Advertisement

Responsive Advertisement

Charak chikitsa chapter 23 vish chikitsa








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातो विषचिकित्सितं व्याख्यास्यामः ||||

इति स्माह भगवानात्रेयः ||||

प्रागुत्पत्तिं गुणान् योनिं वेगाँल्लिङ्गान्युपक्रमान् |

विषस्य ब्रुवतः सम्यगग्निवेश निबोध मे ||||

अमृतार्थं समुद्रे तु मथ्यमाने सुरासुरैः |

जज्ञे प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः ||||

दीप्ततेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षणः |

जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसञ्ज्ञितः ||||

जङ्गमस्थावरायां तद्योनौ ब्रह्मा न्ययोजयत् |

तदम्बुसम्भवं तस्माद्द्विविधं पावकोपमम् ||||

अष्टवेगं दशगुणं चतुर्विंशत्युपक्रमम् ||

तद्वर्षास्वम्बुयोनित्वात् सङ्क्लेदं गुडवद्गतम् ||||

सर्पत्यम्बुधरापाये तदगस्त्यो हिनस्ति |

प्रयाति मन्दवीर्यत्वं विषं तस्माद्धनात्यये |||

सर्पाः कीटोन्दुरा लूता वृश्चिका गृहगोधिकाः |

जलौकामत्स्यमण्डूकाः कणभाः सकृकण्टकाः ||||

श्वसिंहव्याघ्रगोमायुतरक्षुनकुलादयः |

दंष्ट्रिणो ये विषं तेषां दंष्ट्रोत्थं जङ्गमं मतम् ||१०||

मुस्तकं पौष्करं क्रौञ्चं वत्सनाभं बलाहकम् |

कर्कटं कालकूटं करवीरकसञ्ज्ञकम् ||११||

पालकेन्द्रायुधं तैलं मेघकं कुशपुष्पकम् |

रोहिषं पुण्डरीकं लाङ्गलक्यञ्जनाभकम् ||१२||

सङ्कोचं मर्कटं शृङ्गीविषं हालाहलं तथा |

एवमादीनि चान्यानि मूलजानि स्थिराणि ||१३||

गरसंयोगजं चान्यद्गरसञ्ज्ञं गदप्रदम् |

कालान्तरविपाकित्वान्न तदाशु हरत्यसून् ||१४||

निद्रां तन्द्रां क्लमं दाहं सपाकं लोमहर्षणम् |

शोफं चैवातिसारं जनयेज्जङ्गमं विषम् ||१५||

स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम् |

फेनवम्यरुचिश्वासमूर्च्छाश्च जनयेद्विषम् ||१६||

जङ्गमं स्यादधोभागमूर्ध्वभागं तु मूलजम् |

तस्माद्दंष्ट्राविषं मौलं हन्ति मौलं दंष्ट्रजम् ||१७||

तृण्मोहदन्तहर्षप्रसेकवमथक्लमा भवन्त्याद्ये |

वेगे रसप्रदोषादसृक्प्रदोषाद्द्वितीये तु ||१८||

वैवर्ण्यभ्रमवेपथुमूर्च्छाजृम्भाङ्गचिमिचिमातमकाः |

दुष्टपिशितात्तृतीये मण्डलकण्डूश्वयथुकोठाः ||१९||

वातादिजाश्चतुर्थे दाहच्छर्द्यङ्गशूलमूर्च्छाद्याः |

नीलादीनां तमसश्च दर्शनं पञ्चमे वेगे ||२०||

षष्ठे हिक्का, भङ्गः स्कन्धस्य तु सप्तमेऽष्टमे मरणम् | नॄणां,

चतुष्पदां स्याच्चतुर्विधः, पक्षिणां त्रिविधः ||२१||

सीदत्याद्ये भ्रमति , चतुष्पदो वेपते, ततः शून्यः |

मन्दाहारो म्रियते श्वासेन हि चतुर्थवेगे तु ||२२||

ध्यायति विहगः प्रथमे वेगे, प्रभ्राम्यति द्वितीये तु |

स्रस्ताङ्गश्च तृतीये विषवेगे याति पञ्चत्वम् ||२३||

लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकासि सूक्ष्मं |

उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तज्ज्ञैः ||२४||

रौक्ष्याद्वातमशैत्यात्पित्तं सौक्ष्म्यादसृक् प्रकोपयति |

कफमव्यक्तरसत्वादन्नरसांश्चानुवर्तते शीघ्रम् ||२५||

शीघ्रं व्यवायिभावादाशु व्याप्नोति केवलं देहम् |

तीक्ष्णत्वान्मर्मघ्नं प्राणघ्नं तद्विकासित्वात् ||२६||

दुरुपक्रमं लघुत्वाद्वैशद्यात् स्यादसक्तगतिदोषम् |

दोषस्थानप्रकृतीः प्राप्यान्यतमं ह्युदीरयति ||२७||

स्याद्वातिकस्य वातस्थाने कफपित्तलिङ्गमीषत्तु |

तृण्मोहारतिमूर्च्छागलग्रहच्छर्दिफेनादि ||२८||

पित्ताशयस्थितं पैत्तिकस्य कफवातयोर्विषं तद्वत् |

तृट्कासज्वरवमथुक्लमदाहतमोतिसारादि ||२९||

कफदेशगं कफस्य दर्शयेद्वातपित्तयोश्चेषत् |

लिङ्गं श्वासगलग्रहकण्डूलालावमथ्वादि ||३०||

दूषीविषं तु शोणितदुष्ट्यारुःकिटिमकोठलिङ्गं |

विषमेकैकं दोषं सन्दूष्य हरत्यसूनेवम् ||३१||

क्षरति विषतेजसाऽसृक् तत् खानि निरुध्य मारयति जन्तुम् |

