Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 26 trimarmiya adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातस्त्रिमर्मीयचिकित्सितमध्यायंव्याख्यास्यामः||||

इतिहस्माहभगवानात्रेयः||||

सप्तोत्तरंमर्मशतंयदुक्तंशरीरसङ्ख्यामधिकृत्यतेभ्यः|
मर्माणिबस्तिंहृदयंशिरश्चप्रधानभूतानिवदन्तितज्ज्ञाः||||

प्राणाश्रयात्,तानिहिपीडयन्तोवातादयोऽसूनपिपीडयन्ति|
तत्संश्रितानामनुपालनार्थंमहागदानांशृणुसौम्यरक्षाम्||||

कषायतिक्तोषणरूक्षभोज्यैः

पक्वाशयेकुप्यतिचेदपानःस्रोतांस्यधोगानिबलीसरुद्ध्वा||||

करोतिविण्मारुतमूत्रसङ्गंक्रमादुदावर्तमतःसुघोरम्|

रुग्बस्तिहृत्कुक्ष्युदरेष्वभीक्ष्णंसपृष्ठपार्श्वेष्वतिदारुणास्यात्||||

आध्मानहृल्लासविकर्तिकाश्चतोदोऽविपाकश्चसबस्तिशोथः|

वर्चोऽप्रवृत्तिर्जठरेचगण्डान्यूर्ध्वश्चवायुर्विहतोगुदेस्यात्||||

कृच्छ्रेणशुष्कस्यचिरात्प्रवृत्तिःस्याद्वातनुःस्यात्खररूक्षशीता|

ततश्चरोगाज्वरमूत्रकृच्छ्रप्रवाहिकाहृद्ग्रहणीप्रदोषाः||||

वम्यान्ध्यबाधिर्यशिरोऽभितापवातोदराष्ठीलमनोविकाराः|

तृष्णास्रपित्तारुचिगुल्मकासश्वासप्रतिश्यार्दितपार्श्वरोगाः||||

अन्येचरोगाबहवोऽनिलोत्थाभवन्त्युदाsवर्तकृताःसुघोराः|

चिकित्सितंचास्ययथावदूर्ध्वंप्रवक्ष्यतेतच्छृणुचाग्निवेश! ||१०||

तंतैलशीतज्वरनाशनाकंस्वेदैर्यथोक्तैःप्रविलीनदोषम्|

उपाचरेद्वर्तिनिरूहबस्तिस्नेहैर्विरेकैरनुलोमनान्नैः||११||

श्यामात्रिवृन्मागधिकांसदन्तींगोमूत्रपिष्टांदशभागमाषाम्|

सनीलिकांद्विर्लवणांगुडेनवर्तिंकराङ्गुष्ठनिभांविदध्यात्||१२||

पिण्याकसौवर्चलहिङ्गुभिर्वाससर्षपत्र्यूषणयावशूकैः|

क्रिमिघ्नकम्पिल्लकशङ्खिनीभिःसुधार्कजक्षीरगुडैर्युताभिः||१३||

स्यात्पिप्पलीसर्षपराढवेश्मधूमैःसगोमूत्रगुडैश्चवर्तिः|

श्यामाफलालाबुकपिप्पलीनांनाड्याऽथवातत्प्रधमेत्तुचूर्णम्||१४||

रक्षोघ्नतुम्बीकरहाटकृष्णाचूर्णंसजीमूतकसैन्धवंवा|

स्निग्धेगुदेतान्यनुलोमयन्तिनरस्यवर्चोऽनिलमूत्रसङ्गम्||१५||

तेषांविघातेतुभिषग्विदध्यात्स्वभ्यक्तसुस्विन्नतनोर्निरूहम्|

ऊर्ध्वानुलोमौषधमूत्रतैलक्षाराम्लवातघ्नयुतंसुतीक्ष्णम्||१६||

वातेऽधिकेऽम्लंलवणंसतैलं, क्षीरेणपित्तेतु, कफेसमूत्रम्|

समूत्रवर्चोऽनिलसङ्गमाशुगुदंसिराश्चप्रगुणीकरोति||१७||

त्रिवृत्सुधापत्रतिलादिशाकग्राम्यौदकानूपरसैर्यवान्नम्|

अन्यैश्चसृष्टानिलमूत्रविङ्भिरद्यात्प्रसन्नागुडसीधुपायी||१८||

भूयोऽनुबन्धेतुभवेद्विरेच्योमूत्रप्रसन्नादधिमण्डशुक्तैः|

स्वस्थंतुपश्चादनुवासयेत्तंरौक्ष्याद्धिसङ्गोऽनिलवर्चसोश्चेत्||१९||

द्विरुत्तरंहिङ्गुवचाग्निकुष्ठंसुवर्चिकाचैवविडङ्गचूर्णम्|

सुखाम्बुनाऽऽनाहविसूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम्||२०||

वचाभयाचित्रकयावशूकान्सपिप्पलीकातिविषान्सकुष्ठान्|

उष्णाम्बुनाऽऽनाहविमूढवातान्पीत्वाजयेदाशुरसौदनाशी||२१||

हिङ्गूग्रगन्धाबिडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम्|

यथोत्तरंभागविवृद्धमेतत्प्लीहोदराजीर्णविसूचिकासु||२२||

स्थिरादिवर्गस्यपुनर्नवायाःशम्पाकपूतीककरञ्जयोश्च|

सिद्धःकषायेद्विपलांशिकानांप्रस्थोघृतात्स्यात्प्रतिरुद्धवाते||२३||

फलंचमूलंचविरेचनोक्तंहिङ्ग्वर्कमूलंदशमूलमग्र्यम्|

स्नुक्चित्रकश्चैवपुनर्नवाचतुल्यानिसर्वैर्लवणानिपञ्च||२४||

स्नेहैःसमूत्रैःसहजर्जराणिशरावसन्धौविपचेत्सुलिप्ते|

पक्वंसुपिष्टंलवणंतदन्नैःपानैस्तथाऽऽनाहरुजाघ्नमद्यात्||२५||

हृत्स्तम्भमूर्धामयगौरवाभ्यामुद्गारसङ्गेनसपीनसेन|

आनाहमामप्रभवंजयेत्तुप्रच्छर्दनैर्लङ्घनपाचनैश्च||२६||

(गुल्मोदरब्रध्नार्शःप्लीहोदावर्तयोनिशुक्रगदेमेदःकफसंसृष्टेमारुतरक्तेऽवगाढेच||२७||

