For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः ||२||
वायुरायुर्बलं वायुर्वायुर्धाता शरीरिणाम् |
वायुर्विश्वमिदं सर्वं प्रभुर्वायुश्च कीर्तितः ||३||
अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः |
वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम् ||४||
प्राणोदानसमानाख्यव्यानापानैः स पञ्चधा |
देहं तन्त्रयते सम्यक् स्थानेष्वव्याहतश्चरन् ||५||
स्थानं प्राणस्य मूर्धोरःकण्ठजिह्वास्यनासिकाः [१] |
ष्ठीवनक्षवथूद्गारश्वासाहारादि कर्म च ||६||
उदानस्य पुनः स्थानं नाभ्युरः कण्ठ एव च |
वाक्प्रवृत्तिः प्रयत्नौर्जोबलवर्णादि कर्म च ||७||
स्वेददोषाम्बुवाहीनि स्रोतांसि समधिष्ठितः |
अन्तरग्नेश्च पार्श्वस्थः समानोऽग्निबलप्रदः ||८||
देहं व्याप्नोति सर्वं तु व्यानः शीघ्रगतिर्नृणाम् |
गतिप्रसारणाक्षेपनिमेषादिक्रियः सदा ||९||
वृषणौ बस्तिमेढ्रं च नाम्भूरू वङ्क्षणौ गुदम् |
अपानस्थानमन्त्रस्थः शुक्रमूत्रशकृन्ति [२] च ||१०||
सृजत्यार्तवगर्भौ च युक्ताः स्थानस्थिताश्च ते |
स्वकर्म कुर्वते देहो धार्यते तैरनामयः ||११||
विमार्गस्था ह्ययुक्ता वा रोगैः स्वस्थानकर्मजैः |
शरीरं पीडयन्त्येते प्राणानाशु हरन्ति च ||१२||
सङ्ख्यामप्यतिवृत्तानां तज्जानां हि प्रधानतः |
अशीतिर्नखभेदाद्या रोगाः सूत्रे निदर्शिताः ||१३||
तानुच्यमानान् पर्यायैः सहेतूपक्रमाञ्छृणु |
केवलं वायुमुद्दिश्य स्थानभेदात्तथाऽऽवृतम् ||१४||
रूक्षशीताल्पलघ्वन्नव्यवायातिप्रजागरैः |
विषमादुपचाराच्च दोषासृक्स्रवणादति ||१५||
लङ्घनप्लवनात्यध्वव्यायामातिविचेष्टितैः |
धातूनां सङ्क्षयाच्चिन्ताशोकरोगातिकर्षणात् ||१६||
दुःखशय्यासनात् क्रोधाद्दिवास्वप्नाद्भयादपि |
वेगसन्धारणादामादभिघातादभोजनात् ||१७||
मर्माघाताद्गजोष्ट्राश्वशीघ्रयानापतंसनात् |
देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली ||१८||
करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रितान् |१९|
अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम् ||१९||
आत्मरूपं तु तद्व्यक्तमपायो लघुता पुनः |२०|
सङ्कोचः पर्वणां स्तम्भो भेदोऽस्थ्नां पर्वणामपि ||२०||
लोमहर्षः प्रलापश्च पाणिपृष्ठशिरोग्रहः |
खाञ्ज्यपाङ्गुल्यकुब्जत्वं शोषोऽङ्गानामनिद्रता ||२१||
गर्भशुक्ररजोनाशः स्पन्दनं गात्रसुप्तता |
शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम् ||२२||
भेदस्तोदार्तिराक्षेपो मोहश्चायास एव च |
एवंविधानि रूपाणि करोति कुपितोऽनिलः ||२३||
हेतुस्थानविशेषाच्च भवेद्रोगविशेषकृत् |२४|
तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः ||२४||
ब्रध्नहृद्रोगगुल्मार्शःपार्श्वशूलं च मारुते |
सर्वाङ्गुकुपिते वाते गात्रस्फुरणभञ्जने ||२५||
वेदनाभिः परीतश्च स्फुटन्तीवास्य सन्धयः |
ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः ||२६||
जङ्घोरुत्रिकपात्पृष्ठरोगशोषौ गुदस्थिते |
हृन्नाभिपार्श्वोदररुक्तृष्णोद्गारविसूचिकाः ||२७||
कासः कण्ठास्यशोषश्च श्वासश्चामाशयस्थिते |
पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च ||२८||
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् |
श्रोत्रादिष्विन्द्रियवधं कुर्याद्दुष्टसमीरणः ||२९||
त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते |
आतन्यते सरागा च पर्वरुक् त्वक्स्थितेऽनिले ||३०||
रुजस्तीव्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः |
गात्रे चारूंषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले ||३१||
गुर्वङ्गं तुद्यतेऽत्यर्थं दण्डमुष्टिहतं तथा |
सरुक् श्रमितमत्यर्थं [२] मांसमेदोगतेऽनिले ||३२||
भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः |
अस्वप्नः सन्तता रुक् च मज्जास्थिकुपितेऽनिले ||३३||
क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा |
विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः ||३४||
बाह्याभ्यन्तरमायामं खल्लिं कुब्जत्वमेव च |
सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः ||३५||
शरीरं मन्दरुक्शोफं शुष्यति स्पन्दते तथा |
सुप्तास्तन्व्यो महत्यो वा सिरा वाते सिरागते ||३६||
वातपूर्णदृतिस्पर्शः शोथः सन्धिगतेऽनिले |
प्रसारणाकुञ्चनयोः प्रवृत्तिश्च [३] सवेदना ||३७||
(इत्युक्तं [४] स्थानभेदेन वायोर्लक्षणमेव च) |३८|
अतिवृद्धः शरीरार्धमेकं वायुः प्रपद्यते |
यदा तदोपशोष्यासृग्बाहुं पादं च जानु च ||३८||
तस्मिन् सङ्कोचयत्यर्धे मुखं जिह्मं करोति च |
वक्रीकरोति नासाभूललाटाक्षिहनूस्तथा ||३९||
ततो वक्रं व्रजत्यास्ये भोजनं वक्रनासिकम् [१] |
स्तब्धं नेत्रं कथयतः क्षवथुश्च निगृह्यते ||४०||
दीना जिह्मा समुत्क्षिप्ता कला [२] सज्जति चास्य वाक् |
दन्ताश्चलन्ति बाध्येते श्रवणौ भिद्यते स्वरः ||४१||
पादहस्ताक्षिजङ्घोरुशङ्खश्रवणगण्डरुक् [३] |
अर्धे तस्मिन्मुखार्धे वा केवले स्यात्तदर्दितम् ||४२||
मन्ये संश्रित्य वातोऽन्तर्यदा नाडीः प्रपद्यते |
मन्यास्तम्भं तदा कुर्यादन्तरायामसञ्ज्ञितम् ||४३||
अन्तरायम्यते ग्रीवा मन्या च स्तभ्यते भृशम् |
दन्तानां दंशनं लाला पृष्ठायामः [१] शिरोग्रहः ||४४||
जृम्भा वदनसङ्गश्चाप्यन्तरायामलक्षणम् |
(इत्युक्तस्त्वन्तरायामो [२] ... |४५|
..बहिरायाम उच्यते) ||४५||
पृष्ठमन्याश्रिता बाह्याः शोषयित्वा सिरा बली |
वायुः कुर्याद्धनुस्तम्भं बहिरायामसञ्ज्ञकम् ||४६||
चापवन्नाम्यमानस्य पृष्ठतो नीयते शिरः |
उर उत्क्षिप्यते मन्या स्तब्धा ग्रीवाऽवमृद्यते ||४७||
दन्तानां दशनं जृम्भा लालास्रावश्च वाग्ग्रहः |
जातवेगो निहन्त्येष वैकल्यं वा प्रयच्छति ||४८||
हनुमूले स्थितो बन्धात् संस्रयत्यनिलो हनू |
विवृतास्यत्वमथवा कुर्यात् [१] स्तब्धमवेदनम् ||४९||
हनुग्रहं च संस्तभ्य हनुं(नू)संवृतवक्रताम् |५०|
मुहुराक्षिपति क्रुद्धो गात्राण्याक्षेपकोऽनिलः ||५०||
पाणिपादं च संशोष्य सिराः सस्नायुकण्डराः |५१|
पाणिपादशिरःपृष्ठश्रोणीः स्तभ्नाति मारुतः ||५१||
दण्डवत्स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः |५२|
स्वस्थः स्यादर्दितादीनां मुहुर्वेगे [१] गतेऽगते ||५२||
पीड्यते पीडनैस्तैस्तैर्भिषगेतान् विवर्जयेत् |५३|
हत्वैकं मारुतः पक्षं दक्षिणं वाममेव वा ||५३||
कुर्याच्चेष्टानिवृत्तिं हि रुजं वाक्स्तमभमेव [१] च |
गृहीत्वाऽर्धं शरीरस्य सिराः स्नायूर्विशोष्य च ||५४||
पादं सङ्कोचयत्येकं हस्तं वा तोदशूलकृत् |
एकाङ्गरोगं तं विद्यात् सर्वाङ्गं [२] सर्वदेहजम् ||५५||
स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात् |
गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः ||५६||
वाताद्वातकफात्तन्द्रागौरवारोचकान्विता |
खल्ली तु पादजङ्घोरुकरमूलावमोटनी ||५७||
स्थानानामनुरूपैश्च लिङ्गैः शेषान् विनिर्दिशेत् |५८|
सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत् ||५८||
वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च (वा) |
वातपित्तकफा देहे सर्वस्रोतोऽनुसारिणः ||५९||
वायुरेव हि सूक्ष्मत्वाद्द्वयोस्तत्राप्युदीरणः [१] |
कुपितस्तौ समुद्धूय तत्र तत्र क्षिपन् गदान् ||६०||
करोत्यावृतमार्गत्वाद्रसादींश्चोपशोषयेत् |६१|
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः [१] ||६१||
कट्वम्ललवणोष्णैश्च विदाहः शीतकामिता |
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम् ||६२||
