Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 25 dwivraniyamchikitsa








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातो द्विव्रणीयचिकित्सितं व्याख्यास्यामः ||||

इति स्माह भगवानात्रेयः ||||

परावरज्ञमात्रेयं गतमानमदव्यथम् |

अग्निवेशो गुरुं काले विनयादिदमब्रवीत् ||||

भगवन्! पूर्वमुद्दिष्टौ द्वौ व्रणौ रोगसङ्ग्रहे |

तयोर्लिङ्गं चिकित्सां वक्तुमर्हसि शर्मद! ||||

इत्यग्निवेशस्य वचो निशम्य गुरुरब्रवीत् |

यौ व्रणौ पूर्वमुद्दिष्टौ निजश्चागन्तुरेव ||||

श्रूयतां विधिवत् सौम्य! तयोर्लिङ्गं [] भेषजम् |

निजः शरीरदोषोत्थ आगन्तुर्बाह्यहेतुजः ||||

वधबन्धप्रपतनाद्दंष्ट्रादन्तनखक्षतात् |

आगन्तवो व्रणास्तद्वद्विषस्पर्शाग्निशस्त्रजाः ||||

मन्त्रागदप्रलेपाद्यैर्भेषजैर्हेतुभिश्च ते |

लिङ्गैकदेशैर्निर्दिष्टा विपरीता निजैर्व्रणैः [] ||||

व्रणानां निजहेतूनामागन्तूनामशाम्यताम् |

कुर्याद्दोषबलापेक्षी निजानामौषधं यथा ||||

यथास्वैर्हेतुभिर्दुष्टा वातपित्तकफा नृणाम् |

बहिर्मार्गं समाश्रित्य जनयन्ति निजान् व्रणान् ||१०||

स्तब्धः कठिनसंस्पर्शो मन्दस्रावोऽतितीव्ररुक् [] |

तुद्यते स्फुरति श्यावो व्रणो मारुतसम्भवः ||११||

सम्पूरणैः स्नेहपानैः स्निग्धैः स्वेदोपनाहनैः |

प्रदेहैः परिषेकैश्च वातव्रणमुपाचरेत् ||१२||

तृष्णामोहज्वरस्वे(क्ले)ददाहदुष्ट्यवदारणैः |

व्रणं पित्तकृतं विद्याद्गन्धैः स्रावैश्च पूतिकैः ||१३||

शीतलैर्मधुरैस्तिक्तैः प्रदेहपरिषेचनैः |

सर्पिष्पानैर्विरेकैश्च पैत्तिकं शमयेद्व्रणम् ||१४||

बहुपिच्छो गुरुः स्निग्धः स्तिमितो मन्दवेदनः |

पाण्डुवर्णोऽल्पसङ्क्लेदश्चिरकारी कफव्रणः ||१५||

कषायकटुरूक्षोष्णैः प्रदेहपरिषेचनैः |

कफव्रणं प्रशमयेत्तथा लङ्घनपाचनैः [] ||१६||

तौ द्वौ नानात्वभेदेन निरुक्ता विंशतिर्व्रणाः |

तेषां परीक्षा त्रिविधा, प्रदुष्टा द्वादश स्मृताः ||१७||

स्थानान्यष्टौ तथा गन्धाः, परिस्रावाश्चतुर्दश |

षोडशोपद्रवा दोषाश्चत्वारो विंशतिस्तथा ||१८||

तथा चोपक्रमाः सिद्धाः षट्त्रिंशत् समुदाहृताः |

विभज्यमानाञ्छृणु [] मे सर्वानेतान् यथेरितान् ||१९||

कृत्योत्कृत्यस्तथा [] दुष्टोऽदुष्टो मर्मस्थितो |

संवृतो दारुणः स्रावी सविषो विषमस्थितः ||२०||

उत्सङ्ग्युत्सन्न एषां व्रणान् विद्याद्विपर्ययात् |

इति नानात्वभेदेन निरुक्ता [] विंशतिर्व्रणाः ||२१||

दर्शनप्रश्नसंस्पर्शैः परीक्षा त्रिविधा स्मृता |

वयोवर्णशरीराणामिन्द्रियाणां दर्शनात् ||२२||

हेत्वर्तिसात्म्याग्निबलं परीक्ष्यं वचनाद्बुधैः |

स्पर्शान्मार्दवशैत्ये परीक्ष्ये सविपर्यये ||२३||

श्वेतोऽवसन्नवर्त्माऽतिस्थूलवर्त्माऽतिपिञ्जरः [] |

नीलःश्यावोऽतिपिडको रक्तः कृष्णोऽतिपूतिकः ||२४||

रोप्यः कुम्भीमुखश्चेति प्रदुष्टा द्वादश व्रणाः |