गृध्रसिपक्षवधादिषुविरेचनार्हेषुवातरोगेषु|

वातेविबद्धमार्गेमेदःकफपित्तरक्तेन||२८||

पयसामांसरसैर्वात्रिफलारसयूषमूत्रमदिराभिः|

दोषानुबन्धयोगात्प्रशस्तमेरण्डजंतैलम्||२९||

तद्वातनुत्स्वभावात्संयोगवशाद्विरेचनाच्चजयेत्|

मेदोसृक्पित्तकफोन्मिश्रानिलरोगजित्तस्मात्||३०||

बलकोष्ठव्याधिवशादापञ्चपलाभवेन्मात्रा|

मृदुकोष्ठाल्पबलानांसहभोज्यंतत्प्रयोज्यंस्यत्) ||३१||

इत्युदावर्तचिकित्सा|

व्यायामतीक्ष्णौषधरूक्षमद्यप्रसङ्गनित्यद्रुतपृष्ठयानात्|

आनूपमत्स्याध्यशनादजीर्णात्स्युर्मूत्रकृच्छ्राणिनृणामिहाष्टौ||३२||

पृथङ्मलाःस्वैःकुपितानिदानैःसर्वेऽथवाकोपमुपेत्यबस्तौ|

मूत्रस्यमार्गंपरिपीडयन्तियदातदामूत्रयतीहकृच्छ्रात्||३३||

तीव्रारुजोवङ्क्षणबस्तिमेढ्रेस्वल्पंमुहुर्मूत्रयतीहवातात्|

पीतंसरक्तंसरुजंसदाहंकृच्छ्रान्मुहुर्मूत्रयतीहपित्तात्||३४||

बस्तेःसलिङ्गस्यगुरुत्वशोथौमूत्रंसपिच्छंकफमूत्रकृच्छ्रे|

सर्वाणिरूपाणितुसन्निपाताद्भवन्तितत्कृच्छ्रतमंहिकृच्छ्रम्||३५||

विशोषयेद्बस्तिगतंसशुक्रंमूत्रंसपित्तंपवनःकफंवा|

यदातदाऽश्मर्युपजायतेतुक्रमेणपित्तेष्विवरोचनागोः||३६||

कदम्बपुष्पाकृतिरश्मतुल्याश्लक्ष्णात्रिपुट्यप्यथवाऽपिमृद्वी|

मूत्रस्यचेन्मार्गमुपैतिरुद्ध्वामूत्रंरुजंतस्यकरोतिबस्तौ||३७||

ससेवनीमेहनबस्तिशूलंविशीर्णधारंचकरोतिमूत्रम्|

मृद्नातिमेढ्रंसतुवेदनार्तोमुहुःशकृन्मुञ्चतिमेहतेच||३८||

क्षोभात्क्षतेमूत्रयतीहसासृक्तस्याःसुखंमेहतिचव्यपायात्|३९|

एषाऽश्मरीमारुतभिन्नमूर्तिःस्याच्छर्करामूत्रपथात्क्षरन्ती||३९||

(रेतोऽभिघाताभिहतस्यपुंसःप्रवर्ततेयस्यतुमूत्रकृच्छ्रम्|

स्याद्वेदनावङ्क्षणबस्तिमेढ्रेतस्यातिशूलंवृषणातिवृत्ते||४०||

शुक्रेणसंरुद्धगतिप्रवाहोमूत्रंसकृच्छ्रेणविमुञ्चतीह|

तमण्डयोःस्तब्धमितिब्रुवन्तिरेतोऽभिघातात्प्रवदन्तिकृच्छ्रम्||४१||

शुक्रंमलाश्चैवपृथक्पृथग्वामूत्राशयस्थाःप्रतिवारयन्ति|

तद्व्याहतंमेहनबस्तिशूलंमूत्रंसशुक्रंकुरुतेविबद्धम्||४२||

स्तब्धश्चशूनोभृशवेदनश्चतुद्येतबस्तिर्वृषणौचतस्य|४३|

क्षताभिघातात्क्षतजंक्षयाद्वाप्रकोपितंबस्तिगतंविबद्धम्||४३||

तीव्रार्तिमूत्रेणसहाश्मरीत्वमायातितस्मिन्नतिसञ्चितेच|

आध्माततांविन्दतिगौरवंचबस्तेर्लघुत्वंचविनिःसृतेऽस्मिन्||४४||

इतिमूत्रकृच्छ्रनिदानम्|

अभ्यञ्जनस्नेहनिरूहबस्तिस्नेहोपनाहोत्तरबस्तिसेकान्|

स्थिरादिभिर्वातहरैश्चसिद्धान्दद्याद्रसांश्चानिलमूत्रकृच्छ्रे||४५||

पुनर्नवैरण्डशतावरीभिःपत्तूरवृश्चीरबलाश्मभिद्भिः|

द्विपञ्चमूलेनकुलत्थकोलयवैश्चतोयोत्क्वथितेकषाये||४६||

तैलंवराहर्क्षवसाघृतंचतैरेवकल्कैर्लवणैश्चसाध्यम्|

तन्मात्रयाऽऽशुप्रतिहन्तिपीतंशूलान्वितंमारुतमूत्रकृच्छ्रम्||४७||

एतानिचान्यानिवरौषधानिपिष्टानिशस्तान्यपिचोपनाहे|

स्युर्लाभतस्तैलफलानिचैवस्नेहाम्लयुक्तानिसुखोष्णवन्ति||४८||

सेकावगाहाःशिशिराःप्रदेहाग्रैष्मोविधिर्बस्तिपयोविरेकाः|

द्राक्षाविदारीक्षुरसैर्घृतैश्चकृच्छ्रेषुपित्तप्रभवेषुकार्याः||४९||

शतावरीकाशकुशश्वदंष्ट्राविदारिशालीक्षुकशेरुकाणाम्|

क्वाथंसुशीतंमधुशर्कराभ्यांयुक्तंपिबेत्पैत्तिकमूत्रकृच्छ्री||५०||

पिबेत्कषायंकमलोत्पलानांशृङ्गाटकानामथवाविदार्याः|

दण्डैरकाणामथवाऽपिमूलंपूर्वेणकल्पेनतथाऽम्बुशीतम्||५१||

एर्वारुबीजंत्रपुषात्कुसुम्भात्सकुङ्कुमःस्याद्वृषकश्चपेयः|

द्राक्षारसेनाश्मरिशर्करासुसर्वेषुकृच्छ्रेषुप्रशस्तएषः||५२||

एर्वारुबीजंमधुकंसदारुपैत्तेपिबेत्तण्डुलधावनेन|

दार्वींतथैवामलकीरसेनसमाक्षिकांपित्तकृतेतुकृच्छ्रे||५३||

क्षारोष्णतीक्ष्णौषधमन्नपानंस्वेदोयवान्नंवमनंनिरूहाः|

तक्रंसतिक्तौषधसिद्धतैलमभ्यङ्गपानंकफमूत्रकृच्छ्रे||५४||

व्योषंश्वदंष्ट्रात्रुटिसारसास्थिकोलप्रमाणंमधुमूत्रयुक्तम्|

पिबेत्त्रुटिंक्षौद्रयुतांकदल्यारसेनकैडर्यरसेनवाऽपि||५५||

तक्रेणयुक्तंशितिवारकस्यबीजंपिबेत्कृच्छ्रविनाशहेतोः|

पिबेत्तथातण्डुलधावनेनप्रवालचूर्णंकफमूत्रकृच्छ्रे||५६||

सप्तच्छदारग्वधकेबुकैलाधवंकरञ्जंकुटजंगुडूचीम्|

पक्त्वाजलेतेनपिबेद्यवागूंसिद्धंकषायंमधुसंयुतंवा||५७||

सर्वंत्रिदोषप्रभवेतुवायोःस्थानानुपूर्व्याप्रसमीक्ष्यकार्यम्|

त्रिभ्योऽधिकेप्राग्वमनंकफेस्यात्पित्तेविरेकःपवनेतुबस्तिः||५८||