पीतं मृतस्य हृदि तिष्ठति दष्टविद्धयोर्दंशदेशे स्यात् ||३२||

नीलौष्ठदन्तशैथिल्यकेशपतनाङ्गभङ्गविक्षेपाः |

शिशिरैर्न लोमहर्षो नाभिहते दण्डराजी स्यात् ||३३||

क्षतजं क्षताच्च नायात्येतानि भवन्ति मरणलिङ्गानि |

एभ्योऽन्यथा चिकित्स्यास्तेषां चोपक्रमाञ्छृणु मे ||३४||

मन्त्रारिष्टोत्कर्तननिष्पीडनचूषणाग्निपरिषेकाः |

अवगाहरक्तमोक्षणवमनविरेकोपधानानि ||३५||

हृदयावरणाञ्जननस्यधूमलेहौषधप्रशमनानि |

प्रतिसारणं प्रतिविषं सञ्ज्ञासंस्थानपनं लेपः ||३६||

मृतसञ्जीवनमेव विंशतिरेते चतुर्भिरधिकाः |

स्युरुपक्रमा यथा ये यत्र योज्याः शृणु तथा तान् ||३७||

दंशात्तु विषं दष्टस्याविसृतं वेणिकां भिषग्बद्ध्वा |

निष्पीडयेद्भृशं दंशमुद्धरेन्मर्मवर्जं वा ||३८||

तं दंशं वा चूषेन्मुखेन यवचूर्णपांशुपूर्णेन |३९|

प्रच्छनशृङ्गजलौकाव्यधनैः स्राव्यं ततो रक्तम् ||३९||

रक्ते विषप्रदुष्टे दुष्येत् प्रकृतिस्ततस्त्यजेत् प्राणान् |

तस्मात् प्रघर्षणैरसृगवर्तमानं प्रवर्त्यं स्यात् ||४०||

त्रिकटुगृहधूमरजनीपञ्चलवणरोचनाः सवार्ताकाः |

घर्षणमतिप्रवृत्ते वटादिभिः शीतलैर्लेपः ||४१||

रक्तं हि विषाधानं वायुरिवाग्नेः प्रदेहसेकैस्तत् |

शीतैः स्कन्दति तस्मिन् स्कन्ने व्यपयाति विषवेगः ||४२||

विषवेगान्मदमूर्च्छाविषादहृदयद्रवाः प्रवर्तन्ते |

शीतैर्निवर्तयेत्तान् वीज्यश्चालोमहर्षात् स्यात् ||४३||

तरुरिव मूलच्छेदाद्दंशच्छेदान्न वृद्धिमेति विषम् |

आचूषणमानयनं जलस्य सेतुर्यथा तथाऽरिष्टाः ||४४||

त्वङ्मांसगतं दाहो दहति विषं स्रावणं हरति रक्तात् |

पीतं वमनैः सद्यो हरेद्विरेकैर्द्वितीये तु ||४५||

आदौ हृदयं रक्ष्यं तस्यावरणं पिबेद्यथालाभम् |

मधुसर्पिर्मज्जपयोगैरिकमथ गोमयरसं वा ||४६||

इक्षुं सुपक्वमथवा काकं निष्पीड्य तद्रसं वरणम् |

छागादीनां वाऽसृग्भस्म मृदं वा पिबेदाशु ||४७||

क्षारागदस्तृतीये शोफहरैर्लेखनं समध्वम्बु |

गोमयरसश्चतुर्थे वेगे सकपित्थमधुसर्पिः ||४८||

काकाण्डशिरीषाभ्यां स्वरसेनाश्च्योतनाञ्जने नस्यम् |

स्यात्पञ्चमेऽथ षष्ठे सञ्ज्ञायाः स्थापनं कार्यम् ||४९||

गोपित्तयुता रजनी मञ्जिष्ठामरिचपिप्पलीपानम् |

विषपानं दष्टानां विषपीते दंशनं चान्ते ||५०||

शिखिपित्तार्धयुतं स्यात् पलाशबीजमगदो मृतेषु वरः |

वार्ताकुफाणितागारधूमगोपित्तनिम्बं वा ||५१||

गोपित्तयुतैर्गुटिकाः सुरसाग्रन्थिद्विरजनीमधुककुष्ठैः |

शस्ताऽमृतेन तुल्या शिरीषपुष्पकाकाण्डकरसैर्वा ||५२||

काकाण्डसुरसगवाक्षीपुनर्नवावायसीशिरीषफलैः |

उद्बन्धविषजलमृते लेपौपधिनस्यपानानि ||५३||

स्पृक्काप्लवस्थौणेयकाङ्क्षीशैलेयरोचनातगरम् |

ध्यामककुङ्कुममांसीसुरसाग्रैलालकुष्ठघ्नम् ||५४||

बृहती शिरीषपुष्पं श्रीवेष्टकपद्मचारटिविशालाः |

सुरदारुपद्मकेशरसावरकमनःशिलाकौन्त्यः ||५५||

जात्यर्कपुष्परसरजनीद्वयहिङ्गुपिप्पलीलाक्षाः |

जलमुद्गपर्णिचन्दनमधुकमदनसिन्धुवाराश्च ||५६||

शम्पाकलोध्रमयूरकगन्धफलानाकुलीविडङ्गाश्च |

पुष्ये संहृत्य समं पिष्ट्वा गुटिका विधेयाः स्युः ||५७||

सर्वविषघ्नो जयकृद्विषमृतसञ्जीवनो ज्वरनिहन्ता |

घ्रेयविलेपनधारणधूमग्रहणैर्गृहस्थश्च ||५८||

भूतविषजन्त्वलक्ष्मीकार्मणमन्त्राग्न्यशन्यरीन् हन्यात् |

दुःस्वप्नस्त्रीदोषानकालमरणाम्बुचौरभयम् ||५९||

धनधान्यकार्यसिद्धिः श्रीपुष्ट्यायुर्विवर्धनो धन्यः |

मृतसञ्जीवन एष प्रागमृताद्ब्रह्मणा विहितः ||६०||

इति मृतसञ्जीवनोऽगदः |

मन्त्रैर्धमनीबन्धोऽवमार्जनं कार्यमात्मरक्षा |

दोषस्य विषं यस्य स्थाने स्यात्तं जयेत्पूर्वम् ||६१||

वातस्थाने स्वेदो दध्ना नतकुष्ठकल्कपानं |

घृतमधुपयोऽम्बुपानावगाहसेकाश्च पित्तस्थे ||६२||

क्षारागदः कफस्थानगते स्वेदस्तथा सिराव्यधनम् |

दूषीविषेऽथ रक्तस्थिते सिराकर्म पञ्चविधम् ||६३||