लङ्घनायासरूक्षोष्णकामिता च कफावृते |
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजो भृशम् ||६३||
भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च |
कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा ||६४||
हर्षः पिपीलिकानां च सञ्चार इव मांसगे |
चलः स्निग्धो मृदुः शीतः शोफोऽङ्गेष्वरुचिस्तथा ||६५||
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृतः |
स्पर्शमस्थ्नाऽऽवृते तूष्णं पीडनं चाभिनन्दति ||६६||
सम्भज्यते सीदति च सूचीभिरिव तुद्यते |
मज्जावृते विनामः [२] स्याज्जृम्भणं परिवेष्टनम् ||६७||
शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम् |
शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे ||६८||
भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृतेऽनिले |
मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृतेऽनिले ||६९||
वर्चसोऽतिविबन्धोऽधः स्वे स्थाने परिकृन्तति |
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः ||७०||
चिरात् पीडितमन्नेन दुःखं शुष्कं शकृत् सृजेत् |
श्रोणीवङ्क्षणपृष्ठेषु रुग्विलोमश्च मारुतः ||७१||
अस्वस्थं हृदयं चैव वर्चसा त्वावृतेऽनिले |७२|
सन्धिच्युतिर्हनुस्तम्भः [१] कुञ्चनं कुब्जताऽर्दितः ||७२||
पक्षाघातोऽङ्गसंशोषः [२] पङ्गुत्वं खुडवातता |
स्तम्भनं चाढ्यवातश्च रोगा मज्जास्थिगाश्च ये ||७३||
एते स्थानस्य गाम्भीर्याद्यत्नात् सिध्यन्ति वा न वा |
नवान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान् ||७४||
क्रियामतः परं सिद्धां वातरोगापहां शृणु |
केवलं निरुपस्तम्भमादौ स्नेहैरुपाचरेत् ||७५||
वायुं सर्पिर्वसातैलमज्जपानैर्नरं ततः |
स्नेहक्लान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः ||७६||
यूषैर्ग्राम्याम्बुजानूपरसैर्वा स्नेहसंयुतैः |
पायसैः कृशरैः साम्ललवणैरनुवासनैः ||७७||
नावनैस्तर्पणैश्चान्नैः [१] सुस्निग्धं स्वेदयेत्ततः |
स्वभ्यक्तं स्नेहसंयुक्तैर्नाडीप्रस्तरसङ्करैः ||७८||
तथाऽन्यैर्विविधैः स्वेदैर्यथायोगमुपाचरेत् |
स्नेहाक्तं [२] स्विन्नमङ्गं तु वक्रं स्तब्धमथापि वा ||७९||
शनैर्नामयितुं शक्यं यथेष्टं शुष्कदारुवत् |
हर्षतोदरुगायामशोथस्तम्भग्रहादयः ||८०||
स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते |
स्नेहश्च धातून्संशुष्कान् पुष्णात्याशु प्रयोजितः ||८१||
बलमग्निबलं पुष्टिं प्राणांश्चाप्यभिवर्धयेत् |
असकृत्तं पुनः स्नेहैः स्वेदैश्चाप्युपपादयेत् ||८२||
तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः |८३|
यद्यनेन सदोषत्वात् कर्मणा न प्रशाम्यति ||८३||
मृदुभिः स्नेहसंयुक्तैरौषधैस्तं विशोधयेत् |
घृतं तिल्वकसिद्धं वा सातलासिद्धमेव वा ||८४||
पयसैरण्डतैलं वा पिबेद्दोषहरं शिवम् |
स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः ||८५||
स्रोतो बद्ध्वाऽनिलं रुन्ध्यात्तस्मात्तमनुलोमयेत् [१] |
दुर्बलो योऽविरेच्यः स्यात्तं निरूहैरुपाचरेत् ||८६||
पाचनैर्दीपनीयैर्वा भोजनैस्तद्युतैर्नरम् |
संशुद्धस्योत्थिते चाग्नौ स्नेहस्वेदौ पुनर्हितौ ||८७||
स्वाद्वम्ललवणस्निग्धैराहारैः सततं पुनः |
नावनैर्धूमपानैश्च सर्वानेवोपपादयेत् ||८८||
इति सामान्यतः प्रोक्तं वातरोगचिकित्सितम् |८९|
विशेषतस्तु कोष्ठस्थे वाते क्षारं [१] पिबेन्नरः ||८९||
पाचनैर्दीपनैर्युक्तैरम्लैर्वा [२] पाचयेन्मलान् |
गुदपक्वाशयस्थे तु कर्मोदावर्तनुद्धितम् ||९०||
आमाशयस्थे शुद्धस्य यथादोषहरीः क्रियाः |
सर्वाङ्गकुपितेऽभ्यङ्गो बस्तयः सानुवासनाः ||९१||
स्वेदाभ्यङ्गावगाहाश्च हृद्यं चान्नं त्वगाश्रिते |
शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् ||९२||