इतिमूत्रकृच्छ्रचिकित्सा|

क्रियाहितासाऽश्मरिशर्कराभ्यांकृच्छ्रेयथैवेहकफानिलाभ्याम्|

कार्याऽश्मरीभेदनपातनायविशेषयुक्तंशृणुकर्मसिद्धम्||५९||

पाषाणभेदंवृषकंश्वदंष्ट्रापाठाभयाव्योषशटीनिकुम्भाः|

हिंस्राखराश्वाशितिवारकाणामेर्वारुकाणांत्रपुषस्यबीजम्||६०||

उत्कुञ्चिकाहिङ्गुसवेतसाम्लंस्याद्द्वेबृहत्यौहपुषावचाच|

चूर्णंपिबेदश्मरिभेदपक्वंसर्पिश्चगोमूत्रचतुर्गुणंतैः||६१||

मूलंश्वदंष्ट्रेक्षुरकोरुबूकात्क्षीरेणपिष्टंबृहतीद्वयाच्च|

आलोड्यदध्नामधुरेणपेयंदिनानिसप्ताश्मरिभेदनाय||६२||

पुनर्नवायोरजनीश्वदंष्ट्राफल्गुप्रवालाश्चसदर्भपुष्पाः|

क्षीराम्बुमद्येक्षुरसैःसुपिष्टंपेयंभवेदश्मरिशर्करासु||६३||

त्रुटिंसुराह्वंलवणानिपञ्चयवाग्रजंकुन्दुरुकाश्मभेदौ|

कम्पिल्लकंगोक्षुरकस्यबीजमेर्वारुबीजंत्रपुषस्यबीजम्||६४||

चूर्णीकृतंचित्रकहिङ्गुमासीयवानितुल्यंत्रिफलाद्विभागम्|

अम्लैरशुक्तैरसमद्ययुषैःपेयंहिगुल्माश्मरिभेदनार्थम्||६५||

बिल्वप्रमाणोघृततैलभृष्टोयूषःकृतःशिग्रुकमूलकल्कात्|

शीतोऽश्मभित्स्याद्दधिमण्डयुक्तःपेयःप्रकामंलवणेनयुक्तः||६६||

जलेनशोभाञ्जनमूलकल्कःशीतोहितश्चाश्मरिशर्करासु|

सितोपलावासमयावशूकाकृच्छ्रेषुसर्वेष्वपिभेषजंस्यात्||६७||

पीत्वाऽथमद्यंनिगदंरथेनहयेनवाशीघ्रजवेनयायात्|

तैःशर्कराप्रच्यवतेऽश्मरीतुशम्येन्नचेच्छल्यविदुद्धरेत्ताम्||६८||

रेतोभिघातप्रभवेतुकृच्छ्रेसमीक्ष्यदोषंप्रतिकर्मकुर्यात्|

कार्पासमूलंवृषकाश्मभेदौबलास्थिरादीनिगवेधुकाच||६९||

वृश्चीरऐन्द्रीचपुनर्नवाचशतावरीमध्वसनाख्यपर्ण्यौ|

तत्क्वाथसिद्धःपवनेरसःस्यात्पित्तेऽधिकेक्षीरमथापिसर्पिः||७०||

कफेचयूषादिकमन्नपानंसंसर्गजेसर्वहितःक्रमःस्यात्|

एवंनचेच्छाम्यतितस्ययुञ्ज्यात्सुरांपुराणांमधुकासवंवा||७१||

विहङ्गमांसानिचबृंहणायबस्तींश्चशुक्राशयशोधनार्थम्|

शुद्धस्यतृप्तस्यचवृष्ययोगैःप्रियानुकूलाःप्रमदाविधेयाः||७२||

रक्तोद्भवेतूत्पलनालतालकासेक्षुबालेक्षुकशेरुकाणि|

पिबेत्सिताक्षौद्रयुतानिखादेदिक्षुंविदारींत्रपुषाणिचैव||७३||

घृतंश्वदंष्ट्रास्वरसेनसिद्धंक्षीरेणचैवाष्टगुणेनपेयम्|

स्थिरादिकानांकनकादिकानामेकैकशोवाविधिनैवतेन||७४||

क्षीरेणबस्तिर्मधुरौषधैःस्यात्तैलेनवास्वादुफलोत्थितेन|

यन्मूत्रकृच्छ्रेविहितंतुपैत्तेकार्यंतुतच्छोणितमूत्रकृच्छ्रे||७५||

व्यायामसन्धारणशुष्करूक्षपिष्टान्नवातार्ककरव्यवायान्|

खर्जूरशालूककपित्थजम्बूबिसंकषायंनरसंभजेत||७६||

इत्यश्मरीचिकित्सा|

व्यायामतीक्ष्णातिविरेकबस्तिचिन्ताभयत्रासगदातिचाराः|

छर्द्यामसन्धारणकर्शनानिहृद्रोगकर्तॄणितथाऽभिघातः||७७||

वैवर्ण्यमूर्च्छाज्वरकासहिक्काश्वासास्यवैरस्यतृषाप्रमोहाः|

छर्दिःकफोत्क्लेशरुजोऽरुचिश्चहृद्रोगजाःस्युर्विविधास्तथाऽन्ये||७८||

हृच्छून्यभावद्रवशोषभेदस्तम्भाःसमोहाःपवनाद्विशेषः|

पित्तात्तमोदूयनदाहमोहाःसन्त्रासतापज्वरपीतभावाः||७९||

स्तब्धंगुरुस्यात्स्तिमितंचमर्मकफात्प्रसेकज्वरकासतन्द्राः|

विद्यात्त्रिदोषंत्वपिसर्वलिङ्गंतीव्रार्तितोदंकृमिजंसकण्डूम्||८०||

तैलंससौवीरकमस्तुतक्रंवातेप्रपेयंलवणंसुखोष्णम्|

मूत्राम्बुसिद्धंलवणैश्चतैलमानाहगुल्मार्तिहृदामयघ्नम्||८१||

पुनर्नवांदारुसपञ्चमूलंरास्नांयवान्बिल्वकुलत्थकोलम्|

पक्त्वाजलेतेनविपाच्यतैलमभ्यङ्गपानेऽनिलहृद्गदध्नम्||८२||

हरीतकीनागरपुष्कराह्वैर्वयःकयस्थालवणैश्चकल्कैः|

सहिङ्गुभिःसाधितमग्र्यसर्पिर्गुल्मेसहृत्पार्श्वगदेऽनिलोत्थे||८३||

सपुष्कराह्वंफलपूरमूलंमहौषधंशट्यभयाचकल्काः|

क्षाराम्बुसर्पिर्लवणैर्विमिश्राःस्युर्वातहृद्रोगविकर्तिकाघ्नाः||८४||

क्वाथःकृतःपौष्करमातुलुङ्गपलाशभूतीकशटीसुराह्वैः|

सनागराजाजिवचायवानीक्षारःसुखोष्णोलवणश्चपेयः||८५||

पथ्याशटीपौष्करपञ्चकोलात्समातुलुङ्गाद्यमकेनकल्कः|

गुडप्रसन्नालवणैश्चभृष्टोहृत्पार्श्वपृष्ठोदरयोनिशूले||८६||

स्यात्त्र्यूषणंद्वेत्रिफलेसपाठेनिदिग्धिकागोक्षुरकौबलेद्वे|

ऋद्धिस्त्रुटिस्तामलकीस्वगुप्तामेदेमधूकंमधुकंस्थिराच||८७||

शतावरीजीवकपृश्निपर्ण्यौद्रव्यैरिमैरक्षसमैःसुपिष्टैः|

प्रस्थंघृतस्येहपचेद्विधिज्ञःप्रस्थेनदध्नात्वथमाहिषेण||८८||

मात्रांपलंचार्धपलंपिचुंवाप्रयोजयेन्माक्षिकसम्प्रयुक्ताम्|

