Advertisement

Responsive Advertisement

Charak chikitsa chapter 29 vaat shonit chikitsa








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 अथातो वातशोणितचिकित्सितं व्याख्यास्यामः ||||

इति स्माह भगवानात्रेयः ||||

हुताग्निहोत्रमासीनमृषिमध्येपुनर्वसुम् |
पृष्टवान् गुरुमेकाग्रमग्निवेशोऽग्निवर्चसम् ||||

अग्निमारुततुल्यस्य संसर्गस्यानिलासृजोः |
हेतुलक्षणभैषज्यान्यथास्मै गुरुरब्रवीत् ||||

लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः |
क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ||||

कुलत्थमाषनिष्पावशाकादिपललेक्षुभिः |
दध्यारनालसौवीरशुक्ततक्रसुरासवैः ||||

विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः |
प्रायशः सुकुमाराणां मिष्टान्नसुखभोजिनाम् [] ||||

अचङ्क्रमणशीलानां कुप्यते वातशोणितम् |
अभिघातादशुद्ध्या प्रदुष्टे शोणिते नृणाम् ||||

कषायकटुतिक्ताल्परूक्षाहारादभोजनात् |
हयोष्ट्रयानयानाम्बुक्रीडाप्लवनलङ्घनैः [] ||||

उष्णे चात्यध्ववैषम्याद्व्यवायाद्वेगनिग्रहात् [] |
वायुर्विवृद्धो वृद्धेन रक्तेनावारितः पथि ||१०||

कृत्स्नं सन्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम् |
खुडं वातबलासाख्यमाढ्यवातं नामभिः ||११||

तस्य स्थानं करौ पादावङ्गुल्यः सर्वसन्धयः |
कृत्वाऽऽदौ हस्तपादे तु मूलं देहे विधावति ||१२||

सौक्ष्म्यात् सर्वसरत्वाच्च पवनस्यासृजस्तथा |
तद्द्रवत्वात् सरत्वाच्च देहं गच्छन् सिरायनैः ||१३||

पर्वस्वभिहतं क्षुब्धं वक्रत्वादवतिष्ठते |
स्थितं पित्तादिसंसृष्टं तास्ताः सृजति वेदनाः ||१४||

 

करोति दुःखं तेष्वेव तस्मात् प्रायेण सन्धिषु |
भवन्ति वेदनास्तास्ता अत्यर्थं दुःसहा नृणाम् ||१५||

स्वेदोऽत्यर्थं वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेऽतिरुक् |
सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः ||१६||

जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु |
निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव ||१७||

कण्डूः सन्धिषु रुग्भूत्वा भूत्वा नश्यति चासकृत् |
वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम् ||१८||

उत्तानमथ गम्भीरं द्विविधं तत् प्रचक्षते |
त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम् ||१९||

कण्डूदाहरुगायामतोदस्फुरणकुञ्चनैः |
अन्विता श्यावरक्ता त्वग्बाह्ये ताम्रा तथेष्यते ||२०||

गम्भीरे श्वयथुः स्तब्धः कठिनोऽन्तर्भृशार्तिमान्|
श्यावस्ताम्रोऽथवा दाहतोदस्फुरणपाकवान् ||२१||

रुग्विदाहान्वितोऽभीक्ष्णं वायुः सन्ध्यस्थिमज्जसु |
छिन्दन्निव चरत्यन्तर्वक्रीकुर्वंश्च वेगवान् ||२२||

करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन् |
सर्वैर्लिङ्गैश्च विज्ञेयं वातासृगुभयाश्रयम् ||२३||

तत्र वातेऽधिके वा स्याद्रक्ते पित्ते कफेऽपि वा |
संसृष्टेषु समस्तेषु यच्च तच्छृणु लक्षणम् ||२४||

विशेषतः सिरायामशूलस्फुरणतोदनम् [] |
शोथस्य कार्ष्ण्यं रौक्ष्यं श्यावतावृद्धिहानयः ||२५||

धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक् |
कुञ्चनस्तम्भने शीतप्रद्वेषश्चानिलेऽधिके ||२६||

श्वयथुर्भृशरुक् [] तोदस्ताम्रश्चिमिचिमायते |
स्निग्धरूक्षैः शमं नैति कण्डूक्लेदान्वितोऽसृजि [] ||२७||