विरेको मांसमेदःस्थे निरूहाः शमनानि च |
बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत् ||९३||
हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम् |
विबद्धमार्गं दृष्ट्वा वा शुक्रं दद्याद्विरेचनम् ||९४||
विरिक्तप्रतिभुक्तस्य पूर्वोक्तां कारयेत् क्रियाम् |
गर्भे शुष्के तु वातेन बालानां चापि शुष्यताम् ||९५||
सिताकाश्मर्यमधुकैर्हितमुत्थापने पयः |
हृदि प्रकुपिते सिद्धमंशुमत्या पयो हितम् ||९६||
मत्स्यान्नाभिप्रदेशस्थे सिद्धान् बिल्वशलाटुभिः |
वायुना वेष्ट्यमाने तु गात्रे स्यादुपनाहनम् ||९७||
तैलं सङ्कुचितेऽभ्यङ्गो माषसैन्धवसाधितम् |
बाहुशीर्षगते नस्यं पानं चौत्तरभक्तिकम् ||९८||
बस्तिकर्म त्वधो नाभेः शस्यते चावपीडकः |९९|
अर्दिते नावनं मूर्ध्नि तैलं तर्पणमेव च ||९९||
नाडीस्वेदोपनाहाश्चाप्यानूपपिशितैर्हिताः |
स्वेदनं स्नेहसंयुक्तं पक्षाघाते विरेचनम् ||१००||
अन्तराकण्डरागुल्फं सिरा बस्त्यग्निकर्म च |
गृध्रसीषु प्रयुञ्जीत खल्ल्यां तूष्णोपनाहनम् ||१०१||
पायसैः कृशरैर्मांसैः शस्तं तैलघृतान्वितैः |
व्यात्तानने हनुं स्विन्नामङ्गुष्ठाभ्यां प्रपीड्य च ||१०२||
प्रदेशिनीभ्यां चोन्नाभ्य चिबुकोन्नामनं हितम् |
स्रस्तं स्वं गमयेत्स्थानं स्तब्धं स्विन्नं विनामयेत् ||१०३||
प्रत्येकं स्थानदूष्यादिक्रियावैशेष्यमाचरेत् [१] |१०४|
सर्पिस्तैलवसामज्जसेकाभ्यञ्जनबस्तयः [१] ||१०४||
स्निग्धाः स्वेदा निवातं च स्थानं प्रावरणानि च |
रसाः पयांसि भोज्यानि स्वाद्वम्ललवणानि च ||१०५||
बृंहणं यच्च तत् सर्वं प्रशस्तं वातरोगिणाम् |१०६|
बलायाः पञ्चमूलस्य दशमूलस्य वा रसे ||१०६||
अजशीर्षाम्बुजानूपमांसादपिशितैः पृथक् |
साधयित्वा रसान् स्निग्धान्दध्यम्लव्योषसंस्कृतान् ||१०७||
भोजयेद्वातरोगार्तं तैर्व्यक्तलवणैर्नरम् |
एतैरेवोपनाहांश्च पिशितैः सम्प्रकल्पयेत् ||१०८||
घृततैलयुतैः साम्लैः क्षुण्णस्विन्नैरनस्थिभिः |
पत्रोत्क्वाथपयस्तैलद्रोण्यः स्युरवगाहने ||१०९||
स्वभ्यक्तानां प्रशस्यन्ते सेकाश्चानिलरोगिणाम् |
आनूपौदकमांसानि दशमूलं शतावरीम् ||११०||
कुलत्थान् बदरान्माषांस्तिलान्रास्नां यवान् बलाम् |
वसादध्यारनालाम्लैः सह कुम्भ्यां विपाचयेत् ||१११||
नाडीस्वेदं प्रयुञ्जीत पिष्टैश्चाप्युपनाहनम् |
तैश्च सिद्धं घृतं तैलमभ्यङ्गं पानमेव च ||११२||
मुस्तं किण्वं तिलाः कुष्ठं सुराह्वं लवणं नतम् |
दधिक्षीरचतुःस्नेहैः सिद्धं स्यादुपनाहनम् ||११३||
उत्कारिकावेसवारक्षीरमाषतिलौदनैः |
एरण्डबीजगोधूमयवकोलस्थिरादिभिः ||११४||
सस्नेहैः सरुजं गात्रमालिप्य बहलं भिषक् |
एरण्डपत्रैर्बध्नीयाद्रात्रौ कल्यं विमोक्षयेत् ||११५||
क्षीराम्बुना ततः सिक्तं पुनश्चैवोपनाहितम् |
मुञ्चेद्रात्रौ दिवाबद्धं चर्मभिश्च सलोमभिः ||११६||
फलानां तैलयोनीनामम्लपिष्टान् सुशीतलान् |
प्रदेहानुपनाहांश्च गन्धैर्वातहरैरपि ||११७||
पायसैः कृशरैश्चैव कारयेत् स्नेहसंयुतैः |११८|
रूक्षशुद्धानिलार्तानामतः स्नेहान् प्रचक्ष्महे||११८||
विविधान् विविधव्याधिप्रशमायामृतोपमान्|
द्रोणेऽम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान्||११९||
यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह|
पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः||१२०||
तथा खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः|
सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत्||१२१||
निरत्ययः प्रयोक्तव्यः पानाभ्यञ्जनबस्तिषु|
चित्रकं नागरं रास्नां पौष्करं पिप्पलीं शटीम्||१२२||
पिष्ट्वा विपाचयेत् सर्पिर्वातरोगहरं परम्|
बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत्||१२३||
