For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातः कासचिकित्सितं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः ||२||
तपसा यशसा धृत्या धिया च परयाऽन्वितः | आत्रेयः कासशान्त्यर्थं प्राह सिद्धं चिकित्सितम् ||३||
वातादिजास्त्रयो ये च क्षतजः क्षयजस्तथा | पञ्चैते स्युर्नृणां कासा वर्धमानाः क्षयप्रदाः ||४||
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता | कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ||५||
अधःप्रतिहतो वायुरूर्ध्वस्रोतःसमाश्रितः | उदानभावमापन्नः कण्ठे सक्तस्तथोरसि ||६||
आविश्य शिरसः खानि सर्वाणि प्रतिपूरयन् | आभञ्जन्नाक्षिपन् देहं हनुमन्ये तथाऽक्षिणी ||७||
नेत्रे पृष्ठमुरःपार्श्वे निर्भुज्य स्तम्भयंस्ततः |
शुष्को वा सकफो वाऽपि कसनात्कास उच्यते ||८||
प्रतिघातविशेषेण तस्य वायोः सरंहसः |
वेदनाशब्दवैशिष्ट्यं कासानामुपजायते ||९||
रूक्षशीतकषायाल्पप्रमितानशनं स्त्रियः |
वेगधारणमायासो वातकासप्रवर्तकाः ||१०||
हृत्पार्श्वोरःशिरःशूलस्वरभेदकरो भृशम् |
शुष्कोरःकण्ठवक्रस्य हृष्टलोम्नः प्रताम्यतः ||११||
निर्घोषदैन्यस्तननदौर्बल्यक्षोभमोहकृत् | शुष्ककासः कफं शुष्कं कृच्छ्रान्मुक्त्वाऽल्पतां व्रजेत् ||१२||
स्निग्धाम्ललवणोष्णैश्च भुक्तपीतैः प्रशाम्यति | ऊर्ध्ववातस्य जीर्णेऽन्ने वेगवान्मारुतो भवेत् ||१३||
कटुकोष्णविदाह्यम्लक्षाराणामतिसेवनम् | पित्तकासकरं क्रोधः सन्तापश्चाग्निसूर्यजः ||१४||
पीतनिष्ठीवनाक्षित्वं तिक्तास्यत्वं स्वरामयः | उरोधूमायनं तृष्णा दाहो मोहोऽरुचिर्भ्रमः ||१५||
प्रततं कासमानश्च ज्योतींषीव च पश्यति | श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिके ||१६||
गुर्वभिष्यन्दिमधुरस्निग्धस्वप्नाविचेष्टनैः | वृद्धः श्लेष्माऽनिलं रुद्ध्वा कफकासं करोति हि ||१७||
मन्दाग्नित्वारुचिच्छर्दिपीनसोत्क्लेशगौरवैः | लोमहर्षास्यमाधुर्यक्लेदसंसदनैर्युतम् ||१८||
बहुलं मधुरं स्निग्धं निष्ठीवति घनं कफम् | कासमानो ह्यरुग् वक्षः सम्पूर्णमिव मन्यते ||१९||
अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः | रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत् ||२०||
स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् |
कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा ||२१||
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना | दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ||२२||
पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडितः | पारावत इवाकूजन् कासवेगात्क्षतोद्भवात् ||२३||
विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात् | घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः ||२४||
कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम् | दुर्गन्धं हरितं रक्तं ष्ठीवेत् पूयोपमं कफम् ||२५||