श्वासेसकासेत्वथपाण्डुरोगेहलीमकेहृद्ग्रहणीप्रदोषे||८९||

शीताःप्रदेहाःपरिषेचनानितथाविरेकोहृदिपित्तदुष्टे|

द्राक्षासिताक्षौद्रपरूषकैःस्याच्छुद्धेतुपित्तापहमन्नपानम्||९०||

यष्ट्याह्विकातिक्तकरोहिणीभ्यांकल्कंपिबेच्चापिसिताजलेन|

क्षतेचसर्पींषिहितानिसर्पिर्गुडाश्चयेतान्प्रसमीक्ष्यसम्यक्||९१||

दद्याद्भिषग्धन्वरसांश्चगव्यक्षीराशिनांपित्तहृदामयेषु|

तैरेवसर्वेप्रशमंप्रयान्तिपित्तामयाःशोणितसंश्रयाये||९२||

द्राक्षाबलाश्रेयसिशर्कराभिःखर्जूरवीरर्षभकोत्पलैश्च|

काकोलिमेदायुगजीवकैश्चक्षीरेणसिद्धंमहिषीघृतंस्यात्||९३||

कशेरुकाशैवलशृङ्गवेरप्रपौण्डरीकंमधुकंबिसस्य|

ग्रन्थिश्चसर्पिःपयसापचेत्तैःक्षौद्रान्वितंपित्तहृदामयघ्नम्||९४||

स्थिरादिकल्कैःपयसाचसिद्धंद्राक्षारसेनेक्षुरसेनवाऽपि|

सर्पिर्हितंस्वादुफलेक्षुजाश्चरसाःसुशीताहृदिपित्तदुष्टे||९५||

स्विन्नस्यवान्तस्यविलङ्घितस्यक्रियाकफघ्नीकफमर्मरोगे|

कौलत्थधान्यैश्चरसैर्ववान्नंपानानितीक्ष्णानिचशङ्कराणि||९६||

मूत्रेशृताःकट्फलशृङ्गवेरपीतद्रुपथ्यातिविषाःप्रदेयाः|

कृष्णाशटीपुष्करमूलरास्नावचाभयानागरचूर्णकं[||९७||

उदुम्बराश्वत्थवटार्जुनाख्येपालाशरौहीतकखादिरेच|

क्वाथेत्रिवृत्त्र्यूषणचूर्णसिद्धोलेहःकफघ्नोऽशिशिराम्बुयुक्तः||९८||

शिलाह्वयंवाभिषगप्रमत्तःप्रयोजयेत्कल्पविधानदिष्टम्|

प्राशं तथाऽऽगस्त्यमथापि लेहं रसायनं ब्राह्ममथामलक्याः||९९||

त्रिदोषजेलङ्घनमादितःस्यादन्नंचसर्वेषुहितंविधेयम्|

हीनातिमध्यत्वमवेक्ष्यचैवकार्यंत्रयाणामपिकर्मशस्तम्||१००||

भुक्तेऽधिकंजीर्यतिशूलमल्पंजीर्णेस्थितंचेत्सुरदारुकुष्ठम्|

सतिल्वकंद्वेलवणेविडङ्गमुष्णाम्बुनासातिविषंपिबेत्सः||१०१||

जीर्णेऽधिकेस्नेहविरेचनंस्यात्फलैर्विरेच्योयदिजीर्यतिस्यात्|

त्रिष्वेवकालेष्वधिकेतुशूलेतीक्ष्णंहितंमूलविरेचनंस्यात्||१०२||

प्रायोऽनिलोरुद्धगतिःप्रकुप्यत्यामाशयेशोधनमेवतस्मात्|

कार्यंतथालङ्घनपाचनंच..... |१०३|

... सर्वंकृमिघ्नंकृमिहृद्गदेच||१०३||

इतिहृद्रोगचिकित्सा|

सन्धारणाजीर्णरजोतिभाष्यक्रोधर्तुवैषम्यशिरोभितापैः|

प्रजागरातिस्वपनाम्बुशीतैरवश्ययामैथुनबाष्पधूमैः||१०४||

संस्त्यानदोषेशिरसिप्रवृद्धोवायुःप्रतिश्यायमुदीरयेत्तु|

घ्राणार्तितोदौक्षवथुर्जलाभःस्रावोऽनिलात्सस्वरमूर्धरोगः||१०५||

नासाग्रपाकज्वरवक्त्रशोषतृष्णोष्णपीतस्रवणानिपित्तात्|

कासारुचिस्रावघनप्रसेकाःकफाद्गुरुःस्रोतसिचापिकण्डूः||१०६||

सर्वाणिरूपाणितुसन्निपातात्स्युःपीनसेतीव्ररुजेऽतिदुःखे|१०७|

सर्वोऽतिवृद्धोऽहितभोजनात्तुदुष्टप्रतिश्यायउपेक्षितःस्यात्||१०७||

ततस्तुरोगाःक्षवथुश्चनासाशोषःप्रतीनाहपरिस्रवौच|

घ्राणस्यपूतित्वमपीनसश्चसपाकशोथार्बुदपूयरक्ताः||१०८||

अरूंषिशीर्षश्रवणाक्षिरोगखालित्यहर्यर्जुनलोमभावाः|

तृट्श्वासकासज्वररक्तपित्तवैस्वर्यशोषाश्चततोभवन्ति||१०९||

रोधाभिघातस्रवशोषपाकैर्घ्राणंयुतंयश्चनवेत्तिगन्धम्|

दुर्गन्धिचास्यंबहुशःप्रकोपिदुष्टप्रतिश्यायमुदाहरेत्तम्||११०||

संस्पृश्यमर्माण्यनिलस्तुमूर्ध्निविष्वक्पथस्थःक्षवथुंकरोति|

क्रुद्धःससंशोष्यकफंतुनासाशृङ्गाटकघ्राणविशोषणंच||१११||

उच्छ्वासमार्गंतुकफःसवातोरुन्ध्यात्प्रतीनाहमुदाहरेत्तम्|

योमस्तुलुङ्गाद्घनपीतपक्वःकफःस्रवेदेषपरिस्रवस्तु||११२||

वैवर्ण्यदौर्गन्ध्यमुपेक्षयातुस्यात्पूतिनस्यंश्वयथुर्भ्रमश्च|

आनह्यतेयस्यविशुष्यतेचप्रक्लिद्यतेधूप्यतिचापिनासा||११३||

नवेत्तियोगन्धरसांश्चजन्तुर्जुष्टंव्यवस्येत्तमपीनसेन|

तंचानिलश्लेष्मभवंविकारंब्रूयात्प्रतिश्यायसमानलिङ्गम्||११४||

सदाहरागःश्वयथुःसपाकःस्याद्घ्राणपाकोऽपिचरक्तपित्तात्|

घ्राणाश्रितासृक्प्रभृतीन्प्रदूष्यकुर्वन्तिनासाश्वयथुंमलाश्च||११५||

घ्राणेतथोच्छ्वासगतिंनिरुध्यमांसास्रदोषादपिचार्बुदानि|

घ्राणात्स्रवेद्वाश्रवणान्मुखाद्वापित्ताक्तमस्रंत्वपिपूयरक्तम्||११६||

कुर्यात्सपित्तःपवनस्त्वगादीन्सन्दूष्यचारूंषिसपाकवन्ति|

नासाप्रदीप्तेवनरस्ययस्यदीप्तंतुतंरोगमुदाहरन्ति||११७||

इतिनासारोगनिदानम्|

भृशार्तिशूलंस्फुरतीहवातात्पित्तात्सदाहार्तिकफाद्गुरुस्यात्|
सर्वैस्त्रिदोषंक्रिमिभिस्तुकण्डूर्दौर्गन्ध्यतोदार्तियुतंशिरःस्यात्||११८||

