल्पं कुष्ठं विरेचयेद्वा जलौकोभिः||५२||

ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्|
संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम्||५३||

येषु शस्त्रं क्रमते स्पर्शेन्द्रियनाशनानि यानि स्युः|
तेषु निपात्यः क्षारो रक्तं दोषं विस्राव्य||५४||

पाषाणकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे |
पीतागदस्य कार्यो विषैः प्रदेहोऽगदैश्चानु||५५||

स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि|
कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम्||५६||

जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनैर्वा|
घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि||५७||

मारुतकफकुष्ठघ्नं कर्मोक्तं पित्तकुष्ठिनां कार्यम्|
कफपित्तरक्तहरणं तिक्तकषायैः प्रशमनं ||५८||

सर्पींषि तिक्तकानि यच्चान्यद्रक्तपित्तनुत् [] कर्म|
बाह्याभ्यन्तरमग्र्यं तत् कार्यं पित्तकुष्ठेषु||५९||

दोषाधिक्यविभागादित्येतत् कर्म कुष्ठनुत् प्रोक्तम्|
वक्ष्यामि कुष्ठशमनं प्रायस्त्वग्दोषसामान्यात्||६०||

दार्वी रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम्|
अभया प्रयोजिता वा मासं सव्योषगुडतैला||६१||

मूलं पटोलस्य तथा गवाक्ष्याः पृथक् पलांशं त्रिफलात्वचश्च [] |
स्यात्त्रायमाणा कटुरोहिणी भागार्धिका नागरपादयुक्ता||६२||

पलं तथैषां सह चूर्णितानां जले शृतं दोषहरं पिबेन्ना|
जीर्णे रसैर्धन्वमृगद्विजानां पुराणशाल्योदनमाददीत||६३||

कुष्ठानि शोफं ग्रहणीप्रदोषमर्शांसि कृच्छ्राणि हलीमकं |
षड्रात्रयोगेन निहन्ति चैष हृद्बस्तिशूलं विषमज्वरं ||६४||

मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूल्यौ द्वे|
सप्तच्छदनिम्बत्वक् सविशालश्चित्रको मूर्वा||६५||

चूर्णं तर्पणभागैर्नवभिः संयोजितं समध्वाज्यम् [] |
सिद्धं कुष्ठनिबर्हणमेतत् प्रायोगिकं भक्ष्यम्||६६||

श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि|
ब्रघ्नभगन्दरपिडकाकण्डूकोठांश्च विनिहन्ति||६७||

इति मुस्तादिचूर्ण

त्रिफलाफलातिविषाकटुकानिम्बकलिङ्गकवचापटोलानाम्|
मागधिकारजनीद्वयपद्मकमूर्वाविशालानाम्||६८||

भूनिम्बपलाशानां दद्याद्विपलं ततस्त्रिवृद्द्विगुणा|
तस्याश्च पुनर्ब्राह्मी तच्चूर्णं सुप्तिनुत् परमम्||६९||

लेलीतकप्रयोगो [] रसेन जात्याः समाक्षिकः परमः|
सप्तदशकुष्ठघाती माक्षिकधातुश्च मूत्रेण||७०||

श्रेष्ठं [] गन्धकयोगात् सुवर्णमाक्षिकप्रयोगाद्वा|
सर्वव्याधिनिबर्हणमद्यात् कुष्ठी रसं निगृहीतम्||७१||

वज्रशिलाजतुसहितं सहितं वा योगराजेन|
सर्वव्याधिप्रशमनमद्यात्कुष्ठी निगृह्य नित्यं ||७२||

खदिरसुरदारुसारं श्रपयित्वा तद्रसेन तोयार्थः|
क्षौद्रप्रस्थे कार्यः कार्ये ते चाष्टपलिके ||७३||

तत्राश्चूर्णानामष्टपलं प्रक्षिपेत्तथाऽमूनि|
त्रिफलैले त्वङ्मरिचं पत्रं कनकं कर्षांशम्||७४||

मत्स्यण्डिका मधुसमा तन्मासं जातमायसे भाण्डे|
मध्वासवमाचरतः कुष्ठकिलासे शमं यातः||७५||

इति मध्वासवः

खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य|
द्रव्याणि चूर्णितानि षट्पलिकान्यत्र देयानि||७६||

त्रिफलाव्योषविडङ्गरजनीमुस्ताटरूषकेन्द्रयवाः|
सौवर्णी तथा त्वक् छिन्नरुहा चेति तन्मासम्||७७||

निदधीत धान्यमध्ये प्रातः प्रातः पिबेत्ततो युक्त्या|
मासेन महाकुष्ठं हन्त्येवाल्पं तु पक्षेण||७८||

