For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातस्तृष्णाचिकित्सितं व्याख्यास्यामः ||१||
इति ह स्माह à¤à¤—वानात्रेयः ||२||
ज्ञानप्रशमतपोà¤िः ख्यातोऽत्रिसुतो जगद्धितेऽà¤िरतः |
तृष्णानां प्रशमार्थं चिकित्सितं प्राह पञ्चानाम् ||३||
क्षोà¤ाद्à¤à¤¯ाच्छ्रमादपि शोकात्क्रोधाद्विलङ्घनान्मद्यात् |
क्षाराम्ललवणकटुकोष्णरूक्षशुष्कान्नसेवाà¤िः ||४||
धातुक्षयगदकर्षणवमनाद्यतियोगसूर्यसन्तापैः |
पित्तानिलौ प्रवृद्धौ सौम्यान्धातूंश्च शोषयतः ||५||
रसवाहिनीश्च नालीर्जिह्वामूलगलतालुकक्लोम्नः |
संशोष्य नृणां देहे कुरुतस्तृष्णां महाबलावेतौ ||६||
पीतं पीतं हि जलं शोषयतस्तावतो न याति शमम् |
घोरव्याधिकृशानां प्रà¤à¤µà¤¤्युपसर्गà¤ूता सा ||à¥||
प्राग्रूपं मुखशोषः,
स्वलक्षणं सर्वदाऽम्बुकामित्वम् |
तृष्णानां सर्वासां लिङ्गानां लाघवमपायः ||८||
मुखशोषस्वरà¤ेदà¤्रमसन्तापप्रलापसंस्तम्à¤ान् |
ताल्वोष्ठकण्ठजिह्वाकर्कशतां चित्तनाशं च ||९||
जिह्वानिर्गममरुचिं बाधिर्यं मर्मदूयनं सादम् |
तृष्णोद्à¤ूता कुरुते,
पञ्चविधां लिङ्गतः शृणु ताम् ||१०||
अब्धातुं देहस्थं कुपितः पवनो यदा विशोषयति |
तस्मिञ्शुष्के शुष्यत्यबलस्तृष्यत्यथ विशुष्यन् ||११||
पित्तं मतमाग्नेयं कुपितं चेत्तापयत्यपां धातुम् |
सन्तप्तः स हि जनयेत्तृष्णां दाहोल्बणां नॄणाम् ||१३||
तिक्तास्यत्वं शिरसो दाहः शीताà¤िनन्दता मूर्च्छा |
पीताक्षिमूत्रवर्चस्त्वमाकृतिः पित्ततृष्णायाः ||१४||
तृष्णा याऽऽमप्रà¤à¤µा साऽप्याग्नेयाऽऽमपित्तजनितत्वात् |
लिङ्गं तस्याश्चारुचिराध्मानकफप्रसेकौ च ||१५||
देहो रसजोऽम्बुà¤à¤µो रसश्च तस्य क्षयाच्च तृष्येद्धि |
दीनस्वरः प्रताम्यन् संशुष्कहृदयगलतालुः ||१६||
à¤à¤µà¤¤ि खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा |
ज्वरमेहक्षयशोषश्वासाद्युपसृष्टदेहानाम् ||१à¥||
सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम् |
घोरोपद्रवयुक्तास्तृणा मरणाय विज्ञेयाः ||१८||
नाग्निं विना हि तर्षः पवनाद्वा तौ हि शोषणे हेतू |
अब्धातोरतिवृद्धावपां क्षये तृष्यते नरो हि ||१९||
गुर्वन्नपयःस्नेहैः सम्मूर्च्छद्à¤िर्विदाहकाले च |
यस्तृष्येद्वृतमार्गे तत्राप्यनिलानलौ हेतू ||२०||
तीक्ष्णोष्णरूक्षà¤ावान्मद्यं पित्तानिलौ प्रकोपयति |
शोषयतोऽपां धातुं तावेव हि मद्यशीलानाम् ||२१||
तप्तास्विव सिकतासु हि तोयमाशु शुष्यति क्षिप्तम् |
तेषां सन्तप्तानां हिमजलपानाद्à¤à¤µà¤¤ि शर्म ||२२||
शिशिरस्नातस्योष्मा रुद्धः कोष्ठं प्रपद्य तर्षयति |
