Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 19 atisaar chikitsa adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातोऽतीसारचिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

भगवन्तंखल्वात्रेयंकृताह्निकंहुताग्निहोत्रमासीनमृषिगणपरिवृतमुत्तरेहिमवतःपार्श्वेविनयादुपेत्याभिवाद्यचाग्निवेशउवाच- भगवन्! अतीसारस्यप्रागुत्पत्तिनिमित्तलक्षणोपशमनानिप्रजानुग्रहार्थमाख्यातुमर्हसीति ||||

अथभगवान्पुनर्वसुरात्रेयस्तदग्निवेशवचनमनुनिशम्योवाच- श्रूयतामग्निवेश! सर्वमेतदखिलेनव्याख्यायमानम् |
आदिकालेखलुयज्ञेषुपशवःसमालभनीयाबभूवुर्नालम्भायप्रक्रियन्तेस्म |
ततोदक्षयज्ञंप्रत्यवरकालंमनोःपुत्राणांनरिष्यन्नाभागेक्ष्वाकुनृगशर्यात्यादीनांक्रतुषुपशूनामेवाभ्यनुज्ञानात्पशवःप्रोक्षणमवापुः |
अतश्चप्रत्यवरकालंपृषध्रेणदीर्घसत्रेणयजतापशूनामलाभाद्गवामालम्भःप्रवर्तितः |
तंदृष्ट्वाप्रव्यथिताभूतगणाः, तेषांचोपयोगादुपाकृतानांगवांगौरवादौष्ण्यादसात्म्यत्वादशस्तोपयोगाच्चोपहताग्नीनामुपहतमनसां[]चातीसारःपूर्वमुत्पन्नःपृषध्रयज्ञे ||||

अथावरकालंवातलस्यवातातपव्यायामात्रनिषेविणोरूक्षाल्पप्रमिताशिनस्तीक्ष्णमद्यव्यवायनित्यस्योदावर्तयतश्चवेगान्वायुःप्रकोपमापद्यते, पक्ताचोपहन्यते; सवायुःकुपितोऽग्नावुपहतेमूत्रस्वेदौपुरीषाशयमुपहृत्य, ताभ्यांपुरीषंद्रवीकृत्य, अतीसारायप्रकल्पते |
तस्यरूपाणि- विज्जलमामंविप्लुतमवसादिरूक्षंद्रवंसशूलमामगन्धमीषच्छब्दमशब्दंवाविबद्धमूत्रवातमतिसार्यतेपुरीषं, वायुश्चान्तःकोष्ठेसशब्दशूलस्तिर्यक्चरतिविबद्धइत्यामातिसारोवातात् |
पक्वंवाविबद्धमल्पाल्पंसशब्दंसशूलफेनपिच्छापरिकर्तिकंहृष्टरोमाविनिःश्वसञ्शुष्कमुखःकट्यूरुत्रिकजानुपृष्ठपार्श्वशूलीभ्रष्टगुदोमुहुर्मुहुर्विग्रथितमुपवेश्यतेपुरीषंवातात्; तमाहुरनुग्रथितमित्येके, वातानुग्रथितवर्चस्त्वात् ||||

पित्तलस्यपुनरम्ललवणकटुकक्षारोष्णतीक्ष्णातिमात्रनिषेविणःप्रतताग्निसूर्यसन्तापोष्णमारुतोपहतगात्रस्यक्रोधेर्ष्याबहुलस्यपित्तंप्रकोपमापद्यते |
तत्प्रकुपितंद्रवत्वादूष्माणमुपहत्यपुरीषाशयविसृतमौष्ण्याद्द्रवत्वात्सरत्वाच्चभित्त्वापुरीषमतिसारायप्रकल्पते |
तस्यरूपाणि- हारिद्रंहरितंनीलंकृष्णंरक्तपित्तोपहितमतिदुर्गन्धमतिसार्यते[]पुरीषं, तृष्णादाह स्वेद मूर्च्छाशूलब्रध्नसन्तापपाकपरीतइतिपित्तातिसारः ||||

