Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 1.4 Ayurved sammuthaniyam Rasayanpadam








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः साम्पन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः|

ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यमसुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिन्नरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिशिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः||||

तानिन्द्रःसहस्रदृगमरगुरुरब्रवीत्- स्वागतं ब्रह्मविदांज्ञानतपोधनानां ब्रह्मर्षीणाम्| अस्ति ननु वो ग्लानिरप्रभावत्वं वैस्वर्यं वैवर्ण्यं ग्राम्यवासकृतमसुखमसुखानुबन्धं ; ग्राम्यो हि वासो मूलमशस्तानां, तत् कृतः पुण्यकृद्भिरनुग्रहः प्रजानां, स्वशरीरमवेक्षितुं कालःकालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम्; आत्मनः प्रजानां चानुग्रहार्थमायुर्वेदमश्विनौ मह्यं प्रायच्छतां, प्रजापतिरश्विभ्यां, प्रजापतये ब्रह्मा, प्रजानामल्पमायुर्जराव्याधिबहुलमसुखमसुखानुबन्धमल्पत्वादल्पतपोदमनियमदानाध्ययनसञ्चयंमत्वा पुण्यतममायुःप्रकर्षकरं जराव्याधिप्रशमनमूर्जस्करममृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशयितुं प्रजानुग्रहार्थमार्षं ब्रह्म प्रति मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति||||

तच्छ्रुत्वा विबुधपतिवचनमृषयः सर्व एवामरवरमृग्भिस्तुष्टुवुः, प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति||||

अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः -सङ्क्रम्योवाच- एतत् सर्वमनुष्ठेयम्, अयं शिवः कालो रसायनानां, दिव्याश्चौषधयो हिमवत्प्रभवाः [] प्राप्तवीर्याः; तद्यथा- ऐन्द्री, ब्राह्मी, पयस्या, क्षीरपुष्पी, श्रावणी, महाश्रावणी, शतावरी, विदारी, जीवन्ती, पुनर्नवा, नागबला, स्थिरा, वचा, छत्रा, अतिच्छत्रा, मेदा, महामेदा, जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसम्पदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धाः||||

(इतीन्द्रोक्तं रसायनम्)|

ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा, आदित्यपर्णी नामौषधिर्या सूर्यकान्ताइति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पाच, नारीनामौषधिःअश्वबलाइति विज्ञायते या बल्वजसदृशपत्रा काष्ठगोधा नामौषधिर्गोधाकारा, सर्पानामौषधिः सर्पाकारा, सोमो नामौषधिराजः पञ्चदशपर्वा सोम इव हीयते वर्धते , पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धाच, अजा नामौषधिः अजशृङ्गीइति विज्ञायते, नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति; आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत, तत्र प्रलीयते, षण्मासेन पुनः सम्भवति, तस्याजं पयः प्रत्यवस्थापनं; षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः, स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति, दिव्यं चास्य चक्षुः श्रोत्रं भवति, गतिर्योजनसहस्रं दशवर्षसहस्राण्यायुरनुपद्रवं चेति||||

