Advertisement

Responsive Advertisement

Charak chikitsa chapter 24 madaaryay chikitsa








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातो मदात्ययचिकित्सितं व्याख्यास्यामः ||||

इति स्माह भगवानात्रेयः ||||

सुरैः सुरेशसहितैर्या पुरा [] परिपूजिता |

सौत्रामण्यां हूयते या कर्मिभिर्या प्रतिष्ठिता ||||

यज्ञौही या यया शक्रः सोमातिपतितो भृशम् |

निरोजस्तमसाऽऽविष्टस्तस्माद्दुर्गात् समुद्धृतः ||||

विधिभिर्वेदविहितैर्वा यजद्भिर्महात्मभिः |

दृश्या स्पृश्या प्रकल्पया यज्ञीया यज्ञसिद्धये ||||

योनिसंस्कारनामाद्यैर्विशेषैर्बहुधा या |

भूत्वा भवत्येकविधा सामान्यान्मदलक्षणात् ||||

या देवानमृतं भूत्वा स्वधा भूत्वा पित्तॄंश्च या |

सोमो भूत्वा द्विजातीन् या युङ्क्ते श्रेयोभिरुत्तमैः ||||

आश्विनं या महत्तेजो बलं सारस्वतं या |

वीर्यमैन्द्रं या सिद्धा सोमः सौत्रामणौ या ||||

शोकारतिभयोद्वेगनाशिनी या महाबला |

या प्रीतिर्या रतिर्या वाग्या पुष्टिर्या निर्वृतिः ||||

या सुरा सुरगन्धर्वयक्षराक्षसमानुषैः |

रतिः सुरेत्यभिहिता तां सुरां विधिना पिबेत् ||१०||

शरीरकृतसंस्कारः शुचिरुत्तमगन्धवान् |

प्रावृतो निर्मलैर्वस्त्रैर्यथर्तूद्दामगन्धिभिः ||११||

विचित्रविविधस्रग्वी रत्नाभरणभूषितः |

देवद्विजातीन् सम्पूज्य स्पृष्ट्वा मङ्गलमुत्तमम् ||१२||

देशे यथर्तुके शस्ते कुसुमप्रकरीकृते |

सरसासम्मते [] मुख्ये धूपसम्मोदबोधिते ||१३||

सोपधाने सुसंस्तीर्णे विहिते शयनासने |

उपविष्टोऽथवा तिर्यक् स्वशरीरसुखे स्थितः ||१४||

सौवर्णै राजतैश्चापि तथा मणिमयैरपि |

भाजनैर्विमलैश्चान्यैः सुकृतैश्च पिबेत् सदा ||१५||

रूपयौवनमत्ताभिः शिक्षिताभिर्विशेषतः |

वस्त्राभरणमाल्यैश्च भूषिताभिर्यथर्तुकैः ||१६||

शौचानुरागयुक्ताभिः प्रमदाभिरितस्ततः |

संवाह्यमान इष्टाभिः [] पिबेन्मद्यमनुत्तमम् ||१७||

मद्यानुकूलैर्विविधैः फलैर्हरितकैः शुभैः |

लवणैर्गन्धपिशुनैरवदंशैर्यथर्तुकैः ||१८||

भृष्टैर्मांसैर्बहुविधैर्भूजलाम्बरचारिणाम् |

पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकैः ||१९||

पूजयित्वा [] सुरान् पूर्वमाशिषः प्राक् प्रयुज्य |

प्रदाय सजलं मद्यमर्थिभ्यो वसुधातले ||२०||

अभ्यङ्गोत्सादनस्नानवासोधूपानुलेपनैः |

स्निग्धोष्णैर्भावितश्चान्नैर्वातिको मद्यमाचरेत् ||२१||

शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः |

पैत्तिको भावितश्चान्नैः पिबन्मद्यं सीदति ||२२||

उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत् |

श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचकैः सह ||२३||

विधिर्वसुमतामेष भविष्यद्विभवाश्च ये |

यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम् ||२४||

वातिकेभ्यो हितं मद्यं प्रायो गौडिकपैष्टिकम् |

कफपित्ताधिकेभ्यस्तु मार्द्वीकं माधवं यत् ||२५||

बहुद्रव्यं बहुगुणं बहुकर्म मदात्मकम् |

गुणैर्दोषैश्च तन्मद्यमुभयं चोपलक्ष्यते ||२६||

विधिना मात्रया काले हितैरन्नैर्यथाबलम् |

