For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातः प्रमेहचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
निर्मोहमानानुशयो निराशः पुनर्वसुर्ज्ञानतपोविशालः|
कालेऽग्निवेशाय सहेतुलिङ्गानुवाच मेहाञ्शमनं च तेषाम्||३||
आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि|
नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम्||४||
मेदश्च मांसं च शरीरजं च क्लेदं कफो बस्तिगतं प्रदूष्य|
करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि||५||
क्षीणेषु दोषेष्ववकृष्य बस्तौ धातून् प्रमेहाननिलः करोति|
दोषो हि बस्तिं समुपेत्य मूत्रं सन्दूष्य मेहाञ्जनयेद्यथास्वम्||६||
साध्याः कफोत्था दश, पित्तजाः षट् याप्या, न साध्यः पवनाच्चतुष्कः||
समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते||७||
कफः सपित्तः पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः|
मज्जा रसौजः पिशितं च दूष्याः[१] प्रमेहिणां,
विंशतिरेव मेहाः||८||
जलोपमं चेक्षुरसोपमं वा घनं घनं चोपरि विप्रसन्नम्|
शुक्लं सशुक्रं शिशिरं शनैर्वा लालेव वा वालुकया युतं वा||९||
विद्यात् प्रमेहान् कफजान् दशैतान् क्षारोपमं कालमथापि नीलम्|
हारिद्रमाञ्जिष्ठमथापि रक्तमेतान् प्रमेहान् षडुशन्ति पित्तात्||१०||
मज्जौजसा वा वसयाऽन्वितं वा लसीकया वा सततं विबद्धम्|
चतुर्विधं मूत्रयतीह[१] वाताच्छेषेषु धातुष्वपकर्षितेषु||११||
वर्णं रसं स्पर्शमथापि गन्धं यथास्वदोषं भजते प्रमेहः|
श्यावारुणो वातकृतः सशूलो मज्जादिसाद्गुण्यमुपैत्यसाध्यः||१२||
स्वेदोऽङ्गगन्धः शिथिलाङ्गता च शय्यासनस्वप्नसुखे रतिश्च|
हृन्नेत्रजिह्वाश्रवणोपदेहो घनाङ्गता केशनखातिवृद्धिः||१३||
शीतप्रियत्वं गलतालुशोषो माधुर्यमास्ये करपाददाहः|
भविष्यतो मेहगदस्य रूपं मूत्रेऽभिधावन्ति पिपीलिकाश्च||१४||
स्थूलः प्रमेही बलवानिहैकः कृशस्तथैकः परिदुर्बलश्च|
सम्बृंहणं तत्र कृशस्य कार्यं संशोधनं दोषबलाधिकस्य||१५||
स्निग्धस्य योगा विविधाः प्रयोज्याः कल्पोपदिष्टा मलशोधनाय[१] |
ऊर्ध्वं तथाऽधश्च मलेऽपनीते मेहेषु सन्तर्पणमेव कार्यम्||१६||
गुल्मः क्षयो मेहनबस्तिशूलं मूत्रग्रहश्चाप्यपतर्पणेन|
प्रमेहिणः स्युः,
परितर्पणानि[२] कार्याणि तस्य[३] प्रसमीक्ष्य वह्निम्||१७||
संशोधनं नार्हति यः प्रमेही तस्य क्रिया संशमनी प्रयोज्या|
मन्थाः कषाया यवचूर्णलेहाः प्रमेहशान्त्यै लघवश्च भक्ष्याः||१८||
ये विष्किरा ये प्रतुदा विहङ्गास्तेषां रसैर्जाङ्गलजैर्मनोज्ञैः|
यवौदनं रूक्षमथापि वाट्यमद्यात्[१] ससक्तूनपि चाप्यपूपान्||१९||
मुद्गादियूषैरथ तिक्तशाकैः पुराणशाल्योदनमाददीत|
दन्तीङ्गुदीतैलयुतं प्रमेही तथाऽतसीसर्षपतैलयुक्तम्||२०||
सषष्टिकं स्यात्तृणधान्यमन्नं यवप्रधानस्तु भवेत् प्रमेही|
यवस्य भक्ष्यान् विविधांस्तथाऽद्यात् कफप्रमेही मधुसम्प्रयुक्तान्||२१||