भेषजमेवं कल्प्यं भिषग्विदाऽऽलक्ष्य सर्वदा सर्वम् |

स्थानं जयेद्धि पूर्वं स्थानस्थस्याविरुद्धं ||६४||

विषदूषितकफमार्गः स्रोतःसंरोधरुद्धवायुस्तु |

मृत इव श्वसेन्मर्त्यः स्यादसाध्यलिङ्गैर्विहीनश्च ||६५||

चर्मकषायाः कल्कं बिल्वसमं मूर्ध्नि काकपदमस्य |

कृत्वा दद्यात्कटभीकटुकट्फलप्रधमनं ||६६||

छागं गव्यं माहिषं वा मांसं कौक्कुटमेव वा |

दद्यात् काकपदे तस्मिंस्ततः सङ्क्रमते विषम् ||६७||

नासाक्षिकर्णजिह्वाकण्ठनिरोधेषु कर्म नस्तः स्यात् |

वार्ताकुबीजपूरज्योतिष्मत्यादिभिः पिष्टैः ||६८||

अञ्जनमक्ष्युपरोधे कर्तव्यं बस्तमूत्रपिष्टैस्तु |

दारुव्योषहरिद्राकरवीरकरञ्जनिम्बसुरसैस्तु ||६९||

श्वेता वचाऽश्वगन्धा हिङ्ग्वमृता कुष्ठसैन्धवे लशुनम् |

सर्षपकपित्थमध्यं टुण्टुककरञ्जबीजानि ||७०||

व्योषं शिरीषपुष्पं द्विरजन्यौ वंशलोचनं समम् |

पिष्ट्वाऽजस्य मूत्रेण गोश्वपित्तेन सप्ताहम् ||७१||

व्यत्यासभावितोऽयं निहन्ति शिरसि स्थितं विषं क्षिप्रम् |

सर्वज्वरभूतग्रहविसूचिकाजीर्णमूर्च्छार्तीः ||७२||

उन्मादापस्मारौ काचपटलनीलिकाशिरोदोषान् |

शुष्काक्षिपाकपिल्लार्बुदार्मकण्डूतमोदोषान् ||७३||

क्षयदौर्बल्यमदात्ययपाण्डुगदांश्चाञ्जनात्तथा मोहान् |

लेपाद्विषदिग्धक्षतलीढदष्टपीतविषघाती ||७४||

अर्शःस्वानद्धेषु गुदलेपो योनिलेपनं स्त्रीणाम् |

मूढे गर्भे दुष्टे ललाटलेपः प्रतिश्याये ||७५||

वृद्धौ किटिमे कुष्ठे श्वित्रविचर्चिकादिषु लेपः |

गज इव तरून् विषगदान्निहन्त्यगदगन्धहस्त्येषः ||७६||

इति गन्धहस्तीनामाऽगदः |

पत्रागुरुमुस्तैला निर्यासाः पञ्च चन्दनं स्पृक्का |

त्वङ्नलदोत्पलबालकहरेणुकोशीरवन्यनखाः ||७७||

सुरदारुकनककुङ्कुमध्यामककुष्ठप्रियङ्गवस्तगरम् |

पञ्चाङ्गानि शिरीषाद्व्योषालमनःशिलाजाज्यः ||७८||

श्वेतकटभीकरञ्जौ रक्षोघ्नी सिन्धुवारिका रजनी |

सुरसाञ्जनगैरिकमञ्जिष्ठानिम्बनिर्यासाः ||७९||

वंशत्वगश्वगन्धाहिङ्गुदधित्थाम्लवेतसं लाक्षा |

मधुमधुकसोमराजीवचारुहारोचनातगरम् ||८०||

अगदोऽयं वैश्रवणायाख्यातस्त्र्यम्बकेण षष्ट्यङ्गः |

अप्रतिहतप्रभावः ख्यातो महागन्धहस्तीति ||८१||

पित्तेन गवां पेष्यो गुटिकाः कार्यास्तु पुष्ययोगेन |

पानाञ्जनप्रलेपैः प्रसाधयेत् सर्वकर्माणि ||८२||

पिल्लं कण्डूं तिमिरं रात्र्यान्ध्यं काचमर्बुदं पटलम् |

हन्ति सततप्रयोगाद्धितमितपथ्याशिनां पुंसाम् ||८३||

विषमज्वरानजीर्णान्दद्रुं कण्डूं विसूचिकां पामाम् |

विषमूषिकलूतानां सर्वेषां पन्नगानां |

आशु विषं नाशयति समूलजमथ कन्दजं सर्वम् ||८४||

एतेन लिप्तगात्रः सर्पान् गृह्णाति भक्षयेच्च विषम् |

कालपरीतोऽपि नरो जीवति नित्यं निरातङ्कः ||८५||

आनद्धे गुदलेपो योनौ लेपश्च मूढगर्भाणाम् |

मूर्च्छार्तिषु ललाटे प्रलेपनमाहुः प्रधानतमम् ||८६||

भेरीमृदङ्गपटहाञ्छत्राण्यमुना तथा ध्वजपताकाः |

लिप्त्वाऽहिविषनिरस्त्यै प्रध्वनयेद्दर्शयेन्मतिमान् ||८७||

यत्र सन्निहितोऽयं तत्र बालग्रहा रक्षांसि |

कार्मणवेताला वहन्ति नाथर्वणा मन्त्राः ||८८||

सर्वग्रहा तत्र प्रभवन्ति चाग्निशस्त्रनृपचौराः |

लक्ष्मीश्च तत्र भजते यत्र महागन्धहस्त्यस्ति ||८९||

पिष्यमाण इमं चात्र सिद्धं मन्त्रमुदीरयेत् |

मम माता जया नाम जयो नामेति मे पिता ||९०||

सोऽहं जयजयापुत्रो विजयोऽथ जयामि |

नमः पुरुषसिंहाय विष्णवे विश्वकर्मणे ||९१||

सनातनाय कृष्णाय भवाय विभवाय |

तेजो वृषाकपेः साक्षात्तेजो ब्रह्मेन्द्रयोर्यमे ||९२||

यथाऽहं नाभिजानामि वासुदेवपराजयम् |

मातुश्च पाणिग्रहणं समुद्रस्य शोषणम् ||९३||

अनेन सत्यवाक्येन सिध्यतामगदो ह्ययम् |

हिलिमिलिसंस्पृष्टे रक्ष सर्वभेषजोत्तमे स्वाहा ||९४||

इति महागन्धहस्तीनामाऽगदः |

ऋषभकजीवकभार्गीमधुकोत्पलधान्यकेशराजाज्यः |

ससितगिरिकोलमध्याः पेयाः श्वासज्वरादिहराः ||९५||