विदाहो वेदना मूर्च्छा स्वेदस्तृष्णा मदो भ्रमः |
रागः पाकश्च भेदश्च शोषश्चोक्तानि पैत्तिके ||२८||

स्तैमित्यं गौरवं स्नेहः सुप्तिर्मन्दा रुक् कफे |
हेतुलक्षणसंसर्गाद्विद्याद्द्वन्द्वत्रिदोषजम् ||२९||

एकदोषानुगं साध्यं नवं, याप्यं द्विदोषजम् |
त्रिदोषजमसाध्यं स्याद्यस्य स्युरुपद्रवाः ||३०||

अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः |
मूर्च्छायमदरुक्तृष्णाज्वरमोहप्रवेपकाः ||३१||

हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः |
अङ्गुलीवक्रता स्फोटा दाहमर्मग्रहार्बुदाः ||३२||

एतैरुपद्रवैर्वर्ज्यं मोहेनैकेन वाऽपि यत् |
सम्प्रस्रावि विवर्णं स्तब्धमर्बुदकृच्च यत् ||३३||

वर्जयेच्चैव सङ्कोचकरमिन्द्रियतापनम् |
अकृत्स्नोपद्रवं याप्यं साध्यं स्यान्निरुपद्रवम् ||३४||

रक्तमार्गं निहन्त्याशु शाखासन्धिषु मारुतः |
निविश्यान्योन्यमावार्य वेदनाभिर्हरेदसून् ||३५||

तत्र मुञ्चेदसृक् शृङ्गजलौकःसूच्यलाबुभिः |
प्रच्छनैर्वा सिराभिर्वा यथादोषं यथाबलम् ||३६||

रुग्दाहशूलतोदार्तादसृक् स्राव्यं जलौकसा |
शृङ्गैस्तुम्बैर्हरेत् सुप्तिकण्डूचिमिचिमायनात् ||३७||

देशाद्देशं व्रजत् स्राव्यं सिराभिः प्रच्छनेन वा |
अङ्गग्लानौ तु स्राव्यं रूक्षे वातोत्तरे यत् [] ||३८ ||

गम्भीरं श्वयथुं स्तम्भं कम्पं स्नायुसिरामयान् |
ग्लानिं चापि ससङ्कोचां कुर्याद्वायुरसृक्क्षयात् ||३९||

खाञ्ज्यादीन् वातरोगांश्च मृत्युं चात्यवसेचनात् |
कुर्यात्तस्मात् प्रमाणेन स्निग्धाद्रक्तं विनिर्हरेत् ||४०||

विरेच्यः स्नेहयित्वाऽऽदौ स्नेहयुक्तैर्विरेचनैः |
रूक्षैर्वा मृदुभिः शस्तमसकृद्वस्तिकर्म ||४१||

सेकाभ्यङ्गप्रदेहान्नस्नेहाः प्रायोऽविदाहिनः |
वातरक्ते प्रशस्यन्त ... |४२|

……विशेषं तु निबोध मे||४२||
बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनैः| विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत् ||४३||

सर्पिस्तैलवसामज्जापानाभ्यञ्जनबस्तिभिः |
सुखोष्णैरुपनाहैश्च वातोत्तरमुपाचरेत् ||४४||

विरेचनैर्घृतक्षीरपानैः सेकैः सबस्तिभिः |
शीतैर्निर्वापणैश्चापि रक्तपित्तोत्तरं जयेत् ||४५||

वमनं मृदु नात्यर्थं स्नेहसेकौ विलङ्घनम् |
कोष्णा लेपाश्च शस्यन्ते वातरक्ते कफोत्तरे ||४६||

कफवातोत्तरे शीतैः प्रलिप्ते वातशोणिते |
दाहशोथरुजाकण्डूविवृद्धिः स्तम्भनाद्भवेत् ||४७||

रक्तपित्तोत्तरे चोष्णैर्दाहः क्लेदोऽवदारणम् |
भवेत्तस्माद्भिषग्दोषबलं बुद्ध्वाऽऽचरेत्क्रियाम् ||४८||

दिवास्वप्नं ससन्तापं व्यायामं मैथुनं तथा |
कटूष्णं गुर्वभिष्यन्दि लवणाम्लं वर्जयेत् ||४९||

पुराणा यवगोधूमनीवाराः शालिषष्टिकाः |
भोजनार्थं रसार्थं वा विष्किरप्रतुदा हिताः ||५०||