प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा ||२७||

यथोपेतं पुनर्मद्यं प्रसङ्गाद्येन पीयते |

रूक्षव्यायामनित्येन विषवद्याति तस्य तत् ||२८||

मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान् |

दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम् ||२९||

लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुगमेव |

रूक्षं विकाशि विशदं मद्यं दशगुणं स्मृतम् ||३०||

गुरु शीतं मृदु श्लक्ष्णं बहलं मधुरं स्थिरम् |

प्रसन्नं पिच्छिलं स्निग्धमोजो दशगुणं स्मृतम् ||३१||

गुरुत्वं लाघवाच्छैत्यमौष्णादम्लस्वभावतः |

माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादं चाशुभावनात् ||३२||

रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि |

विकासिभावात्पैच्छिल्यं वैशद्यात्सान्द्रतां तथा ||३३||

सौक्ष्म्यान्मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान् |

सत्त्वं तदाश्रयं चाशु सङ्क्षोभ्य जनयेन्मदम् ||३४||

रसवातादिमार्गाणां [] सत्त्वबुद्धीन्द्रियात्मनाम् |

प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते ||३५||

अतिपीतेन मद्येन विहतेनौजसा तत् |

हृदयं याति विकृतिं तत्रस्था ये धातवः ||३६||

ओजस्यविहते पूर्वो हृदि प्रतिबोधिते |

मध्यमो विहतेऽल्पे विहते तूत्तमो मदः ||३७||

नैवं विघातं जनयेन्मद्यं पैष्टिकमोजसः |

विकाशिरूक्षविशदा गुणास्तत्र हि नोल्बणाः ||३८||

हृदि मद्यगुणाविष्टे हर्षस्तर्षो रतिः सुखम् |

विकाराश्च यथासत्त्वं चित्रा राजसतामसाः ||३९||

जायन्ते मोहनिद्रान्ता मद्यस्यातिनिषेवणात् |

मद्यविभ्रमो नाम्ना मद इत्यभिधीयते ||४०||

पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदाः |

प्रथमो मध्यमोऽन्त्यश्च लक्षणैस्तान् प्रचक्ष्महे ||४१||

प्रहर्षणः प्रीतिकरः पानान्नगुणदर्शकः |

वाद्यगीतप्रहासानां कथानां प्रवर्तकः ||४२||

बुद्धिस्मृतिहरो विषयेषु चाक्षमः |

सुखनिद्राप्रबोधश्च प्रथमः सुखदो मदः ||४३||

मुहुः स्मृतिर्मुहुर्मोहो()व्यक्ता [] सज्जति वाङ्मुहुः |

युक्तायुक्तप्रलापश्च प्रचलायनमेव ||४४||

स्थानपानान्नसाङ्कथ्ययोजना सविपर्यया |

लिङ्गान्येतानि जानीयादाविष्टे मध्यमे मदे ||४५||

मध्यमं मदमुत्क्रम्य मदमाप्राप्य [] चोत्तमम् |

किञ्चिन्नाशुभं कुर्युर्नरा राजसतामसाः ||४६||

को मदं तादृशं विद्वानुन्मादमिव दारुणम् |

गच्छेदध्वानमस्वन्तं बहुदोषमिवाध्वगः ||४७||

तृतीयं तु मदं प्राप्य भग्नदार्विव निष्क्रियः |

मदमोहावृतमना जीवन्नपि मृतैः समः ||४८||

रमणीयान् विषयान्न वेत्ति सुहृज्जनम् |

यदर्थं पीयते मद्यं रतिं तां विन्दति ||४९||

कार्याकार्यं सुखं दुःखं लोके यच्च हिताहितम् |

यदवस्थो जानाति कोऽवस्थां तां व्रजेद्बुधः ||५०||

दूष्यः सर्वभूतानां निन्द्यश्चाग्राह्य एव |

व्यसनित्वादुदर्के दुःखं व्याधिमश्नुते ||५१||

प्रेत्य चेह यच्छ्रेयः श्रेयो मोक्षे यत् परम् |

मनःसमाधौ तत् सर्वमायत्तं सर्वदेहिनाम् ||५२||

मद्येन मनसश्चास्य सङ्क्षोभः क्रियते महान् |