हिङ्गु कृष्णायुक्तं कपित्थरसयुक्तमग्र्यलवणं |

समधुसितौ पातव्यौ ज्वरहिक्काश्वासकासघ्नौ ||९६||

लेहः कोलास्थ्यञ्जनलाजोत्पलमधुघृतैर्वम्याम् |

बृहतीद्वयाढकीपत्रधूमवर्तिस्तु हिक्काघ्नी ||९७||

शिखिबर्हिबलाकास्थीनि सर्षपाश्चन्दनं घृतयुक्तम् |

धूमो गृहशयनासनवस्त्रादिषु शस्यते विषनुत् ||९८||

घृतयुक्ते नतकुष्ठे भुजगपतिशिरः शिरीषपुष्पं |

धूमागदः स्मृतोऽयं सर्वविषघ्नः श्वयथुहृच्च ||९९||

जतुसेव्यपत्रगुग्गुलुभल्लातकककुभपुष्पसर्जरसाः |

श्वेता धूम उरगाखुकीटवस्त्रक्रिमिनुदग्र्यः ||१००||

तरुणपलाशक्षारं स्रुतं पचेच्चूर्णितैः सह समांशैः |

लोहितमृद्रजनीद्वयशुक्लसुरसमञ्जरीमधुकैः ||१०१||

लाक्षासैन्धवमांसीहरेणुहिङ्गुद्विसारिवाकुष्ठैः |

सव्योषैर्बाह्लीकैर्दर्वीविलेपनं घट्टयेद्यावत् ||१०२||

सर्वविषशोथगुल्मत्वग्दोषार्शोभगन्दरप्लीह्नः |

शोथापस्मारक्रिमिभूतस्वरभेदपाण्डुगदान् ||१०३||

मन्दाग्नित्वं कासं सोन्मादं नाशयेयुरथ पुंसाम् |

गुटिकाश्छायाशुष्काः कोलसमास्ताः समुपयुक्ताः ||१०४||

इति क्षारागदः |

विषपीतदष्टविद्धेष्वेतद्दिग्धे वाच्यमुद्दिष्टम् |

सामान्यतः, पृथक्त्वान्निर्देशमतः शृणु यथावत् ||१०५||

रिपुयुक्तेभ्यो नृभ्यः स्वेभ्यः स्त्रीभ्योऽथवा भयं नृपतेः |

आहारविहारगतं तस्मात् प्रेष्यान् परीक्षेत ||१०६||

अत्यर्थशङ्कितः स्याद्बहुवागथवाऽल्पवाग्विगतलक्ष्मीः |

प्राप्तः प्रकृतिविकारं विषप्रदाता नरो ज्ञेयः ||१०७||

दृष्ट्वैवं तु सहसा भोज्यं कुर्यात्तदन्नमग्नौ तु |

सविषं हि प्राप्यान्नं बहून्विकारान् भजत्यग्निः ||१०८||

शिखिबर्हविचित्रार्चिस्तीक्ष्णाक्षमरूक्षकुणपधूमश्च |

स्फुटति सशब्दमेकावर्तो विहतार्चिरपि स्यात् ||१०९||

पात्रस्थं विवर्णं भोज्यं स्यान्मक्षिकांश्च मारयति |

क्षामस्वरांश्च काकान् कुर्याद्विरजेच्चकोराक्षि ||११०||

पाने नीला राजी वैवर्ण्यं स्वां नेक्षते छायाम् |

पश्यति विकृतामथवा लवणाक्ते फेनमाला स्यात् ||१११||

पानान्नयोःसविषयोर्गन्धेन शिरोरुग्घृति मूर्च्छा |

स्पर्शेन पाणिशोथः सुप्त्यङ्गुलिदाहतोदनखभेदाः ||११२||

मुखगे त्वोष्ठचिमिचिमा जिह्वा शूना जडा विवर्णा |

द्विजहर्षहनुस्तम्भास्यदाहलालागलविकाराः ||११३||

आमाशयं प्रविष्टे वैवर्ण्यं स्वेदसदनमुत्क्लेदः |

दृष्टिहृदयोपरोधो बिन्दुशतैश्चीयते चाङ्गम् ||११४||

पक्वाशयं तु याते मूर्च्छामदमोहदाहबलनाशाः |

तन्द्रा कार्श्यं विषे पाण्डुत्वं चोदरस्थे स्यात् ||११५||

दन्तपवनस्य कूर्चो विशीर्यते दन्तौष्ठमांसशोफश्च |

केशच्युतिः शिरोरुग्ग्रन्थयश्च सविषेऽथ शिरोभ्यङ्गे ||११६||

दुष्टेऽञ्जनेऽक्षिदाहस्रावात्युपदेहशोथरागाश्च |

खाद्यैरादौ कोष्ठः स्पृश्यैस्त्वग्दूष्यते दुष्टैः ||११७||

स्नानाभ्यङ्गोत्सादनवस्त्रालङ्कारवर्णकैर्दुष्टैः |

कण्ड्वर्तिकोठपिडकारोमोद्गमचिमिचिमा शोथाः ||११८||

एते करचरणदाहतोदक्लमाविपाकाश्च |

भूपादुकाश्वगजवर्मकेतुशयनासनैर्दुष्टैः ||११९||

माल्यमगन्धं म्लायति शिरोरुजालोमहर्षकरम् |

स्तम्भयति खानि नासामुपहन्ति दर्शनं धूमः ||१२०||

कूपतडागादिजलं दुर्गन्धं सकलुषं विवर्णं |

पीतं श्वयथुं कोठान् पिडकाश्च करोति मरणं ||१२१||

आदावामाशयगे वमनं त्वक्स्थे प्रदेहसेकादि |

कुर्याद्भिषक् चिकित्सां दोषबलं चैव हि समीक्ष्य ||१२२||

इति मूलविषविशेषाः प्रोक्ताः |१२३|

शृणु जङ्गमस्यातः |

सविशेषचिकित्सितमेवादौ तत्रोच्यते तु सर्पाणाम् ||१२३||

इह दर्वीकरः सर्पो मण्डली राजिमानिति |

त्रयो यथाक्रमं वातपित्तश्लेष्मप्रकोपणाः ||१२४||

दर्वीकरः फणी ज्ञेयो मण्डली मण्डलाफणः |

बिन्दुलेखविचित्राङ्गः पन्नगः स्यात्तु राजिमान् ||१२५||

विशेषाद्रूक्षकटुकमम्लोष्णं स्वादु शीतलम् |

विषं यथाक्रमं तेषां तस्माद्वातादिकोपनम् ||१२६||

दर्वीकरकृतो दंशः सूक्ष्मदंष्ट्रापदोऽसितः |