श्लेष्मलस्यतुगुरुमधुरशीतस्निग्धोपसेविनःसम्पूरकस्याचिन्तयतोदिवास्वप्नपरस्यालसस्यश्लेष्माप्रकोपमापद्यते |
सस्वभावाद्गुरुमधुरशीतस्निग्धःस्रस्तोऽग्निमुपहत्य सौम्यस्वभावात्पुरीषाशयमुपहत्यो पक्लेद्यपुरीषमतिसारायकल्पते |
तस्यरूपाणि- स्निग्धंश्वेतंपिच्छिलंतन्तुमदामंगुरुदुर्गन्धंश्लेष्मोपहितमनुबद्धशूलमल्पाल्पमभीक्ष्णमतिसार्यतेसप्रवाहिकं, गुरूदरगुदबस्तिवङ्क्षणदेशःकृतेऽप्यकृतसञ्ज्ञःसलोमहर्षःसोत्क्लेशोनिद्रालस्यपरीतःसदनोऽन्नद्वेषीचेतिश्लेष्मातिसारः ||||

अतिशीतस्निग्धरूक्षोष्णगुरुखरकठिनविषमविरुद्धासात्म्यभोजनादभोजनात्कालातीतभोजनाद्यत्किञ्चिदभ्यवहरणात्प्रदुष्टमद्यपानीयपानादतिमद्यपानादसंशोधनात्प्रतिकर्मणांविषमगमनादनुपचाराज्ज्वलनादित्यपवनसलिलातिसेवनादस्वप्ना- दतिस्वप्नाद्वेगविधारणादृतुविपर्ययादयथाबलमारम्भाद्भयशोकचित्तोद्वेगातियोगात्कृमिशोषज्वरार्शोविकारातिकर्षणाद्वाव्यापन्नाग्नेस्त्रयोदोषाःप्रकुपिताभूयएवाग्निमुपहत्यपक्वाशयमनुप्रविश्यातीसारंसर्वदोषलिङ्गंजनयन्ति ||||

अपिचशोणितादीन्धातूनतिप्रकृष्टं[]दूषयन्तोधातुदोषस्वभावकृतानतीसारवर्णानुपदर्शयन्ति |
तत्रशोणितादिषुधातुष्वतिप्रदुष्टेषुहारिद्रहरितनीलमाञ्जिष्ठमांसधावनसन्निकाशंरक्तंकृष्णंश्वेतंवराहभेदःसदृशमनुबद्धवेदनमवेदनंवासमासव्यत्यासादुपवेश्यतेशकृद्ग्रथितमामंसकृत्, सकृदपिपक्वमनतिक्षीणमांसशोणितबलोमन्दाग्निर्विहतमुखरसश्च; तादृशमातुरंकृच्छ्रसाध्यंविद्यात् |
एभिर्वर्णैरतिसार्यमाणंसोपद्रवमातुरमसाध्योऽयमितिप्रत्याचक्षीत; तद्यथा- पक्वशोणिताभं[]यकृत्खण्डोपमंमेदोमांसोदकसन्निकाशंदधिघृतमज्जतैलवसाक्षीरवेसवाराभमतिनीलमतिरक्तमतिकृष्णमुदकमिवाच्छंपुनर्मेचकाभमतिस्निग्धं हरितनीलकषायवर्णंकर्बुरमाविलंपिच्छिलंतन्तुमदामंचन्द्रकोपगतमतिकुणपपूतिपूयगन्ध्यामाममत्स्यगन्धिमक्षिकाकान्तं[]कुथितबहुधातुस्रावमल्पपुरीषमपुरीषंवाऽतिसार्यमाणं तृष्णादाहज्वरभ्रमतमकहिक्काश्वासानुबन्धमतिवेदनमवेदनंवास्रस्तपक्वगुदंपतितगुदवलिंमुक्तनालमतिक्षीणबलमांसशोणितं सर्वपर्वास्थिशूलिनमरोचकारतिप्रलापसम्मोहपरीतंसहसोपरतविकारमतिसारिणमचिकित्स्यंविद्यात्; इतिसन्निपातातिसारः ||||

