For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथात ऊरुस्तम्भचिकित्सितं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः ||२||
श्रिया परमया ब्राह्मया परया च तपःश्रिया |
अहीनं चन्द्रसूर्याभ्यां सुमेरुमिव पर्वतम् ||३||
धीधृतिस्मृतिविज्ञानज्ञानकीर्तिक्षमालयम् |
अग्निवेशो गुरुं काले संशयं परिपृष्टवान् ||४||
भगवन् पञ्च कर्माणि समस्तानि पृथक् तथा |
निर्दिष्टान्यामयनां हि सर्वेषामेव भेषजम् ||५||
दोषजोऽस्त्यामयः कश्चिद्यस्य तानि भिषग्वर! |
न स्युः शक्तानि शमने साध्यस्य क्रियया सतः ||६||
अस्त्यूरुस्तम्भ इत्युक्ते गुरुणा तस्य कारणम् |
सलिङ्गभेषजं भूयः पृष्टस्तेनाब्रवीद्गुरुः ||७||
स्निग्धोष्णलघुशीतानि जीर्णाजीर्णे समश्नतः |
द्रवशुष्कदधिक्षीरग्राम्यानूपौदकामिषैः ||८||
पिष्टव्यापन्नमद्यातिदिवास्वप्नप्रजागरैः |
लङ्घनाध्यशनायासभयवेगविधारणैः ||९||
स्नेहाच्चामं चितं कोष्ठे वातादीन्मेदसा सह |
रुद्ध्वाऽऽशु गौरवादूरू यात्यधोगैः सिरादिभिः ||१०||
पूरयन् सक्थिजङ्घोरु दोषो मेदोबलोत्कटः |
अविधेयपरिस्पन्दं जनयत्यल्पविक्रमम् ||११||
महासरसि गम्भीरे पूर्णेऽम्बु स्तिमितं यथा |
तिष्ठति स्थिरमक्षोभ्यं तद्वदूरुगतः कफः ||१२||
गौरवायाससङ्कोचदाहरुक्सुप्तिकम्पनैः |
भेदस्फुरणतोदैश्च युक्तो देहं निहन्त्यसून् ||१३||
ऊरू श्लेष्मा समेदस्को वातपित्तेऽभिभूय तु |
स्तम्भयेत्स्थैर्यशैत्याभ्यामूरुस्तम्भस्ततस्तु सः ||१४||
प्राग्रूपं ध्याननिद्रातिस्तैमित्यारोचकज्वराः |
लोमहर्षश्च छर्दिश्च जङ्घोर्वोः सदनं तथा ||१५||
वातशङ्किभिरज्ञानात्तस्य स्यात् स्नेहनात् पुनः |
पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ||१६||
जङ्घोरुग्लानिरत्यर्थं शश्वच्चादाहवेदना |
पदं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ||१७||
संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः |
अन्यनेयौ हि सम्भग्नावूरू पादौ च मन्यते ||१८||
यदा दाहार्तितोदार्तो वेपनः पुरुषो भवेत् |
ऊरुस्तम्भस्तदा हन्यात् साधयेदन्यथा नवम् ||१९||
तस्य न स्नेहनं कार्यं न बस्तिर्न विरेचनम् |
न चैव वमनं यस्मात्तन्निबोधत कारणम् ||२०||
वृद्धये श्लेष्मणो नित्यं स्नेहनं बस्तिकर्म च |
तत्स्थस्योद्धरणे चैव न समर्थं विरेचनम् ||२१||
कफं कफस्थानगतं पित्तं च वमनात् सुखम् |
हर्तुमामाशयस्थौ च स्रंसनात्तावुभावपि ||२२||