इतिशिरोरोगनिदानम्|

मुखामयेमारुतजेतुशोषकार्कश्यरौक्ष्याणिचलारुजश्च|

कृष्णारुणंनिष्पतनंसशीतंप्रस्रंसनस्पन्दनतोदभेदाः||११९||

तृष्णाज्वरस्फोटकतालुदाहाधूमायनंचाप्यवदीर्णताच|

पित्तात्समूर्च्छाविविधारुजश्चवर्णाश्चशुक्लारुणवर्णवर्ज्याः||१२०||

कण्डूर्गुरुत्वंसितविज्जलत्वंस्नेहोऽरुचिर्जाड्यकफप्रसेकौ|

उत्क्लेशमन्दानलताचतन्द्रारुजश्चमन्दाःकफवक्ररोगे||१२१||

सर्वाणिरूपाणितुवक्ररोगेभवन्तियस्मिन्सतुसर्वजःस्यात्|

संस्थानदूष्याकृतिनामभेदाच्चैतेचतुःषष्टिविधाभवन्ति||१२२||

शालाक्यतन्त्रेऽभिहितानितेषांनिमित्तरूपाकृतिभेषजानि|

यथाप्रदेशंतुचतुर्विधस्यक्रियांप्रवक्ष्यामिमुखामयस्य||१२३||

इतिमुखरोगनिदानम्|

वातादिभिःशोकभयातिलोभक्रोधैर्मनोघ्नाशनगन्धरूपैः|

अरोचकाःस्युःपरिहृष्टदन्तःकषायवक्रश्चमतोऽनिलेन||१२४||

कट्वम्लमुष्णंविरसंचपूतिपित्तेनविद्याल्लवणंचवक्रम्|

माधुर्यपैच्छिल्यगुरुत्वशैत्यविबद्धसम्बद्धयुतंकफेन||१२५||

अरोचकेशोकभयानिलोभक्रोधाद्यहृद्याशनगन्धजेस्यात्|

स्वाभाविकंवक्रमथारुचिश्चत्रिदोषजेनैकरसंभवेत्तु||१२६||

इत्यरोचकनिदानम्|

नादोऽतिरुक्कर्णमलस्यशोषःस्रावस्तनुश्चाश्रवणंचवातात्|

शोफःसरागोदरणंविदाहःसपीतपूतिश्रवणंचपित्तात्||१२७||

वैश्रुत्यकण्डूस्थिरशोफशुक्लस्निग्धश्रुतिःश्लेष्मभवेऽल्परुक्च|

सर्वाणिरूपाणितुसन्निपातात्स्रावश्चतत्राधिकदोषवर्णः||१२८||

इतिकर्णरोगनिदानम्|

अल्पस्तुरागोऽनुपदेहवांश्चसतोदभेदोऽनिलजाक्षिरोगे|

पित्तात्सदाहोऽतिरुजःसरागःपीतोपदेहःसुभृशोष्णवाही||१२९||

शुक्लोपदेहंबहुपिच्छिलाश्रुनेत्रंकफात्स्याद्गुरुतासकण्डुः|

सर्वाणिरूपाणितुसन्निपातान्नेत्रामयाःषण्णवतिस्तुभेदात्||१३०||

तेषामभिव्यक्तिरभिप्रदिष्टाशालाक्यतन्त्रेषुचिकित्सितंच|

पराधिकारेतुनविस्तरोक्तिःशस्तेतितेनात्रननःप्रयासः||१३१||

इतिनेत्ररोगनिदानम्|

तेजोऽनिलाद्यैःसहकेशभूमिंदग्ध्वाऽऽशुकुर्यात्खलतिंनरस्य|

किञ्चित्तुदग्ध्वापलितानिकुर्याद्धरिप्रभत्वंचशिरोरुहाणाम्||१३२||

इत्यूर्ध्वजत्रूत्थगदैकदेशस्तन्त्रेनिबद्धोऽयमशून्यतार्थम्|

अतःपरंभेषजसङ्ग्रहंतुनिबोधसङ्क्षेपतउच्यमानम्||१३३||

इतिखालित्यरोगनिदानम्|

वातात्सकासवैस्वर्येसक्षारंपीनसेवृतम्|

पिबेद्रसंपयश्चोष्णंस्नैहिकंधूममेववा||१३४||

शताह्वात्वग्बलामूलंस्योनाकैरण्डबिल्वजम्|

सारग्वधंपिबेद्वर्तिंमधूच्छिष्टवसाघृतैः||१३५||

अथवासघृतान्सक्तून्कृत्वामल्लकसम्पुटे|

नवप्रतिश्यायवतांधूमंवैद्यःप्रयोजयेत्||१३६||

शङ्खमूर्धललाटार्तौपाणिस्वेदोपनाहनम्|

स्वभ्यक्तेक्षवथुस्रावरोधादौसङ्करादयः||१३७||

घ्रेयाश्चरोहिषाजाजीवचातर्कारिचोरकाः|

त्वक्पत्रमरिचैलानांचूर्णावासोपकुञ्चिकाः||१३८||

स्रोतःशृङ्गाटनासाक्षिशोषेतैलंचनावनम्|

प्रभाव्याजेतिलान्क्षीरेतेनपिष्टांस्तदुष्मणा||१३९||

मन्दस्विन्नान्सयष्ट्याह्वचूर्णांस्तेनैवपीडयेत्|

दशमूलस्यनिष्क्वाथेरास्नामधुककल्कवत्||१४०||

सिद्धंससैन्धवंतैलंदशकृत्वोऽणुतत्स्मृतम्|

स्निग्धस्यास्थापनैर्दोषंनिर्हरेद्वातपीनसे||१४१||

स्निग्धाम्लोष्णैश्चलघ्वन्नंग्राम्यादीनांरसैर्हितम्|

उष्णाम्बुनास्नानपानेनिवातोष्णप्रतिश्रयः||१४२||

चिन्ताव्यायामवाक्चेष्टाव्यवायविरतोभवेत्|

वातजेपीनसेधीमानिच्छन्नेवात्मनोहितम्||१४३||

पैत्तेसर्पिःपिबेत्सिद्धंशृङ्गवेरशृतंपयः|

पाचनार्थंपिबेत्पक्वेकार्यंमूर्धविरेचनम्||१४४||

पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः|

दन्त्याचसाधितंतैलंनस्यंस्यात्पक्वपीनसे||१४५||

पूयास्रेरक्तपित्तघ्नाःकषायानावनानिच|

पाकदाहाढ्यरूक्षेषुशीतालेपाःससेचनाः||१४६||

घ्रेयनस्योपचाराश्चकषायाःस्वादुशीतलाः|

मन्दपित्तेप्रतिश्यायेस्निग्धैःकुर्याद्विरेचनम्||१४७||

घृतंक्षीरंयवाःशालिर्गोधूमाजाङ्गलारसाः|

शीताम्लास्तिक्तशाकानियूषामुद्गादिभिर्हिताः||१४८||

गौरवारोचकेष्वादौ लङ्घनं कफपीनसे |
स्वेदाःसेकाश्चपाकार्थंलिप्तेशिरसिसर्पिषा||१४९||

लशुनंमुद्गचूर्णेनव्योषक्षारघृतैर्युतम्|
देयंकफघ्नवमनमुत्क्लिष्टश्लेष्मणेहितम्||१५०||

अपीनसेपूतिनस्येव्राणस्रावेसकण्डुके|
धूमःशस्तोऽवपीडश्चकटुभिःकफपीनसे||१५१||

मनःशिलावचाव्योषंविडङ्गंहिङ्गुगुग्गुलुः|
चूर्णोघ्रेयःप्रधमनंकटुभिश्चफलैस्तथा||१५२||

भार्गीमदनतर्कारीसुरसादिविपाचिते|
मूत्रेलाक्षावचालम्बाविडङ्गंकुष्ठपिप्पली||१५३||

कृत्वाकल्कंकरञ्जंचतैलंतैःसार्षपंपचेत्|
पाकान्मुक्तेघनेनस्यमेतन्मेदोनिभेकफे||१५४||

स्निग्धस्यव्याहतेवेगेच्छर्दनंकफपीनसे|
वमनीयशृतक्षीरतिलमाषयवागुना||१५५||

वार्ताककुलकव्योषकुलत्थाढकिमुद्गजाः|
यूषाःकफघ्नमन्नंचशस्तमुष्णाम्बुसेच()नम्||१५६||

सर्वजित्पीनसेदुष्टेकार्यंशोफेचशोफजित्|
क्षारोऽर्बुदाधिमांसेषुक्रियाशेषेष्ववेक्ष्यच||१५७||

इतिपीनसनासारोगचिकित्सा|

वातिकेशिरसोरोगेस्नेहान्स्वेदान्सनावनान्|
पानान्नमुपनाहांश्चकुर्याद्वातामयापहान्||१५८||

तैलभृष्टैरगुर्वाद्यैःसुखोष्णैरुपनाहनम्|
जीवनीयैःसुमनसामत्स्यैर्मांसैश्चशस्यते||१५९||

रास्नास्थिरादिभिःसिद्धंसक्षीरंनस्यमर्तिनुत्|
तैलंरास्नाद्विकाकोलीशर्कराभिरथापिवा||१६०||

बलामधूकयष्ट्याह्वविदारीचन्दनोत्पलैः|
जीवकर्षभकद्राक्षाशर्कराभिश्चसाधितः||१६१||

प्रस्थस्तैलस्यसक्षीरोजाङ्गलार्धतुलारसे|
नस्यंसर्वोर्ध्वजत्रूत्थवातपित्तामयापहम्||१६२||

दशमूलबलारास्नात्रिफलामधुकैःसह|
मयूरंपक्षपित्तान्त्रशकृत्तुण्डाङ्घ्रिवर्जितम्||१६३||

जलेपक्त्वाघृतप्रस्थंतस्मिन्क्षीरसमंपचेत्|
मधुरैःकार्षिकैःकल्कैःशिरोरोगार्दितापहम्||१६४||

कर्णाक्षिनासिकाजिह्वाताल्वास्यगलरोगनुत्|
मायूरमितिविख्यातमूर्ध्वजत्रुगदापहम्||१६५||

इतिमायूरघृतम्|

एतेनैवकषायेणघृतप्रस्थंविपाचयेत्|
चतुर्गुणेनपयसाकल्कैरेभिश्चकार्षिकैः||१६६||

जीवन्तीत्रिफलामेदामृद्वीकर्धिपरूषकैः|
समङ्गाचविकाभार्गीकाश्मरीसुरदारुभिः||१६७||

आत्मगुप्तामहामेदातालखर्जूरमस्तकैः|
मृणालबिसशालूकशृङ्गीजीवकपद्मकैः||१६८||

शतावरीविदारीक्षुबृहतीसारिवायुगैः|
मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटककसेरुकैः||१६९||

रास्नास्थिरातामलकीसूक्ष्मैलाशटिपौष्करैः|
पुनर्नवातुगाक्षीरीकाकोलीधन्वयासकैः||१७०||