तमसाध्यतामसम्प्राप्तंचिकित्सेद्यथाप्रधानोपक्रमेणहेतूपशयदोषविशेषपरीक्षयाचेति ||१०||

आगन्तूद्वावतीसारौमानसौभयशोकजौ |
तत्तयोर्लक्षणंवायोर्यदतीसारलक्षणम् ||११||

मारुतोभयशोकाभ्यांशीघ्रंहिपरिकुप्यति |
तयोःक्रियावातहरीहर्षणाश्वासनानिच ||१२||

इत्युक्ताःषडतीसाराः, साध्यानांसाधनंत्वतः |
प्रवक्ष्याम्यनुपूर्वेणयथावत्तन्निबोधत ||१३||

दोषाःसन्निचितायस्यविदग्धाहारमूर्च्छिताः |
अतीसारायकल्पन्तेभूयस्तान्सम्प्रवर्तयेत् ||१४||

नतुसङ्ग्रहणंदेयंपूर्वमामातिसारिणे |
विबध्यमानाःप्राग्दोषाजनयन्त्यामयान्बहून् ||१५||

दण्डकालसकाध्मानग्रहण्यर्शोगदांस्तथा |
शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान् ||१६||

तस्मादुपेक्षेतोत्क्लिष्टान्वर्तमानान्स्वयंमलान् |
कृच्छ्रंवावहतांदद्यादभयांसम्प्रवर्तिनीम् ||१७||

तयाप्रवाहितेदोषेप्रशाम्यत्युदरामयः |
जायतेदेहलघुताजठराग्निश्चवर्धते ||१८||

प्रमथ्यांमध्यदोषाणांदद्याद्दीपनपाचनीम् |
लङ्घनंचाल्पदोषाणांप्रशस्तमतिसारिणाम् ||१९||

पिप्पलीनागरंधान्यंभूतीकमभयावचा |
ह्रीवेरंभद्रमुस्तानिबिल्वंनागरधान्यकम् ||२०||

पृश्निपर्णीश्वदंष्ट्राचसमङ्गाकण्टकारिका |
तिस्रःप्रमथ्याविहिताःश्लोकार्धैरतिसारिणाम् ||२१||

वचाप्रतिविषाभ्यांवामुस्तपर्पटकेनवा |
ह्रीवेरशृङ्गवेराभ्यांपक्वंवापाययेज्जलम् ||२२||

युक्तेऽन्नकालेक्षुत्क्षामंलघून्यन्नानिभोजयेत् |
तथासशीघ्रमाप्नोतिरुचिमग्निबलंबलम् ||२३||

तक्रेणावन्तिसोमेनयवाग्वातर्पणेनवा |
सुरयामधुनाचादौयथासात्म्यमुपाचरेत् ||२४||

यवागूभिर्विलेपीभिःखडैर्यूषैरसौदनैः |
दीपनग्राहिसंयुक्तैःक्रमश्चस्यादतःपरम् ||२५||

शालपर्णींपृश्निपर्णींबृहतींकण्टकारिकाम् |
बलांश्वदंष्ट्रांबिल्वानिपाठांनागरधान्यकम् ||२६||

शटींपलाशंहपुषांवचांजीरकपिप्पलीम् |
यवानींपिप्पलीमूलंचित्रकंहस्तिपिप्पलीम् ||२७||

वृक्षाम्लंदाडिमाम्लंचसहिङ्गुबिडसैन्धवम् |
प्रयोजयेदन्नपानेविधिनासूपकल्पितम् ||२८||