निरुद्धरक्तः कूर्माभो वातव्याधिकरो मतः ||१२७||

पृथ्वर्पितः सशोथश्च दंशो मण्डलिना कृतः |

पीताभः पीतरक्तश्च सर्वपित्तविकारकृत् ||१२८||

कृतो राजिमता दंशः पिच्छिलः स्थिरशोफकृत् |

स्निग्धः पाण्डुश्च सान्द्रासृक् श्लेष्मव्याधिसमीरणः ||१२९||

वृत्तभोगो महाकायः श्वसन्नूर्ध्वेक्षणः पुमान् |

स्थूलमूर्धा समाङ्गश्च स्त्री त्वतः स्याद्विपर्ययात् ||१३०||

क्लीबस्त्रसत्यधोदृष्टिः स्वरहीनः प्रकम्पते |

स्त्रिया दष्टो विपर्यस्तैरेतैः पुंसा नरो मतः ||१३१||

व्यामिश्रलिङ्गैरेतैस्तु क्लीबदष्टं नरं वदेत् |

इत्येतदुक्तं सर्पाणां स्त्रीपुङ्क्लीबनिदर्शनम् ||१३२||

पाण्डुवक्त्रस्तु गर्भिण्या शूनौष्ठोऽप्यसितेक्षणः |

जृम्भाक्रोधोपजिह्वार्तः सूतया रक्तमूत्रवान् ||१३३||

सर्पो गौधेर()को नाम गोधायां स्याच्चतुष्पदः |

कृष्णसर्पेण तुल्यः स्यान्नाना स्युर्मिश्रजातयः ||१३४||

गूढसम्पादितं वृत्तं पीडितं लम्बितार्पितम् |

सर्पितं भृशाबाधं, दंशा योऽन्ये ते भृशाः ||१३५||

तरुणाः कृष्णसर्पास्तु गोनसाः स्थविरास्तथा |

राजिमन्तो वयोमध्ये भवन्त्याशीविषोपमाः ||१३६||

सर्पदंष्ट्राश्चतस्रस्तु तासां वामाधरा सिता |

पीता वामोत्तरा दंष्ट्रा रक्तश्यावाऽधरोत्तरा ||१३७||

यन्मात्रः पतते बिन्दुर्गोबालात् सलिलोद्धृतात् |

वामाधरायां दंष्ट्रायां तन्मात्रं स्यादहेर्विषम् ||१३८||

एकद्वित्रिचतुर्वृद्धविषभागोत्तरोत्तराः |

सवर्णास्तत्कृता दंशा बहूत्तरविषा भृशाः ||१३९||

सर्पाणामेव विण्मूत्रात् कीटाः स्युः कीटसम्मताः |

दूषीविषाः प्राणहरा इति सङ्क्षेपतो मताः ||१४०||

गात्रं रक्तं सितं कृष्णं श्यावं वा पिडकान्वितम् |

सकण्डूदाहवीसर्पपाकि स्यात् कुथितं तथा ||१४१||

कीटैर्दूषीविषैर्दष्टं

लिङ्गं प्राणहरं शृणु |

सर्पदष्टे यथा शोथो वर्धते सोग्रगन्ध्यसृक् ||१४२||

दंशोऽक्षिगौरवं मूर्च्छा रुगार्तः श्वसित्यपि |

तृष्णारुचिपरीतश्च भवेद्दूषीविषार्दितः ||१४३||

दंशस्य मध्ये यत् कृष्णं श्यावं वा जालकावृतम् |

दग्धाकृति भृशं पाकि क्लेदशोथज्वरान्वितम् ||१४४||

दूषीविषाभिर्लूताभिस्तं दष्टमिति निर्दिशेत् |

सर्वासामेव तासां दंशे लक्षणमुच्यते ||१४५||

शोफः श्वेतासिता रक्ताः पीता वा पिडका ज्वरः |

प्राणान्तिको भवेच्छ्वासो दाहहिक्काशिरोग्रहाः ||१४६||

आदंशाच्छोणितं पाण्डु मण्डलानि ज्वरोऽरुचिः |

लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते ||१४७||

मूर्च्छाङ्गशोथवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः |

शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यमूषिकैः ||१४८||

श्यावत्वमथ कार्ष्ण्यं वा नानावर्णत्वमेव वा |

मोहः पुरीषभेदश्च दष्टे स्यात् कृकलासकैः ||१४९||

दहत्यग्निरिवादौ तु भिनत्तीवोर्ध्वमाशु |

वृश्चिकस्य विषं याति दंशे पश्चात्तु तिष्ठति ||१५०||

दष्टोऽसाध्यस्तु दृग्घ्राणरसनोपहतो नरः |

मांसैः पतद्भिरत्यर्थं वेदनार्तो जहात्यसून् ||१५१||

विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि |

लक्षणं कणभैर्दष्टे दंशश्चैव विशीर्यते ||१५२||

हृष्टरोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्तिमान् |

दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते ||१५३||

एकदंष्ट्रार्दितः शूनः सरुक् स्यात् पीतकः सतृट् |

छर्दिर्निद्रा मण्डूकैः सविषैर्दष्टलक्षणम् ||१५४||

मत्स्यास्तु सविषाः कुर्युर्दाहशोफरुजस्तथा |

कण्डूं शोथं ज्वरं मूर्च्छां सविषास्तु जलौकसः ||१५५||

दाहतोदस्वेदशोथकरी तु गृहगोधिका |

दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम् ||१५६||

कण्डूमान्मशकैरीषच्छोथः स्यान्मन्दवेदनः |

असाध्यकीटसदृशमसाध्यमशकक्षतम् ||१५७||

सद्यःप्रस्राविणी श्यावा दाहमूर्च्छाज्वरान्विता |