स्थानादुत्कासमानश्च हृदयं मन्यते च्युतम् | अकस्मादुष्णशीतार्तो बह्वाशी दुर्बलः कृशः ||२६||
स्निग्धाच्छमुखवर्णत्वक् श्रीमद्दर्शनलोचनः | पाणिपादतलैः श्लक्ष्णैः सततासूयको घृणी ||२७||
ज्वरो मिश्राकृतिस्तस्य पार्श्वरुक् पीनसोऽरुचिः |
भिन्नसंहतवर्चस्त्वं स्वरभेदोऽनिमित्ततः ||२८||
इत्येष क्षयजः कासः क्षीणानां देहनाशनः | साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः ||२९||
नवौ कदाचित् सिध्येतामेतौ पादगुणान्वितौ |
स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः ||३०||
त्रीन्साध्यान्साधयेत्पूर्वान् पथ्यैर्याप्यांश्च यापयेत् |
चिकित्सामत ऊर्ध्वं तु शृणु कासनिबर्हिणीम् ||३१||
रूक्षस्यानिलजं कासमादौ स्नेहैरुपाचरेत् | सर्पिर्भिर्बस्तिभिः पेयायूषक्षीररसादिभिः ||३२||
वातघ्नसिद्धैः स्नेहाद्यैर्धूमैर्लेहैश्च युक्तितः | अभ्यङ्गैः परिषेकैश्च स्निग्धैः स्वेदैश्च बुद्धिमान् ||३३||
बस्तिभिर्बद्धविड्वातं शुष्कोर्ध्वं चोर्ध्वभक्तिकैः | घृतैः सपित्तं सकफं जयेत् स्नेहविरेचनैः ||३४||
कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे | प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः ||३५||
इति कण्टकारीघृतम् |
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः | धान्यपाठावचारास्नायष्ट्याह्वक्षारहिङ्गुभिः ||३६||
कोलमात्रैर्घृतप्रस्थाद्दशमूलीरसाढके | सिद्धाच्चतुर्थिकां पीत्वा पेयामण्डं पिबेदनु ||३७||
तच्छ्वासकासहृत्पार्श्वग्रहणीदोषगुल्मनुत् | पिप्पल्याद्यं घृतं चैतदात्रेयेण प्रकीर्तितम् ||३८||
इति पिप्पल्यादिघृतम् |
त्र्यूषणं त्रिफलां द्राक्षां काश्मर्याणि परूषकम् | द्वे पाठे देवदार्वृद्धिं स्वगुप्तां चित्रकं शटीम् ||३९||
ब्राह्मीं तामलकीं मेदां काकनासां शतावरीम् | त्रिकण्टकं विदारीं च पिष्ट्वा कर्षसमं घृतात् ||४०||
प्रस्थं चतुर्गुणे क्षीरे सिद्धं कासहरं पिबेत् | ज्वरगुल्मारुचिप्लीहशिरोहृत्पार्श्वशूलनुत् ||४१||
कामलार्शोऽनिलाष्ठीलाक्षतशोषक्षयापहम् | त्र्यूषणं नाम विख्यातमेतद्धृतमनुत्तमम् ||४२||
इति त्र्यूषणाद्यं घृतम् |
द्रोणेऽपां साधयेद्रास्नां दशमूलीं शतावरीम् |
पलिकां माणिकांशांस्तु कुलत्थान्बदरान्यवान् ||४३||
तुलार्धं चाजमांसस्य पादशेषेण तेन च | घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः ||४४||
सिद्धं तद्दशभिः कल्कैर्नस्यपानानुवासनैः | समीक्ष्य वातरोगेषु यथावस्थं प्रयोजयेत् ||४५||
पञ्चकासान् शिरःकम्पं शूलं वङ्क्षणयोनिजम् |
सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ्जयेत् ||४६||
इति रास्नाघृतम् |
विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम् | भार्गी क्षारश्च तच्चूर्णं पिबेद्वा घृतमात्रया ||४७||