आढक्यश्चणका मुद्गा मसूराः समकुष्ठकाः |
यूषार्थं बहुसर्पिष्काः प्रशस्ता वातशोणिते ||५१|

सुनिषण्णकवेत्राग्रकाकमाचीशतावरी |
वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा ||५२||

घृतमांसरसैर्भृष्टं शाकसात्म्याय दापयेत् |
व्यञ्जनार्थं, तथा गव्यं माहिषाजं पयो हितम् ||५३||

इति सङ्क्षेपतः प्रोक्तं वातरक्तचिकित्सितम् |
एतदेव पुनः सर्वं व्यासतः सम्प्रवक्ष्यते ||५४||

श्रावणीक्षीरकाकोलीजीवकर्षभकैः समैः |
सिद्धं समधुकैः सर्पिः सक्षीरं वातरक्तनुत् ||५५||

बलामतिबलां मेदामात्मगुप्तां शतावरीम् |
काकोलीं क्षीरकाकोलीं रास्नामृद्धिं पेषयेत् ||५६||

घृतं चतुर्गुणक्षीरं तैः सिद्धं वातरक्तनुत् |
हृत्पाण्डुरोगवीसर्पकामलाज्वरनाशनम् ||५७||

त्रायन्तिकातामलकीद्विकाकोलीशतावरी |
कशेरुकाकषायेण कल्कैरेभिः पचेद्धृतम् ||५८||

दत्त्वा परूषकाद्राक्षाकाश्मर्येक्षुरसान् समान् |
`पृथग्विदार्याः स्वरसं तथा क्षीरं चतुर्गुणम् ||५९||

एतत् प्रायोगिकं सर्पिः पारूषकमिति स्मृतम् |
वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे ||६०||

इति पारूषकम घृतं

द्वे पञ्चमूले वर्षाभूमेरण्डं सपुनर्नवम् |
मुद्गपर्णीं महामेदां माषपर्णीं शतावरीम् ||६१||

शङ्खपुष्पीमवाक्पुष्पीं रास्नामतिबलां बलाम् |
पृथग्द्विपलिकं कृत्वा जलद्रोणे विपाचयेत् ||६२||

पादशेषे समान् क्षीरधात्रीक्षुच्छागलान् रसान् |
घृताढकेन संयोज्य शनैर्मृद्वग्निना पचेत् ||६३||

कल्कानावाप्य मेदे द्वे काश्मर्यफलमुत्पलम् |
त्वक्क्षीरीं पिप्पलीं द्राक्षां पद्मबीजं पुनर्नवाम् ||६४||

नागरं क्षीरकाकोलीं पद्मकं बृहतीद्वयम् |
वीरां शृङ्गाटकं भव्यमुरुमाणं निकोचकम् ||६५||

खर्जूराक्षोटवाताममुञ्जाताभिषुकांस्तथा |
एतैर्घृताढके सिद्धे क्षौद्रं शीते प्रदापयेत् ||६६||

सम्यक् सिद्धं विज्ञाय सुगुप्तं सन्निधापयेत् |
कृतरक्षाविधिं चौक्षे प्राशयेदक्षसम्मितम् ||६७||

पाण्डुरोगं ज्वरं हिक्कां स्वरभेदं भगन्दरम् |
पार्श्वशूलं क्षयं कासं प्लीहानं वातशोणितम् ||६८||

क्षतशोषमपस्मारमश्मरीं शर्करां तथा |
सर्वाङ्गैकाङ्गरोगांश्च मूत्रसङ्गं नाशयेत् ||६९||

बलवर्णकरं धन्यं वलीपलितनाशनम् |
जीवनीयमिदं सर्पिर्वृष्यं वन्ध्यासुतप्रदम् ||७०||

द्राक्षामधु(धू)कतोयाभ्यां सिद्धं वा ससितोपलम् |
पिबेद्धृतं तथा क्षीरं गुडूचीस्वरसे शृतम् ||७१||

जीवकर्षभकौ मेदामृष्यप्रोक्तां शतावरीम् |
मधुकं मधुपर्णीं काकोलीद्वयमेव ||७२||

मुद्गमाषाख्यपर्णिन्यौ दशमूलं पुनर्नवाम् |
बलामृताविदारीश्च साश्वगन्धाश्मभेदकाः ||७३||

एषां कषायकल्काभ्यां सर्पिस्तैलं साधयेत् |
लाभतश्च वसामज्जधान्वप्रातुदवैष्किरम् ||७४||