पीडका मक्षिकादंशे तासां तु स्थगिकाऽसुहृत् ||१५८||

श्मशानचैत्यवल्मीकयज्ञाश्रमसुरालये |

पक्षसन्धिषु मध्याह्ने सार्धरात्रेऽष्टमीषु ||१५९||

सिद्ध्यन्ति नरा दष्टाः पाषण्डायतनेषु |

दृष्टिश्वासमलस्पर्शविषैराशीविषैस्तथा ||१६०||

विनश्यन्त्याशु सम्प्राप्ता दष्टाः सर्वेषु मर्मसु |१६१|

(येन केनापि सर्पेण सम्भवः सर्व एव ) ||१६१||

भीतमत्ताबलोष्णक्षुत्तृषार्ते वर्धते विषम् |

विषं प्रकृतिकालौ तुल्यौ प्राप्याल्पमन्यथा ||१६२||

वारिविप्रहताः क्षीणा भीता नकुलनिर्जिताः |

वृद्धा बालास्त्वचो मुक्ताः सर्पा मन्दविषाः स्मृताः ||१६३||

सर्वदेहाश्रितं क्रोधाद्विषं सर्पो विमुञ्चति |

तदेवाहारहेतोर्वा भयाद्वा प्रमुञ्चति ||१६४||

वातोल्बणविषाः प्राय उच्चिटिङ्गाः सवृश्चिकाः |

वातपित्तोल्बणाः कीटाः श्लैष्मिकाः कणभादयः ||१६५||

यस्य यस्य हि दोषस्य लिङ्गाधिक्यानि लक्षयेत् |

तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम् ||१६६||

हृत्पीडोर्ध्वानिलः स्तम्भः सिरायामोऽस्थिपर्वरुक् |

घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे ||१६७||

सञ्ज्ञानाशोष्णनिश्वासौ हृद्दाहः कटुकास्यता |

दंशावदरणं शोथो रक्तपीतश्च पैत्तिके ||१६८||

वम्यरोचकहृल्लासप्रसेकोत्क्लेशगौरवैः |

सशैत्यमुखमाधुर्यैर्विद्याच्छ्लेष्माधिकं विषम् ||१६९||

खण्डेन व्रणालेपस्तैलाभ्यङ्गश्च वातिके |

स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः ||१७०||

सुशीतैः स्तम्भयेत् सेकैः प्रदेहैश्चापि पैत्तिकम् |

लेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत् ||१७१||

विषेष्वपि सर्वेषु सर्वस्थानगतेषु |

अवृश्चिकोच्चिटिङ्गेषु प्रायः शीतो विधिर्हितः ||१७२||

वृश्चिके स्वेदमभ्यङ्गं घृतेन लवणेन |

सेकांश्चोष्णान् प्रयुञ्जीत भोज्यं पानं सर्पिषः ||१७३||

एतदेवोच्चिटिङ्गेऽपि प्रतिलोमं पांशुभिः |

उद्वर्तनं सुखाम्बूष्णैस्तथाऽवच्छादनं घनैः ||१७४||

श्वा त्रिदोषप्रकोपात्तु तथा धातुविपर्ययात् |

शिरोऽभितापी लालास्राव्यधोवक्त्रस्तथा भवेत् ||१७५||

अन्येऽप्येवंविधा व्यालाः कफवातप्रकोपणाः |

हृच्छिरोरुग्ज्वरस्तम्भतृषामूर्च्छाकरा मताः ||१७६||

कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदोपशोषणम् |

विदाहरागरुक्पाकाः शोफो ग्रन्थिनिकुञ्चनम् ||१७७||

दंशावदरणं स्फोटाः कर्णिका मण्डलानि |

ज्वरश्च सविषे लिङ्गं विपरीतं तु निर्विषे ||१७८||

तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाः |

पूर्वोक्ता विधिमन्यं यथावद्ब्रुवतः शृणु ||१७९||

हृद्विदाहे प्रसेके वा विरेकवमनं भृशम् |

यथावस्थं प्रयोक्तव्यं शुद्धे संसर्जनक्रमः ||१८०||

शिरोगते विषे नस्तः कुर्यान्मूलानि बुद्धिमान् |

बन्धुजीवस्य भार्ग्याश्च सुरसस्यासितस्य ||१८१||

दक्षकाकमयूराणां मांसासृङ्मस्तके क्षते |

उपधेयमधोदष्टस्योर्ध्वदष्टस्य पादयोः ||१८२||

पिप्पलीमरिचक्षारवचासैन्धवशिग्रुकाः |

पिष्टा रोहितपित्तेन घ्नन्त्यक्षिगतमञ्जनात् ||१८३||

कपित्थमामं ससिताक्षौद्रं कण्ठगते विषे |

लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात् ||१८४||

विषे पक्वाशयगते पिप्पलीं रजनीद्वयम् |

मञ्जिष्ठां समं पिष्ट्वा गोपित्तेन नरः पिबेत् ||१८५||

रक्तं मांसं गोधायाः शुष्कं चूर्णीकृतं हितम् |

विषे रसगते पानं कपित्थरससंयुतम् ||१८६||

शेलोर्मूलत्वगग्राणि बादरौदुम्बराणि |

कटभ्याश्च पिबेद्रक्तगते,

मांसगते पिबेत् ||१८७||

सक्षौद्रं खदिरारिष्टं कौटजं मूलमम्भसा |

सर्वेषु बले द्वे तु मधूकं मधुकं नतम् ||१८८||

पिप्पलीं नागरं क्षारं नवनीतेन मूर्च्छितम् |

कफे भिषगुदीर्णे तु विदध्यात्प्रतिसारणम् ||१८९||

मांसीकुङ्कुमपत्रत्वग्रजनीनतचन्दनैः |

मनःशिलाव्याघ्रनखसुरसैरम्बुपेषितैः ||१९०||