भवन्ति चात्र-

दिव्यानामोषधीनां यः प्रभावः भवद्विधैः|

शक्यः सोढुमशक्यस्तु स्यात् सोढुमकृतात्मभिः||||

ओषधीनां प्रभावेण तिष्ठतां स्वे कर्मणि|

भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते||||

वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः|

शक्या ओषधयो ह्येताः सेवितुं विषयाभिजाः||१०||

यास्तु क्षेत्रगुणैस्तेषां मध्यमेन कर्मणा|

मृदुवीर्यतरास्तासां विधिर्ज्ञेयः एव तु||११||

पर्येष्टुं ताः प्रयोक्तुं वा येऽसमर्थाः सुखार्थिनः|

रसायनविधिस्तेषामयमन्यः प्रशस्यते||१२||

बल्यानां जीवनीयानां बृंहणीयाश्च या दश|

वयसः स्थापनानां खदिरस्यासनस्य ||१३||

खर्जूराणां मधूकानां मुस्तानामुत्पलस्य |

मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य ||१४||

शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य |

ऋध्द्या नागबलायाश्च द्वारदाया धवस्य ||१५||

त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य |

इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य ||१६||

रसाः पृथक् पृथग्ग्राह्याः पलाशक्षार एव |

एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम्||१७||

द्वे पात्रे तिलतैलस्य द्वे गव्यस्य सर्पिषः|

तत् साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत्||१८||

तत्रामलकचूर्णानामाढकं शतभावितम् |

स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य ||१९||

शर्कराचूर्णपात्रं प्रस्थमेकं प्रदापयेत्|

तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं सम्मूर्च्छितं तत्||२०||

सुचौक्षे मार्तिके कुम्भे मासार्धं घृतभाविते|

मात्रामग्निसमां तस्य तत ऊर्ध्वं प्रयोजयेत्||२१||

हेमताम्रप्रवालानामयसः स्फटिकस्य |

मुक्तावैदूर्यशङ्खानां चूर्णानां रजतस्य ||२२||

प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम्|

जीर्णे जीर्णे भुञ्जीत षष्टिकं क्षीरसर्पिषा||२३||

सर्वरोगप्रशमनं वृष्यमायुष्यमुत्तमम्|

सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम्||२४||

परमूर्जस्करं चैव वर्णस्वरकरं तथा|

विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम्||२५||

सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं यशश्च लोके|

प्रयोज्यमिच्छद्भिरिदं यथावद्रसायनं ब्राह्ममुदारवीर्यम्||२६||

(इतीन्द्रोक्तरसायनमपरम्)|

समर्थानामरोगाणां धीमतां नियतात्मनाम्|

कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः||२७||

अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः|

तयोः श्रेष्ठतरः पूर्वो विधिः सतुसुदुष्करः||२८||

रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि|

यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम्||२९||

सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात्|

अहिंसकमनायासं प्रशान्तं प्रियवादिनम्||३०||

जपशौचपरं धीरं दाननित्यं तपस्विनम्|

देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम्||३१||

आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम् |

समजागरणस्वप्नं नित्यं क्षीरघृताशिनम्||३२||

देशकालप्रमाणज्ञं युक्तिज्ञमनहङ्कृतम्|

शस्ताचारमसङ्कीर्णमध्यात्मप्रवणेन्द्रियम्||३३||

उपासितारं वृद्धानामास्तिकानां जितात्मनाम्|

धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम्||३४||

गुणैरेतैः समुदितैः प्रयुङ्क्ते यो रसायनम्|

रसायनगुणान् सर्वान् यथोक्तान् समश्नुते||३५||

(इत्याचाररसायनम्)|

यथास्थूलमनिर्वाह्य दोषाञ्छारीरमानसान्|

रसायनगुणैर्जन्तुर्युज्यते कदाचन||३६||

योगा ह्यायुःप्रकर्षार्था जरारोगनिबर्हणाः|

मनःशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम्||३७||

तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु|

अरुजेभ्योऽद्विजातिभ्यः शुश्रूषा येषु नास्ति ||३८||

ये रसायनसंयोगा वृष्ययोगाश्च ये मताः|

यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम्||३९||

प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम्|

अश्विनाविव देवेन्द्रः पूजयेदतिशक्तितः||४०||

अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ|

यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम्||४१||

प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य |

वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः||४२||

चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा|

सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी||४३||

भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः|

वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा||४४||

एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषगुत्तमौ|

बभूवतुर्भृशं पूज्याविन्द्रादीनांमहात्मनाम्||४५||

ग्रहाः स्तोत्राणि मन्त्राणि तथा नानाहवींषि |

धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः||४६||

प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते|

सौत्रामण्यां भगवानश्विभ्यां सह मोदते||४७||

इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः|

स्तूयन्ते वेदवाक्येषु तथाऽन्या हि देवताः||४८||

अजरैरमरैस्तावद्विबुधैः साधिपैर्ध्रुवैः|

पूज्येते प्रयतैरेवमश्विनौभिषजाविति||४९||

मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः|

किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः||५०||

शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः|

प्राणिभिर्गुरुवत् पूज्यः प्राणाचार्यः हि स्मृतः||५१||

विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते|

अश्नुते वैद्यशब्दं हि वैद्यः पूर्वजन्मना||५२||

विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा|

ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विजः स्मृतः||५३||

नाभिध्यायेन्न चाक्रोशेदहितं समाचरेत्|

प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनित्वरम्||५४||

चिकित्सितस्तु संश्रुत्य योवाऽसंश्रुत्य मानवः|

नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः||५५||

भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्|

आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम्||५६||

धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः|

प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षरम्||५७||

नार्थार्थं नापि कामार्थमथ भूतदयां प्रति|

वर्तते यश्चिकित्सायां सर्वमतिवर्तते||५८||

कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम्|

ते हित्वाकाञ्चनं राशिं पांशुराशिमुपासते||५९||

दारुणैः कृष्यमाणानां गदैर्वैवस्वतक्षयम्|

छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति||६०||

धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते|

हि जीवितदानाद्धि दानमन्यद्विशिष्यते||६१||

परो भूतदया धर्म इति मत्वा चिकित्सया|

वर्तते यः सिद्धार्थः सुखमत्यन्तमश्नुते||६२||

तत्र श्लोकौ-

आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम्|

अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम्||६३||

सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः|

आयुर्वेदसमुत्थाने तत् सर्वं सम्प्रकाशितम्||६४||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रसायनाध्याये आयुर्वेदसमुत्थानीयो नामरसायनपादश्चतुर्थः||||

Post a Comment

0 Comments