चतुर्गुणेन पयसा तत् सिद्धं वातशोणितम् |
सर्वदेहाश्रितं हन्ति व्याधीन् घोरांश्च वातजान् ||७५||

स्थिरा श्वदंष्ट्रा बृहती सारिवा सशतावरी |
काश्मर्याण्यात्मगुप्ता वृश्चीरो द्वे बले तथा ||७६||

एषां क्वाथे चतुःक्षीरं पृथक् तैलं पृथग्घृतम् |
मेदाशतावरीयष्टिजीवन्तीजीवकर्षभैः ||७७||

पक्त्वा मात्रा ततः क्षीरत्रिगुणाऽध्यर्धशर्करा |
खजेन मथिता पेया वातरक्ते त्रिदोषजे ||७८||

तैलं पयः शर्करां पाययेद्वा सुमूर्च्छितम् |
सर्पिस्तैलसिताक्षौद्रैर्मिश्रं वाऽपि पिबेत् पयः ||७९||

अंशुमत्या शृतः प्रस्थः पयसो द्विसितोपलः |
पाने प्रशस्यते तद्वत् पिप्पलीनागरैः शृतः ||८०||

बलाशतावलीरास्नादशमूलैः सपीलुभिः |
श्यामैरण्डस्थिराभिश्च वातार्तिघ्नं शृतं पयः ||८१||

धारोष्णं मूत्रयुक्तं वा क्षीरं दोषानुलोमनम् |
पिबेद्वा सत्रिवृच्चूर्णं पित्तरक्तावृतानिलः ||८२||

क्षीरेणैरण्डतैलं वा प्रयोगेण पिबेन्नरः |
बहुदोषो विरेकार्थं जीर्णे क्षीरौदनाशनः ||८३||

कषायमभयानां [] वा घृतभृष्टं पिबेन्नरः |
क्षीरानुपानं त्रिवृताचूर्णं द्राक्षारसेन वा ||८४||

काश्मर्यं त्रिवृतां द्राक्षां त्रिफलां सपरूषकाम् |
शृतं पिबेद्विरेकाय लवणक्षौद्रसंयुतम् ||८५||

त्रिफलायाः कषायं वा पिबेत् क्षौद्रेण संयुतम् |
धात्रीहरिद्रामुस्तानां कषायं वा कफाधिकः ||८६||

योगैश्च कल्पविहितैरसकृत्तं विरेचयेत् |
मृदुभिः स्नेहसंयुक्तैर्ज्ञात्वा वातं मलावृतम् ||८७||

निर्हरेद्वा मलं तस्य सघृतैः क्षीरबस्तिभिः |
हि बस्तिसमं किञ्चिद्वातरक्तचिकित्सितम् ||८८||

बस्तिवङ्क्षणपार्श्वोरुपर्वास्थिजठरार्तिषु |
उदावर्ते शस्यन्ते निरूहाः सानुवासनाः ||८९||

दद्यात्तैलानि चेमानि बस्तिकर्मणि बुद्धिमान् |
नस्याभ्यञ्जनसेकेषु दाहशूलोपशान्तये ||९०||

मधुयष्ट्यास्तुलायास्तु [] कषाये पादशेषिते |
तैलाढकं समक्षीरं पचेत् कल्कैः पलोन्मितैः ||९१||

शतपुष्पावरीमूर्वापयस्यागुरुचन्दनैः |
स्थिराहंसपदीमांसीद्विमेदामधुपर्णिभिः ||९२||

काकोलीक्षीरकाकोलीतामलक्यृद्धिपद्मकैः |
जीवकर्षभजीवन्तीत्वक्पत्रनखवालकैः ||९३||

प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः |
चतुष्प्रयोगात्तद्धन्ति तैलं मारुतशोणितम् ||९४||

सोपद्रवं साङ्गशूलं सर्वगात्रानुगं तथा |
वातासृक्पित्तदाहार्तिज्वरघ्नं बलवर्णकृत् ||९५||

इति मधुपर्ण्यादितैलम् |

मधुकस्य शतं द्राक्षा खर्जूराणि परूषकम् |
मधूकौदनपाक्यौ प्रस्थं मुञ्जातकस्य ||९६||

काश्मर्याढकमित्येतच्चतुर्द्रोणे पचेदपाम् |
शेषेऽष्टभागे पूते तस्मिंस्तैलाढकं पचेत् ||९७||