सकफेऽनिलजे कासे श्वासहिक्काहताग्निषु | द्वौ क्षारौ पञ्चकोलानि पञ्चैव लवणानि च ||४८||
शटीनागरकोदीच्यकल्कं वा वस्त्रगालितम् | पाययेत घृतोन्मिश्रं वातकासनिबर्हणम् ||४९||
दुरालभां शटीं द्राक्षां शृङ्गवेरं सितोपलाम् | लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वातजे ||५०||
दुःस्पर्शां पिप्पलीं मुस्तं भार्गीं कर्कटकीं शटीम् | पुराणगुडतैलाभ्यां चूर्णितं वाऽपि लेहयेत् ||५१||
विडङ्गं सैन्धवं कुष्ठं व्योषं हिङ्गु मनःशिलाम् | मधुसर्पिर्युतं कासहिक्काश्वासं जयेल्लिहन् ||५२||
चित्रकं पिप्पलीमूलं व्योषं हिङ्गु दुरालभाम् | शटीं पुष्करमूलं च श्रेयसीं सुरसां वचाम् ||५३||
भार्गीं छिन्नरुहां रास्नां शृङ्गीं द्राक्षां च कार्षिकान् |
कल्कानर्धतुलाक्वाथे निदिग्ध्याः पलविंशतिम् ||५४||
दत्त्वा मत्स्यण्डिकायाश्च घृताच्च कुडवं पचेत् | सिद्धं शीतं पृथक् क्षौद्रपिप्पलीकुडवान्वितम् ||५५||
चतुष्पलं तुगाक्षीर्याश्चूर्णितं तत्र दापयेत् |
लेहयेत् कासहृद्रोगश्वासगुल्मनिवारणम् ||५६||
इति चित्रकादिलेहः |
दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शटीं बलाम् | हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ||५७||
भार्गीं पुष्करमूलं च द्विपलांशं यवाढकम् | हरीतकीशतं चैकं जले पञ्चाढके पचेत् ||५८||
यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम् | पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात् ||५९||
तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात् | लिह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात् ||६०||
तद्वलीपलितं हन्ति वर्णायुर्बलवर्धनम् | पञ्चकासान् क्षयं श्वासं हिक्कां च विषमज्वरम् ||६१||
हन्यात्तथाऽर्शोग्रहणीहृद्रोगारुचिपीनसान् | अगस्त्यविहितं श्रेष्ठं रसायनमिदं शुभम् ||६२||
इत्यगस्त्यहरीतकी |
शिरसः पीडने स्रावे नासाया हृदि ताम्यति | कासप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत् ||६५||
दशाङ्गुलोन्मितां नाडीमथवाऽष्टाङ्गुलोन्मिताम् | शरावसम्पुटच्छिद्रे कृत्वा जिह्मां विचक्षणः ||६६||
वैरेचनं मुखेनैव कासवान् धूममापिबेत् |
तमुरः केवलं प्राप्तं मुखेनैवोद्वमेत् पुनः ||६७||
स ह्यस्य तैक्ष्ण्याद्विच्छिद्य श्लेष्माणमुरसि स्थितम् | निष्कृष्य शमयेत् कासं वातश्लेष्मसमुद्भवम् ||६८||
मनःशिलालमधुकमांसीमुस्तेङ्गुदैः पिबेत् |
धूमं तस्यानु च क्षीरं सुखोष्णं सगुडं पिबेत् ||६९||
एष कासान् पृथग्दोषसन्निपातसमुद्भवान् | धूमो हन्यादसंसिद्धानन्यैर्योगशतैरपि ||७०||
प्रपौण्डरीकं मधुकं शार्ङ्गेष्टां समनःशिलाम् | मरिचं पिप्पलीं द्राक्षामेलां सुरसमञ्जरीम् ||७१||
कृत्वा वर्तिं पिबेद्धूमं क्षौमचेलानुवर्तिताम् | घृताक्तामनु च क्षीरं गुडोदकमथापि वा ||७२||
मनःशिलैलामरिचक्षाराञ्जनकुटन्नटैः | वंशलेखनसेव्यालक्षौमलक्तकरोहिषैः ||७३||