खर्जूराक्षोटवाताममुञ्जाताभिषुकैरपि|
द्रव्यैरेभिर्यथालाभंपूर्वकल्पेनसाधितम्||१७१||

नस्येपानेतथाऽभ्यङ्गेबस्तौचैवप्रयोजयेत्|
शिरोरोगेषुसर्वेषुकासेश्वासेचदारुणे||१७२||

मन्यापृष्ठग्रहेशोषेस्वरभेदेतथाऽर्दिते|
योन्यसृक्शुक्रदोषेषुशस्तंवन्ध्यासुतप्रदम्||१७३||

ऋतुस्नातातथानारीपीत्वापुत्रंप्रसूयते|
महामायूरमित्येतद्घृतमात्रेयपूजितम्||१७४||

इतिमहामायूरघृतम्|

आखुभिःकुक्कुटैर्हंसैःशशैश्चापिहिबुद्धिमान्|
कल्पेनानेनविपचेत्सर्पिरूर्ध्वगदापहम्||१७५||

पैत्तेघृतंपयःसेकाःशीतालेपाःसनावनाः|
जीवनीयानिसर्पींषिपानान्नंचापिपित्तनुत्||१७६||

चन्दनोशीरयष्ट्याह्वबलाव्याघ्रनखोत्पलैः|
क्षीरपिष्टैःप्रदेहःस्याच्छृतैर्वापरिषेचनम्||१७७||

त्वक्पत्रशर्कराकल्कःसुपिष्टस्तण्डुलाम्बुना|
कार्योऽवपीडःसर्पिश्चनस्यंतस्यानुपैत्तिके||१७८||

यष्ट्याह्वचन्दनानन्ताक्षीरसिद्धंघृतंहितम्|
नावनंशर्कराद्राक्षामधूकैर्वाऽपिपित्तजे||१७९||

कफजेस्वेदितंधूमनस्यप्रधमनादिभिः|
शुद्धंप्रलेपपानान्नैःकफघ्नैःसमुपाचरेत्||१८०||

पुराणसर्पिषःपानैस्तीक्ष्णैर्बस्तिभिरेवच|
कफानिलोत्थितेदाहःशेषयोरक्तमोक्षणम्||१८१||

एरण्डनलदक्षौमगुग्गुल्वगुरुचन्दनैः|
धूमवर्तिंपिबेद्गन्धैरकुष्ठतगरैस्तथा||१८२||

सन्निपातभवेकार्यासन्निपातहिताक्रिया|
क्रिमिजेचैवकर्तव्यंतीक्ष्णंमूर्धविरेचनम्||१८३||

त्वग्दन्तीव्याघ्रकरजविडङ्गनवमालिकाः|

अपामार्गफलंबीजंनक्तमालशिरीषयोः|
क्षवकोऽश्मन्तकोबिल्वंहरिद्राहिङ्गुयूथिका||१८४||

फणिज्झकश्चतैस्तैलमविमूत्रेचतुर्गुणे|
सिद्धंस्यान्नावनंचूर्णंचैषांप्रधमनंहितम्||१८५||

फलंशिग्रुकरञ्जाभ्यांसव्योषंचावपीडकः|
कषायःस्वरसःक्षारश्चूर्णंकल्कोऽवपीडकः||१८६||

इतिशिरोरोगचिकित्सा|

शुक्ततिक्तकटुक्षौद्रकषायैःकवलग्रहः|
धूमःप्रधमनंशुद्धिरधश्छर्दनलङ्घनम्||१८७||

भोज्यंचमुखरोगेषुयथास्वंदोषनुद्धितम्|
पिप्पल्यगुरुदार्वीत्वग्यवक्षाररसाञ्जनम्||१८८||

पाठांतेजोवतींपथ्यांसमभागंविचूर्णयेत्|
मुखरोगेषुसर्वेषुसक्षौद्रंतद्विधारयेत्||१८९||

सीधुमाधवमाध्वीकैःश्रेष्ठोऽयंकवलग्रहः|
तेजोह्वामभयामेलांसमङ्गांकटुकांघनम्||१९०||

पाठांज्योतिष्मतींलोध्रंदार्वींकुष्ठंचचूर्णयेत्|
दन्तानांघर्षणंरक्तस्रावकण्डूरुजापहम्||१९१||

पञ्चकोलकतालीसपत्रैलामरिचत्वचः|
पलाशमुष्ककक्षारयवक्षाराश्चचूर्णिताः||१९२||

गुडेपुराणेद्विगुणेक्वथितेगुटिकाःकृताः|
कर्कन्धुमात्राःसप्ताहंस्थितामुष्ककभस्मनि||१९३||

कण्ठरोगेषुसर्वेषुधार्याःस्युरमृतोपमाः|
गृहधूमोयवक्षारःपाठाव्योषंरसाञ्जनम्||१९४||

तेजोह्वात्रिफलालोध्रंचित्रकश्चेतिचूर्णितम्|
सक्षौद्रंधारयेदेतद्गलरोगविनाशनम्||१९५||

कालकंनामतच्चूर्णंदन्तास्यगलरोगनुत्|

इतिकालकचूर्णम्|

मनःशिलायवक्षारोहरितालंससैन्धवम्||१९६||

दार्वीत्वक्चेतितच्चूर्णंमाक्षिकेणसमायुतम्|
मूर्च्छितंघृतमण्डेनकण्ठरोगेषुधारयेत्||१९७||

मुखरोगेषुचश्रेष्ठंपीतकंनामकीर्तितम्|

इतिपीतकचूर्णम्|

मृद्वीकाकटुकाव्योषंदार्वीत्वक्त्रिफलाघनम्||१९८||

मूर्च्छितंघृतमण्डेनकण्ठरोगेषुधारयेत्|
पाठारसाञ्जनंमूर्वातेजोह्वेतिचचूर्णितम्||१९९||

क्षौद्रयुक्तंविधातव्यंगलरोगेभिषग्जितम्|
योगास्त्वेतेत्रयःप्रोक्तावातपित्तकफापहाः||२००||

कटुकातिविषापाठादार्वीमुस्तकलिङ्गकाः|
गोमूत्रक्वथिताःपेयाःकण्ठरोगविनाशनाः||२०१||

स्वरसःक्वथितोदार्व्याघनीभूतोरसक्रिया|
सक्षौद्रामुखरोगासृग्दोषनाडीव्रणापहा||२०२||

तालुशोषेत्वतृष्णस्यसर्पिरौत्तरभक्तिकम्|
नावनंमधुराःस्निग्धाःशीताश्चैवरसाहिताः||२०३||

मुखपाकेसिराकर्मशिरःकायविरेचनम्|
मूत्रतैलघृतक्षौद्रक्षीरैश्चकवलग्रहाः||२०४||

सक्षौद्रास्त्रिफलापाठामृद्वीकाजातिपल्लवाः|
कषायतिक्तकाःशीताःक्वाथाश्चमुखधावनाः||२०५||

तुलांखदिरसारस्यद्विगुणामरिमेदसः|
प्रक्षाल्यजर्जरीकृत्यचतुर्द्रोणेऽम्भसःपचेत्||२०६||

द्रोणशेषंकषायंतंपूत्वाभूयःपचेच्छनैः|
ततस्तस्मिन्घनीभूतेचूर्णीकृत्याक्षभागिकम्||२०७||

चन्दनंपद्मकोशीरंमञ्जिष्ठाधातकीघनम्|
प्रपौण्डरीकंयष्ट्याह्वत्वगेलापद्मकेशरम्||२०८||

लाक्षांरसाञ्जनंमांसीत्रिफलालोध्रवालकम्|
रजन्यौफलिनीमेलांसमङ्गांकट्फलंवचाम्||२०९||

यवासागुरुपत्तङ्गगैरिकाञ्जनमावपेत्|
लवङ्गनखकक्कोलजातिकोशान्पलोन्मितान्||२१०||

कर्पूरकुडवंचापिक्षिपेच्छीतेऽवतारिते|
ततस्तुगुटिकाःकार्याःशुष्काश्चास्येनधारयेत्||२११||

तैलंचानेनकल्केनकषायेणचसाधयेत्|
दन्तानांचलनभ्रंशशौशिर्यक्रिमिरोगनुत्||२१२||

मुखपाकास्यदौर्गन्ध्यजाड्यारोचकनाशनम्|
स्रावोपलेपपैच्छिल्यवैस्वर्यगलशोषनुत्||२१३||