तथाऽऽमलककाश्मर्यविदारीक्षुरसैः समैः |
चतुर्द्रोणेन पयसा कल्कं दत्त्वा पलोन्मितम् ||९८||

कदम्बामलकाक्षोटपद्मबीजकशेरुकम् |
शृङ्गाटकं शृङ्गवेरं लवाणं पिप्पलीं सिताम् ||९९||

जीवनीयैश्च संसिद्धं क्षौद्रप्रस्थेन संसृजेत् |
नस्याभ्यञ्जनपानेषु बस्तौ चापि नियोजयेत् ||१००||

वातव्याधिषु सर्वेषु मन्यास्तम्भे हनुग्रहे |
सर्वाङ्गैकाङ्गवाते क्षतक्षीणे क्षतज्वरे ||१०१||

सुकुमारकमित्येतद्वातास्रामयनाशनम् |
स्वरवर्णकरं तैलमारोग्यबलपुष्टिदम् ||१०२||

इति सुकुमारकतैलम् |

गुडूचीं मधुकं ह्रस्वं पञ्चमूलं पुनर्नवाम् |
रास्नामेरण्डमूलं जीवनीयानि लाभतः ||१०३||

पलानां शतकैर्भागैर्बलापञ्चशतं तथा |
कोलबिल्वयवान्माषान्कुलत्थांश्चाढकोन्मितान् ||१०४||

काश्मर्याणां सुशुष्काणां द्रोणं द्रोणशतेऽम्भसि |
साधयेज्जर्जरं धौतं चतुर्द्रोणं शेषयेत् ||१०५||

तैलद्रोणं पचेत्तेन दत्त्वा पञ्चगुणं पयः |
पिष्ट्वा त्रिपलिकं चैव चन्दनोशीरकेशरम् ||१०६||

पत्रैलागुरुकुष्ठानि तगरं मधुयष्टिकाम् |
मञ्जिष्ठाष्टपलं चैव तत् सिद्धं सार्वयौगिकम् ||१०७||

वातरक्ते क्षतक्षीणे भारार्ते क्षीणरेतसि |
वेपनाक्षेपभग्नानां सर्वाङ्गैकाङ्गरोगिणाम् ||१०८||

योनिदोषमपस्मारमुन्मादं खञ्जपङ्गुताम् |
हन्यात् प्रसवनं [] चैतत्तैलाग्र्यममृताह्वयम् ||१०९||

इत्यमृताद्यं तैलम् |

पद्मवेतसयष्ट्याह्वफेनिलापद्मकोत्पलैः |
पृथक्पञ्चपलैर्दर्भबलाचन्दनकिंशुकैः ||११०||

जले शृतैः पचेत्तैलप्रस्थं सौवीरसम्मितम् |
लोध्रकालीयकोशीरजीवकर्षभकेशरैः ||१११||

मदयन्तीलतापत्रपद्मकेशरपद्मकैः |
प्रपौण्डरीककाश्मर्यमांसीमेदाप्रियङ्गुभिः ||११२||

कुङ्कुमस्य पलार्धेन मञ्जिष्ठायाः पलेन |
महापद्ममिदं तैलं वातासृग्ज्वरनाशनम् ||११३||

इति महापद्मं तैलम् |

पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम् |
स्यात् पिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः ||११४||

खुड्डाकपद्मकमिदं तैलं वातास्रदाहनुत् |११५|

इति खुड्डाकपद्मकं तैलम् |

शतेन यष्टिमधुकात् साध्यं दशगुणं पयः ||११५||

तस्मिंस्तैले चतुर्द्रोणे मधुकस्य पलेन तु |
सिद्धं मधुककाश्मर्यसैर्वा वातरक्तनुत् ||११६||

मधुपर्ण्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे|
क्षीरे साध्यं शतं कृत्वा तदेवं मधुकाच्छते ||११७||

सिद्धं देयं त्रिदोषे [] स्याद्वातास्रे श्वासकासनुत् |
हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम् ||११८||

इति शतपाकं मधुकतैलम् ||

बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत् |
सहस्रं [] शतवारं वा वातासृग्वातरोगनुत् ||११९||

रसायनमिदं श्रेष्ठमिन्द्रियाणां प्रसादनम् |
जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम् ||१२०||