पाननस्याञ्जनालेपाः सर्वशोथविषापहाः |

चन्दनं तगरं कुष्ठं हरिद्रे द्वे त्वगेव ||१९१||

मनःशिला तमालश्च रसः कैशर एव |

शार्दूलस्य नखश्चैव सुपिष्टं तण्डुलाम्बुना ||१९२||

हन्ति सर्वविषाण्येव वज्रिवज्रमिवासुरान् |

रसे शिरीषपुष्पस्य सप्ताहं मरिचं सितम् ||१९३||

भावितं सर्पदष्टानां नस्यपानाञ्जने हितम् |

द्विपलं नतकुष्ठाभ्यां घृतक्षौद्रचतुष्पलम् ||१९४||

अपि तक्षकदष्टानां पानमेतत् सुखप्रदम् |

सिन्धुवारस्य मूलं श्वेता गिरिकर्णिका ||१९५||

पानं दर्वीकरैर्दष्टे नस्यं समधु पाकलम् |

मञ्जिष्ठा मधुयष्टी जीवकर्षभकौ सिता ||१९६||

काश्मर्यं वटशुङ्गानि पानं मण्डलिनां विषे |

व्योषं सातिविषं कुष्ठं गृहधूमो हरेणुका ||१९७||

तगरं कटुका क्षौद्रं हन्ति राजीमतां विषम् |

गृहधूमं हरिद्रे द्वे समूलं तण्डुलीयकम् ||१९८||

अपि वासुकिना दष्टः पिबेन्मधुघृताप्लुतम् |१९९|

क्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः ||१९९||

मुक्तालेपो वरः शोथदाहतोदज्वरापहः |

चन्दनं पद्मकोशीरं शिरीषः सिन्धुवारिका ||२००||

क्षीरशुक्ला नतं कुष्ठं पाटलोदीच्यसारिवाः |

शेलुस्वरसपिष्टोऽयं लूतानां सार्वकार्मिकः ||२०१||

(यथायोगं प्रयोक्तव्यः समीक्ष्यालेपनादिषु) |

मधूकं मधुकं कुष्ठं शिरीषोदीच्यपाटलाः |

सनिम्बसारिवाक्षौद्राः पानं लूताविषापहम् ||२०२||

कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट् |

दन्ती त्रिवृत्सैन्धवं कर्णिकापातनं तयोः ||२०३||

कटभ्यर्जुनशैरीषशेलुक्षीरिद्रुमत्वचः |

कषायकल्कचूर्णाः स्युः कीटलूताव्रणापहाः ||२०४||

त्वचं नागरं चैव समांशं श्लक्ष्णपेषितम् |

पेयमुष्णाम्बुना सर्वं मूषिकाणां विषापहम् ||२०५||

कुटजस्य फलं पिष्टं तगरं जालमालिनी |

तिक्तेक्ष्वाकुश्च योगोऽयं पानप्रधमनादिभिः ||२०६||

वृश्चिकोन्दुरुलूतानां सर्पाणां विषं हरेत् |

समानो ह्यमृतेनायं गराजीर्णं नाशयेत् ||२०७||

सर्वेऽगदा यथादोषं प्रयोज्याः स्युः कृकण्टके |

कपोतविण्मातुलुङ्गं शिरीषकुसुमाद्रसः ||२०८||

शङ्खिन्यार्कं पयः शुण्ठी करञ्जो मधु वार्श्चिके |

शिरीषस्य फलं पिष्टं स्नुहीक्षीरेण दार्दुरे ||२०९||

मूलानि श्वेतभण्डीनां व्योषं सर्पिश्च मत्स्यजे |

कीटदष्टक्रियाः सर्वाः समानाः स्युर्जलौकसाम् ||२१०||

वातपित्तहरी चापि क्रिया प्रायः प्रशस्यते |

वार्श्चिको ह्युच्चिटिङ्गस्य कणभस्यौन्दुरोऽगदः ||२११||

वचां वंशत्वचं पाठां नतं सुरसमञ्जरीम् |

द्वे बले नाकुलीं कुष्ठं शिरीषं रजनीद्वयम् ||२१२||

गुहामतिगुहां श्वेतामजगन्धां शिलाजतु |

कत्तृणं कटभीं क्षारं गृहधूमं मनःशिलाम् ||२१३||

रोहीतकस्य पित्तेन पिष्ट्वा तु परमोऽगदः |

नस्याञ्जनादिलेपेषु हितो विश्वम्भरादिषु ||२१४||

स्वर्जिकाऽजशकृत्क्षारः सुरसाऽथाक्षिपीडकः |

मदिरामण्डसंयुक्तो हितः शतपदीविषे ||२१५||

कपित्थमक्षिपीडोऽर्कबीजं त्रिकटुकं तथा |

करञ्जो द्वे हरिद्रे गृहगोधाविषं जयेत् ||२१६||

काकाण्डरससंयुक्तो विषाणां तण्डुलीयकः |

प्रधानो बर्हिपित्तेन तद्वद्वायसपीलुकः ||२१७||

शिरीषफलमूलत्वक्पुष्पपत्रैः समैर्धृतैः |

श्रेष्ठः पञ्चशिरीषोऽयं विषाणां प्रवरो वधे ||२१८||

इति पञ्चशिरीषोऽगदः |

चतुष्पद्भिर्द्विपद्भिर्वा नखदन्तक्षतं तु यत् |

शूयते पच्यते चापि स्रवति ज्वरयत्यपि ||२१९||

सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपद्यपि |

रजन्यौ गैरिकं लेपो नखदन्तविषापहः ||२२०||

दुरन्धकारे विद्धस्य केनचिद्विषशङ्कया |

विषोद्वेगाज्ज्वरशछर्दिर्मूर्च्छा दाहोऽपि वा भवेत् ||२२१||

ग्लानिर्मोहोऽतिसारश्चाप्येतच्छङ्काविषं मतम् |

चिकित्सितमिदं तस्य कुर्यादाश्वासयन् बुधः ||२२२||

सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु |

पानं समन्त्रपूताम्बु प्रोक्षणं सान्त्वहर्षणम् ||२२३||