वातश्लेष्महरोह्येषगणोदीपनपाचनः |
ग्राहीबल्योरोचनश्चतस्माच्छस्तोऽतिसारिणाम् ||२९||

आमेपरिणतेयस्तुविबद्धमतिसार्यते |
सशूलपिच्छमल्पाल्पंबहुशःसप्रवाहिकम् ||३०||

यूषेणमूलकानांतंबदराणामथापिवा |
उपोदिकायाःक्षीरिण्यायवान्यावास्तुकस्यवा ||३१||

सुवर्चलायाश्चञ्चोर्वाशाकेनावल्गुजस्यवा |
शट्याःकर्कारुकाणांवाजीवन्त्याश्चिर्भटस्यवा ||३२||

लोणिकायाःसपाठायाःशुष्कशाकेनवापुनः |
दधिदाडिमसिद्धेनबहुस्नेहेनभोजयेत् ||३३||

कल्कःस्याद्बालबिल्वानांतिलकल्कश्चतत्समः |
दध्नःसरोऽम्लस्नेहाद्यःखडोहन्यात्प्रवाहिकाम् ||३४||

यवानांमुद्गमाषाणांशालीनांचतिलस्यच |
कोलानांबालबिल्वानांधान्ययूषंप्रकल्पयेत् ||३५||

ऐकध्यंयमकेभृष्टंदधिदाडिमसारिकम् |
वर्चःक्षयेशुष्कमुखंशाल्यन्नंतेनभोजयेत् ||३६||

दध्नःसरंवायमकेभृष्टंसगुडनागरम् |
सुरांवायमकेभृष्टांव्यञ्जनार्थेप्रदापयेत् ||३७||

फलाम्लंयमकेभृष्टंयूषंगृञ्जनकस्यवा |
लोपाकरसमम्लंवास्निग्धाम्लंकच्छपस्यवा ||३८||

बर्हितित्तिरिदक्षाणांवर्तकानांतथारसाः |
स्निग्धाम्लाःशालयश्चाग्र्यावर्चःक्षयरुजापहाः ||३९||

अन्तराधिरसंपूत्वारक्तंमेषस्यचोभयम् |
पचेद्दाडिमसाराम्लंसधान्यस्नेहनागरम् ||४०||

ओदनं[]रक्तशालीनांतेनाद्यात्प्रपिबेच्चतत् |
तथावर्चःक्षयकृतैर्व्याधिभिर्विप्रमुच्यते ||४१||

गुदनिःसरणेशूलेपानमम्लस्यसर्पिषः |
प्रशस्यतेनिरामाणामथवाऽप्यनुवासनम् ||४२||

चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम् |
घृतमुत्क्वथितंपेयंगुदभ्रंशरुजापहम् ||४३||
इतिचाङ्गेरीघृतम् |

सचव्यपिप्पलीमूलंसव्योषविडदाडिमम् |
पेयमम्लंघृतंयुक्त्यासधान्याजाजिचित्रकम् ||४४||

इतिगुदभ्रंशेचव्यादिघृतम् |

दशमूलोपसिद्धंवासबिल्वमनुवासनम् |
शटीशताह्वाबिल्वैर्वावचयाचित्रकेणवा ||४५||

इतिगुदभ्रंशेऽनुवासनम्

स्तब्धभ्रष्टगुदेपूर्वंस्नेहस्वेदौप्रयोजयेत् |
सुस्विन्नंतंमृदूभूतंपिचुनासम्प्रवेशयेत् ||४६||

विबद्धवातवर्चास्तुबहुशूलप्रवाहिकः |
सरक्तपिच्छस्तृष्णार्तःक्षीरसौहित्यमर्हति ||४७||