इति सहस्रपाकं शतपाकं वा बलातैलम् |

गुडूचीरसदुग्धाभ्यां तैलं द्राक्षारसेन वा |
सिद्धं मधुककाश्मर्यरसैर्वा वातरक्तनुत् ||१२१||

आरनालाढके तैलं पादसर्जरसं शृतम् |
प्रभूते खजितं तोये ज्वरदाहार्तिनुत् परम् ||१२२||

समधूच्छिष्टमाञ्जिष्ठं ससर्जरससारिवम् |
पिण्डतैलं तदभ्यङ्गाद्बातरक्तरुजापहम् ||१२३||

इति पिण्डतैलम् |

दशमूलशृतं क्षीरं सद्यः शूलनिवारणम् |
परिषेकोऽनिलप्राये तद्वत् कोष्णेन सर्पिषा ||१२४||

स्नेहैर्मधुरसिद्धैर्वा चतुर्भिः परिषेचयेत् |
स्तम्भाक्षेपकशूलार्तं कोष्णैर्दाहे तु शीतलैः ||१२५||

तद्वद्गव्याविकच्छागैः क्षीरैस्तैलविमिश्रितैः |
क्वाथैर्वा जीवनीयानां पञ्चमूलस्य वा भिषक् ||१२६||

द्राक्षेक्षुरसमद्यानि दधिमस्त्वम्लकाञ्जिकम् |
सेकार्थे तण्डुलक्षौद्रशर्कराम्बु शस्यते ||१२७||

कुमुदोत्पलपद्माद्यैर्मणिहारैः सचन्दनैः |
शीततोयानुगैर्दाहे प्रोक्षणं स्पर्शनं हितम् ||१२८||

चन्द्रपादाम्बुसंसिक्ते क्षौमपद्मदलच्छदे |
शयने पुलिनस्पर्शशीतमारुतवीजिते ||१२९||

चन्दनार्द्रस्तनकराः प्रिया नार्यः प्रियंवदाः |
स्पर्शशीताः सुखस्पर्शा घ्नन्ति दाहं रुजं क्लमम् ||१३०||

सरागे सरुजे दाहे रक्तं विस्राव्य लेपयेत् |
मधुकाश्वत्थत्वङ्मांसीवीरोदुम्बरशाद्वलैः ||१३१||

जलजैर्यवचूर्णैर्वा सयष्ट्याह्वपयोघृतैः |
सर्पिषा जीवनीयैर्वा पिष्टैर्लेपोऽर्तिदाहनुत् ||१३२||

तिलाः [] प्रियालो मधुकं बिसं मूलं वेतसात् |
आजेन पयसा पिष्टः प्रलेपो दाहरागनुत् ||१३३||

प्रपौण्डरीकमञ्जिष्ठादार्वीमधुकचन्दनैः |
सितोपलैरकासक्तुमसूरोशीरपद्मकैः ||१३४||

लेपो रुग्दाहवीसर्परागशोफनिवारणः |
पित्तरक्तोत्तरे त्वेते, लेपान् वातोत्तरे शृणु ||१३५||

वातघ्नैः साधितः स्निग्धः सक्षीरमुद्गपायसः [] |
तिलसर्षपपिण्डैर्वाऽप्युपनाहो रुजापहः ||१३६||

औदकप्रसहानूपवेशवाराः सुसंस्कृताः |
जीवनीयौषधैः स्नेहयुक्ताः स्युरुपनाहने ||१३७||

स्तम्भतोदरुगायामशोथाङ्गग्रहनाशनाः |
जीवनीयौषधैः सिद्धा सपयस्का वसाऽपि वा ||१३८||

घृतं सहचरान्मूलं जीवन्ती च्छागलं पयः |
लेपः पिष्टास्तिलास्तद्वद्भृष्टाः पयसि निर्वृताः ||१३९||

क्षीरपिष्टमुमालेपमेरण्डस्य फलानि |
कुर्याच्छूलनिवृत्त्यर्थं शताह्वामनिलेऽधिके ||१४०||

समूलाग्रच्छदैरण्डक्वाथे द्विप्रास्थिकं पृथक् |
घृतं तैलं वसा मज्जा चानूपमृगपक्षिणाम् ||१४१||

कल्कार्थे जीवनीयानि गव्यं क्षीरमथाजकम् |
हरिद्रोत्पलकुष्ठैलाशताह्वाश्वहनच्छदान् [] ||१४२||