महामारुतवेगेन तटस्थस्येव शाखिनः ||५३||

मद्यप्रसङ्गं तं चाज्ञा महादोषं महागदम् |

सुखमित्यधिगच्छन्ति रजोमोहपराजिताः ||५४||

मद्योपहतविज्ञाना वियुक्ताः सात्त्विकैर्गुणैः |

श्रेयोभिर्विप्रयुज्यन्ते मदान्धा मदलालसाः ||५५||

मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रितः |

सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः ||५६||

यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधुवत् |

इत्येवं मद्यदोषज्ञा मद्यं गर्हन्ति यत्नतः ||५७||

सत्यमेते महादोषा मद्यस्योक्ता संशयः |

अहितस्यातिमात्रस्य पीतस्य विधिवर्जितम् ||५८||

किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् |

अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् ||५९||

प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून् |

विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ||६०||

हर्षमूर्जं मुदं पुष्टिमारोग्यं पौरुषं परम् [] |

युक्त्या पीतं करोत्याशु मद्यं सुखमदप्रदम् ||६१||

रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम् |

प्रीणनं बृंहणं बल्यं भयशोकश्रमापहम् ||६२||

स्वापनं नष्टनिद्राणां मूकानां वाग्विबोधनम् |

बोधनं चातिनिद्राणां विबद्धानां विबन्धनुत् ||६३||

वधबन्धपरिक्लेशदुःखानां चाप्यबोधनम् |

मद्योत्थानां रोगाणां मद्यमेव प्रबाधकम् ||६४||

रतिर्विषयसंयोगे प्रीतिसंयोगवर्धनम् |

अपि प्रवयसां मद्यमुत्सवामोदकारकम् ||६५||

पञ्चस्वर्थेषु कान्तेषु या रतिः प्रथमे मदे |

यूनां वा स्थविराणां वा तस्य नास्त्युपमा भुवि ||६६||

बहुदुःखहतस्यास्य शोकेनोपहतस्य |

विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम् ||६७||

अन्नपानवयोव्याधिबलकालत्रिकाणि षट् |

त्रीन्दोषांस्त्रिविधं सत्त्वं ज्ञात्वा मद्यं पिबेत्सदा ||६८||

तेषां त्रिकाणामष्टानां योजना युक्तिरुच्यते |

यया युक्त्या पिबन्मद्यं मद्यदोषैर्न युज्यते ||६९||

मद्यस्य गुणान् सर्वान् यथोक्तान् समश्नुते |

धर्मार्थयोरपीडायै नरः सत्त्वगुणोच्छ्रितः ||७०||

सत्त्वानि तु प्रबुध्यन्ते प्रायशः प्रथमे मदे |

द्वितीयेऽव्यक्ततां यान्ति मध्ये चोत्तममध्ययोः ||७१||

सस्यसम्बोधकं वर्षं, हेमप्रकृतिदर्शकः |

हुताशः, सर्वसत्त्वानां मद्यं तूभयकारकम् ||७२||

प्रधानावरमध्यानां रूपाणां [] व्यक्तिदर्शकः |

यथाऽग्निरेवं सत्त्वानां मद्यं प्रकृतिदर्शकम् ||७३||

सुगन्धिमाल्यगन्धर्वं सुप्रणीतममाकुलम् |

मिष्टान्नपानविशदं सदा मधुरसङ्कथम् ||७४||

सुखप्रपानं [] सुमदं हर्षप्रीतिविवर्धनम् |

स्वन्तं सात्त्विकमापानं चोत्तममदप्रदम् ||७५||

वैगुण्यं सहसा यान्ति मद्यदोषैर्न सात्त्विकाः |

मद्यं हि बलवत्सत्त्वं गृह्णाति सहसा तु [] ||७६||

सौम्यासौम्यकथाप्रायं विशदाविशदं क्षणात् |

चित्रं राजसमापन्नं प्रायेणास्वन्तकाकुलम् ||७७||

हर्षप्रीतिकथापेतमतुष्टं पानभोजने |

सम्मोहक्रोधनिद्रान्तमापानं तामसं स्मृतम् ||७८||

आपाने सात्त्विकान् बुद्ध्वा तथा राजसतामसान् |

जह्यात्सहायान् यैः पीत्वा मद्यदोषानुपाश्नुते ||७९||