शालयः षष्टिकाश्चैव कोरदूषाः प्रियङ्गवः |

भोजनार्थे प्रशस्यन्ते लवणार्थे सैन्धवम् ||२२४||

तण्डुलीयकजीवन्तीवार्ताकसुनिषण्णकाः |

चुच्चूर्मण्डूकपर्णी शाकं कुलकं हितम् ||२२५||

धात्री दाडिममम्लार्थे यूषा मुद्गहरेणुभिः |

रसाश्चैणशिखिश्वाविल्लावतैत्तिरपार्षताः ||२२६||

विषघ्नौषधसंयुक्ता रसा यूषाश्च संस्कृताः |

अविदाहीनि चान्नानि विषार्तानां भिषग्जितम् ||२२७||

विरुद्धाध्यशनक्रोधक्षुद्भयायासमैथुनम् |

वर्जयेद्विषमुक्तोऽपि दिवास्वप्नं विशेषतः ||२२८||

मुहुर्मुहुः शिरोन्यासः शोथः स्रस्तौष्ठकर्णाता |

ज्वरः स्तब्धाक्षिगात्रत्वं हनुकम्पोऽङ्गमर्दनम् ||२२९||

रोमापगमनं ग्लानिररतिर्वेपथुर्भ्रमः |

चतुष्पदां भवत्येतद्दष्टानामिह लक्षणम् ||२३०||

देवदारु हरिद्रे द्वे सरलं चन्दनागुरु |

रास्ना गोरोचनाऽजाजी गुग्गुल्विक्षुरसो नतम् ||२३१||

चूर्णं ससैन्धवानन्तं गोपित्तमधुसंयुतम् |

चतुष्पदानां दष्टानामगदः सार्वकार्मिकः ||२३२||

सौभाग्यार्थं स्त्रियः स्वेदरजोनानाङ्गजान्मलान् |

शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान् ||२३३||

तैः स्यात् पाण्डुः कृशोऽल्पाग्निर्गरश्चास्योपजायते |

मर्मप्रधमनाध्मानं श्वयथुं हस्तपादयोः ||२३४||

जठरं ग्रहणीदोषो यक्ष्मा गुल्मः क्षयो ज्वरः |

एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत् ||२३५||

स्वप्ने मार्जारगोमायुव्यालान् सनकुलान् कपीन् |

प्रायः पश्यति नद्यादीञ्छुष्कांश्च सवनस्पतीन् ||२३६||

कालश्च गौरमात्मानं स्वप्ने गौरश्च कालकम् |

विकर्णनासिकं वाऽपि प्रपश्येद्विहतेन्द्रियः ||२३७||

तमवेक्ष्य भिषक् प्राज्ञाः पृच्छेत् किं कैः कदा सह |

जग्धमित्यवगम्याशु प्रदद्याद्वमनं भिषक् ||२३८||

सूक्ष्मं ताम्ररजस्तस्मै सक्षौद्रं हृद्विशोधनम् |

शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत् ||२३९||

हेम सर्वविषाण्याशु गरांश्च विनियच्छति |

सज्जते हेमपाङ्गे विषं पद्मदलेऽम्बुवत् ||२४०||

नागदन्तीत्रिवृद्दन्तीद्रवन्तीस्नुक्पयःफलैः |

साधितं माहिषं सर्पिः सगोमूत्राढकं हितम् ||२४१||

सर्पकीटविषार्तानां गरार्तानां शान्तये |२४२|

शिरीषत्वक् त्रिकटुकं त्रिफलां चन्दनोत्पले ||२४२||

द्वे बले सारिवास्फोतासुरभीनिम्बपाटलाः |

बन्धुजीवाढकीमूर्वावासासुरसवत्सकान् ||२४३||

पाठाङ्कोलाश्वगन्धार्कमूलयष्ट्याह्वपद्मकान् |

विशालां बृहतीं लाक्षां कोविदारं शतावरीम् ||२४४||

कटभीदन्त्यपामार्गान् पृश्निपर्णीं रसाञ्जनम् |

श्वेतभण्डाश्वखुरकौ कुष्ठदारुप्रियङ्गुकान् ||२४५||

विदारीं मधुकात् सारं करञ्जस्य फलत्वचौ |

रजन्यौ लोध्रमक्षांशं पिष्ट्वा साध्यं घृताढकम् ||२४६||

तुल्याम्बुच्छागगोमूत्रत्र्याढके तद्विषापहम् |

अपस्मारक्षयोन्मादभूतग्रहगरोदरम् ||२४७||

पाण्डुरोगक्रिमीगुल्मप्लीहोरुस्तम्भकामलाः |

हनुस्कन्धग्रहादींश्च पानाभ्यञ्जननावनैः ||२४८||

हन्यात् सञ्जीवयेच्चापि विबोद्बन्धमृतान्नरान् |

नाम्नेदममृतं सर्वविषाणां स्याद्धृतोत्तमम् ||२४९||

इत्यमृतघृतम् |

भवन्ति चात्र-

छत्री झर्झरपाणिश्च चरेद्रात्रौ तथा दिवा |

तच्छायाशब्दवित्रस्ताः प्रणश्यन्त्याशु पन्नगाः ||२५०||

दष्टमात्रो दशेदाशु तं सर्पं लोष्टमेव वा |

उपर्यरिष्टां बध्नीयाद्दंशं छिन्द्याद्दहेत्तथा ||२५१||

वज्रं मरकतः सारः पिचुको विषमूषिका |

कर्केतनः सर्पमणिर्वैदूर्यं गजमौक्तिकम् ||२५२||

धार्यं गरमणिर्याश्च वरौषध्यो विषापहाः |

खगाश्च शारिकाक्रौञ्चशिखिहंसशुकादयः ||२५३||

तत्र श्लोकः-

इतीदमुक्तं द्विविधस्य विस्तरैर्बहुप्रकारं विषरोगभेषजम् |

अधीत्य विज्ञाय तथा प्रयोजयन् व्रजेद्विषाणामविषह्यतां बुधः ||२५४||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने

विषचिकित्सितं नाम त्रयोविंशोऽध्या यः ||२३||

 

Post a Comment

0 Comments