अर्शःश्वासभगन्दरकासकिलासप्रमेहशोषांश्च|
ना भवति कनकवर्णः पीत्वाऽरिष्टं कनकबिन्दुम्||७९||

इति कनकबिन्द्वरिष्टम्
कुष्ठेष्वनिलकफकृतेष्वेवं पेयस्तथाऽपि पैत्तेषु|
कृतमालक्वाथश्चाप्येष विशेषात् कफकृतेषु||८०||

त्रिफलासवश्च गौडः सचित्रकः कुष्ठरोगविनिहन्ता|
क्रमुकदशमूलदन्तीवराङ्गमधुयोगसंयुक्तः||८१||

लघूनि चान्नानि हितानि विद्यात् कुष्ठेषु शाकनि तिक्तकानि|
भल्लातकैः सत्रिफलैः सनिम्बैर्युक्तानि चान्नानि घृतानि चैव||८२||

पुराणधान्यान्यथ जाङ्गलानि मांसानि मुद्गाश्च पटोलयुक्ताः|
शस्ता, गुर्वम्लपयोदधीनि नानूपमत्स्या गुडस्तिलाश्च||८३||

एला कुष्ठं दार्वी शतपुष्पा चित्रको विडङ्गश्च|
कुष्ठालेपनमिष्टं रसाञ्जनं चाभया चैव||८४||

चित्रकमेलां बिम्बीं [] वृषकं त्रिवृदर्कनागरकम्|
चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य||८५||

क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु|
भिद्यन्ते विलयन्ति लिप्तान्यर्काभितप्तानि||८६||

मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूमः|
मूत्रं पित्तं [] क्षारः पालाशः कुष्ठहा लेपः||८७||

त्रपु सीसमयश्चूर्णं मण्डलनुत् फल्गुचित्रकौ बृहती|
गोधारसः सलवणो दारु मूत्रं मण्डलनुत्||८८||

कदलीपलाशपाटलिनिचुलक्षाराम्भसा प्रसन्नेन|
मांसेषु तोयकार्यं कार्यं पिष्टे किण्वे [] ||८९||

तैर्मेदकः सुजातः किण्वैर्जनितं प्रलेपनं शस्तम्|
मण्डलकुष्ठविनाशनमातपसंस्थं कृमिघ्नं ||९०||

मुस्तं मदनं त्रिफला करञ्ज आरग्वधकलिङ्गयवाः|
दार्वी ससप्तपर्णा स्नानं सिद्धार्थकं नाम||९१||

एष कषायो वमनं विरेचनं वर्णकस्तथोद्घर्षः|
त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः||९२||

कुष्ठं करञ्जबीजान्येडगजः कुष्ठसूदनो लेपः|
प्रपुन्नाडबीजसैन्धवरसाञ्जनकपित्थलोध्राश्च||९३||

श्वेतकरवीरमूलं कुटजकरञ्जयोः फलं त्वचो दार्व्याः|
सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः||९४||

लोध्रस्य धातकीनां वत्सकबीजस्य नक्तमालस्य|
कल्कश्च मालतीनां कुष्ठेषून्मर्दनालेपौ||९५||

शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि|
पिष्टा काकमाची चतुर्विधः कुष्ठनुल्लेपः||९६||

इति लेपाः

दार्व्या रसाञ्जनस्य निम्बपटोलस्य खदिरसारस्य|
आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य||९७||

इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य|
स्नाने पाने हितास्तथाऽष्टमश्चाश्वमारस्य||९८||

आलेपनं प्रघर्षणमवचूर्णनमेत एव कषायाः|
तैलघृतपाकयोगे चेष्यन्ते कुष्ठशान्त्यर्थम्||९९||

त्रिफला निम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी|
एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम्||१००||

एतैरेव सर्पिः सिद्धं वातोल्बणं जयति कुष्ठम्|
एष कल्पो दिष्टः खदिरासनदारुनिम्बानाम्||१०१||

कुष्ठार्कतुत्थकट्फलमूलकबीजानि रोहिणी कटुका|
कुटजफलोत्पलमुस्तं बृहतीकरवीरकासीसम्||१०२||

एडगजनिम्बपाठा दुरालभा चित्रको विडङ्गश्च|
तिक्तालाबुकबीजं कम्पिल्लकसर्षपौ वचा दार्वी||१०३||

एतैस्तैलं सिद्धं कुष्ठघ्नं योग एष चालेपः|
उद्वर्तनं प्रघर्षणमवचूर्णनमेष एवेष्टः||१०४||