यमकस्योपरिक्षीरंधारोष्णंवापिबेन्नरः |
शृतमेरण्डमूलेनबालबिल्वेनवापयः[] ||४८||

एवंक्षीरप्रयोगेणरक्तंपिच्छाचशाम्यति |
शूलंप्रवाहिकाचैवविबन्धश्चोपशाम्यति ||४९||

पित्तातिसारंपुनर्निदानोपशयाकृतिभिरामान्वयमुपलभ्ययथाबलंलङ्घनपाचनाभ्यामुपाचरेत् |
तृष्यतस्तुमुस्तपर्पटकोशीरसारिवाचन्दनकिराततिक्तकोदीच्यवारिभिरुपचारः |
लङ्घितस्यचाहारकालेबलातिबलासूर्पपर्णीशालपर्णीपृश्निपर्णीबृहतीकण्टकारिकाशतावरीश्वदंष्ट्रानिर्यूहसंयुक्तेनयथासात्म्यंयवागूमण्डादिनातर्पणादिनावाक्रमेणोपचारः |
मुद्गमसूरहरेणुमकुष्ठकाढकीयूषैर्वालावकपिञ्जलशशहरिणैणकालपुच्छकरसैरीषदम्लैरनम्लैर्वाक्रमशोऽग्निंसन्धुक्षयेत् |
अनुबन्धेत्वस्यदीपनीयपाचनीयोपशमनीयसङ्ग्रहणीयान्योगान्सम्प्रयोजयेदिति ||५०||

सक्षौद्रातिविषंपिष्ट्वावत्सकस्यफलत्वचम् |
पिबेत्पित्तातिसारघ्नंतण्डुलोदकसंयुतम् ||५१||

किराततिक्तकोमुस्तंवत्सकःसरसाञ्जनः |
बिल्वंदारुहरिद्रात्वक्ह्रीबेरंसदुरालभम् ||५२||

चन्दनंचमृणालंचनागरंलोध्रमुत्पलम् |
तिलामोचरसोलोध्रंसमङ्गाकमलोत्पलम् ||५३||

उत्पलंधातकीपुष्पंदाडिमत्वङ्महौषधम् |
कट्फलंनागरंपाठाजम्ब्वाम्रास्थिदुरालभाः ||५४||

योगाःषडेतेसक्षौद्रास्तण्डुलोदकसंयुताः |
पेयाःपित्तातिसारघ्नाःश्लोकार्धेननिदर्शिताः ||५५||

जीर्णोषधानांशस्यन्तेयथायोगंप्रकल्पितैः |
रसैःसाङ्ग्राहिकैर्युक्ताःपुराणारक्तशालयः ||५६||

पित्तातिसारोदीपाग्नेःक्षिप्रंसमुपशाम्यति |
अजाक्षीरप्रयोगेणबलंवर्णश्चवर्धते ||५७||

बहुदोषस्यदीप्ताग्नेःसप्राणस्यनतिष्ठति |
पैत्तिकोयद्यतीसारःपयसातंविरेचयेत् ||५८||

पलाशफलनिर्यूहंपयसासहपाययेत् |
ततोऽनुपाययेत्कोष्णंक्षीरमेवयथाबलम् ||५९||

प्रवाहितेतेनमलेप्रशाम्यत्युदरामयः |
पलाशवत्प्रयोज्यावात्रायमाणाविशोधिनी ||६०||

सांसर्ग्यांक्रियमाणायांशूलंयद्यनुवर्तते |
स्रुतदोषस्यतंशीघ्रंयथावदनुवासयेत् ||६१||

शतपुष्पावरीभ्यांचपयसामधुकेनच |
तैलपादंघृतंसिद्धंसबिल्वमनुवासनम् ||६२||

कृतानुवासनस्यास्यकृतसंसर्जनस्यच |
वर्ततेयद्यतीसारःपिच्छाबस्तिरतःपरम् ||६३||

परिवेष्ट्यकुशैरार्द्रैरार्द्रवृन्तानिशाल्मलेः |
कृष्णमृत्तिकयाऽऽलिप्यस्वेदयेद्गोमयाग्निना ||६४||