पूर्वकल्पेन धूमोऽयं सानुपानो विधीयते |
मनःशिलाले तद्वच्च पिप्पलीनागरैः सह ||७४||
त्वगैङ्गुदी बृहत्यौ द्वे तालमूली मनःशिला | कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः ||७५||
ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान् | रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान् ||७६||
यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः | रास्नाजाजीपृथक्पर्णीपलाशशटिपौष्करैः ||७७||
स्निग्धाम्ललवणां सिद्धां पेयामनिलजे पिबेत् | कटीहृत्पार्श्वकोष्ठार्तिश्वासहिक्काप्रणाशिनीम् ||७८||
दशमूलरसे तद्वत्पञ्चकोलगुडान्विताम् | सिद्धां समतिलां दद्यात्क्षीरे वाऽपि ससैन्धवाम् ||७९||
मात्स्यकौक्कुटवाराहैरामिषैर्वा घृतान्विताम् |
सिद्धां ससैन्धवां पेयां वातकासी पिबेन्नरः ||८०||
वास्तुको वायसीशाकं मूलकं सुनिषण्णकम् |
स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः ||८१||
दध्यारनालाम्लफलप्रसन्नापानमेव च |
शस्यते वातकासे तु स्वाद्वम्ललवणानि च ||८२||
इति वातकासचिकित्सा |
पैत्तिके सकफे कासे वमनं सर्पिषा हितम् | तथा मदनकाश्मर्यमधुकक्वथितैर्जलैः ||८३||
यष्ट्याह्वफलकल्कैर्वा विदारीक्षुरसायुतैः | हृतदोषस्ततः शीतं मधुरं च क्रमं भजेत् ||८४||
पैत्ते तनुकफे कासे त्रिवृतां मधुरैर्युताम् | दद्याद्घनकफे तिक्तैर्विरेकार्थे युतां भिषक् ||८५||
स्निग्धशीतस्तनुकफे रूक्षशीतः कफे घने | क्रमः कार्यः परं भोज्यैः स्नेहैर्लेहैश्च शस्यते ||८६||
शृङ्गाटकं पद्मबीजं नीलीसाराणि पिप्पली |
पिप्पलीमुस्तयष्ट्याह्वद्राक्षामूर्वामहौषधम् ||८७||
लाजाऽमृतफला द्राक्षा त्वक्क्षीरी पिप्पली सिता | पिप्पलीपद्मकद्राक्षा बृहत्याश्च फलाद्रसः ||८८||
खर्जूरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते |
घृतक्षौद्रयुता लेहाः श्लोकार्धैः पित्तकासिनाम् ||८९||
शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः | पैत्ते, समुस्तमरिचः सकफे,
सघृतोऽनिले ||९०||
मृद्वीकार्धशतं त्रिंशत्पिप्पलीः शर्करापलम् | लेहयेन्मधुना गोर्वा क्षीरपं च शकृद्रसम् ||९१||
त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः | लाजामुस्तशटीरास्नाधात्रीफलबिभीतकैः ||९२||
शर्कराक्षौद्रसर्पिर्भिर्लेहः कासविनाशनः |
श्वासं हिक्कां क्षयं चैव हृद्रोगं च प्रणाशयेत् ||९३||
पिप्पल्यामलकं द्राक्षां लाक्षां लाजां सितोपलाम् | क्षीरे पक्त्वा घनं शीतं लिह्यात् क्षौद्राष्टभागिकम् ||९४||
विदारीक्षुमृणालानां रसान् क्षीरं सितोपलाम् | पिबेद्वा मधुसंयुक्तं पित्तकासहरं परम् ||९५||
मधुरैर्जाङ्गलरसैः श्यामाकयवकोद्रवाः | मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः ||९६||
घनश्लेष्मणि लेहास्तु तिक्तका मधुसंयुताः |
शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः ||९७||