श्वेतकरवीरकरसो गोमूत्रं चित्रको विडङ्गश्च|
कुष्ठेषु तैलयोगः सिद्धोऽयं सम्मतो भिषजाम्||१०५||

इति श्वेतकरवीराद्यं तैलम्

श्वेतकरवीरपल्लवमूलत्वग्वत्सको विडङ्गश्च|
कुष्ठार्कमूलसर्षपशिग्रुत्वग्रोहिणी कटुका||१०६||

एतैस्तैलं सिद्धं कल्कैः पादांशिकैर्गवां मूत्रम्|
दत्त्वा तैलचतुर्गुणमभ्यङ्गात् कुष्ठकण्डूघ्नम्||१०७||

इति श्वेतकरवीरपल्लवाद्यं तैलम्

तिक्तालाबुकबीजं द्वे तुत्थे रोचना हरिद्रे द्वे|
बृहतीफलमेरण्डः सविशालश्चित्रको मूर्वा||१०८||

कासीसहिङ्गुशिग्रुत्र्यूषणसुरदारुतुम्बुरुविडङ्गम्|
लाङ्गालकं कुटजत्वक् कटुकाख्या रोहिणी चैव||१०९||

सर्षपतैलं कल्कैरेतैर्मूत्रे चतुर्गुणे साध्यम्|
कण्डूकुष्ठविनाशनमभ्यङ्गान्मारुतकफहन्तृ||११०||

इति तिक्तेक्ष्वाक्वादितैलम्

कनकक्षीरी शैला भार्गी दन्त्याः फलानि मूलं |
जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक्||१११||

सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोताः|
गुञ्जैरण्डं बृहतीमूलकसुरसार्जकफलानि||११२||

कुष्ठं पाठा मुस्तं तुम्बुरुमूर्वावचाः सषड्ग्रन्थाः [] |
एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः||११३||

हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासञ्ज्ञः|
सौराष्ट्री कासीसं दार्वीत्वक् सर्जिकालवणम्||११४||

कल्कैरेतैस्तैलं करवीरकमूलपल्लवकषाये|
सार्षपमथवा तैलं गोमूत्रचतुर्गुणं साध्यम्||११५||

स्थाप्यं कटुकालाबुनि तत्सिद्धं तेन मण्डलान्याशु|
भिन्द्याद्भिषगभ्यङ्गात्कृमींश्च कण्डूं विनिहन्यात्||११६||

इति कनकक्षीरीतैलम्

कुष्ठं तमालपत्रं मरिचं समनःशिलं सकासीसम्|
तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे||११७||

तेनालिप्तं सिध्मं सप्ताहाह्येति [] तिष्ठतो घर्मे|
मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः||११८||

इति सिध्मे लेपः

सर्षपकरञ्जकोषातकीनां तैलान्यथेङ्गुदीनां |
कुष्ठेषु हितान्याहुस्तैलं यच्चापि खदिरसारस्य||११९||

जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकः पयस्तुत्थम्|
एष घृततैलपाकः सिद्धः सिद्धे सर्जरसः||१२०||

देयः समधूच्छिष्टो विपादिका तेन शाम्यतेऽभ्यक्ता|
चर्मैककुष्ठकिटिमं कुष्ठं शाम्यत्यलसकं ||१२१||

इति विपादिकाहरघृततैले

किण्वं [] वराहरुधिरं पृथ्वीका सैन्धवं लेपः ्यात्|
लेपो योज्यः कुस्तुम्बुरूणि कुष्ठं मण्डलनुत्||१२२||

पूतीकदारुजटिलाः पक्वसुरा क्षौद्रमुद्गपर्ण्यौ |
लेपः सकाकनासो मण्डलकुष्ठापहः सिद्धः||१२३||

चित्रकशोभाञ्जनकौ गुडूच्यपामार्गदेवदारूणि|
खदिरो धवश्च लेपः श्यामा दन्ती द्रवन्ती ||१२४||

लाक्षारसाञ्जनैलाः पुनर्नवा चेति कुष्ठिनो लेपाः|
दधिमण्डयुताः सर्वे देयाः षण्मारुतकफकुष्ठघ्नाः||१२५||

एडगजकुष्ठसैन्धवसौवीरकसर्षपैः कृमिघ्नैश्च|
कृमिकुष्ठमण्डलाख्यं दद्रूकुष्ठं शममुपैति||१२६||

एडगजः सर्जरसो मूलकबीजं सिध्मकुष्ठानाम्|
काञ्जिकयुक्तं तु पृथङ्मतमिदमुद्वर्तनं लेपाः||१२७||