सुखशीलाः सुसम्भाषाः सुमुखाः सम्मताः सताम् |

कलास्वबाह्या विशदा विषयप्रवणाश्च ये ||८०||

परस्परविधेया ये येषामैक्यं सुहृत्तया |

प्रहर्षप्रीतिमाधुर्यैरापानं वर्धयन्ति ये ||८१||

उत्सवादुत्सवतरं येषामन्योन्यदर्शनम् |

ते सहायाः सुखाः पाने तैः पिबन्सह मोदते ||८२||

रूपगन्धरसस्पर्शैः शब्दैश्चापि मनोरमैः |

पिबन्ति सुसहाया ये ते वै सुकृतिभिः समाः ||८३||

पञ्चभिर्विषयैरिष्टैरुपेतैर्मनसः [] प्रियैः |

देशे काले पिबेन्मद्यं प्रहृष्टेनान्तरात्मना ||८४||

स्थिरसत्त्वशरीरा ये पूर्वान्ना मद्यपान्वयाः |

बहुमद्योचिता ये माद्यन्ति सहसा ते ||८५||

क्षुत्पिपासापरीताश्च [] दुर्बला वातपैत्तिकाः |

रूक्षाल्पप्रमिताहारा विष्टब्धाः सत्त्वदुर्बलाः ||८६||

क्रोधिनोऽनुचिताः क्षीणाः परिश्रान्ता मदक्षताः |

स्वल्पेनापि मदं शीघ्रं यान्ति मद्येन मानवाः ||८७||

ऊर्ध्वं मदात्ययस्यातः सम्भवं स्वस्वलक्षणम् |

अग्निवेश! चिकित्सां प्रवक्ष्यामि यथाक्रमम् ||८८||

स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्शितः |

रूक्षाल्पप्रमिताशी यः पिबत्यतिमात्रया ||८९||

रूक्षं परिणतं मद्यं निशि निद्रां विहत्य |

करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम् ||९०||

हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः |

विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् ||९१||

तीक्ष्णोष्णं मद्यमम्लं योऽतिमात्रं निषेवते |

अम्लोष्णतीक्ष्णभोजी क्रोधनोऽग्न्यातपप्रियः ||९२||

तस्योपजायते पित्ताद्विशेषेण मदात्ययः |

[] तु वातोल्बणस्याशु प्रशमं याति हन्ति वा ||९३||

तृष्णादाहज्वरस्वेदमूर्च्छातीसारविभ्रमैः |

विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ||९४||

तरुणं मधुरप्रायं गौडं पैष्टिकमेव वा |

मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया ||९५||

अव्यायामदिवास्वप्नशय्यासनसुखे रतः |

मदात्ययं कफप्रायं शीघ्रमधिगच्छति ||९६||

छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः |

विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् ||९७||

विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपणाः |

एव मद्ये दृश्यन्ते विषे तु बलवत्तराः ||९८||

हन्त्याशु हि विषं किञ्चित् किञ्चिद्रोगाय कल्पते |

यथा विषं तथैवान्त्यो ज्ञेयो मद्यकृतो मदः ||९९||

तस्मात् त्रिदोषजं लिङ्गं सर्वत्रापि मदात्यये |

दृश्यते रूपवैशेष्यात् पृथक्त्वं चास्य [] लक्ष्यते ||१००||

शरीरदुःखं बलवत् सम्मोहो [] हृदयव्यथा |

अरुचिः प्रतता [] तृष्णा ज्वरः शीतोष्णलक्षणः ||१०१||

शिरःपार्श्वास्थिसन्धीनां विद्युत्तुल्या [] वेदना |

जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रमः ||१०२||

उरोविबन्धः कासश्च हिक्का श्वासः प्रजागरः |

शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकग्रहः ||१०३||

छर्द्यतीसारहृल्लासा वातपित्तकफात्मकाः |

भ्रमः प्रलापो रूपाणामसतां चैव दर्शनम् ||१०४||