तस्य शुक्तिः प्रकुञ्चो वा नस्यं मूर्धगतेऽनिले|
ग्राम्यानूपौदकानां तु भित्वाऽस्थीनि पचेज्जले||१२४||
तं स्नेहं दशमूलस्य कषायेण पुनः पचेत्|
जीवकर्षभकास्फोताविदारीकपिकच्छुभिः||१२५||
वातघ्नैर्जीवनीयैश्च कल्कैर्द्विक्षीरभागिकम्|
तत्सिद्धं नावनाभ्यङ्गात्तथा पानानुवासनात्||१२६||
सिरापर्वास्थिकोष्ठस्थं प्रणुदत्याशु मारुतम्|
ये स्युः प्रक्षीणमज्जानः क्षीणशुक्रौजसश्च ये||१२७||
बलपुष्टिकरं तेषामेतत् स्यादमृतोपमम्|
तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा||१२८||
प्रत्यग्रा विधिनाऽनेन नस्यपानेषु शस्यते|
प्रस्थः स्यात्त्रिफलायास्तु कुलत्थकुडवद्वयम्||१२९||
कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलं भवेत्|
रास्नाचित्रकयोर्द्वे द्वे दशमूलं पलोन्मितम्||१३०||
जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्|
सुरारनालदध्यम्लसौवीरकतुषोदकम्||१३१||
कोलदाडिमवृक्षाम्लरसं तैलं वसां घृतम्|
मज्जानं च पयश्चैव जीवनीयपलानि षट्||१३२||
कल्कं दत्त्वा महास्नेहं सम्यगेनं विपाचयेत्|
सिरामज्जास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु||१३३||
वेपनाक्षेपशूलेषु तदभ्यङ्गे प्रयोजयेत्|
निर्गुण्ड्या मूलपत्राभ्यां गृहीत्वा स्वरसं ततः||१३४||
तेन सिद्धं समं तैलं नाडीकुष्ठानिलार्तिषु|
हितं पामापचीनां च पानाभ्यञ्जनपूरणम्||१३५||
कार्पासास्थिकुलत्थानां रसे सिद्धं च वातनुत्|१३६|
मूलकस्वरसे क्षीरसमे स्थाप्यं त्र्यहं दधि||१३६||
तस्याम्लस्य त्रिभिः प्रस्थैस्तैलप्रस्थं विपाचयेत् |
यष्ट्याह्वशर्करारास्नालवणार्द्रकनागरैः ||१३७||
सुपिष्टैः पलिकैः पानात्तदभ्यङ्गाच्च वातनुत् |१३८|
पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम् ||१३८||
पक्त्वा तस्य रसं पूत्वा तैलप्रस्थं विपाचयेत् |
पयसाऽष्टगुणेनैतत् सर्ववातविकारनुत् ||१३९||
संसृष्टे श्लेष्मणा चैतद्वाते शस्तं विशेषतः |
यवकोलकुलत्थानां श्रेयस्याः शुष्कमूलकात् ||१४०||
बिल्वाच्चाञ्जलिमेकैकं द्रवैरम्लैर्विपाचयेत् |
तेन तैलं कषायेण फलाम्लैः कटुभिस्तथा ||१४१||
पिष्टैः सिद्धं महावातैरार्तः शीते प्रयोजयेत् |१४२|
सर्ववातविकाराणां तैलान्यन्यान्यतः शृणु ||१४२||
चतुष्प्रयोगाण्यायुष्यबलवर्णकराणि च |
रजःशुक्रप्रदोषघ्नान्यपत्यजननानि च ||१४३||
निरत्ययानि सिद्धानि सर्वदोषहराणि च |
सहाचरतुलायाश्च रसे तैलाढकं पचेत् ||१४४||
मूलकल्काद्दशपलं पयो दत्त्वा चतुर्गुणम् |
सिद्धेऽस्मिञ्छर्कराचूर्णादष्टादशपलं भिषक् ||१४५||
विनीय दारुणेष्वेतद्वातव्याधिषु योजयेत् |
श्वदंष्ट्रास्वरसप्रस्थौ द्वौ समौ पयसा सह ||१४६||
षट्पलं शृङ्गवेरस्य गुडस्याष्टपलं तथा |
तैलप्रस्थं विपक्वं तैर्दद्यात् सर्वानिलार्तिषु ||१४७||
जीर्णे तैले च दुग्धेन पेयाकल्पः प्रशस्यते |
बलाशतं गुडूच्याश्च पादं रास्नाष्टभागिकम् ||१४८||
जलाढकशते पक्त्वा दशभागस्थिते रसे |
दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः ||१४९||
पचेत् साजपयोऽर्धांशैः कल्कैरेभिः पलोन्मितैः |
शटीसरलदार्वेलामञ्जिष्ठागुरुचन्दनैः ||१५०||
पद्मकातिविषामुस्तसूर्पपर्णीहरेणुभिः |
यष्ट्याह्वसुरसव्याघ्रनखर्षभकजीवकैः ||१५१||
पलाशरसकस्तूरीनलिकाजातिकोषकैः |
स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः ||१५२||
त्वचाकुन्दुरुकर्पूरतुरुष्कश्रीनिवासकैः [१] |
लवङ्गनखकक्कोलकुष्ठमांसीप्रियङ्गुभिः ||१५३||
स्थौणेयतगरध्यामवचामदनपल्लवैः |
सनागकेशरैः सिद्धे क्षिपेच्चात्रावतारिते ||१५४||
पत्रकल्कं ततः पूतं विधिना तत् प्रयोजयेत् |
श्वासं कासं ज्वरं हिक्कां [२] छर्दिं गुल्मान् क्षतं क्षयम् ||१५५||
प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत् |
बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम् ||१५६||
(अग्निवेशाय गुरुणा कृष्णात्रेयेण भाषितम्) |
इति बलातैलम् |
अमृतायास्तुलाः पञ्च द्रोणेष्वष्टस्वपां पचेत् ||१५७||
पादशेषे समक्षीरं तैलस्य द्व्याढकं पचेत् |
एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः ||१५८||
बलातामलकीमेदाशतपुष्पर्धिजीवकैः [१] |
काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः ||१५९||
महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः |
शतावरीमहामेदाकर्कटाख्याहरेणुभिः ||१६०||
वचागोक्षुरकैरण्डरास्नाकालासहाचरैः |
वीराशल्लकिमुस्तत्वक्पत्रर्षभकबालकैः ||१६१||
सहैलाकुङ्कुमस्पृक्कात्रिदशाह्वैश्च कार्षिकैः |
मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च ||१६२||
कल्कैस्तत् क्षीणवीर्याग्निबलसम्मूढचेतसः |
उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत् ||१६३||
वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताह्वयम् |
(कृष्णात्रेयेण [२] गुरुणा भाषितं वैद्यपूजितम्) ||१६४||
इत्यमृताद्यं तैलम् |
रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत् |
गन्धैर्हैमवतैः पिष्टैरेलाद्यैश्चानिलार्तिनुत् ||१६५||
कल्पोऽयमश्वगन्धायां प्रसारण्यां बलाद्वये |
क्वाथकल्कपयोभिर्वा बलादीनां पचेत् पृथक् ||१६६||
इति रास्नातैलम् |
मूलकस्वरसं क्षीरं तैलं दध्यम्लकाञ्जिकम् |
तुल्यं विपाचयेत् कल्कैर्बलाचित्रकसैन्धवैः ||१६७||
पिप्पल्यतिविषारास्नाचविकागुरुशिग्रुकैः |
भल्लातकवचाकुष्ठश्वदंष्ट्राविश्वभेषजैः ||१६८||
पुष्कराह्वशटीबिल्वशताह्वानतदारुभिः |
तत्सिद्धं पीतमत्युग्रान् हन्ति वातात्मकान् गदान् ||१६९||
इति मूलकाद्यं तैलम् |
वृषमूलगुडूच्योश्च द्विशतस्य शतस्य च |
चित्रकात् साश्वगन्धाच्च क्वाथे तैलाढकं पचेत् ||१७०||
सक्षीरं वायुना भग्ने दद्याज्जर्जरिते तथा |
प्राक्तैलावापसिद्धं च भवेदेतद्गुणोत्तरम् ||१७१||
इति वृषमूलादितैलम् |
रास्नाशिरीषयष्ट्याह्वशुण्ठीसहचरामृताः ||१७२||
स्योनाकदारुशम्पाकहयगन्धात्रिकण्टकाः |
एषां दशपलान् भागान् कषायमुपकल्पयेत् ||१७३||
ततस्तेन कषायेण सर्वगन्धैश्च कार्षिकैः |
दध्यारनालमाषाम्बुमूलकेक्षुरसैः [१] शुभैः ||१७४||
पृथक् प्रस्थोन्मितैः सार्धं तैलप्रस्थं विपाचयेत् |
प्लीहमूत्रग्रहश्वासकासमारुतरोगनुत् [२] ||१७५||
एतन्मूलकतैलाख्यं [३] वर्णायुर्बलवर्धनम् |
इति मूलकतैलम् |
यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः |
रसेन मूलकानां च तैलं दधिपयोन्वितम् ||१७६||
साधयित्वा भिषग्दद्यात् सर्ववातामयापहम् |
लशुनस्वरसे सिद्धं तैलमेभिश्च वातनुत् ||१७७||
तैलान्येतान्यृतुस्नातामङ्गनां पाययेत च |
पीत्वाऽन्यतममेषां हि वन्ध्याऽपि जनयेत् सुतम् ||१७८||
यच्च शीतज्वरे तैलमगुर्वाद्यमुदाहृतम् |
अनेकशतशस्तच्च सिद्धं स्याद्वातरोगनुत् ||१७९||
वक्ष्यन्ते यानि तैलानि वातशोणितकेऽपि च |
तानि चानिलशान्त्यर्थं सिद्धिकामः प्रयोजयेत् ||१८०||
नास्ति तैलात् परं किञ्चिदौषधं मारुतापहम् |
व्यवाय्युष्णगुरुस्नेहात् संस्काराद्वलवत्तरम् ||१८१||
गणैर्वातहरैस्तस्माच्छतशोऽथं सहस्रशः |
सिद्धं क्षिप्रतरं हन्ति सूक्ष्ममार्गस्थितान् गदान् ||१८२||
क्रिया साधारणी सर्वा संसृष्टे चापि शस्यते |
वाते पित्तादिभिः स्रोतःस्वावृतेषु विशेषतः ||१८३||
पित्तावृते विशेषेण शीतामुष्णां तथा क्रियाम् |
व्यत्यासात् कारयेत् सर्पिर्जीवनीयं च शस्यते ||१८४||
धन्वमांसं यवाः शालिर्यापनाः क्षीरबस्तयः |
विरेकः क्षीरपानं च पञ्चमूलीबलाशृतम् ||१८५||
मधुयष्टिबलातैलघृतक्षीरैश्च सेचनम् |
पञ्चमूलकषायेण कुर्याद्वा शीतवारिणा ||१८६||
कफावृते यवान्नानि जाङ्गला मृगपक्षिणः |