सुशुष्कांमृत्तिकांज्ञात्वातानिवृन्तानिशाल्मलेः |
शृतेपयसिमृद्नीयादापोथ्योलूखलेततः ||६५||

पिण्डंमुष्टिसमंप्रस्थेतत्पूतंतैलसर्पिषोः |
स्नेहितं[]मात्रयायुक्तंकल्केनमधुकस्यच ||६६||

बस्तिमभ्यक्तगात्रायदद्यात्प्रत्यागतेततः |
स्नात्वाभुञ्जीतपयसाजाङ्गलानांरसेनवा ||६७||

पित्तातिसारज्वरशोथगुल्मजीर्णातिसारग्रहणीप्रदोषान् |
जयत्ययंशीघ्रमतिप्रवृद्धान्विरेचनास्थापनयोश्चबस्तिः[] ||६८||

पित्तातिसारीयस्त्वेतांक्रियांमुक्त्वानिषेवते |
पित्तलान्यन्नपानानितस्यपित्तंमहाबलम् ||६९||

कुर्याद्रक्तातिसारंतुरक्तमाशुप्रदूषयेत् |
तृष्णांशूलंविदाहंचगुदपाकंचदारुणम् ||७०||

तत्रच्छागंपयःशस्तंशीतंसमधुशर्करम् |
पानार्थंभोजनार्थंचगुदप्रक्षालनेतथा ||७१||

ओदनंरक्तशालीनांपयसातेनभोजयेत् |
रसैःपारावतादीनांघृतभृष्टैःसशर्करैः ||७२||

शशपक्षिमृगाणांचशीतानांधन्वचारिणाम् |
रसैरनम्लैःसघृतैर्भोजयेत्तंसशर्करैः ||७३||

रुधिरंमार्गमाजंवाघृतभृष्टंप्रशस्यते |
काश्मर्यफलयूषोवाकिञ्चिदम्लःसशर्करः ||७४||

नीलोत्पलंमोचरसंसमङ्गापद्मकेशरम् |
अजाक्षीरयुतंदद्याज्जीर्णेचपयसौदनम् ||७५||

दुर्बलंपाययित्वावातस्यैवोपरिभोजयेत् |
प्राग्भक्तंनवनीतंवादद्यात्समधुशर्करम् ||७६||

प्राश्यक्षीरोत्थितंसर्पिःकपिञ्जलरसाशनः |
त्र्यहादारोग्यमाप्नोतिपयसाक्षीरभुक्तथा ||७७||

पीत्वाशतावरीकल्कंपयसाक्षीरभुग्जयेत् |
रक्तातिसारंपीत्वावातयासिद्धंघृतंनरः ||७८||

घृतंयवागूमण्डेनकुटजस्यफलैःशृतम् |
पेयंतस्यानुपातव्यापेयारक्तोपशान्तये ||७९||

त्वक्चदारुहरिद्रायाःकुटजस्यफलानिच |
पिप्पलीशृङ्गवेरंचद्राक्षाकटुकरोहिणी ||८०||

षड्भिरेतैर्घृतंसिद्धंपेयामण्डावचारितम् |
अतीसारंजयेच्छीघ्रंत्रिदोषमपिदारुणम् ||८१||

कृष्णमृन्मधुकंशङ्खंरुधिरंतण्डुलोदकम् |
पीतमेकत्रसक्षौद्रंरक्तसङ्ग्रहणंपरम् ||८२||

पीतःप्रियङ्गुकाकल्कःसक्षौद्रस्तण्डुलाम्भसा |
रक्तस्रावंजयेच्छीघ्रंधन्वमांसरसाशिनः ||८३||