तृणभस्मलतापर्णपांशुभिश्चावपूरणम् |

प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः मन्यते ||१०५||

व्याकुलानामशस्तानां स्वप्नानां दर्शनानि |

मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत् ||१०६||

सर्वं मदात्ययं विद्यात् त्रिदोषमधिकं तु यम् |

दोषं मदात्यये पश्येत् तस्यादौ प्रतिकारयेत् ||१०७||

कफस्थानानुपूर्व्या क्रिया कार्या मदात्यये |

पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः ||१०८||

मिथ्यातिहीनपीतेन यो व्याधिरुपजायते |

समपीतेन तेनैव मद्येनोपशाम्यति ||१०९||

जीर्णाममद्यदोषाय मद्यमेव प्रदापयेत् |

प्रकाङ्क्षालाघवे जाते यद्यदस्मै हितं भवेत् ||११०||

सौवर्चलानुसंविद्धं शीतं सबिडसैन्धवम् |

मातुलुङ्गार्द्रकोपेतं जलयुक्तं प्रमाणवित् [] ||१११||

तीक्षोष्णेनातिमात्रेण पीतेनाम्लविदाहिना |

मद्येनान्नरसोत्क्लेदो विदग्धः क्षारतां गतः ||११२||

अन्तर्दाहं ज्वरं तृष्णां प्रमोहं विभ्रमं मदम् |

जनयत्याशु तच्छान्त्यै मद्यमेव प्रदापयेत् ||११३||

क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः |

श्रेष्ठमम्लेषु मद्यं यैर्गुणैस्तान् परं शृणु ||११४||

मद्यस्याम्लस्वभावस्य चत्वारोऽनुरसाः स्मृताः |

मधुरश्च कषायश्च तिक्तः कटुक एव ||११५||

गुणाश्च दश पूर्वोक्तास्तैश्चतुर्दशभिर्गुणैः |

सर्वेषां मद्यमम्लानामुपर्युपरि तिष्ठति ||११६||

मद्योत्क्लिष्टेन दोषेण रुद्धः [] स्रोतःसु मारुतः |

करोति वेदनां तीव्रां शिरस्यस्थिषु सन्धिषु ||११७||

दोषविष्यन्दनार्थं हि तस्मै [] मद्यं विशेषतः |

व्यवायितीक्ष्णोष्णतया देयमम्ले(न्ये)षु सत्स्वपि ||११८||

स्रोतोविबन्धनुन्मद्यं मारुतस्यानुलोमनम् |

रोचनं दीपनं चाग्नेरभ्यासात् सात्म्यमेव ||११९||

रुजः [] स्रोतःस्वरुद्धेषु मारुते चानुलोमिते |

निवर्तन्ते विकाराश्च शाम्यन्त्यस्य मदोदयाः ||१२०||

बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम् |

यवानीहपुषाजाजीशृङ्गवेरावचूर्णितम् ||१२१||

सस्नेहैः शक्तुभिर्युक्तमवदंशैर्विरोचितम् [] |

दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये ||१२२||

दृष्ट्वा वातोल्बणं लिङ्गं रसैश्चैनमुपाचरेत् |

लावतित्तिरदक्षाणां स्निग्धाम्लैः शिखिनामपि ||१२३||

पक्षिणां मृगमत्स्यानामानूपानां संस्कृतैः |

भूशयप्रसहानां रसैः शाल्योदनेन ||१२४||

स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः |

चित्रैर्गौधूमिकैश्चान्नैर्वारुणीमण्डसंयुतैः [] ||१२५||

पिशितार्द्रकगर्भाभिः स्निग्धाभिः पूपवर्तिभिः |

माषपूपलिकाभिश्च वातिकं समुपाचरेत् ||१२६||

नातिस्निग्धं चाम्लेन युक्तं समरिचार्द्रकम् |

मेद्यं प्रागुदितं मांसं दाडिमस्वरसेन वा ||१२७||

पृथक्त्रिजातकोपेतं सधान्यमरिचार्द्रकम् |

रसप्रलेपि [] सम्पूपैः सुखोष्णैः सम्प्रदापयेत् ||१२८||

भुक्ते [] तु वारुणीमण्डं दद्यात् पातुं पिपासवे |

दाडिमस्य रसं वाऽपि जलं वा पाञ्चमूलिकम् ||१२९||

धान्यनागरतोयं दधिमण्डमथापि वा |

अम्लकाञ्जिकमण्डं वा शुक्तोदकमथापि वा ||१३०||