स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम् ||१८७||
जीर्णं सर्पिस्तथा तैलं तिलसर्षपजं हितम् |
संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत् ||१८८||
आमाशयगतं मत्वा कफं वमनमाचरेत् ||१८९||
पक्वाशये विरेकं तु पित्ते सर्वत्रगे तथा |
स्वेदैर्विष्यन्दितः श्लेष्मा यदा पक्वाशये स्थितः ||१९०||
पित्तं वा दर्शयेल्लिङ्गं बस्तिभिस्तौ विनिर्हरेत् |
श्लेष्मणाऽनुगतं वातमुष्णैर्गोमूत्रसंयुतैः ||१९१||
निरूहैः पित्तसंसृष्टं निर्हरेत् क्षीरसंयुतैः |
मधुरौषधसिद्धैश्च तैलैस्तमनुवासयेत् ||१९२||
शिरोगते तु सकफे धूमनस्यादि कारयेत् |
हृते पित्ते कफे यः स्यादुरःस्रोतोऽनुगोऽनिलः ||१९३||
सशेषः स्यात् क्रिया तत्र कार्या केवलवातिकी |
शोणितेनावृते कुर्याद्वातशोणितकीं क्रियाम् ||१९४||
प्रमेहवातमेदोघ्नीमामवाते [३] प्रयोजयेत् |
स्वेदाभ्यङ्गरसक्षीरस्नेहा मांसावृते हिताः ||१९५||
महास्नेहोऽस्थिमज्जस्थे पूर्ववद्रेतसाऽऽवृते |
अन्नावृते तदुल्लेखः [४] पाचनं दीपनं लघु ||१९६||
मूत्रलानि तु मूत्रेण स्वेदाः सोत्तरबस्तयः |
शकृता तैलमैरण्डं स्निग्धोदावर्तवत्क्रिया [५] ||१९७||
स्वस्थानस्थो बली दोषः प्राक् तं स्वैरौषधैर्जयेत् |
वमनैर्वा विरेकैर्वा बस्तिभिः शमनेन वा ||१९८||
(इत्युक्तमावृते वाते पित्तादिभिर्यथायथम् [६] ) |१९९|
मारुतानां हि पञ्चानामन्योन्यावरणे शृणु ||१९९||
लिङ्गं व्याससमासाभ्यामुच्यमानं मयाऽनघ! |
प्राणो वृणोत्युदानादीन् प्राणं वृण्वन्ति तेऽपि च ||२००||
उदानाद्यास्तथाऽन्योन्यं सर्व एव यथाक्रमम् |
विंशतिर्वरणान्येतान्युल्बणानां [१] परस्परम् ||२०१||
मारुतानां हि पञ्चानां तानि सम्यक् प्रतर्कयेत् |
सर्वेन्द्रियाणां शून्यत्वं ज्ञात्वा स्मृतिबलक्षयम् ||२०२||
व्याने प्राणावृते लिङ्गं कर्म तत्रोर्ध्वजत्रुकम् |
स्वेदोऽत्यर्थं लोमहर्षस्त्वग्दोषः सुप्तगात्रता ||२०३||
प्राणे व्यानावृते तत्र स्नेहयुक्तं विरेचनम् |
प्राणावृते समाने स्युर्जडगद्गदमूकताः ||२०४||
चतुष्प्रयोगाः शस्यन्ते स्नेहास्तत्र सयापनाः |
समानेनावृतेऽपाने [२] ग्रहणीपार्श्वहृद्गदाः ||२०५||
शूलं चामाशये तत्र दीपनं सर्पिरिष्यते |२०६|
शिरोग्रहः प्रतिश्यायो निःश्वासोच्छ्वाससङ्ग्रहः ||२०६||
हृद्रोगो मुखशोषश्चाप्युदाने प्राणसंवृते |
तत्रोर्ध्वभागिकं कर्म कार्यमाश्वासनं तथा ||२०७||
कर्मौजोबलवर्णानां नाशो मृत्युरथापि वा |
उदानेनावृते प्राणे तं शनैः शीतवारिणा ||२०८||
सिञ्चेदाश्वासयेच्चैनं सुखं चैवोपपादयेत् |
उर्ध्वगेनावृतेऽपाने छर्दिश्वासादयो गदाः ||२०९||
स्युर्वाते तत्र बस्त्यादि भोज्यं चैवानुलोमनम् |
मोहोऽल्पोऽग्निरतीसार ऊर्ध्वगेऽपानसंवृते ||२१०||
वाते स्याद्वमनं तत्र दीपनं ग्राहि चाशनम् |
वम्याध्मानमुदावर्तगुल्मार्तिपरिकर्तिकाः ||२११||
लिङ्गं व्यानावृतेऽपाने तं स्निग्धैरनुलोमयेत् |
अपानेनावृते व्याने भवेद्विण्मूत्ररेतसाम् ||२१२||
अतिप्रवृत्तिस्तत्रापि सर्वं सङ्ग्रहणं मतम् |
मूर्च्छा तन्द्रा प्रलापोऽङ्गसादोऽग्न्योजोबलक्षयः ||२१३||
समानेनावृते व्याने व्यायामो लघुभोजनम् |
स्तब्धताऽल्पाग्निताऽस्वेदश्चेष्टाहानिर्निमीलनम् ||२१४||
उदानेनावृते व्याने तत्र पथ्यं मितं लघु |
पञ्चान्योन्यावृतानेवं वातान् बुध्येत लक्षणैः ||२१५||
एषां स्वकर्मणां हानिर्वृद्धिर्वाऽऽवरणे मता |
यथास्थूलं समुद्दिष्टमेतदावरणेऽष्टकम् ||२१६||
सलिङ्गभेषजं सम्यग्बुधानां बुद्धिवृद्धये |२१७|
स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम् ||२१७||
द्वादशावरणान्यन्यान्यभिलक्ष्य भिषग्जितम् |
कुर्यादभ्यञ्जनस्नेहपानबस्त्यादि [१] सर्वशः ||२१८||
क्रममुष्णमनुष्णं वा व्यत्यासादवचारयेत् |२१९|
