Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 20 Chardichikitsa adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातश्छर्दिचिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

यशस्विनं ब्रह्मतपोद्युतिभ्यां ज्वलन्तमग्न्यर्कसमप्रभावम्|

पुनर्वसुं भूतहिते निविष्टं पप्रच्छ शिष्योऽत्रिजमग्निवेशः||||

याश्छर्दयः पञ्च पुरा त्वयोक्ता रोगाधिकारे भिषजां वरिष्ठ!|

तासां चिकित्सां सनिदानलिङ्गां यथावदाचक्ष्व नृणां हितार्थम्||||

तदग्निवेशस्य वचो निशम्य प्रीतो भिषक्श्रेष्ठ इदं जगाद|

याश्छर्दयः पञ्च पुरा मयोक्तास्ता विस्तरेण ब्रुवतो निबोध||||

दोषैः पृथक्त्रिप्रभवाश्चतस्रो [] द्बिष्टार्थयोगादपि पञ्चमी स्यात्|

तासां हृदुत्क्लेशकफप्रसेकौ द्वेषोऽशने चैव हि पूर्वरूपम्|||

व्यायामतीक्ष्णौषधशोकरोगभयोपवासाद्यतिकर्शितस्य|

वायुर्महास्रोतसि सम्प्रवृद्ध उत्क्लेश्य दोषांस्तत ऊर्ध्वमस्यन्||||

आमाशयोत्क्लेशकृतां मर्म प्रपीडयंश्छर्दिमुदीरयेत्तु|

हृत्पार्श्वपीडामुखशोषमूर्धनाभ्यर्तिकासस्वरभेदतोदैः||||

उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम्|

कृच्छ्रेण चाल्पं महता वेगेनार्तोऽनिलाच्छर्दयतीह दुःखम्||||

अजीर्णकट्वम्लविदाह्यशीतैरामाशये पित्तमुदीर्णवेगम्|

रसायनीभिर्विसृतं प्रपीड्य मर्मोर्ध्वमागम्य वमिं करोति||१०||

मूर्च्छापिपासामुखशोषमूर्धताल्वक्षिसन्तापतमोभ्रमार्तः|

पीतं भृशोष्णं हरितं सतिक्तं धूम्रं पित्तेन वमेत् सदाहम्||११||

स्निग्धातिगुर्वामविदाहिभोज्यैः स्वप्नादिभिश्चैव कफोऽतिवृद्धः|

उरः शिरो मर्म रसायनीश्च सर्वाः समावृत्य वमिं करोति||१२||

तन्द्रास्यमाधुर्यकफप्रसेकसन्तोषनिद्रारुचिगौरवार्तः|

स्निग्धं घनं स्वादु कफाद्विशुद्धं सलोमहर्षोऽल्परुजं वमेत्तु||१३||

समश्नतः सर्वरसान् प्रसक्तमामप्रदोषर्तुविपर्ययैश्च|

सर्वे प्रकोपं युगपत् प्रपन्नाश्छर्दिं त्रिदोषां जनयन्ति दोषाः||१४||

शूलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबला प्रसक्तम्|

छर्दिस्त्रिदोषाल्लवणाम्लनीलसान्द्रोष्णरक्तं वमतां नृणां स्यात्||१५||

विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संरुध्य यदोर्ध्वमेति|

उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात्||१६||

विण्मूत्रयोस्तत् समवर्णगन्धं तृट्श्वासहिक्कार्तियुतं प्रसक्तम्|

प्रच्छर्दयेद्दुष्टमिहातिवेगात्तयाऽर्दितश्चाशु विनाशमेति||१७||

द्विष्टप्रतीपाशुचिपूत्यमेध्यबीभत्सगन्धाशनदर्शनैश्च|

यच्छर्दयेत्तप्तमना मनोध्नैर्द्विष्टार्थसंयोगभवा मता सा||१८||

क्षीणस्य या छर्दिरतिप्रवृद्धा सोपद्रवा शोणितपूययुक्ता|

सचन्द्रिकां तां प्रवदन्त्यसाध्यां साध्यां चिकित्सेदनुपद्रवां ||१९||

आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्|

प्राक्कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि||२०||

चूर्णानि लिह्यान्मधुनाऽभयानां हृद्यानि वा यानि विरेचनानि|

मद्यैः पयोभिश्च युतानि युक्त्या नयन्त्यधो दोषमुदीर्णमूर्ध्वम्||२१||

वल्लीफलाद्यैर्वमनं पिबेद्वा यो दुर्बलस्तं शमनैश्चिकित्सेत्|

रसैर्मनोज्ञैर्लघुभिर्विशुष्कैर्भक्ष्यैः सभोज्यैर्विविधैश्च पानैः||२२||

सुसंस्कृतास्तित्तिरिबर्हिलावरसा व्यपोहन्त्यनिलप्रवृत्ताम्|

छर्दिं तथा कोलकुलत्थधान्यबिल्वादिमूलाम्लयवैश्च यूषः||२३||

वातात्मिकायां हृदयद्रवार्तो नरः पिबेत् सैन्धववद्धृतं तु|