कर्मणाऽनेन सिद्धेन विकार उपशाम्यति |

मात्राकालप्रयुक्तेन बलं वर्णश्च वर्धते ||१३१||

रागषाडवसंयोगैर्विविधैर्भक्तरोचनैः |

पिशितैः शाकपिष्टान्नैर्यवगोधूमशालिभिः ||१३२||

अभ्यङ्गोत्सादनैः स्नानैरुष्णैः प्रावरणैर्घनैः |

घनैरगुरुपङ्कैश्च धूपैश्चागुरुजैर्घनैः ||१३३||

नारीणां यौवनोष्णानां निर्दयैरुपगूहनैः |

श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखावहैः ||१३४||

शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुखैः |

मारुतप्रबलः शीघ्रं प्रशाम्यति मदात्ययः ||१३५||

भव्यखर्जूरमृद्वीकापरूषकरसैर्युतम् [] |

सदाडिमरसं शीतं सक्तुभिश्चावचूर्णितम् ||१३६||

सशर्करं शार्करं वा मार्द्वीकमथवाऽपरम् |

दद्याद्बहूदकं काले पातुं पित्तमदात्यये ||१३७||

शशान् कपिञ्जलानेणाँल्लावानसितपुच्छकान् |

मधुराम्लान् प्रयुञ्जीत भोजने शालिषष्टिकान् ||१३८||

पटोलयूषमिश्रं वा छागलं कल्पयेद्रसम् |

सतीनमुद्गमिश्रं वा दाडिमामलकान्वितम् ||१३९||

द्राक्षामलकखर्जूरपरूषकरसेन वा |

कल्पयेत्तर्पणान् यूषान् रसांश्च विविधात्मकान् ||१४०||

आमाशयस्थमुत्क्लिष्टं कफपित्तं मदात्यये |

विज्ञाय बहुदोषस्य दह्यमानस्य [] तृष्यतः ||१४१||

मद्यं द्राक्षारसं तोयं दत्त्वा तर्पणमेव वा |

निःशेषं वामयेच्छीघ्रमेवं रोगाद्विमुच्यते ||१४२||

काले पुनस्तर्पणाद्यं क्रमं कुर्यात् प्रकाङ्क्षिते |

तेनाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः ||१४३||

कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु |

तृष्यते सविदाहे सोत्क्लेशे हृदयोरसि ||१४४||

गुडूचीभद्रमुस्तानां पटोलस्याथवा भिषक् |

रसं सनागरं दद्यात् तित्तिरिप्रतिभोजनम् [] ||१४५||

तृष्यते चातिबलवद्वातपित्ते समुद्धते |

दद्याद्द्राक्षारसं पातुं शीतं दोषानुलोमनम् ||१४६||

जीर्णे समधुराम्लेन छागमांसरसेन तम् |

भोजनं भोजयेन्मद्यमनुतर्षं पाययेत् ||१४७||

अनुतर्षस्य मात्रा सा यया नो दूष्यते [] मनः |

तृष्यते मद्यमल्पाल्पं प्रदेयं स्याद्बहूदकम् ||१४८||

तृष्णा येनोपशाम्येत मदं येन नाप्नुयात् |

परूषकाणां पीलूनां रसं शीतमथापि [] वा ||१४९||

पर्णिनीनां चतसॄणां पिबेद्वा शिशिरं जलम् |

मुस्तदाडिमलाजानां [] तृष्णाघ्नं वा पिबेद्रसम् ||१५०||

कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः |

पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति ||१५१||

शीतलान्यन्नपानानि शीतशय्यासनानि [] |

शीतवातजलस्पर्शाः शीतान्युपवनानि ||१५२||

क्षौमपद्मोत्पलानां मणीनां मौक्तिकस्य |

चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः ||१५३||

हेमराजतकांस्यानां पात्राणां शीतवारिभिः |

पूर्णानां हिमपूर्णानां दृतीनां पवनाहताः ||१५४||

संस्पर्शाश्चन्दनार्द्राणां नारीणां समारुताः |

चन्दनानां मुख्यानां शस्ताः पित्तमदात्यये [] ||१५५||

शीतवीर्यं यदन्यच्च तत् सर्वं विनियोजयेत् |

कुमुदोत्पलपत्राणां सिक्तानां चन्दनाम्बुना ||१५६||

हिताः स्पर्शा मनोज्ञानां दाहे मद्यसमुत्थिते |

कथाश्च विविधाः शस्ताः [] शब्दाश्च शिखिनां शिवाः ||१५७||