चतुर्विंशतिरुद्दिष्टा [] दोषाः कल्पान्तरेण वै ||२५||

त्वक्सिरामांसमेदोऽस्थिस्नायुमर्मान्तराश्रयाः |

व्रणस्थानानि निर्दिष्टान्यष्टावेतानि सङ्ग्रहे ||२६||

सर्पिस्तैलवसापूयरक्तश्यावाम्लपूतिकाः |

व्रणानां व्रणगन्धज्ञैरष्टौ गन्धाः प्रकीर्तिताः ||२७||

लसीकाजलपूयासृग्घारिद्रारुणपिञ्जराः |

कषायनीलहरितस्निग्धरूक्षसितासिताः ||२८||

इति रूपैः समुद्दिष्टा व्रणस्रावाश्चतुर्दश |

विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः ||२९||

मोहोन्मादव्रणरुजो ज्वरस्तृष्णा हनुग्रहः |

कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः ||३०||

षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः |३१|

स्नायुक्लेदात्सिराक्लेदाद्गाम्भीर्यात्कृमिभक्षणात् [] ||३१||

अस्थिभेदात् सशल्यत्वात् सविषत्वाच्च [] सर्पणात् |

नखकाष्ठप्रभेदाच्च चर्मलोमातिघट्टनात् [] ||३२||

मिथ्याबन्धादति स्नेहादतिभैषज्यकर्षणात् |

अजीर्णादतिभुक्ताच्च विरुद्धासात्म्यभोजनात् ||३३||

शोकात् क्रोधाद्दिवास्वप्नाद्व्यायामान्मैथुनात्तथा |

व्रणा प्रशमं यान्ति निष्क्रियत्वाच्च देहिनाम् ||३४||

परिस्रावाच्च गन्धाच्च दोषाच्चोपद्रवैः सह |

व्रणानां बहुदोषाणां कृच्छ्रत्वं चोपजायते ||३५||

त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्रवः |

धीमतोऽभिनवः काले सुखसाध्यः स्मृतो व्रणः ||३६||

गुणैरन्यतमैर्हीनस्ततः कृच्छ्रो व्रणः स्मृतः |

सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो निरुपक्रमः [] ||३७||

व्रणानामादितः कार्यं यथासन्नं विशोधनम् |

ऊर्ध्वभागैरधोभागैः शस्त्रैर्बस्तिभिरेव ||३८||

सद्यः शुद्धशरीराणां प्रशमं यान्ति हि व्रणाः |३९|

यथाक्रममतश्चोर्ध्वं शृणु सर्वानुपक्रमान् ||३९||

शोफघ्नं षड्विधं चैव शस्त्रकर्मावपीडनम् |

निर्वापणं ससन्धानं स्वेदः शमनमेषणम् ||४०||

शोधनौ रोपणीयौ कषायौ सप्रलेपनौ |

द्वे तैले तद्गुणे [] पत्रं छादने द्वे बन्धने ||४१||

भोज्यमुत्सादनं दाहो द्विविधः सावसादनः |

काठिन्यमार्दवकरे धूपनालेपने शुभे ||४२||

व्रणावचूर्णनं वर्ण्यं रोपणं लोमरोहणम् |

इति षट्त्रिंशदुद्दिष्टा व्रणानां समुपक्रमाः ||४३||

पूर्वरूपं भिषग्बुद्ध्वा व्रणानां शोफमादितः |

रक्तावसेचनं कुर्यादजातव्रणशान्तये ||४४||

शोधयेद्बहुदोषांस्तु स्वल्पदोषान् विलङ्घयेत् |

पूर्वं कषायसर्पिर्भिर्जयेद्वा मारुतोत्तरान् ||४५||

न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः |

ससर्पिष्कैः प्रलेपः स्याच्छोफनिर्वापणः परम् ||४६||

विजया मधुकं वीरा बिसग्रन्थिः शतावरी |

नीलोत्पलं नागपुष्पं प्रदेहः स्यात् सचन्दनः ||४७||

सक्तवो मधुकं सर्पिः प्रदेहः स्यात् सशर्करः |

अविदाहीनि चान्नानि शोफे भेषजमुत्तमम् ||४८||