कल्कस्तिलानांकृष्णानांशर्करापञ्चभागिकः |
आजेनपयसापीतःसद्योरक्तंनियच्छति ||८४||

पलंवत्सकबीजस्यश्रपयित्वारसंपिबेत् |
योरसाशीजयेच्छीघ्रंसपैत्तंजठरामयम् ||८५||

पीत्वासशर्कराक्षौद्रंचन्दनंतण्डुलाम्भसा |
दाहतृष्णाप्रमेहेभ्योरक्तस्रावाच्चमुच्यते ||८६||

गुदोबहुभिरुत्थानैर्यस्यपित्तेनपच्यते |
सेचयेत्तंसुशीतेनपटोलमधुकाम्बुना ||८७||

पञ्चवल्कमधूकानांरसैरिक्षुरसैर्घृतैः |
छागैर्गव्यैःपयोभिर्वाशर्कराक्षौद्रसंयुतैः ||८८||

प्रक्षालनानांकल्कैर्वाससर्पिष्कैःप्रलेपयेत् |
एषांवासुकृतैश्चूर्णैस्तंगुदंप्रतिसारयेत् ||८९||

धातकीलोध्रचूर्णैर्वासमांशैःप्रतिसारयेत् |
तथास्रवतिनोरक्तंगुदंतैःप्रतिसारितम् ||९०||

पक्वताप्रशमंयातिवेदनाचोपशाम्यति |
यथोक्तैःसेचनैःशीतैःशोणितेऽतिस्रवत्यपि ||९१||

गुदवङ्क्षणकट्यूरुसेचयेद्घृतभावितम् |
चन्दनाद्येनतैलेनशतधौतेनसर्पिषा ||९२||

कार्पाससङ्गृहीतेनसेचयेद्गुदवङ्क्षणम् |९३|

अल्पाल्पंबहुशोरक्तंसशूलमुपवेश्यते ||९३||

यदावायुर्विबद्धश्चकृच्छ्रंचरतिवानवा |
पिञ्छाबस्तिंतदातस्ययथोक्तमुपकल्पयेत् ||९४||

प्रपौण्डरीकसिद्धेनसर्पिषाचानुवासयेत् |
प्रायशोदुर्बलगुदाश्चिरकालातिसारिणः ||९५||

तस्मादभीक्ष्णशस्तेषांगुदेस्नेहंप्रयोजयेत् |९६|

पवनोऽतिप्रवृत्तोहिस्वेस्थानेलभतेऽधिकम् ||९६||

बलंतस्यसपित्तस्यजयार्थेबस्तिरुत्तमः |
रक्तंविट्सहितंपूर्वंपश्चाद्वायोऽतिसार्यते ||९७||

शतावरीघृतंतस्यलेहार्थमुपकल्पयेत् |
शर्करार्धांशिकंलीढंनवनीतंनवोद्धृतम् ||९८||

क्षौद्रपादंजयेच्छीघ्रंतंविकारंहिताशिनः |
न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्यवासयेत् ||९९||

अहोरात्रंजलेतप्तेघृतंतेनाम्भसापचेत् |
तदर्धशर्करायुक्तंलिह्यात्सक्षौद्रपादिकम् ||१००||

अधोवायदिवाऽप्यूर्ध्वंयस्यरक्तंप्रवर्तते |१०१|

यस्त्वेवंदुर्बलोमोहात्पित्तलान्येवसेवते ||१०१||

दारुणंसवलीपाकंप्राप्यशीघ्रंविपद्यते |१०२|

श्लेष्मातिसारेप्रथमंहितंलङ्घनपाचनम् ||१०२||

योज्यश्चामातिसारघ्नोयथोक्तोदीपनोगणः |
लङ्घितस्यानुपूर्व्यांचकृतायांननिवर्तते ||१०३||

कफजोयद्यतीसारःकफघ्नैस्तमुपाचरेत् |
बिल्वंकर्कटिकामुस्तमभयाविश्वभेषजम् ||१०४||

वचाविडङ्गंभूतीकंधान्यकंदेवदारुच |
कुष्ठंसातिविषापाठाचव्यंकटुकरोहिणी ||१०५||

पिप्पलीपिप्पलीमूलंचित्रकंहस्तिपिप्पली |
योगाञ्छ्लोकार्धविहितांश्चतुरस्तान्प्रयोजयेत् ||१०६||