दन्तास्यगलरोगेषुसर्वेष्वेतत्परायणम्|
खदिरादिगुटीकेयंतैलंचखदिरादिकम्||२१४||

इतिखदिरादिगुटिकातैलंच|

अरुचौकवलग्राहाधूमाःसमुखधावनाः|
मनोज्ञमन्नपानंचहर्षणाश्वासनानिच||२१५||

कुष्ठसौवर्चलाजाजीशर्करामरिचंबिडम्|
धात्र्येलापद्मकोशीरपिप्पल्युत्पलचन्दनम्||२१६||

लोध्रंतेजोवतीपथ्यात्र्यूषणंसयवाग्रजम्|
आर्द्रदाडिमनिर्यासश्चाजाजीशर्करायुतः||२१७||

सतैलमाक्षिकास्त्वेतेचत्वारःकवलग्रहाः|
चतुरोऽरोचकान्हन्युर्वाताद्येकजसर्वजान्||२१८||

कारवीमरिचाजाजीद्राक्षावृक्षाम्लदाडिमम्|
सौवर्चलंगुडःक्षौद्रंसर्वारोचकनाशनम्||२१९||

बस्तिंसमीरणे, पित्तेविरेकं, वमनंकफे|
कुर्याद्धृद्यानुकूलानिहर्षणंचमनोघ्नजे||२२०||

इत्यरोचकचिकित्सा|

कर्णशूलेतुवातघ्नीहितापीनसवत्क्रिया|
प्रदेहाःपूरणंनस्यंपाकस्रावेव्रणक्रियाः||२२१||

भोज्यानिचयथादोषंकुर्यात्स्नेहांश्चपूरणान्|
हिङ्गुतुम्बरुशुण्ठीभिस्तैलंतुसार्षपंपचेत्||२२२||

एतद्धिपूरणंश्रेष्ठंकर्णशूलनिवारणम्|
देवदारुवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः||२२३||

तैलंसिद्धंबस्तमूत्रेकर्णशूलनिवारणम्|
वराटकान्समाहृत्यदहेन्मृद्भाजनेनवे||२२४||

तद्भस्मश्च्योतयेत्तेनगन्धतैलंविपाचयेत्|
रसाञ्जनस्यशुण्ठ्याश्चकल्काभ्यांकर्णशूलनुत्||२२५||

शुष्कमूलकशुण्ठानांक्षारोहिङ्गुमहौषधम्|
शतपुष्पावचाकुष्ठंदारुशिग्रुरसाञ्जनम्||२२६||

सौवर्चलयवक्षारस्वर्जिकोद्भिदसैन्धवम्|
भूर्जग्रन्थिर्बिडंमुस्तंमधुशुक्तंचतुर्गुणम्||२२७||

मातुलुङ्गरसश्चैवकदल्यारसएवच|
सर्वैरेतैर्यथोद्दिष्टैःक्षारतैलंविपाचयेत्||२२८||

बाधिर्यंकर्णनादश्चपूयस्रावश्चदारुणः|
क्रिमयःकर्णशूलंचपूरणादस्यनश्यति||२२९||

मुखकर्णाक्षिरोगेषुयथोक्तंपीनसेविधिम्|
कुर्याद्भिषक्समीक्ष्यादौदोषकालबलाबलम्||२३०||

इतिकर्णरोगचिकित्सा|

उत्पन्नमात्रेतरुणेनेत्ररोगेबिडालकः|
कार्योदाहोपदेहाश्रुशोफरागानिवारणः||२३१||

नागरंसैन्धवंसर्पिर्मण्डेनचरसक्रिया|
निघृष्टंवातिकेतद्वन्मधुसैन्धवगैरिकम्||२३२||

तथाशावरकंलोध्रंघृतभृष्टंबिडालकः|
तद्वत्कार्योहरीतक्याघृतभृष्टोरुजापहः||२३३||

पैत्तिकेचन्दनानन्तामञ्जिष्ठाभिर्बिडालकः|
कार्यःपद्मकयष्ट्याह्वमांसीकालीयकैस्तथा||२३४||

गैरिकंसैन्धवंमुस्तंरोचनाचरसक्रिया|
कफेकार्यातथाक्षौद्रंप्रियङ्गुःसमनःशिला||२३५||

सन्निपातेतुसर्वैःस्याद्बहिरक्ष्णोःप्रलेपनम्|
पक्ष्माण्यस्पृश्यताकार्यंसम्पक्वेत्वञ्जनंत्र्यहात्||२३६||

आश्च्योतनंमारुतजेक्वाथोबिल्वादिभिर्हितः|
कोष्णःसैरण्डतर्कारीबृहतीमधुशिग्रुभिः||२३७||

पृथ्वीकादार्विमञ्जिष्ठालाक्षाद्विमधुकोत्पलैः|
क्वाथःसशर्करःशीतःपूरणंरक्तपित्तनुत्||२३८||

नागरत्रिफलामुस्तनिम्बवासारसःकफे|
कोष्णमाश्च्योतनंमिश्रैरोषधैःसान्निपातके||२३९||

बृहत्येरण्डमूलत्वक्शिग्रोःपुष्पंससैन्धवम्|
अजाक्षीरेणपिष्टंस्याद्वर्तिर्वाताक्षिरोगनुत्||२४०||

सुमनःकोरकाःशङ्ख्स्त्रिफलामधुकंबला|
पित्तरक्तापहावर्तिःपिष्टादिव्येनवारिणा||२४१||

सैन्धवंत्रिफलाव्योषंशङ्खनाभिःसमुद्रजः|
फेनःशैलेयकंसर्जोवर्तिःश्लेष्माक्षिरोगनुत्||२४२||

अमृताह्वाबिसंबिल्वंपटोलंछागलंशकृत्|
प्रपौण्डरीकंयष्ट्याह्वंदार्वीकालानुसारिवा||२४३||

एषामष्टपलान्भागान्सुधौताञ्जर्जरीकृतान्|
तोयेपक्त्वारसेपूतेभूयःपक्वेरसेघने||२४४||

कर्षंचश्वेतमरिचाज्जातीपुष्पान्नवात्पलम्|
चूर्णंक्षिप्त्वाकृतावर्तिःसर्वघ्नीदृक्प्रसादनी||२४५||

शङ्खप्रवालवैदूर्यलौहताम्रप्लवास्थिभिः|
स्रोतोजश्वेतमरिचैर्वर्तिःसर्वाक्षिरोगनुत्||२४६||

शाणार्धंमरिचाद्द्वौचपिप्पल्यर्णवफेनयोः|
शाणार्धंसैन्धवाच्छाणानवसौवीरकाञ्जनात्||२४७||

पिष्टंसुसूक्ष्मंचित्रायांचूर्णाञ्जनमिदंशुभम्|
कण्डूकाचकफार्तानांमलानांचविशोधनम्||२४८||

बस्तमूत्रेत्र्यहंस्थाप्यमेलाचूर्णंसुभावितम्|
चूर्णाञ्जनंहितैमिर्यक्रिमिपिल्लमलापहम्||२४९||

सौवीरमञ्जनंतुत्थंताप्योधातुर्मनःशिला|
चक्षुष्यामधुकंलोहामणयःपौष्पमञ्जनम्||२५०||

सैन्धवंशौकरीदंष्ट्राकतकंचाञ्जनंशुभम्|
तिमिरादिषुचुर्णंवावर्तिर्वेयमनुत्तमा||२५१||

कतकस्यफलंशङ्खःसैन्धवंत्र्यूषणंसिता|
फेनोरसाञ्जनंक्षौद्रंविडङ्गानिमनःशिला||२५२||

कुक्कुटाण्डकपालानिवर्तिरेषाव्यपोहति|
तिमिरंपटलंकाचंमलंचाशुसुखावती||२५३||

इतिसुखावतीवर्तिः|

त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसोरजः|
नीलोत्पलंविडङ्गानिफेनंचसरितांपतेः||२५४||

आजेनपयसापिष्ट्वाभावयेत्ताम्रभाजने|
सप्तरात्रंस्थितंभूयःपिष्ट्वाक्षीरेणवर्तयेत्||२५५||