शर्कराम्भोऽनुपानार्थं द्राक्षेक्षूणां रसाः पयः | सर्वं च मधुरं शीतमविदाहि प्रशस्यते ||९८||
काकोलीबृहतीमेदायुग्मैः सवृषनागरैः |
पित्तकासे रसान् क्षीरं यूषांश्चाप्युपकल्पयेत् ||९९||
शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा | कषायेण शृतं क्षीरं पिबेत् समधुशर्करम् ||१००||
स्थिरासितापृश्निपर्णीश्रावणीबृहतीयुगैः | जीवकर्षभकाकोलीतामलक्यृद्धिजीवकैः ||१०१||
शृतं पयः पिबेत् कासी ज्वरी दाही क्षतक्षयी |
तज्जं वा साधयेत् सर्पिः सक्षीरेक्षुरसं भिषक् ||१०२||
जीवकाद्यैर्मधुरकैः फलैश्चाभिषुकादिभिः | कल्कैस्त्रिकार्षिकैः सिद्धे पूतशीते प्रदापयेत् ||१०३||
शर्करापिप्पलीचूर्णं त्वक्क्षीर्या मरिचस्य च | शृङ्गाटकस्य चावाप्य क्षौद्रगर्भान्पलोन्मितान् ||१०४||
गुडान् गोधूमचूर्णेन कृत्वा खादेद्धिताशनः |
शुक्रासृग्दोषशोषेषु कासे क्षीणक्षतेषु च ||१०५||
शर्करानागरोदीच्यं कण्टकारीं शटीं समम् | पिष्ट्वा रसं पिबेत्पूतं वस्त्रेण घृतमूर्च्छितम् ||१०६||
महिष्यजाविगोक्षीरधात्रीफलरसैः समैः |
सर्पिः सिद्धं पिबेद्युक्त्या पित्तकासनिबर्हणम् ||१०७||
इति पित्तकासचिकित्सा |
बलिनं वमनैरादौ शोधितं कफकासिनम् |
यवान्नैः कटूरूक्षोष्णैः कफघ्नैश्चाप्युपाचरेत् ||१०८||
पिप्पलीक्षारिकैर्युषैः कौलत्थैर्मूलकस्य च |
लघून्यन्नानि भुञ्जीत रसैर्वा कटुकान्वितैः ||१०९||
धान्वबैलरसैः स्नेहैस्तिलसर्षपबिल्वजैः | मध्वम्लोष्णाम्बुतक्रं वा मद्यं वा निगदं पिबेत् ||११०||
पौष्करारग्वधं मूलं पटोलं तैर्निशास्थितम् |
जलं मधुयुतं पेयं कालेष्वन्नस्य वा त्रिषु ||१११||
कट्फलं कत्तृणं भार्गीं मुस्तं धान्यं वचाभये | शुण्ठीं पर्पटकं शृङ्गीं सुराह्वं च शृतं जले ||११२||
मधुहिङ्गुयुतं पेयं कासे वातकफात्मके |
कण्ठरोगे मुखे शूने श्वासहिक्काज्वरेषु च ||११३||
पाठां शुण्ठीं शटीं मूर्वां गवाक्षीं मुस्तपिप्पलीम् | पिष्ट्वा घर्माम्बुना हिङ्गुसैन्धवाभ्यां युतां पिबेत् ||११४||
नागरातिविषे मुस्तं शृङ्गीं कर्कटकस्य च | हरीतकीं शटीं चैव तेनैव विधिना पिबेत् ||११५||
तैलभृष्टं च पिप्पल्याः कल्काक्षं ससितोपलम् | पिबेद्वा श्लेष्मकासघ्नं कुलत्थरससंयुतम् ||११६||
कासमर्दाश्वविट्भृङ्गराजवार्ताकजो रसः |
सक्षौद्रः कफकासघ्नः सुरसस्यासितस्य च ||११७||
देवदारु शटी रास्ना कर्कटाख्या दुरालभा | पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपलाः ||११८||
मधुतैलयुतावेतौ लेहौ वातानुगे कफे |
पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली ||११९||
पथ्या तामलकी धात्री भद्रमुस्ता च पिप्पली | देवदार्वभया मुस्तं पिप्पली विश्वभेषजम् ||१२०||
विशाला पिप्पली मुस्तं त्रिवृता चेति लेहयेत् | चतुरो मधुना लेहान् कफकासहरान् भिषक् ||१२१||
सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम् | चूर्णितं सर्पिषा वातकफकासहरं पिबेत् ||१२२||
दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत् |
पुष्कराह्वशटीबिल्वसुरसव्योषहिङ्गुभिः ||१२३||
पेयानुपानं तत् पेयं कासे वातकफात्मके | श्वासरोगेषु सर्वेषु कफवातात्मकेषु च ||१२४||
इति दशमूलादिघृतम् |
समूलफलपत्रायाः कण्टकार्या रसाढके | घृतप्रस्थं बलाव्योषविडङ्गशटिचित्रकैः ||१२५||
सौवर्चलयवक्षारपिप्पलीमूलपौष्करैः | वृश्चीरबृहतीपथ्यायवानीदाडिमर्धिभिः ||१२६||
द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः | शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत् ||१२७||
कल्कैस्तत् सर्वकासेषु हिक्काश्वासेषु शस्यते | कण्टकारीघृतं ह्येतत् कफव्याधिनिसूदनम् ||१२८||
इति कण्टकारीघृतम् |
कुलत्थरसयुक्तं वा पञ्चकोलशृतं घृतम् |
पाययेत् कफजे कासे हिक्काश्वासे च शस्यते ||१२९||
इति कुलत्थादिघृतम् |
धूमांस्तानेव दद्याच्च ये प्रोक्ता वातकासिनाम् | कोशातकीफलान्मध्यं पिबेद्वा समनःशिलम् ||१३०||
तमकः कफकासे तु स्याच्चेत् पित्तानुबन्धजः | पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत् ||१३१||
वाते कफानुबन्धे तु कुर्यात् कफहरीं क्रियाम् | पित्तानुबन्धयोर्वातकफयोः पित्तनाशिनीम् ||१३२||
आर्द्रे विरूक्षणं,
शुष्के स्निग्धं,
वातकफात्मके |
कासेऽन्नपानं कफजे सपित्ते तिक्तसंयुतम् ||१३३||
इति कफजकासचिकित्सा |
कासमात्ययिकं मत्वा क्षतजं त्वरया जयेत् | मधुरैर्जीवनीयैश्च बलमांसविवर्धनैः ||१३४||
पिप्पली मधुकं पिष्टं कार्षिकं ससितोपलम् | प्रास्थिकं गव्यमाजं च क्षीरमिक्षुरसस्तथा ||१३५||
यवगोधूममृद्वीकाचूर्णमामलकाद्रसः | तैलं च प्रसृतांशानि तत् सर्वं मृदुनाऽग्निना ||१३६||
पचेल्लेहं घृतक्षौद्रयुक्तः स क्षतकासहा |
श्वासहृद्रोगकार्श्येषु हितो वृद्धेऽल्परेतसि ||१३७||
क्षतकासाभिभूतानां वृत्तिः स्यात् पित्तकासिकी | क्षीरसर्पिर्मधुप्राया संसर्गे तु विशेषणम् ||१३८||
वातपित्तार्दितेऽभ्यङ्गो गात्रभेदे घृतैर्हितः | तैलैर्मारुतरोगघ्नैः पीड्यमाने च वायुना ||१३९||
हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः | सदाहं कासिनो रक्तं ष्ठीवतः सबलेऽनले ||१४०||
मांसोचितेभ्यः क्षामेभ्यो लावादीनां रसा हिताः | तृष्णार्तानां पयश्छागं शरमूलादिभिः शृतम् ||१४१||
रक्ते स्रोतोभ्य आस्याद्वाऽप्यागते क्षीरजं घृतम् |
नस्यं पानं यवागूर्वा श्रान्ते क्षामे हतानले ||१४२||
स्तम्भायामेषु महतीं मात्रां वा सर्पिषः पिबेत् | कुर्याद्वा वातरोगघ्नं पित्तरक्ताविरोधि यत् ||१४३||
निवृत्ते क्षतदोषे तु कफे वृद्ध उरः क्षते |
दाल्यते कासिनो यस्य स धूमान्ना पिबेदिमान् ||१४४||
द्वे मेदे मधुकं द्वे च बले तैः क्षौमलक्तकैः | वर्तितैर्धूममापीय जीवनीयघृतं पिबेत् ||१४५||
मनःशिलापलाशाजगन्धात्वक्क्षीरिनागरैः | भावयित्वा पिबेत् क्षौममनु चेक्षुगुडोदकम् ||१४६||
पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया | ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम् ||१४७||
भावितं जीवनीयैर्वा कुलिङ्गाण्डरसायुतैः | क्षौमं धूमं पिबेत् क्षीरं शृतं चायोगुडैरनु ||१४८||
इति क्षतजकासचिकित्सा |
सम्पूर्णरूपं क्षयजं दुर्बलस्य विवर्जयेत् |
नवोत्थितं बलवतः प्रत्याख्यायाचरेत् क्रियाम् ||१४९||
तस्मै बृंहणमेवादौ कुर्यादग्नेश्च दीपनम् | बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम् ||१५०||
शम्पाकेन त्रिवृतया मृद्वीकारसयुक्तया | तिल्वकस्य कषायेण विदारीस्वरसेन च ||१५१||
सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम् |
(हितं तद्देहबलयोरस्य संरक्षणं मतम् ) ||१५२||
पित्ते कफे च सङ्क्षीणे परिक्षीणेषु धातुषु | घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत् ||१५३||
विदारीभिः कदम्बैर्वा तालसस्यैस्तथा शृतम् | घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे ||१५४||
शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे | घृतमण्डेन मधुनाऽनुवास्यो मिश्रकेण वा ||१५५||
जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः |
क्रमशः प्रसहाश्चैव प्रयोज्याः पिशिताशिनः ||१५६||
औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते | कफं, शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग्वहन्रसः ||१५७||
द्विपञ्चमूलीत्रिफलाचविकाभार्गिचित्रकैः | कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले ||१५८||
शृतैर्नागरदुःस्पर्शापिप्पलीशटिपौष्करैः | कल्कैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत् ||१५९||
सिद्धैऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च | दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः ||१६०||
इति द्विपञ्चमूलादिघृतम् |
गुडूचीं पिप्पलीं मूर्वां हरिद्रां श्रेयसीं वचाम् | निदिग्धिकां कासमर्दं पाठां चित्रकनागरम् ||१६१||
जले चतुर्गुणे पक्त्वा पादशेषेण तत्समम् | सिद्धं सर्पिः पिबेद्गुल्मश्वासार्तिक्षयकासनुत् ||१६२||
इति गुडूच्यादिघृतम् |
कासमर्दाभयामुस्तपाठाकट्फलनागरैः | पिप्पलीकटुकाद्राक्षाकाश्मर्यसुरसैस्तथा ||१६३||
अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके | पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम् ||१६४||
धात्रीफलैः क्षीरसिद्धैः सर्पिर्वाऽप्यवचूर्णितम् | द्विगुणे दाडिमरसे विपक्वं व्योषसंयुतम् ||१६५||
पिबेदुपरि भक्तस्य यवक्षारघृतं नरः |
पिप्पलीगुडसिद्धं वा च्छागक्षीरयुतं घृतम् ||१६६||
एतान्यग्निविवृद्ध्यर्थं सर्पींषि क्षयकासिनाम् | स्युर्दोषबद्धकोष्ठोरःस्रोतसां च विशुद्धये ||१६७||
हरीतकीर्यवक्वाथद्व्याढके विंशतिं पचेत् | स्विन्ना मृदित्वा तास्तस्मिन् पुराणं गुडषट्पलम् ||१६८||