तोयदानां शब्दा हि शमयन्ति मदात्ययम् |

जलयन्त्राभिवर्षीणि वातयन्त्रवहानि ||१५८||

कल्पनीयानि भिषजा दाहे धारागृहाणि |

फलिनीसेव्यलोध्राम्बुहेमपत्रं कुटन्नटम् ||१५९||

कालीयकरसोपेतं दाहे शस्तं प्रलेपनम् |

बदरीपल्लवोत्थश्च तथैवारिष्टकोद्भवः ||१६०||

फेनिलायाश्च यः फेनस्तैर्दाहे लेपनं शुभम् |

सुरा समण्डा दध्यम्लं मातुलुङ्गरसो मधु ||१६१||

सेके प्रदेहे शस्यन्ते दाहघ्नाः साम्लकाञ्जिकाः |

परिषेकावगाहेषु व्यञ्जनानां सेवने ||१६२||

शस्यते शिशिरं तोयं दाहतृष्णाप्रशान्तये |

मात्राकालप्रयुक्तेन कर्मणाऽनेन शाम्यति [१०] ||१६३||

धीमतो वैद्यवश्यस्य शीघ्रं पित्तमदात्ययः |१६४|

उल्लेखनोपवासाभ्यां जयेत् कफमदात्ययम् ||१६४||

तृष्यते सलिलं चास्मै दद्याद्ध्रीबेरसाधितम् |

बलया पृश्निपर्ण्या वा कण्टकार्याऽथवा शृतम् ||१६५||

सनागराभिः सर्वाभिर्जलं वा शृतशीतलम् |

दुःस्पर्शेन समुस्तेन मुस्तपर्पटकेन वा ||१६६||

जलं मुस्तैः शृतं वाऽपि दद्याद्दोषविपाचनम् |

एतदेव पानीयं सर्वत्रापि मदात्यये ||१६७||

निरत्ययं पीयमानं पिपासाज्वरनाशनम् |

निरामं काङ्क्षितं काले सक्षौद्रं [] पाययेत्तु तम् ||१६८||

शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा |

रूक्षतर्पणसंयुक्तं [] यवानीनागरान्वितम् ||१६९||

यावगौधूमिकं चान्नं रूक्षयूषेण भोजयेत् |

कुलत्थानां सुशुष्काणां मूलकानां रसेन वा ||१७०||

तनुनाऽल्पेन लघुना कट्वम्लेनाल्पसर्पिषा |

पटोलयूषमम्लं वा यूषमामलकस्य वा ||१७१||

प्रभूतकटुसंयुक्तं सयवान्नं प्रदापयेत् |

व्योषयूषमथाम्लं वा यूषं वा साम्लवेतसम् ||१७२||

छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम् |

स्थाल्यां वाऽथ कपाले वा भृष्टं निर्द्रववर्तितम् [] ||१७३||

कट्वम्ललवणं मांसं भक्षयन् वृणुयान्मधु |

व्यक्तमारीचकं मांसं मातुलुङ्गरसान्वितम् ||१७४||

प्रभूतकटुसंयुक्तं यवानीनागरान्वितम् |

भृष्टं दाडिमसाराम्लमुष्णपूपोपवेष्टितम् ||१७५||

यथाग्नि भक्षयेत् काले प्रभूतार्द्रकपेशिकम् |

पिबेच्च निगदं मद्यं कफप्राये मदात्यये ||१७६||

सौवर्चलमजाजी वृक्षाम्लं साम्लवेतसम् |

त्वगेलामरिचार्धांशं शर्कराभागयोजितम् ||१७७||

एतल्लवणमष्टाङ्गमग्निसन्दीपनं परम् |

मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम् ||१७८||

एतदेव पुनर्युक्त्या मधुराम्लैर्द्रवीकृतम् |

गोधूमान्नयवान्नानां मांसानां चातिरोचनम् ||१७९||

पेषयेत् कटुकैर्युक्तां श्वेतां बीजविवर्जिताम् |

मृद्वीकां मातुलुङ्गस्य दाडिमस्य रसेन वा ||१८०||

सौवर्चलैलामरिचैरजाजीभृङ्गदीप्यकैः |

रागः क्षौद्रसंयुक्तः श्रेष्ठो रोचनदीपनः [] ||१८१||

मृद्वीकाया विधानेन कारयेत् कारवीमपि |

शुक्तमत्स्यण्डिकोपेतं रागं दीपनपाचनम् ||१८२||

आम्रामलकपेशीनां रागान् कुर्यात् पृथक् पृथक् |

धान्यसौवर्चलाजाजीकारवीमरिचान्वितान् ||१८३||

गुडेन [] मधुयुक्तेन व्यक्ताम्ललवणीकृतान् |

तैरन्नं रोचते दिग्धं सम्यग्भुक्तं जीर्यति ||१८४||

रूक्षोष्णेनान्नपानेन [] स्नानेनाशिशिरेण |