निशिस्थितानां त्रिफलाकषाये स्युस्तर्पणाः क्षौद्रयुता यवानाम्|
तान् सीधुयुक्तान् प्रपिबेत् प्रमेही प्रायोगिकान्मेहवधार्थमेव||२२||
ये श्लेष्ममेहे विहिताः कषायास्तैर्भावितानां च पृथग्यवानाम्|
सक्तूनपूपान् सगुडान् सधानान् भक्ष्यांस्तथाऽन्यान् विविधांश्च खादेत्||२३||
खराश्वगोहंसपृषद्भृतानां तथा यवानां विविधाश्च भक्ष्याः|
देयास्तथा वेणुयवा यवानां कल्पेन गोधूममयाश्च भक्ष्याः||२४||
संशोधनोल्लेखनलङ्घनानि काले प्रयुक्तानि कफप्रमेहान्|
जयन्ति पित्तप्रभवान् विरेकः सन्तर्पणः संशमनो विधिश्च||२५||
दार्वीं सुराह्वां त्रिफलां समुस्तां कषायमुत्क्वाथ्य पिबेत् प्रमेही|
क्षौद्रेण युक्तामथवा हरिद्रां पिबेद्रसेनामलकीफलानाम्||२६||
हरीतकीकट्फलमुस्तलोध्रं पाठाविडङ्गार्जुनधन्वनाश्च|
उभे हरिद्रे तगरं विडङ्गं कदम्बशालार्जुनदीप्यकाश्च||२७||
दार्वी विडङ्गं खदिरो धवश्च सुराह्वकुष्ठागुरुचन्दनानि|
दार्व्यग्निमन्थौ त्रिफला सपाठा पाठा च मूर्वा च तथा श्वदंष्ट्रा||२८||
यवान्युशीराण्यभयागुडूचीचव्याभयाचित्रकसप्तपर्णाः|
पादैः कषायाः कफमेहिनां ते दशोपदिष्टा मधुसम्प्रयुक्ताः||२९||
उशीरलोध्राञ्जनचन्दनानामुशीरमुस्ता मलकाभयानाम्|
पटोलनिम्बामलकामृतानां मुस्ताभयापद्मकवृक्षकाणाम्||३०||
लोध्राम्बुकालीयकधातकीनां निम्बार्जुनाम्रातनिशोत्पलानाम्|
शिरीषसर्जार्जुनकेशराणां प्रियङ्गुपद्मोत्पलकिंशुकानाम्||३१||
अश्वत्थपाठासनवेतसानां कटङ्कटेर्युत्पलमुस्तकानाम्|
पैत्तेषु मेहेषु दश प्रदिष्टाः पादैः कषाया मधुसम्प्रयुक्ताः||३२||
सर्वेषु मेहेषु मतौ तु पूर्वौ कषाययोगौ विहितास्तु सर्वे|
मन्थस्य पाने यवभावनायां स्युर्भोजने पानविधौ पृथक् च||३३||
सिद्धानि तैलानि घृतानि चैव देयानि मेहेष्वनिलात्मकेषु|
मेदः कफश्चैव कषाययोगैः स्नेहैश्च वायुः शममेति तेषाम्||३४||
कम्पिल्लसप्तच्छदशालजानि बैभीतरौहीतककौटजानि|
कपित्थपुष्पाणि च चूर्णितानि क्षौद्रेण लिह्यात् कफपित्तमेही||३५||
पिबेद्रसेनामलकस्य चापि कल्कीकृतान्यक्षसमानि काले|
जीर्णे च भुञ्जीत पुराणमन्नं मेही रसैर्जाङ्गलजैर्मनोज्ञैः||३६||
दृष्ट्वाऽनुबन्धं पवनात् कफस्य पित्तस्य वा स्नेहविधिर्विकल्प्यः|
तैलं कफे स्यात् स्वकषायसिद्धं पित्ते घृतं पित्तहरैः कषायैः||३७||
त्रिकण्टकाश्मन्तकसोमवल्कैर्भल्लातकैः सातिविषैः सलोध्रैः|
वचापटोलार्जुननिम्बमुस्तैर्हरिद्रया[१] पद्मकदीप्यकैश्च||३८||
मञ्जिष्ठया चागुरुचन्दनैश्च सर्वैः समस्तैः कफवातजेषु|
मेहेषु तैलं विपचेद्, घृतं तु पैत्तेषु, मिश्रं त्रिषु लक्षणेषु||३९||
फलत्रिकं दारुनिशां विशालां मुस्तां च निःक्वाथ्य निशां सकल्काम्|
पिबेत् कषायं मधुसम्प्रयुक्तं सर्वप्रमेहेषु समुद्धतेषु||४०||
लोध्रं शटीं पुष्करमूलमेलां मूर्वां विडङ्गं त्रिफलां यमानीम्|
चव्यं प्रियङ्गुं क्रमुकं विशालां किराततिक्तं कटुरोहिणीं च||४१||
भार्ङ्गीं नतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषं सपाठम्|