दद्यान्मनःशिलाकर्षं कर्षार्धं च रसाञ्जनात् | कुडवार्धं च पिप्पल्याः स लेहः श्वासकासनुत् ||१६९||
इति हरीतकीलेहः |
श्वाविधः सूचयो दग्धाः सघृतक्षौद्रशर्कराः | श्वासकासहरा बर्हिपादौ वा क्षौद्रसर्पिषा ||१७०||
एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम् | लिह्यादेतेन विधिना सुरसैरण्डपत्रजम् ||१७१||
द्राक्षापद्मकवार्ताकपिप्पलीः क्षौद्रसर्पिषा |
लिह्यात्त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा ||१७२||
चित्रकं त्रिफलाजाजी कर्कटाख्या कटुत्रिकम् |
द्राक्षां च क्षौद्रसर्पिर्भ्यां लिह्यादद्याद्गुडेन वा ||१७३||
पद्मकं त्रिफलां व्योषं विडङ्गं सुरदारु च | बलां रास्नां च तुल्यानि सूक्ष्मचूर्णानि कारयेत् ||१७४||
सर्वैरेभिः समं चूर्णैः पृथक् क्षौद्रं घृतं सिताम् |
विमथ्य लेहयेल्लेहं सर्वकासहरं शिवम् ||१७५||
जीवन्तीं मधुकं पाठां त्वक्क्षीरीं त्रिफलां शटीम् | मुस्तैले पद्मकं द्राक्षां द्वे बृहत्यौ वितुन्नकम् ||१७६||
सारिवां पौष्करं मूलं कर्कटाख्यां रसाञ्जनम् | पुनर्नवां लोहरजस्त्रायमाणां यवानिकाम् ||१७७||
भार्गीं तामलकीमृद्धिं विडङ्गं धन्वयासकम् |
क्षारचित्रकचव्याम्लवेतसव्योषदारु च ||१७८||
चूर्णीकृत्य समांशानि लेहयेत् क्षौद्रसर्पिषा |
चूर्णात्पाणितलं पञ्च कासानेतद् व्यपोहति ||१७९||
इति पद्मकादिलेहः |
लिह्यान्मरिचचूर्णं वा सघृतक्षौद्रशर्करम् | बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम् ||१८०||
स्वरभेदे च कासे च लेहमेतं प्रयोजयेत् | पत्रकल्कं घृतैर्भृष्टं तिल्वकस्य सशर्करम् ||१८१||
पेया चोत्कारिका च्छर्दितृट्कासामातिसारनुत् | गौरसर्षपगण्डीरविडङ्गव्योषचित्रकान् | साभयान् साधयेत्तोये यवागूं तेन चाम्भसा ||१८२||
ससर्पिर्लवणां कासे हिक्काश्वासे सपीनसे |
पाण्ड्वामये क्षये शोथे कर्णशूले च दापयेत् ||१८३||
कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः |
सगौरामलकः साम्लः सर्वकासभिषग्जितम् ||१८४||
वातघ्नौषधनिष्क्वाथं क्षीरं यूषान् रसानपि | वैष्किरप्रतुदान् बैलान् दापयेत् क्षयकासिने ||१८५||
क्षतकासे च ये धूमाः सानुपाना निदर्शिताः | क्षयकासेऽपि तानेव यथावस्थं प्रयोजयेत् ||१८६||
दीपनं बृंहणं चैव स्रोतसां च विशोधनम् | व्यत्यासात्क्षयकासिभ्यो बल्यं सर्वं हितं भवेत् ||१८७||
सन्निपातभवोऽप्येष क्षयकासः सुदारुणः | सन्निपातहितं तस्मात् सदा कार्यं भिषग्जितम् ||१८८||
दोषानुबलयोगाच्च हरेद्रोगबलाबलम् | कासेष्वेषु गरीयांसं जानीयादुत्तरोत्तरम् ||१८९||
भोज्यं पानानि सर्पींषि लेहाश्च सह पानकैः | क्षीरं सर्पिर्गुडा धूमाः कासभैषज्यसङ्ग्रहः ||१९०||
तत्र श्लोकः-
सङ्ख्या निमित्तं रूपाणि साध्यासाध्यत्वमेव च |
कासानां भेषजं प्रोक्तं गरीयस्त्वं च कासिनः ||१९१||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने कासचिकित्सितं नामाष्टादशोऽध्यायः ||१८||
0 Comments