Advertisement

Responsive Advertisement

Charak chikitsa chapter 2.4 pumaanjaat baladikam








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातः पुमाञ्जातबलादिकं वाजीकरणपादं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

पुमान् यथा जातबलो यावदिच्छं स्त्रियो व्रजेत्|

यथा चापत्यवान् सद्यो भवेत्तदुपदेक्ष्यते||||

हि जातबलाः सर्वे नराश्चापत्यभागिनः|

बृहच्छरीरा बलिनः सन्ति नारीषु दुर्बलाः||||

सन्ति चाल्पाश्रयाः [] स्त्रीषु बलवन्तो बहुप्रजाः|

प्रकृत्या चाबलाः सन्ति सन्ति चामयदुर्बलाः||||

नराश्चटकवत् केचिद् व्रजन्ति बहुशः स्त्रियम्|

गजवच्च प्रसिञ्चन्ति केचिन्न बहुगामिनः||||

कालयोगबलाः केचित् केचिदभ्यसनध्रुवाः|

केचित् प्रयत्नैर्व्यज्यन्ते [] वृषाः केचित् स्वभावतः||||

तस्मात् प्रयोगान् वक्ष्यामो दुर्बलानां बलप्रदान्|

सुखोपभोगान् बलिनां भूयश्च बलवर्धनान्||||

पूर्वं शुद्धशरीराणां निरूहैः [] सानुवासनैः|

बलापेक्षी प्रयुञ्जीत शुक्रापत्यविवर्धनान्||||

घृततैलरसक्षीरशर्करामधुसंयुताः|

बस्तयः संविधातव्याः क्षीरमांसरसाशिनाम्||१०||

पिष्ट्वा वराहमांसानि दत्त्वा मरिचसैन्धवे|

कोलवद्गुलिकाः कृत्वा तप्ते सर्पिषि वर्तयेत् [] ||११||

वर्तनस्तम्भितास्ताश्च [] प्रक्षेप्याः कौक्कुटे रसे|

घृताढ्ये गन्धपिशुने दधिदाडिमसारिके||१२||

यथा भिन्द्याद्गुलि(टि)कास्तथा तं साधयेद्रसम्|

तं पिबन् भक्षयंस्ताश्च लभते शुक्रमक्षयम्||१३||

मांसानामेवमन्येषां मेद्यानां कारयेद्भिषक्|

गुटिकाः सरसास्तासं प्रयोगः शुक्रवर्धनः||१४||

(इति वृष्या मांसगुटिकाः)

माषानङ्कुरिताञ्छुद्धान् वितुषान् साजडाफलान्|

घृताढ्ये माहिषरसे दधिदाडिमसारिके||१५||

प्रक्षिपेन्मात्रया युक्तो धान्यजीरकनागरैः|

भुक्तः पीतश्च रसः कुरुते शुक्रमक्षयम्||१६||

(इति वृष्यो माहिषरसः)

आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभार्जिताः|

तप्ते सर्पिषि यः खादेत् गच्छेत् स्त्रीषु क्षयम्||१७||

घृतभृष्टान् रसे च्छागे रोहितान् फलसारिके|

अनुपीतरसान् स्निग्धानपत्यार्थी प्रयोजयेत्||१८||

(इति वृष्यघृतभृष्टमत्स्यमांसानि)

कुट्टकं [] मत्स्यमांसानां हिङ्गुसैन्धवधान्यकैः|

युक्तं गोधूमचूर्णेन घृते पूपलिकाः पचेत्||१९||

माहिषे रसे मत्स्यान् स्निग्धाम्ललवणान् पचेत्|

रसे चानुगते मांसं पोथयेत्तत्र चावपेत्||२०||

मरिचं जीरकं धान्यमल्पं हिङ्गु नवं घृतम्|

माषपूपलिकानां तद्गर्भार्थमुपकल्पयेत्||२१||

एतौ पूपलिकायोगौ बृंहणौ बलवर्धनौ|

हर्षसौभाग्यदौ पुत्र्यौ परं शुक्राभिवर्धनौ||२२||

(इति वृष्यौ पूपलिकायोगौ)

माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकम्|

शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य ||२३||

संयोज्य मसृणे क्षीरे घृते पूपलिकाः पचेत्|

पयोऽनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां पराम्||२४||

(इति वृष्या माषादिपूपलिकाः)

शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिषः|

प्रस्थो विदार्याश्चूर्णस्य पिप्पल्याः प्रस्थ एव ||२५||

अर्धाढकं तुगाक्षीर्याः क्षौद्रस्याभिनवस्य |

तत्सर्वं मूर्च्छितं तिष्ठेन्मार्तिके घृतभाजने||२६||

मात्रामग्निसमां तस्य प्रातः प्रातः प्रयोजयेत्|

एष वृष्यः परं योगो बल्यो बृंहण एव ||२७||

शतावर्या विदार्याश्च तथा माषात्मगुप्तयोः|

श्वदंष्ट्रायाश्च निष्क्वाथाञ्जलेषु [] पृथक् पृथक्||२८||

साधयित्वा घृतप्रस्थं पयस्यष्टगुणे पुनः|

शर्करामधुयुक्तं तदपत्यार्थी प्रयोजयेत्||२९||

(इत्यपत्यकरं घृतम्)

घृतपात्रं शतगुणे विदारीस्वरसे पचेत्|

सिद्धं पुनः शतगुणे गव्ये पयसि साधयेत्||३०||

शर्करायास्तुगाक्षीर्यां क्षौद्रस्येक्षुरकस्य |

पिप्पल्याः साजडायाश्च भागैः पादांशिकैर्युतम्||३१||

गुलि(टि)काः कारयेद्वैद्यो यथा स्थुलमुदुम्बरम्|

तासां प्रयोगात् पुरुषः कुलिङ्ग इव हृष्यति||३२||

(इति वृष्यगुटिकाः)

सितोपलापलशतं तदर्धं नवसर्पिषः|

क्षौद्रपादेन संयुक्तं साधयेज्जलपादिकम्||३३||

सान्द्रं गोधूमचूर्णानां पादं स्तीर्णे शिलातले|

शुचौ श्लक्ष्णे समुत्कीर्य मर्दनेनोपपादयेत्||३४||

शुद्धा उत्कारिकाः कार्यश्चन्द्रमण्डलसन्निभाः|

तासां प्रयोगाद्गजवन्नारीः सन्तर्पयेन्नरः||३५||

(इति वृष्योत्कारिका)

यत् किञ्चिन्मधुरं स्निग्धं जीवनं बृंहणं गुरु|

हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते||३६||

द्रव्यैरेवंविधैस्तस्माद्भावितः प्रमदां व्रजेत्|

आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः||३७||

गत्वा स्नात्वा पयः पीत्वा रसं वाऽनु शयीत ना|

तथाऽस्याप्यायते भूयः शुक्रं बलमेव ||३८||

यथा मुकुलपुष्पस्य सु() गन्धो नोपलभ्यते|

लभ्यते तद्विकाशात्तु तथा शुक्रं हि देहिनाम्||३९||

नर्ते वै षोडशाद्वर्षात् सप्तत्याः परतो |

आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति||४०||

अतिबालो ह्यसम्पूर्णसर्वधातुः स्त्रियं व्रजन्|

उपशुष्येत सहसा तडागमिव काजलम्||४१||

शुष्कं रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम्|

स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन्||४२||

जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्षणात्|

क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात्||४३||

क्षयाद्भयादविश्रम्भाच्छोकात् स्त्रीदोषदर्शनात्|

नारीणामरसज्ञत्वादविचारादसेवनात्||४४||

तृप्तस्यापि स्त्रियो गन्तुं शक्तिरुपजायते|

देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा||४५||

रस इक्षौ यथा दध्नि सर्पिस्तैलं तिले यथा|

सर्वत्रानुगतं देहे शुक्रं संस्पर्शने तथा||४६||

तत् स्त्रीपुरुषसंयोगे चेष्टासङ्कल्पपीडनात्|

शुक्रं प्रच्यवते स्थानाज्जलमार्द्रात् पटादिव||४७||

हर्षात्तर्षात् सरत्वाच्च पैच्छिल्याद्गौरवादपि|

अणुप्रवणभावाच्च द्रुतत्वान्मारुतस्य ||४८||

अष्टाभ्य एभ्यो हेतुभ्यः शुक्रं देहात् प्रसिच्यते|

चरतो विश्वरूपस्य रूपद्रव्यं यदुच्यते||४९||

बहलं मधुरं स्निग्धमविस्रं गुरु पिच्छिलम्|

शुक्लं बहु यच्छुक्रं फलवत्तदसंशयम्||५०||

येन नारीषु सामर्थ्यं वाजीवल्लभते [] नरः|

व्रजेच्चाभ्यधिकं येन वाजीकरणमेव तत्||५१||

तत्र श्लोकौ-

हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः|

यत् पूर्वं मैथुनात् सेव्यं सेव्यं यन्मैथुनादनु||५२||

यदा सेव्याः प्रमदाः कृत्स्नः शुक्रविनिश्चयः|

निरुक्तं चेह निर्दिष्टं पुमाञ्जातबलादिके||५३||

 

Post a Comment

0 Comments