पक्वाशयस्थाः सर्वेऽपि बस्तिभिर्मूलनिर्जयात् |
शक्या न त्वाममेदोभ्यां स्तब्धा जङ्घोरुसंस्थिता ||२३||
वातस्थाने हि तच्छैत्याद्द्वयोः स्तम्भाच्च तद्गताः |
न शक्याः सुखमुद्धर्तुं जलं निम्नादिव स्थलात् ||२४||
तस्य संशमनं नित्यं क्षपणं शोषणं तथा |
युक्त्यपेक्षी भिषक् कुर्यादधिकत्वात्कफामयोः ||२५||
सदा रूक्षोपचाराय यवश्यामाककोद्रवान् |
शाकैरलवणैर्दद्याज्जलतैलोपसाधितैः ||२६||
सुनिषण्णकनिम्बार्कवेत्रारग्वधपल्लवैः |
वायसीवास्तुकैरन्यैस्तिक्तैश्च कुलकादिभिः ||२७||
क्षारारिष्टप्रयोगाश्च हरीतक्यास्तथैव च |
मधूदकस्य पिप्पल्या ऊरुस्तम्भविनाशनाः ||२८||
समङ्गां शाल्मलीं बिल्वं मधुना सह ना पिबेत् |
तथा श्रीवेष्टकोदीच्यदेवदारुनतान्यपि ||२९||
चन्दनं धातकीं कुष्ठं तालीसं नलदं तथा |३०|
मुस्तं हरीतकीं लोध्रं पद्मकं तिक्तरोहिणीम् ||३०||
देवदारु हरिद्रे द्वे वचां कटुकरोहिणीम् |
पिप्पलीं पिप्पलीमूलं सरलं देवदारु च ||३१||
चव्यं चित्रकमूलानि देवदारु हरीतकीम् |
भल्लातकं समूलां च पिप्पलीं पञ्च तान् पिबेत् ||३२||
सक्षौद्रानर्धश्लोकोक्तान् कल्कानूरुग्रहापहान् |३३|
शार्ङ्गेष्टां मदनं दन्तीं वत्सकस्य फलं वचाम् ||३३||
मूर्वामारग्वधं पाठां करञ्जं कुलकं तथा |
पिबेन्मधुयुतं तुल्यं चूर्णं वा वारिणाऽऽप्लुतम् ||३४||
सक्षौद्रं दधिमण्डैर्वाऽप्यूरुस्तम्भविनाशनम् |
मूर्वामतिविषां कुष्ठं चित्रकं कटुरोहिणीम् ||३५||
पूर्ववद्गुग्गुलुं मूत्रे रात्रिस्थितमथापि वा |
स्वर्णक्षीरीमतिविषां मुस्तं तेजोवतीं वचाम् ||३६||
सुराह्वं चित्रकं कुष्ठं पाठां कटुकरोहिणीम् |
लेहयेन्मधुना चूर्णं सक्षौद्रं वा जलाप्लुतम् ||३७||
फलीं व्याघ्रनखं हेम पिबेद्वा मधुसंयुतम् |
त्रिफलां पिप्पलीं मुस्तं चव्यं कटुकरोहिणीम् ||३८||
लिह्याद्वा मधुना चूर्णमूरुस्तम्भार्दितो नरः |३९|
अपतर्पणजश्चेत् स्याद्दोषः सन्तर्पयेद्धि तम् ||३९||
युक्त्या जाङ्गलजैर्मांसैः पुराणैश्चैव शालिभिः |
रूक्षणाद्वातकोपश्चेन्निद्रानाशार्तिपूर्वकः ||४०||
स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः |
पीलुपर्णी पयस्या च रास्ना गोक्षुरको वचा ||४१||
सरलागुरुपाठाश्च तैलमेभिर्विपाचयेत् |
सक्षौद्रं प्रसृतं तस्मादञ्जलिं वाऽपि ना पिबेत् ||४२||
कुष्ठश्रीवेष्टकोदीच्यसरलं दारु केशरम् |
अजगन्धाऽश्वगन्धा च तैलं तैः सार्षपं पचेत् ||४३||