चेदेवमुपक्रान्तः शोफो प्रशमं व्रजेत् |

तस्योपनाहैः पक्वस्य पाटनं हितमुच्यते ||४९||

तैलेन सर्पिषा वाऽपि ताभ्यां वा सक्तुपिण्डिका |

सुखोष्णा शोफपाकार्थमुपनाहः प्रशस्यते ||५०||

सतिला सातसीबीजा दध्यम्ला सक्तुपिण्डिका |

सकिण्वकुष्ठलवणा शस्ता स्यादुपनाहने ||५१||

रुग्दाहरागतोदैश्च विदग्धं शोफमादिशेत् |

जलबस्तिसमस्पर्शं सम्पक्वं पीडितोन्नतम् ||५२||

उमाऽथो गुग्गुलुः सौधं पयो दक्षकपोतयोः |

विट् पलाशभवः क्षारो हेमक्षीरी मुकूलकः ||५३||

इत्युक्तो भेषजगणः पक्वशोथप्रभेदनः |

सुकुमारस्य, कृच्छ्रस्य शस्त्रं तु परमुच्यते ||५४||

पाटनं व्यधनं चैव छेदनं लेपनं तथा |

प्रच्छनं सीवनं चैव षङ्विधं शस्त्रकर्म तत् ||५५||

नाडीव्रणाः पक्वशोथास्तथा क्षतगुदोदरम् |

अन्तःशल्याश्च ये शोफाः [] पाट्यास्ते तद्विधाश्च ये ||५६||

दकोदराणि सम्पक्वा गुल्मा ये ये रक्तजाः |

व्यध्याः शोणितरोगाश्च विसर्पपिडकादयः ||५७||

उद्वृत्तान् स्थूलपर्यन्तानुत्सन्नान् कठिणान् व्रणान् |

अर्शःप्रभृत्यधीमांसं छेदनेनोपपादयेत् ||५८||

किलासानि सकुष्ठानि लिखेल्लेख्यानि बुद्धिमान् |

वातासृग्ग्रन्थिपिडकाः सकोठा रक्तमण्डलम् ||५९||

कुष्ठान्यभिहतं चाङ्गं शोथांश्च प्रच्छयेद्भिषक् |

सीव्यं कुक्ष्युदराद्यं तु गम्भीरं यद्विपाटितम् ||६०||

इति षड्विधमुद्दिष्टं शस्त्रकर्म मनीषिभिः |६१|

सूक्ष्माननाः कोषवन्तो ये व्रणास्तान्प्रपीडयेत् ||६१||

कलायाश्च मसूराश्च गोधूमाः सहरेणवः |

कल्कीकृताः प्रशस्यन्ते निःस्नेहा व्रणपीडने ||६२||

शाल्मलीत्वग्बलामूलं तथा न्यग्रोधपल्लवाः |

न्यग्रोधादिकमुद्दिष्टं बलादिकमथापि वा ||६३||

आलेपनं निर्वपणं तद्विद्यात्तैश्च [] सेचनम् |

सर्पिषा शतधौतेन पयसा मधुकाम्बुना ||६४|

निर्वापयेत् सुशीतेन रक्तपित्तोत्तरान् व्रणान् |६५|

लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा ||६५||

सन्दधीत समं वैद्यो बन्धनैश्चोपपादयेत् |

तान्समान्सुस्थिताञ्ज्ञात्वा फलिनीलोध्रकट्फलैः ||६६||

समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत् |

पञ्चवल्कलचूर्णैर्वा शुक्तिचूर्णसमायुतैः ||६७||

धातकीलोध्रचूर्णैर्वा तथा रोहन्ति ते व्रणाः |६८|

अस्थिभग्नं च्युतं सन्धिं सन्दधीत समं पुनः ||६८||

समेन सममङ्गेन कृत्वाऽन्येन विचक्षणः |

स्थिरैः कवलिकाबन्धैः कुशिकाभिश्च संस्थितम् ||६९||

पट्टैः प्रभूतसर्पिष्कैर्बध्नीयादचलं सुखम् |

अविदाहिभिरन्नैश्च पैष्टिकैस्तमुपाचरेत् ||७०||

ग्लानिर्हि हिता तस्य सन्धिविश्लेषकारिका |

विच्युताभिहताङ्गानां विसर्पादीनुपद्रवान् ||७१||

उपाचरेद्यथाकालं [] कालज्ञः स्वाच्चिकित्सितात् |७२|

शुष्का महारुजः स्तब्धा ये व्रणा मारुतोत्तराः |

स्वेद्याः सङ्करकल्पेन ते स्युः कृशरपायसैः ||७२||