व्यायामलङ्घनाभ्यां युक्त्या जागरणेन ||१८५||

कालयुक्तेन रूक्षेण स्नानेनोद्वर्तनेन |

प्राणवर्णकराणां [] प्रघर्षाणां सेवया ||१८६||

सेवया वसनानां गुरूणामगुरोरपि |

सङ्कोचोष्णसुखाङ्गीनामङ्गनानां सेवया ||१८७||

सुखशिक्षितहस्तानां स्त्रीणां संवाहनेन |

मदात्ययः कफप्रायः शीघ्रमेवोपशाम्यति ||१८८||

यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति |

सन्निपाते दशविधे तद्विकल्प्यं भिषग्विदा ||१८९||

यस्तु दोषविकल्पज्ञो यश्चौषधिविकल्पवित् |

साध्यान्साधयेद्व्याधीन् साध्यासाध्यविभागवित् ||१९०||

वनानि रमणीयानि सपद्माः सलिलाशयाः |

विशदान्यन्नपानानि सहायाश्च प्रहर्षणाः ||१९१||

माल्यानि गन्धयोगाश्च वासांसि विमलानि |

गान्धर्वशब्दाः कान्ताश्च गोष्ठ्यश्च हृदयप्रियाः ||१९२||

सङ्कथाहास्यगीतानां विशदाश्चैव योजनाः |

प्रियाश्चानुगता नार्यो नाशयन्ति मदात्ययम् ||१९३||

नाक्षोभ्य हि मनो मद्यं शरीरमविहत्य |

कुर्यान्मदात्ययं तस्मादेष्टव्या हर्षणी क्रिया ||१९४||

आभिः क्रियाभिः सिद्धाभिः शमं याति मदात्ययः |

चेन्मद्यविधिं मुक्त्वा क्षीरमस्य प्रयोजयेत् ||१९५||

लङ्घनैः पाचनैर्दोषशोधनैः शमनैरपि |

विमद्यस्य कफे क्षीणे जाते दौर्बल्यलाघवे ||१९६||

तस्य मद्यविदग्धस्य वातपित्ताधिकस्य |

ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः ||१९७||

पयसाऽभिहृते रोगे बले जाते निवर्तयेत् |

क्षीरप्रयोगं मद्यं क्रमेणाल्पाल्पमाचरेत् ||१९८||

विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते |

ध्वंसको [] विक्षयश्चैव रोगस्तस्योपजायते ||१९९||

व्याध्युपक्षीणदेहस्य दुश्चिकित्स्यतमौ हि तौ |

तयोर्लिङ्गं चिकित्सा यथावदुपदेक्ष्यते ||२००||

श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता |

तन्द्रानिद्रातियोगश्च ज्ञेयं ध्वंसकलक्षणम् ||२०१||

हृत्कण्ठरोगः सम्मोहश्छर्दिरङ्गरुजा ज्वरः |

तृष्णा कासः शिरःशूलमेतद्विक्षयलक्षणम् ||२०२||

तयोः कर्म तदेवेष्टं वातिके यन्मदात्यये |

तौ हि प्रक्षीणदेहस्य जायेते दुर्बलस्य वै ||२०३||

बस्तयः सर्पिषः पानं प्रयोगः क्षीरसर्पिषोः |

अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं वातनुत् ||२०४||

ध्वंसको विक्षयश्चैव कर्मणाऽनेन शाम्यति |

युक्तमद्यस्य मद्योत्थो व्याधिरुपजायते ||२०५||

निवृत्तः सर्वमद्येभ्यो नरो यश्च जितेन्द्रियः |

शारीरमानसैर्धीमान् विकारैर्न युज्यते ||२०६||

तत्र श्लोकाः-

यत्प्रभावा भगवती सुरा पेया यथा सा |

यद्द्रव्या यस्य या चेष्टा योगं चापेक्षते यथा ||२०७||

यथा मदयते यैश्च गुणैर्युक्ता महागुणा |

यो मदो मदभेदाश्च ये त्रयः स्वस्वलक्षणाः ||२०८||

ये मद्यकृता दोषा गुणा ये मदात्मकाः |

यच्च त्रिविधमापानं यथासत्त्वं लक्षणम् ||२०९||

ये सहायाः सुखाः पाने [] चिरक्षिप्रमदा नराः |

मदात्ययस्य यो हेतुर्लक्षणं यद् यथा यत् ||२१०||

मद्यं मद्योत्थितान् रोगान् हन्ति यश्च क्रियाक्रमः |

सर्वं तदुक्तमखिलं मदात्ययचिकित्सिते ||२११||

 

Post a Comment

0 Comments