एषादृष्टिप्रदावर्तिरन्धस्याभिन्नचक्षुषः||२५६||

इतिदृष्टिप्रदावर्तिः|

वदनेकृष्णसर्पस्यनिहितंमासमञ्जनम्||२५६||

ततस्तस्मात्समृद्धृत्यसुशुष्कंचूर्णयेद्बुधः|
सुमनःकोरकैःशुष्कैरर्धांशैःसैन्धवेनच||२५७||

एतन्नेत्राञ्जनंकार्यंतिमिरघ्नमनुत्तमम्|
पिप्पल्यःकिंशुकरसोवसासर्पस्यसैन्धवम्||२५८||

जीर्णंघृतंचसर्वाक्षिरोगघ्नीस्याद्रसक्रिया|
कृष्णसर्पवसाक्षौद्रंरसोधात्र्यारसक्रियाः||२५९||

शस्तासर्वाक्षिरोगेषुकाचार्बुदमलेषुच|
धात्रीरसाञ्जनक्षौद्रसर्पिर्भिस्तुरसक्रिया||२६०||

पित्तरक्ताक्षिरोगघ्नीतैमिर्यपटलापहा|
धात्रीसैन्धवपिप्पल्यःस्युरल्पमरिचाःसमाः||२६१||

क्षौद्रयुक्तानिहन्त्यान्ध्यंपटलंचरसक्रिया|२६२|

इतिनेत्ररोगचिकित्सा|

खालित्येपलितेवल्यांहरिलोम्निचशोधितम्||२६२||

नस्यैस्तैलैःशिरोवक्रप्रलेपैश्चाप्युपाचरेत्|
सिद्धंविदारीगन्धाद्यैर्जीवनीयैरथापिच||२६३||

नस्यंस्यादणुतैलंवाखालित्यपलितापहम्|
क्षीरात्सहचराद्भृङ्गराजाच्चसौरसाद्रसात्||२६४||

प्रस्थैस्तुकुडवस्तैलाद्यष्ट्याह्वपलकल्कितः|
सिद्धःशिलासमेभाण्डेमेषशृङ्गादिषुस्थितः||२६५||

नस्यंस्याद्भिषजासम्यग्योजितंपलितापहम्|
भिषजाक्षीरपिष्टौवादुग्धिकाकरवीरकौ||२६६||

उत्पाट्यपलितेदेयौतावुभौपलितापहौ|
मार्कवस्वरसात्क्षीराद्द्विप्रस्थंमधुकात्पलम्||२६७||

तैःपचेत्कुडवंतैलात्तन्नस्यंपलितापहम्|
आदित्यवल्ल्यामूलानिकृष्णशैरेयकस्यच||२६८||

सुरसस्यचपत्राणिपत्रंकृष्णशणस्यच|
मार्कवःकाकमाचीचमधुकंदेवदारुच||२६९||

पृथग्दशपलांशानिपिप्पल्यस्त्रिफलाऽञ्जनम्|
प्रपौण्डरीकंमञ्जिष्ठालोध्रंकृष्णागुरूत्पलम्||२७०||

आम्रास्थिकर्दमःकृष्णोमृणालंरक्तचन्दनम्|
नीलीभल्लातकास्थीनिकासीसंमदयन्तिका||२७१||

सोमराज्यसनःशस्त्रंकृष्णौपिण्डीतचित्रकौ|
पुष्करार्जुनकाश्मर्याण्याम्रजम्बूफलानिच||२७२||

पृथक्पञ्चपलांशानितैःपिष्टैराढकंपचेत्|
बैभीतकस्यतैलस्यधात्रीरसचतुर्गुणम्||२७३||

कुर्यादादित्यपाकंवायावच्छुष्कोभवेद्रसः|
लोहपात्रेततःपूतंसंशुद्धमुपयोजयेत्||२७४||

पानेनस्यक्रियायांचशिरोभ्यङ्गेतथैवच|
एतच्चक्षुष्यमायुष्यंशिरसःसर्वरोगनुत्||२७५||

महानीलमितिख्यातंपलितघ्नमनुत्तमम्|

इतिमहानीलतैलम्|

प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः||२७६||

कार्षिकैस्तैलकुडवोद्विगुणामलकीरसः|
सिद्धःसप्रतिमर्शःस्यात्सर्वमूर्धगदापहः||२७७||

(पलितघ्नोविशेषेणकृष्णात्रेयेणभाषितः|)
क्षीरंप्रियालयष्ट्याह्वेजीवकाद्योगणस्तिलाः||२७८||

कृष्णावक्त्रेप्रलेपःस्याद्धरिलोमनिवारणः|
तिलाःसामलकाश्चैवकिञ्जल्कोमधुकंमधु||२७९||

बृंहयेद्रञ्जयेचैतत्केशान्मूर्धप्रलेपनात्|
पचेत्सैन्धवशुक्ताम्लैरयश्चूर्णंसतण्डुलम्||२८०||

तेनालिप्तंशिरःशुद्धमस्निग्धमुषितंनिशि|
तत्प्रातस्त्रिफलाधौतंस्यात्कृष्णमृदुमूर्धजम्||२८१||

अयश्चूर्णोऽम्लपिष्टश्चरागःसत्रिफलोवरः|

कुर्याच्छेषेषुरोगेषुक्रियांस्वांस्वाच्चिकित्सितात्|
शेषेष्वादौचनिर्दिष्टासिद्धौचान्याप्रवक्ष्यते||२८२||

इतिखालित्यादिचिकित्सा|

सर्पींष्युपरिभक्तानिस्वरभेदेऽनिलात्मके|
तैलैश्चतुष्प्रयोगैश्चबलारास्नामृताह्वयैः||२८३||

बर्हितित्तिरिदक्षाणांपञ्चमूलशृतान्रसान्|
मायूरंक्षीरसर्पिर्वापिबेत्त्र्यूषणमेववा||२८४||

पैत्तिकेतुविरेकःस्यात्पयश्चमधुरैःशृतम्|
सर्पिर्गुडाघृतंतिक्तंजीवनीयंवृषस्यवा||२८५||

कफजेस्वरभेदेतुतीक्ष्णंमूर्धविरेचनम्|
विरेकोवमनंधूमोयवान्नकटुसेवनम्||२८६||

चव्यभार्ग्यभयाव्योषक्षारमाक्षिकचित्रकान्|
लिह्याद्वापिप्पलीपथ्येतीक्ष्णंमद्यंपिबेच्चसः||२८७||

रक्तजेस्वरभेदेतुसघृताजाङ्गलारसाः|
द्राक्षाविदारीक्षुरसाःसघृतक्षौद्रशर्कराः||२८८||

यच्चोक्तंक्षयकासघ्नंतच्चसर्वंचिकित्सितम्|
पित्तजस्वरभेदघ्नंसिरावेधश्चरक्तजे||२८९||

सन्निपातेहिताःसर्वाःक्रियानतुसिराव्यधः|
इत्युक्तंस्वरभेदस्यसमासेनचिकित्सितम्||२९०||

इतिस्वरभेदचिकित्सा|

भवन्तिचात्र-

वातपित्तकफानॄणांबस्तिहृन्मूर्धसंश्रयाः|
तस्मात्तत्स्थानसामीप्याद्धर्तव्यावमनादिभिः||२९१||

अध्यात्मलोकोवाताद्यैर्लोकोवातरवीन्दुभिः|
पीड्यतेधार्यतेचैवविकृताविकृतैस्तथा||२९२||

विरुद्धैरपिनत्वेतेगुणैर्घ्नन्तिपरस्परम्|
दोषाःसहजसात्म्यत्वाद्विषंघोरमहीनिव||२९३||

तत्रश्लोकः-

त्रिमर्मजानांरोगाणांनिदानाकृतिभेषजम्|
विस्तरेणपृथग्दिष्टंत्रिमर्मीयेचिकित्सिते||२९४||

इत्यग्निवेशकृतेतन्त्रेचरकप्रतिसंस्कृतेऽप्राप्तेदृढबलसम्पूरितेचिकित्सास्थानेत्रिमर्मीयचिकित्सितंनामषड्विंशोऽध्यायः||२६||

 

Post a Comment

0 Comments