ग्राम्यबैलाम्बुजानूपैर्वैशवारैश्च संस्कृतैः |

उत्कारिकाभिश्चोष्णाभिः सुखी स्याद्व्रणितस्तथा ||७३||

सदाहा वेदनावन्तो ये व्रणा मारुतोत्तराः |

तेषामुमां तिलांश्चैव भृष्टान् पयसि निर्वृतान् ||७४||

तेनैव पयसा पिष्ट्वा कुर्यादालेपनं भिषक् |

बला गुडूची मधुकं पृश्निपर्णी शतावरी ||७५||

जीवन्ती शर्करा क्षीरं तैलं मत्स्यवसा घृतम् |

संसिद्धा समधूच्छिष्टा शूलघ्नी स्नेहशर्करा ||७६||

द्विपञ्चमूलक्वथितेनाम्भसा पयसाऽथवा [] |

सर्पिषा वा सतैलेन कोष्णेन परिषेचयेत् ||७७||

यवचूर्णं समधुकं सतिलं सह सर्पिषा |

दद्यादालेपनं कोष्णं दाहशूलोपशान्तये ||७८||

उपनाहश्च कर्तव्यः सतिलो मुद्गपायसः |

रुग्दाहयोः प्रशमनो व्रणेष्वेष विधिर्हितः ||७९||

सूक्ष्मानना बहुस्रावाः कोषवन्तश्च ये व्रणाः |
मर्माश्रितास्तेषामेषणं हितमुच्यते ||८०||

द्विविधामेषणीं विद्यान्मृद्वीं कठिनामपि |
औद्भिदैर्मृदुभिर्नालैर्लोहानां वा शलाकया ||८१||

गम्भीरे मांसले देशे पाट्यं लौहशलाकया |
एष्यं विद्याद्व्रणं नालैर्विपरीतमतो भिषक् ||८२||

पूतिगन्धान् विवर्णांश्च बहुस्रावान्महारुजः |
व्रणानशुद्धान् विज्ञाय शोधनैः समुपाचरेत् ||८३||

त्रिफला खदिरो दार्वी न्यग्रोधादिर्बला [] कुशः |
निम्बकोलकपत्राणि कषायाः शोधना मताः ||८४||

तिलकल्कः सलवणो द्वे हरिद्रे त्रिवृद्धृतम् |
मधुकं निम्बपत्राणि प्रलेपो व्रणशोधनः ||८५||

नातिरक्तो नातिपाण्डुर्नातिश्यावो चातिरुक् |
चोत्सन्नो चोत्सङ्गी शुद्धो रोप्यः परं व्रणः ||८६||

न्यग्रोधोदुम्बराश्वत्थकदम्बप्लक्षवेतसाः |
करवीरार्ककुटजाः कषाया व्रणरोपणाः ||८७||

चन्दनं पद्मकिञ्जल्कं दार्वीत्वङ्नीलमुत्पलम् |
मेदे मूर्वा समङ्गा यष्ट्याह्वं व्रणरोपणम् ||८८||

प्रपौण्डरीकं जीवन्ती गोजिह्वा धातकी बला |
रोपणं सतिलं दद्यात् प्रलेपं सघृतं व्रणे ||८९||

कम्पिल्लकं विडङ्गानि वत्सकं त्रिफलां बलाम् |
पटोलं पिचुमर्दं लोध्रं मुस्तं प्रियङ्गुकम् ||९०||

खदिरं धातकीं सर्जमेलामगुरुचन्दने |
पिष्ट्वा साध्यं भवेत्तैलं तत् परं व्रणरोपणम् ||९१||

प्रपौण्डरीकं मधुकं काकोल्यौ द्वे चन्दने |
सिद्धमेतैः समैस्तैलं परं स्याद्व्रणरोपणम् ||९२||

दूर्वास्वरससिद्धं वा तैलं कम्पिल्लकेन वा |
दार्वीत्वचश्च कल्केन प्रधानं व्रणरोपणम् ||९३||

येनैव विधिना तैलं घृतं तेनैव साधयेत् |
रक्तपित्तोत्तरं दृष्ट्वा रोपणीयं व्रणं भिषक् ||९४|

कदम्बार्जुननिम्बानां पाटल्याः पिप्पलस्य |
व्रणप्रच्छादने विद्वान् पत्राण्यर्कस्य चादिशेत् ||९५||

वार्क्षोऽथवाऽऽजिनः क्षौमः पट्टो व्रणहितः स्मृतः |
बन्धश्च द्विविधः शस्तो व्रणानां सव्यदक्षिणः ||९६||

लवणाम्लकटूष्णानि विदाहीनि गुरूणि |
वर्जयेदन्नपानानि व्रणी मैथुनमेव ||९७||

नातिशीतगुरुस्निग्धमविदाहि यथाव्रणम् |
अन्नपानं व्रणहितं हितं चास्वपनं दिवा ||९८||