सक्षौद्रं मात्रया तच्चाप्यूरुस्तम्भार्दितः पिबेत् |
(रौक्ष्यान्मुक्त ऊरुस्तम्भात्ततश्च स विमुच्यते ) ||४४||
द्वे पले सैन्धवात् पञ्च शुण्ठ्या ग्रन्थिकचित्रकात् |
द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽऽढके ||४५||
आरनालात् पचेत् प्रस्थं तैलस्यैतैरपत्यदम् |
गृध्रस्यूरुग्रहार्शोर्तिसर्ववातविकारनुत् ||४६||
पलाभ्यां पिप्पलीमूलनागरादष्टकट्वरः |
तैलप्रस्थः समो दध्ना गृध्रस्यूरुग्रहापहः ||४७||
इत्यष्टकट्वरतैलम् |
इत्याभ्यन्तरमुद्दिष्टमूरुस्तम्भस्य भेषजम् |
श्लेष्मणः क्षपणं त्वन्यद्बाह्यं शृणु चिकित्सितम् ||४८||
वल्मीकमृत्तिका मूलं करञ्जस्य फलं त्वचम् |
इष्टकानां ततश्चूर्णैः कुर्यादुत्सादनं भृशम् ||४९||
मूलैर्वाऽप्यश्वगन्धाया मूलैरर्कस्य वा भिषक् |
पिचुमर्दस्य वा मूलैरथवा देवदारुणाः ||५०||
क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतैर्भिषक् |
गाढमुत्सादनं कुर्यादूरुस्तम्भे प्रलेपनम् ||५१||
दन्तीद्रवन्तीसुरसासर्षपैश्चापि बुद्धिमान् |
तर्कारीशिग्रुसुरसाविश्ववत्सकनिम्बजैः ||५२||
पत्रमूलफलैस्तोयं शृतमुष्णं च सेचनम् |
पिष्टं तु सर्षपं मूत्रेऽध्युषितं स्यात् प्रलेपनम् ||५३||
वत्सकः सुरसं कुष्ठं गन्धास्तुम्बुरुशिग्रुकौ |
हिंस्रार्कमूलवल्मीकमृत्तिकाः सकुठेरकाः ||५४||
दधिसैन्धवसंयुक्तं कार्यमेतैः प्रलेपनम् |
(ऊरुस्तम्भविनाशाय भिषजा जानता क्रमम्) ||५५||
श्योनाकं खदिरं बिल्वं बृहत्यौ सरलासनौ |
शोभाञ्जनकतर्कारीश्वदंष्ट्रासुरसार्जकान् ||५६||
अग्निमन्थकरञ्जौ च जलेनोत्क्वाथ्य सेचयेत् |
प्रलेपो मूत्रपिष्टैर्वाऽप्यूरुस्तम्भनिवारणः ||५७||
कफक्षयार्थं शक्येषु व्यायामेष्वनुयोजयेत् |
स्थलान्याक्रामयेत् कल्यं शर्कराः सिकतास्तथा ||५८||
प्रतारयेत् प्रतिस्रोतो नदीं शीतजलां शिवाम् |
सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः ||५९||
तथा विशुष्केऽस्य कफे शान्तिमूरुग्रहो व्रजेत् |६०|
श्लेष्मणः क्षपणं यत् स्यान्न च मारुतमावहेत् ||६०||
तत् सर्वं सर्वदा कार्यमूरुस्तम्भस्य भेषजम् |
शरीरं बलमग्निं च कार्यैषा रक्षता क्रिया ||६१||
तत्र श्लोकः-
हेतुः प्राग्रूपलिङ्गानि कर्मायोग्यत्वकारणम् |
द्विविधं भेषजं चोक्तमूरुस्तम्भचिकित्सिते ||६२||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने ऊरुस्तम्भचिकित्सितं नाम सप्तविंशोऽध्यायः ||२७||
0 Comments