कलिङ्गकन् केशरमिन्द्रसाह्वां नखं सपत्रं मरिचं प्लवं च||४२||
द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे|
रसेऽर्धभागं मधुनः प्रदाय पक्षं निधेयो घृतभाजनस्थः||४३||
मध्वासवोऽयं[१] कफपित्तमेहान् क्षिप्रं निहन्याद्द्विपलप्रयोगात्|
पाण्ड्वामयार्शांस्यरुचिं ग्रहण्या दोषं किलासं विविधं च कुष्ठम्||४४||
इति मध्वासवः|
क्वाथः स एवाष्टपलं च दन्त्या भल्लातकानां च चतुष्पलं स्यात्|
सितोपला त्वष्टपला विशेषः क्षौद्रं च तावत् पृथगासवौ तौ||४५||
सारोदकं वाऽथ कुशोदकं वा मधूदकं वा त्रिफलारसं वा|
सीधुं पिबेद्वा निगदं प्रमेही माध्वीकमग्र्यं चिरसंस्थितं वा||४६||
मांसानि शूल्यानि मृगद्विजानां खादेद्यवानां विविधांश्च भक्ष्यान्|
संशोधनारिष्टकषायलेहैः सन्तर्पणोत्थाञ् शमयेत् प्रमेहान्||४७||
भृष्टान् यवान् भक्षयतः प्रयोगाच्छुष्कांश्च सक्तून्न भवन्ति मेहाः|
श्वित्रं च कृच्छ्रं कफजं च कुष्ठं तथैव मुद्गामलकप्रयोगान्||४८||
सन्तर्पणोत्थेषु गदेषु योगा मेदस्विनां ये च मयोपदिष्टाः|
विरूक्षणार्थं कफपित्तजेषु सिद्धाः प्रमेहेष्वपि ते प्रयोज्याः||४९||
व्यायामयोगैर्विविधैः प्रगाढैरुद्वर्तनैः स्नानजलावसेकैः|
सेव्यत्वगेलागुरुचन्दनाद्यैर्विलेपनैश्चाशु[१] न सन्ति मेहाः||५०||
क्लेदश्च मेदश्च कफश्च वृद्धः प्रमेहहेतुः प्रसमीक्ष्य तस्मात्|
वैद्येन पूर्वं कफपित्तजेषु मेहेषु कार्याण्यपतर्पणानि||५१||
या वातमेहान् प्रति पूर्वमुक्ता वातोल्बणानां विहिता क्रिया सा|
वायुर्हि मेहेष्वतिकर्शितानां कुप्यत्यसाध्यान् प्रति नास्ति चिन्ता||५२||
यैर्हेतुभिर्ये प्रभवन्ति मेहास्तेषु प्रमेहेषु न ते निषेव्याः|
हेतोरसेवा विहिता यथैव जातस्य रोगस्य भवेच्चिकित्सा||५३||
हारिद्रवर्णं रुधिरं च मूत्रं विना प्रमेहस्य हि पूर्वरूपैः|
यो मूत्रयेत्तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः||५४||
दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद्द्विविधो विचारः|
क्षीणेषु दोषेष्वनिलात्मकः स्यात् सन्तर्पणाद्वा कफसम्भवः स्यात्||५५||
सपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः|
साध्या न ते, पित्तकृतास्तु याप्याः, साध्यास्तु मेदो यदि न प्रदुष्टम्||५६||
जातः प्रमेही मधुमेहिनो वा न साध्य उक्तः स हि बीजदोषात्|
ये चापि केचित् कुलजा विकारा भवन्ति तांश्च प्रवदन्त्यसाध्यान्||५७||
प्रमेहिणां याः पिडका मयोक्ता रोगाधिकारे पृथगेव सप्त|
ताः शल्यविद्भिः कुशलैश्चिकित्स्याः शस्त्रेण संशोधनरोपणैश्च||५८||
तत्र श्लोकाः-
हेतुर्दोषो दूष्यं मेहानां साध्यतानुरूपश्च|
मेही द्विविधस्त्रिविधं[१] भिषग्जितमतिक्षपणदोषः||५९||
आद्या यवान्नविकृतिर्मन्था मेहापहाः कषायाश्च|
तैलघृतलेहयोगा भक्ष्याः प्रवरासवाः सिद्धाः||६०||
व्यायामविधिर्विविधः स्नानान्युद्वर्तनानि गन्धाश्च|
मेहानां प्रशमार्थं चिकित्सिते दिष्टमेतावत्||६१||
0 Comments