स्तन्यानि जीवनीयानि बृंहणीयानि यानि |
उत्सादनार्थं निम्नानां व्रणानां तानि कल्पयेत् ||९९||

भूर्जग्रन्थ्यश्मकासीसमधोभागानि गुग्गुलुः |
व्रणावसादनं तद्वत् कलविङ्ककपोतविट् ||१००||

रुधिरेऽतिप्रवृत्ते तु च्छिन्ने च्छेद्येऽधिमांसके |
कफग्रन्थिषु गण्डेषु वातस्तम्भानिलार्तिषु ||१०१||

गूढपूयलसीकेषु गम्भीरेषु स्थिरेषु |
कलाप्तेषु [] चाङ्गदेशेषु कर्माग्नेः सम्प्रशस्यते ||१०२||

मधूच्छिष्टेन तैलेन मज्जक्षौद्रवसाघृतैः |
तप्तैर्वा विविधैर्लोहैर्दहेद्दाहविशेषवित् ||१०३||

रूक्षाणां सुकुमाराणां गम्भीरान्मारुतोत्तरान् |
दहेत् स्नेहमधूच्छिष्टैर्लोहैः क्षौद्रैस्ततोऽन्यथा ||१०४||

बालदुर्बलवृद्धानां गर्भिण्या रक्तपित्तिनाम् |
तृष्णाज्वरपरीतानामबलानां विषादिनाम् ||१०५||

नाग्निकर्मोपदेष्टव्यं स्नायुमर्मव्रणेषु |
सविषेषु शल्येषु नेत्रकुष्ठव्रणेषु ||१०६||

रोगदोषबलापेक्षी मात्राकालाग्निकोविदः |
शस्त्रकर्माग्निकृत्येषु क्षारमप्यवचारयेत् ||१०७||

कठिनत्वं व्रणा यान्ति गन्धैः सारैश्च धूपिताः |
सर्पिर्मज्जवसाधूपैः शैथिल्यं यान्ति हि व्रणाः ||१०८||

रुजः स्रावाश्च गन्धाश्च कृमयश्च व्रणाश्रिताः |
शैथिल्यं मार्दवं चापि धूपनेनोपशाम्यति ||१०९||

लोध्रन्यग्रोधशुङ्गानि खदिरस्त्रिफला घृतम् |
प्रलेपो व्रणशैथिल्यसौकुमार्यप्रसाधनः ||११०||

सरुजः कठिनाः स्तब्धा निरास्रावाश्च ये व्रणाः |
यवचूर्णैः ससर्पिष्कैर्बहुशस्तान् प्रलेपयेत् ||१११||

मुद्गषष्टिकशालीनां पायसैर्वा यथाक्रमम् |
सघृतैर्जीवनीयैर्वा तर्पयेत्तानभीक्ष्णशः ||११२||

ककुभोदुम्बराश्वत्थलोध्रजाम्बवकट्फलैः |
त्वचमाश्वेव गृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः ||११३||

मनःशिलैला [] मञ्जिष्ठा लाक्षा रजनीद्वयम् |
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः ||११४||

अयोरजः सकासीसं त्रिफलाकुसुमानि |
करोति लेपः कृष्णत्वं [] सद्य एव नवत्वचि ||११५||

कालीयकनताम्रास्थिहेमकान्तारसोत्तमैः [] |
लेपः सगोमयरसः सवर्णीकरणः परः ||११६||

ध्यामकाश्वत्थनिचुलमूलं लाक्षा सगैरिका |
सहेमश्चामृतासङ्गः कासीसं चेति वर्णकृत् ||११७||

चतुष्पदानां त्वग्लोमखुरशृङ्गास्थिभस्मना |
तैलाक्ता चूर्णिता भूमिर्भवेल्लोमवती पुनः ||११८||

षोडशोपद्रवा ये व्रणानां परिकीर्तिताः |
तेषां चिकित्सा निर्दिष्टा यथास्वं स्वे चिकित्सिते ||११९||

तत्र श्लोकौ-

द्वौ व्रणौ व्रणभेदाश्च परीक्षा दुष्टिरेव |
स्थानानि गन्धाः स्रावाश्च सोपसर्गाः क्रियाश्च याः ||१२०||

व्रणाधिकारे सप्रश्नमेतन्नवकमुक्तवान् |
मुनिर्व्याससमासाभ्यामग्निवेशाय धीमते ||१२१||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते दृढबलसम्पूरिते चिकित्सास्थाने द्विव्रणीयचिकित्सितं नाम पञ्चविंशोऽध्यायः ||२५||

Post a Comment

0 Comments