शृताञ्छ्लेष्मातिसारेषुकायाग्निबलवर्धनान् |
अजाजीमसितांपाठांनागरंमरिचानिच ||१०७||

धातकीद्विगुणंदद्यान्मातुलुङ्गरसाप्लुतम् |
रसाञ्जनंसातिविषंकुटजस्यफलानिच ||१०८||

धातकीद्विगुणंदद्यात्पातुंसक्षौद्रनागरम् |
धातकीनागरंबिल्वंलोध्रंपद्मस्यकेशरम् ||१०९||

जम्बूत्वङ्नागरंधान्यंपाठामोचरसोबला |
समङ्गाधातकीबिल्वमध्यंजम्ब्वाम्रयोस्त्वचः ||११०||

कपित्थानिविडङ्गानिनागरंमरिचानिच |
चाङ्गेरीकोलतक्राम्लांश्चतुरस्तान्कफोत्तरे ||१११||

श्लोकार्धविहितान्दद्यात्सस्नेहलवणान्खडान् |
कपित्थमध्यंलीढ्वातुसव्योषक्षौद्रशर्करम् ||११२||

कट्फलंमधुयुक्तंवामुच्यतेजठरामयात् |११३|

कणांमधुयुतांपीत्वातक्रंपीत्वासचित्रकम् ||११३||

जग्ध्वावाबालबिल्वानिमुच्यतेजठरामयात् |
बालबिल्वंगुडंतैलंपिप्पलींविश्वभेषजम् |
लिह्याद्वातेप्रतिहतेसशूलःसप्रवाहिकः ||११४||

भोज्यंमूलकषायेणवातघ्नैश्चोपसेवनैः |
वातातिसारविहितैर्यूषैर्मांसरसैःखडैः ||११५||

पूर्वोक्तमम्लसर्पिर्वाषट्पलंवायथाबलम् |
पुराणंवाघृतंदद्याद्यवागूमण्डमिश्रितम् ||११६||

वातश्लेष्मविबन्धेवाकफेवाऽतिस्रवत्यपि |
शूलेप्रवाहिकायांवापिच्छाबस्तिंप्रयोजयेत् ||११७||

पिप्पलीबिल्वकुष्ठानांशताह्वावचयोरपि |
कल्कैःसलवणैर्युक्तंपूर्वोक्तंसन्निधापयेत् ||११८||

प्रत्यागतेसुखंस्नातंकृताहारंदिनात्यये |
बिल्वतैलेनमतिमान्सुखोष्णेनानुवासयेत् ||११९||

वचान्तैरथवाकल्कैस्तैलंपक्त्वाऽनुवासयेत् |
बहुशःकफवातार्तस्तथासलभतेसुखम् ||१२०||

स्वेस्थानेमारुतोऽवश्यंवर्धतेकफसङ्क्षये |
सवृद्धःसहसाहन्यात्तस्मात्तंत्वरयाजयेत् ||१२१||

वातस्यानुजयेत्पित्तं, पित्तस्यानुजयेत्कफम् |
त्रयाणांवाजयेत्पूर्वंयोभवेद्बलवत्तमः ||१२२||

तत्रश्लोकः-

प्रागुत्पत्तिनिमित्तानिलक्षणंसाध्यतानच |
क्रियाचावस्थिकीसिद्धानिर्दिष्टाह्यतिसारिणाम् ||१२३||

इत्यग्निवेशकृतेतन्त्रेचरकप्रतिसंस्कृतेचिकित्सास्थानेऽतिसारचिकित्सितंनामैकोनविंशोऽध्यायः ||१९||

Post a Comment

0 Comments