वासा त्रिफला पाने स्नाने चोद्वर्तने प्रलेपे |
बृहतीसेव्यपटोलाः ससारिवा रोहिणी चैव||१२८||

खदिरावघातककुभरोहीतकलोध्रकुटजधवनिम्बाः|
सप्तच्छदकरवीराः शस्यन्ते स्नानपानेषु||१२९||

जलवाप्यलोहकेशरपत्रप्लवचन्दनं मृणालानि|
भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे||१३०||

यष्ट्याह्वलोध्रपद्मकपटोलपिचुमर्दचन्दनरसाश्च|
स्नाने पाने हिताः सुशीतलाः पित्तकुष्ठिभ्यः||१३१||

आलेपनं प्रियङ्गुर्हरेणुका वत्सकस्य फलानि|
सातिविषा ससेव्या सचन्दना रोहिणी कटुका||१३२||

तिक्तघृतैर्धौतघृतैरभ्यङ्गो दह्यमानकुष्ठेषु|
तैलैश्चन्दनमधुकप्रपौण्डरीकोत्पलयुतैश्च||१३३||

क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके सचर्मदले|
शीताः प्रदेहसेका व्यधो विरेको घृतं तिक्तम्||१३४||

खदिरघृतं निम्बघृतं दार्वीघृतमुत्तमं पटोलघृतम्|
कुष्ठेषु रक्तपित्तप्रबलेषु भिषग्जितं सिद्धम्||१३५||

त्रिफलात्वचोऽर्धपलिकाः पटोलपत्रं कार्षिकाः शेषाः|
कटुरोहिणी सनिम्बा यष्ट्याह्वा त्रायमाणा ||१३६||

एष कषायः साध्यो दत्त्वा द्विपलं मसूरविदलानाम्|
सलिलाढकेऽष्टभागे शेषे पूतो रसो ग्राह्यः||१३७||

ते [] कषायेऽष्टपले चतुष्पलं सर्पिषश्च पक्तव्यम्|
यावत्स्यादष्टपलं शेषं पेयं ततः कोष्णम्||१३८||

तद्वातपित्तकुष्ठं वीसर्पं वातशोणितं प्रबलम्|
ज्वरदाहगुल्मविद्रधिविभ्रमविस्फोटकान् हन्ति||१३९||

निम्बपटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम्|
कुर्यादर्धदलांशं पर्पटकं त्रायमाणां ||१४०||

सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत् पूते|
चन्दनकिराततिक्तकमागधिकास्त्रायमाणां ||१४१||

मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान्|
नवसर्पिषश्च षट्पलमेतत्सिद्धं [] घृतं पेयम्||१४२||

कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि|
पामाविसर्पपिडकाकण्डूमदगण्डनुत्सिद्धम्||१४३||

इति तिक्तषट्पलकं घृतम्

सप्तच्छदं प्रतिविषां शम्पाकं तिक्तरोहिणीं पाठाम्|
मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम्||१४४||

धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे|
षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे||१४५||

वत्सकबीजं यासं [] मूर्वाममृतां किराततिक्तं |
कल्कान् कुर्यान्मतिमान्यष्ट्याह्वं त्रायमाणां ||१४६||

कल्कश्चातुर्भागो [] जलमष्टगुणं रसोऽमृतफलानाम्|
द्विगुणो घृतात्प्रदेयस्तत्सर्पिः पाययेत्सिद्धम्||१४७||

कुष्ठानि रक्तपित्तप्रबलान्यर्शांसि रक्तवाहीनि|
वीसर्पमम्लपित्तं [] वातासृक् पाण्डुरोगं ||१४८||

विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम्|
हृद्रोगगुल्मपिडका असृग्दरं गण्दमालां ||१४९||

हन्यादेतत् सर्पिः पीतं काले यथाबलं सद्यः|
योगशतैरप्यजितान्महाविकारान्महातिक्तम्||१५०||

इति महातिक्तकं घृतम्

दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने [] |
स्नेहे कालयुक्ते कुष्ठमनुवर्तते [] साध्यम्||१५१||

खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले|
तुलार्धाः सर्व एवैते करञ्जारिष्टवेतसाः||१५२||

पर्पटः कुटजश्चैव वृषः कृमिहरस्तथा|
हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत्||१५३||

सप्तपर्णश्च सङ्क्षुण्णा दशद्रोणेषु वारिणः|
अष्टभागावशेषं तु कषायमवतारयेत्||१५४||

धात्रीरसं तुल्यांशं सर्पिषश्चाढकं पचेत्|
महातिक्तककल्कैस्तु यथोक्तैः पलसम्मितैः||१५५||

निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात्|
महाखदिरमित्येतत् परं कुष्ठविकारनुत्||१५६||

इति महाखदिरं घृतम्

प्रपतत्सु लसीकाप्रस्रुतेषु गात्रेषु जन्तुजग्धेषु|
मूत्रं निम्बविडङ्गे स्नानं पानं प्रदेहश्च||१५७||

वृषकुटजसप्तपर्णाः करवीरकरञ्जनिम्बखदिराश्च|
स्नाने पाने लेपे क्रिमिकुष्ठनुदः सगोमूत्राः||१५८||

पानाहारविधाने प्रसेचने धूपने प्रदेहे |
कृमिनाशनं विडङ्गं विशिष्यते कुष्ठहा खदिरः||१५९||

एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्|
उद्दालनं श्वदन्ता गोश्ववराहोष्ट्रदन्ताश्च||१६०||

एडगजः सविडङ्गो द्वे निशे राजवृक्षमूलं |
कुष्ठोद्दालनमग्र्यं सपिप्पलीपाकलं योज्यम्||१६१||

श्वित्राणां सविशेषं [] योक्तव्यं सर्वतो विशुद्धानाम्|
श्वित्रे स्रंसनमग्र्यं मलपूरस इष्यते सगुडः||१६२||

तं पीत्वा सुस्निग्धो यथाबलं सूर्यपादसन्तापम्|
संसेवेत विरिक्तस्त्र्यहं पिपासुः पिबेत् पेयाम्||१६३||

श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान्भिन्द्यात्|
स्फोटेषु विस्रुतेषु प्रातः प्रातः पिबेत् पक्षम्||१६४||

मलपूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य|
पालाशं वा क्षारं यथाबलं फाणितोपेतम्||१६५||

यच्चान्यत् कुष्ठघ्नं श्वित्राणां सर्वमेव तच्छस्तम्|
खदिरोदकसंयुक्तं खदिरोदकपानग्र्यं वा||१६६||

समनःशिलं विडङ्गं कासीसं रोचनां कनकपुष्पीम्|
श्वित्राणां प्रशमार्थं ससैन्धवं लेपनं दद्यात्||१६७||

कदलीक्षारयुतं वा खरास्थि दग्धं गवां रुधिरयुक्तम्|
हस्तिमदाध्युषितं वा मालत्याः कोरकक्षारम्||१६८||

नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा|
मूलकबीजावल्गुजलेपः पिष्टो गवां मूत्रे||१६९||

काकोदुम्बरिका वा सावल्गुजचित्रका गवां मूत्रे|
पिष्टा मनःशिला वा संयुक्ता बर्हिपित्तेन||१७०||

लेपः किलासहन्ता बीजान्यावल्गुजानि लाक्षा |
गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः||१७१||

शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्|
श्वित्रं कस्यचिदेव प्रणश्यति क्षीणपापस्य||१७२||

दारुणं चारुणं [] श्वित्रं किलासं नामभिस्त्रिभिः|
विज्ञेयं त्रिविधं तच्च [] त्रिदोषं प्रायशश्च तत्||१७३||

दोषे रक्ताश्रिते रक्तं ताम्रं मांससमाश्रिते|
श्वेतं मेदःश्रिते श्वित्रं गुरु तच्चोत्तरोत्तरम्||१७४||

यत् परस्परतोऽभिन्नं बहु यद्रक्तलोमवत्|
यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति||१७५||

अरक्तलोम तनु यत् पाण्डु नातिचिरोत्थितम्|
मध्यावकाशे चोच्छूनं श्वित्रं तत्साध्यमुच्यते||१७६||

वचांस्यतथ्यानि कृतघ्नभावो निन्दा सुराणां [] गुरुधर्षणं |
पापक्रिया पूर्वकृतं कर्म हेतुः किलासस्य विरोधि चान्नम्||१७७||

तत्र श्लोकाः-

हेतुर्द्रव्यं लिङ्गं विविधं ये येषु चाधिका दोषाः|
कुष्ठेषु दोषलिङ्गं समासतो दोषनिर्देशः||१७८||

साध्यमसाध्यं कृच्छ्रं कुष्ठं कुष्ठापहाश्च ये योगाः|
सिद्धाः किलासहेतुर्लिङ्गं गुरुलाघवं तथा शान्तिः||१७९||

इति सङ्ग्रहः प्रणीतो महर्षिणा कुष्ठनाशनेऽध्याये|
स्मृतिबुद्धिवर्घनार्थं शिष्याय हुताशवेशाय||१८०||

 

Post a Comment

0 Comments