तस्मान्नोष्णक्लान्तो à¤à¤œेत सहसा जलं शीतम् ||२३||
लिङ्गं सर्वास्वेतास्वनिलक्षयपित्तजं à¤à¤µà¤¤्यथ तु |
पृथगागमाच्चिकित्सितमतः प्रवक्ष्यामि तृष्णानाम् ||२४||
अपां क्षयाद्धि तृष्णा संशोष्य नरं प्रणाशयेदाशु |
तस्मादैन्द्रं तोयं समधु पिबेत्तद्गुणं वाऽन्यत् ||२५||
किञ्चित्तुवरानुरसं तनु लघु शीतलं सुगन्धि सुरसं च |
अनà¤िष्यन्दि च यत्तत्क्षितिगतमप्यैन्द्रवज्ज्ञेयम् ||२६||
शृतशीतं ससितोपलमथवा शरपूर्वपञ्चमूलेन |
लाजासक्तुसिताह्वामधुयुतमैन्द्रेण वा मन्थम् ||२à¥||
वाट्यं वाऽऽमयवानां शीतं मधुशर्करायुतं दद्यात् |
पेयां वा शालीनां दद्याद्वा कोरदूषाणाम् ||२८||
पयसा शृतेन à¤ोजनमथवा मधुशर्करायुतं योज्यम् |
पारावतादिकरसैर्घृतà¤ृष्टैर्वाऽप्यलवणाम्लैः ||२९||
तृणपञ्चमूलमुञ्जातकैः प्रियालैश्च जाङ्गलाः सुकृताः |
शस्ता रसाः पयो वा तैः सिद्धं शर्करामधुमत् ||३०||
शतधौतघृतेनाक्तः पयः पिबेच्छीततोयमवगाह्य |
मुद्गमसूरचणकजा रसास्तु à¤ृष्टा घृते देयाः ||३१||
मधुरैः सजीवनीयैः शीतैश्च सतिक्तकैः शृतं क्षीरम् |
पानाà¤्यञ्जनसेकेष्विष्टं मधुशर्करायुक्तम् ||३२||
तज्जं वा घृतमिष्टं पानाà¤्यङ्गेषु नस्यमपि च स्यात् |
नारीपयः सशर्करमुष्ट्र्या अपि नस्यमिक्षुरसः ||३३||
क्षीरेक्षुरसगुडोदकसितोपलाक्षौद्रसीधुमार्द्वीकैः |
वृक्षाम्लमातुलुङ्गैर्गण्डूषास्तालुशोषघ्नाः ||३४||
जम्ब्वाम्रातकबदरीवेतसपञ्चवल्कपञ्चाम्लैः |
हृन्मुखशिरःप्रदेहाःसघृता मूर्च्छाà¤्रमतृष्णाघ्नाः स्युः ||३५||
दाडिमदधित्थलोध्रैः सविदारीबीजपूरकैः शिरसः |
लेपो गौरामलकैर्घृतारनालायुतैश्च हितः ||३६||
शैवलपङ्काम्बुरुहैः साम्लैः सघृतैश्च शक्तुà¤िर्लेपः |
मस्त्वारनालार्द्रवसनकमलमणिहारसंस्पर्शाः ||३à¥||
शिशिराम्बुचन्दनार्द्रस्तनतटपाणितलगात्रसंस्पर्शाः |
क्षौमार्द्रनिवसनानां वराङ्गनानां प्रियाणां च ||३८||
हिमवद्दरीवनसरित्सरोऽम्बुजपवनेन्दुपादशिशिराणाम् |
रम्यशिशिरोदकानां स्मरणं कथाश्च तृष्णाघ्नाः ||३९||
वातघ्नमन्नपानं मृदु लघु शीतं च वाततृष्णायाम् |
क्षयकासनुच्छृतं क्षीरघृतमूर्ध्ववाततृष्णाघ्नम् ||४०||
स्याज्जीवनीयसिद्धं क्षीरघृतं वातपित्तजे तर्ष |४१|
पैत्ते द्राक्षाचन्दनखर्जूरोशीरमधुयुतं तोयम् ||४१||
लोहितशालितण्डुलखर्जूरपरूषकोत्पलद्राक्षाः |
मधु पक्वलोष्टमेव च जले स्थितं शीतलं पेयम् ||४२||
लोहितशालिप्रस्थः सलोध्रमधुकाञ्जनोत्पलः क्षुण्णः |
पक्वामलोष्टजलमधुसमायुतो मृन्मये पेयः ||४३||
वटमातुलुङ्गवेतसपल्लवकुशकाशमूलयष्ट्याह्वैः |