उदानं योजयेदूर्ध्वमपानं चानुलोमयेत् ||२१९||
समानं शमयेच्चैव त्रिधा व्यानं तु योजयेत् |
प्राणो रक्ष्यश्चतुर्भ्योऽपि स्थाने ह्यस्य स्थितिर्ध्रुवा ||२२०||
स्वं स्थानं गमयेदेवं वृतानेतान् विमार्गगान् |२२१|
मूर्च्छा दाहो भ्रमः शूलं विदाहः शीतकामिता ||२२१||
छर्दनं च विदग्धस्य प्राणे पित्तसमावृते |
ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससङ्ग्रहः ||२२२||
प्राणे कफावृते रूपाण्यरुचिश्छर्दिरेव च |
मूर्च्छाद्यानि च रूपाणि दाहो नाभ्युरसः क्लमः ||२२३||
ओजोभ्रंशश्च सादश्चाप्युदाने पित्तसंवृते |
आवृते श्लेष्मणोदाने वैवर्ण्यं वाक्स्वरग्रहः ||२२४||
दौर्बल्यं गुरुगात्रत्वमरुचिश्चोपजायते |
अतिस्वेदस्तृषा दाहो मूर्च्छा चारुचिरेव [१] च ||२२५||
पित्तावृते समाने स्यादुपघातस्तथोष्मणः |
अस्वेदो वह्निमान्द्यं च लोमहर्षस्तथैव च ||२२६||
कफावृते समाने स्याद्गात्राणां चातिशीतता |
व्याने पित्तावृते तु स्याद्दाहः सर्वाङ्गगः क्लमः ||२२७||
गात्रविक्षेपसङ्गश्च ससन्तापः सवेदनः |
गुरुता सर्वगात्राणां सर्वसन्ध्यस्थिजा रुजः ||२२८||
व्याने कफावृते लिङ्गं गतिसङ्गस्तथाऽधिकः [२] |
हारिद्रमूत्रवर्चस्त्वं तापश्च गुदमेढ्रयोः ||२२९||
लिङ्गं पित्तावृतेऽपाने रजसश्चातिवर्तनम् |
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम् ||२३०||
श्लेष्मणा संवृतेऽपाने कफमेहस्य चागमः |२३१|
लक्षणानां तु मिश्रत्वं पित्तस्य च कफस्य च ||२३१||
उपलक्ष्य भिषग्विद्वान् मिश्रमावरणं वदेत् |
यद्यस्य वायोर्निर्दिष्टं स्थानं तत्रेतरौ स्थितौ ||२३२||
दोषौ बहुविधान् व्याधीन् दर्शयेतां यथानिजान् |
आवृतं श्लेष्मपित्ताभ्यां प्राणं चोदानमेव च ||२३३||
गरीयस्त्वेन पश्यन्ति भिषजः शास्त्रचक्षुषः |
विशेषाज्जीवितं प्राणे उदाने संश्रितं बलम् ||२३४||
स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च |
सर्वेऽप्येतेऽपरिज्ञाताः परिसंवत्सरास्तथा ||२३५||
उपेक्षणादसाध्याः स्युरथवा दुरुपक्रमाः [१] |२३६|
हृद्रोगो विद्रधिः प्लीहा गुल्मोऽतीसार एव च ||२३६||
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात् |
तस्मादावरणं वैद्यः पवनस्योपलक्षयेत् ||२३७||
पञ्चात्मकस्य वातेन पित्तेन श्लेष्मणाऽपि वा |
भिषग्जितमतः सम्यगुपलक्ष्य समाचरेत् ||२३८||
अनभिष्यन्दिभिः स्निग्धैः स्रोतसां शुद्धिकारकैः |
कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम् ||२३९||
सर्वस्थानावृतेऽप्याशु तत् कार्यं मारुते हितम् |
यापना बस्तयः प्रायो मधुराः सानुवासनाः ||२४०||
प्रसमीक्ष्य बलाधिक्यं मृदु वा स्रंसनं हितम् |
रसायनानां सर्वेषामुपयोगः प्रशस्यते ||२४१||
शैलस्य जतुनोऽत्यर्थं पयसा गुग्गुलोस्तथा |
लेहं वा भार्गवप्रोक्तमभ्यसेत् क्षीरभुङ्नरः ||२४२||
अभयामलकीयोक्तमेकादशसिताशतम् [१] |
अपानेनावृते सर्वं दीपनं ग्राहि भेषजम् ||२४३||
वातानुलोमनं यच्च पक्वाशयविशोधनम् |
इति सङ्क्षेपतः प्रोक्तमावृतानां चिकित्सितम् ||२४४||
प्राणादीनां भिषक् कुर्याद्वितर्क्य स्वयमेव तत् |
पित्तावृते तु पित्तघ्नैर्मारुतस्याविरोधिभिः |
कफावृते कफघ्नैस्तु मारुतस्यानुलोमनैः ||२४५||
लोके वाय्वर्कसोमानां दुर्विज्ञेया यथा गतिः |
तथा शरीरे वातस्य पित्तस्य च कफस्य च ||२४६||
क्षयं वृद्धिं समत्वं च तथैवावरणं भिषक् |
विज्ञाय पवनादीनां न प्रमुह्यति कर्मसु ||२४७||
तत्र श्लोकौ-
पञ्चात्मनः स्थानवशाच्छरीरे स्थानानि कर्माणि च देहधातोः |
प्रकोपहेतुः कुपितश्च रोगान् स्थानेषु चान्येषु वृतोऽवृतश्च ||२४८||
प्राणेश्वरः प्राणभृतां करोति क्रिया च तेषामखिला निरुक्ता |
तां देशसात्म्यर्तुबलान्यवेक्ष्य प्रयोजयेच्छास्त्रमतानुसारी ||२४९||
0 Comments