बिल्वमात्रान् पृथक् पुष्पं काकुभं चापि साधयेत् |
मधूच्छिष्टपलान्यष्टौ दद्याच्छीतेऽवतारिते ||१४३||

शूलेनैषोऽर्दिताङ्गानां लेपः सन्धिगतेऽनिले |
वातरक्ते च्युते भग्ने खञ्जे कुब्जे शस्यते ||१४४||

शोफगौरवकण्ड्वाद्यैर्युक्ते त्वस्मिन् कफोत्तरे |
मूत्रक्षारसुरापक्वं घृतमभ्यञ्जने हितम् ||१४५||

पद्मकं त्वक् समधुकं सारिवा चेति तैर्घृतम् |
सिद्धं समधुशुक्तं स्यात् सेकाभ्यङ्गे कफोत्तरे ||१४६||

क्षारस्तैलं [] गवां [] मूत्रं जलं कटुकैः शृतम् |
परिषेके प्रशंसन्ति वातरक्ते कफोत्तरे ||१४७||

लेपः सर्षपनिम्बार्कहिंस्राक्षीरतिलैर्हितः |
श्रेष्ठः सिद्धः [] कपित्थत्वग्घृतक्षीरैः ससक्तुभिः ||१४८||

गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम् |
प्रलेपः शूलनुद्वातरक्ते वातकफोत्तरे ||१४९||

तगरं त्वक् शताह्वैला कुष्ठं मुस्तं हरेणुका |
दारु व्याघ्रनखं चाम्लपिष्टं वातकफास्रनुत् ||१५०||

मधुशिग्रोर्हितं तद्वद्बीजं धान्याम्लसंयुतम् |
मुहूर्तं लिप्तमम्लैश्च सिञ्चेद्वातकफोत्तरम् ||१५१||

त्रिफलाव्योषपत्रैलात्वक्क्षीरीचित्रकं वचाम् |
विडङ्गं पिप्पलीमूलं रोमशं वृषकत्वचम् ||१५२||

ऋद्धिं तामलकीं चव्यं समभागानि पेषयेत् |
कल्यं लिप्तमयस्पात्रे [] मध्याह्ने भक्षयेत्ततः ||१५३||

वर्जयेद्दधिशुक्तानि क्षारं वैरोधिकानि |
वातास्रे सर्वदोषेऽपि हितं शूलार्दिते परम् ||१५४||

बुद्ध्वा स्थानविशेषांश्च दोषाणां बलाबलम् |
चिकित्सितमिदं कुर्यादूहापोहविकल्पवित् ||१५५||

कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा |
अतिवृद्ध्याऽनिले [] नादौ शस्तं स्नेहनबृंहणम् ||१५६||

व्यायामशोधनारिष्टमूत्रपानैर्विरेचनैः |
तक्राभयाप्रयोगैश्च क्षपयेत् कफमेदसी ||१५७||

बोधिवृक्षकषायं तु प्रपिबेन्मधुना सह |
वातरक्तं जयत्याशु त्रिदोषमपि दारुणम् ||१५८||

पुराणयवगोधूमसीध्वरिष्टसुरासवैः |
शिलाजतुप्रयोगैश्च गुग्गुलोर्माक्षिकस्य ||१५९||

गम्भीरे रक्तमाक्रान्तं स्याच्चेत्तद्वातवज्जयेत् |
पश्चाद्वाते क्रियां कुर्याद्वातरक्तप्रसादनीम् ||१६०||

रक्तपित्तातिवृद्ध्या तु पाकमाशु नियच्छति |
भिन्नं स्रवति वा रक्तं विदग्धं पूयमेव वा ||१६१||

तयोः क्रिया विधातव्या भेदशोधनरोपणैः [] |
कुर्यादुपद्रवाणां क्रियां स्वां स्वाच्चिकित्सितात् ||१६२||

तत्र श्लोकाः-

हेतुः स्थानानि मूलं यस्मात् प्रायेण सन्धिषु |
कुप्यति प्राक् यद्रूपं द्विविधस्य लक्षणम् ||१६३||

पृथग्भिन्नस्य लिङ्गं दोषाधिक्यमुपद्रवाः |
साध्यं याप्यमसाध्यं क्रिया साध्यस्य चाखिला ||१६४||

वातरक्तस्य निर्दिष्टा समासव्यासतस्तथा |
महर्षिणाऽग्निवेशाय तथैवावस्थिकी क्रिया ||१६५||

 

Post a Comment

0 Comments