सिद्धेऽम्à¤à¤¸्यग्निनिà¤ां कृष्णमृदं कृष्णसिकतां वा ||४४||
तत्पानि नवकपालान्यथवा निर्वाप्य पाययेताच्छम् |
आपाकशर्करं वाऽमृतवल्ल्युदकं तृषां हन्ति ||४५||
क्षीरवतां मधुराणां शीतानां शर्करामधुविमिश्राः |
शीतकषाया मृद्à¤ृष्टसंयुताः पित्ततृष्णाघ्नाः ||४६||
व्योषवचाà¤à¤²्लातकतिक्तकषायास्तथाऽऽमतृष्णाघ्नाः |
यच्चोक्तं कफजायां वम्यां तच्चैव कार्यं स्यात् ||४à¥||
स्तम्à¤ारुच्यविपाकालस्यच्छर्दिषु कफानुगां तृष्णाम् |
ज्ञात्वा दधिमधुतर्पणलवणोष्णजलैर्वमनमिष्टम् ||४८||
दाडिममम्लफलं वाऽप्यन्यत् सकषायमथ लेहम् |
पेयमथवा प्रदद्याद्रजनीशर्करायुक्तम् ||४९||
क्षयकासेन तु तुल्या क्षयतृष्णा सा गरीयसी नॄणाम् |
क्षीणक्षतशोषहितैस्तस्मात्तां à¤ेषजैः शमयेत् ||५०||
पानतृषार्तः पानं त्वर्धोदकमम्ललवणगन्धाढ्यम् |
शिशिरस्नातः पानं मद्याम्बु गुडाम्बु वा तृषितः ||५१||
à¤à¤•्तोपरोधतृषितः स्नेहतृषार्तोऽथवा तनुयवागूम् |
प्रपिबेद्गुरुणा तृषितो à¤ुक्तेन तदुद्धरेद्à¤ुक्तम् ||५२||
मद्याम्बु वाऽम्बु कोष्णं बलवांस्तृषितः समुल्लिखेत् पीत्वा |
मागधिकाविशदमुखः सशर्करं वा पिबेन्मन्थम् ||५३||
बलवांस्तु तालुशोषे पिबेद्धृतं तृष्यमद्याच्च |
सर्पिर्à¤ृष्टं क्षीरं मांसरसांश्चाबलः स्निग्धान् ||५४||
अतिरूक्षदुर्बलानां तर्षं शमयेन्नृणामिहाशु पयः |
छागो वा घृतà¤ृष्टः शीतो मधुरो रसो हृद्यः ||५५||
स्निग्धेऽन्ने à¤ुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत् |
तर्षं मूर्च्छाà¤िहतस्य रक्तपित्तापहैर्हन्यात् ||५६||
तृट्दाहमूर्च्छाà¤्रमक्लममदात्ययास्रविषपित्ते |
शस्तं स्वà¤ावशीतं,
शृतशीतं सन्निपातेऽम्à¤ः ||५à¥||
हिक्काश्वासनवज्वरपीनसघृतपीतपार्श्वगलरोगे |
कफवातकृते स्त्याने सद्यःशुद्धे च हितमुष्णम् ||५८||
पाण्डूदरपीनसमेहगुल्ममन्दानलातिसारेषु |
प्लीह्नि च तोयं न हितं काममसह्ये पिबेदल्पम् ||५९||
पूर्वामयातुरः सन् दीनस्तृष्णार्दितो जलं काङ्क्षन् |
न लà¤ेत स चेन्मरणमाश्वेवाप्नुयाद्दीर्घरोगं वा ||६०||
तस्माद्धान्याम्बु पिबेत्तृष्यन् रोगी सशर्कराक्षौद्रम् |
यद्वा तस्यान्यत्स्यात् सात्म्यं रोगस्य तच्चेष्टम् ||६१||
तस्यां विनिवृत्तायां तज्जन्य उपद्रवः सुखं जेतुम् |
तस्मात्तृष्णां पूर्वं जयेद्बहुà¤्योऽपि रोगेà¤्यः ||६२||
तत्र श्लोकः-
हेतू यथाऽग्निपवनौ कुरुतः सोपद्रवां च पञ्चानाम् |
तृष्णानां पृथगाकृतिरसाध्यता साधनं चोक्तम् ||६३||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने तृष्णारोगचिकित्सितं नाम द्वाविंशोऽध्यायः ||२२||
0 Comments