सिद्धं तथा धान्यकनागराभ्यां दध्ना तोयेन दाडिमस्य||२४||

व्योषेण युक्तां लवणैस्त्रिभिश्च घृतस्य मात्रामथवा विदध्यात्|

स्निग्धानि हृद्यानि भोजनानि रसैः सयूषैर्दधिदाडिमाम्लैः||२५||

पित्तात्मिकायामनुलोमनार्थं द्राक्षाविदारीक्षुरसैस्त्रिवृत् स्यात्|

कफाशयस्थं त्वतिमात्रवृद्धं पित्तं हरेत् स्वादुभिरूर्ध्वमेव||२६||

शुद्धाय काले मधुशर्कराभ्यां लाजैश्च मन्थं यदि वाऽपि पेयाम्|

प्रदापयेन्मुद्गरसेन वाऽपि शाल्योदनं जाङ्गलजै रसैर्वा||२७||

सितोपलामाक्षिकपिप्पलीभिः कुल्माषलाजायवसक्तुगृञ्जान्|

खर्जूरमांसान्यथ नारिकेलं द्राक्षामथो वा बदराणि लिह्यात्||२८||

स्रोतोजलाजोत्पलकोलमज्जचूर्णानि लिह्यान्मधुनाऽभयां |

कोलास्थिमज्जाञ्जनमक्षिकाविड्लाजासितामागधिकाकणान् वा||२९||

द्राक्षारसं वाऽपि पिबेत् सुशीतं मृद्भृष्टलोष्टप्रभवं जलं वा|

जम्ब्वाम्रयोः पल्लवजं कषायं पिबेत् सुशीतं मधुसंयुतं वा||३०||

निशि स्थितं वारि समुद्गकृष्णं सोशीरधान्यं चणकोदकं वा|

गवेधुकामूलजलं गुडूच्या जलं पिबेदिक्षुरसं पयो वा||३१||

सेव्यं पिबेत् काञ्चनगैरिकं वा सबालकं तण्डुलधावनेन|

धात्रीरसेनोत्तमचन्दनं वा तृष्णावमिघ्नानि समाक्षिकाणि||३२||

कल्कं तथा चन्दनचव्यमांसीद्राक्षोत्तमाबालकगैरिकाणाम्|

शीताम्बुना गैरिकशालिचूर्णं मूर्वां तथा तण्डुलधावनेन||३३||

कफात्मिकायां वमनं प्रशस्तं सपिप्पलीसर्षपनिम्बतोयैः|

पिण्डीतकैः सैन्धवसम्प्रयुक्तैर्वम्यां कफामाशयशोधनार्थम्||३४||

गोधूमशालीन् सयवान् पुराणान् यूषैः पटोलामृतचित्रकाणाम्|

व्योषस्य निम्बस्य तक्रसिद्धैर्यूषैः फलाम्लैः कटुभिस्तथाऽद्यात्||३५||

रसांश्च शूल्यानि जाङ्गलानां मांसानि जीर्णान्मधुसीध्वरिष्टान्|

रागांस्तथा षाडवपानकानि द्राक्षाकपित्थैः फलपूरकैश्च||३६||

मुद्गान्मसूरांश्चणकान् कलायान् भृष्टान् युतान्नागरमाक्षिकाभ्याम्|

लिह्यात्तथैव त्रिफलाविडङ्गचूर्णं विडङ्गप्लवयोरथो [] वा||३७||

सजाम्बवं वा बदराम्लचूर्णं [] मुस्तायुतां कर्कटकस्य शृङ्गीम्|

दुरालभां वा मधुसम्प्रयुक्तां लिह्यात् कफच्छर्दिविनिग्रहार्थम्||३८||

मनःशिलायाः फलपूरकस्य रसैः कपित्थस्य पिप्पलीनाम्|

क्षौद्रेण चूर्णं मरिचैश्च युक्तं लिहञ्जयेच्छर्दिमुदीर्णवेगाम्||३९||

यैषा पृथक्त्वेन मया क्रियोक्ता तां सन्निपातेऽपि समस्य [] बुद्ध्या|

दोषर्तुरोगाग्निबलान्यवेक्ष्य प्रयोजयेच्छास्त्रविदप्रमत्तः||४०||

मनोभिघाते तु मनोनुकूला वाचः समाश्वासनहर्षणानि|

लोकप्रसिद्धाः श्रुतयो वयस्याः शृङ्गारिकाश्चैव हिता विहाराः||४१||

गन्धा विचित्रा मनसोऽनुकूला मृत्पुष्पशुक्ताम्लफलादिकानाम्|

शाकानि भोज्यान्यथ पानकानि सुसंस्कृताः षाडवरागलेहाः||४२||

यूषा रसाः काम्बलिका खडाश्च मांसानि धाना विविधाश्च भक्ष्याः|

फलानि मूलानि गन्धवर्णरसैरुपेतानि वमिं जयन्ति||४३||

गन्धं रसं स्पर्शमथापि शब्दं रूपं यद्यत् प्रियमप्यसात्म्यम्|

तदेव दद्यात् प्रशमाय तस्यास्तज्जो हि रोगः सुख एव जेतुम्||४४||

छर्द्युत्थितानां चिकित्सितात् स्वाच्चिकित्सितं कार्यमुपद्रवाणाम्|

अतिप्रवृत्तासु विरेचनस्य कर्मातियोगे विहितं विधेयम्||४५||

वमिप्रसङ्गात् पवनोऽप्यवश्यं धातुक्षयाद्धृद्धिमुपैति तस्मात्|

चिरप्रवृत्तास्वनिलापहानि कार्याण्युपस्तम्भनबृंहणानि||४६||

सर्पिर्गुडाः क्षीरविधिर्घृतानि कल्याणकत्र्यूषणजीवनानि|

वृष्यास्तथा मांसरसाः सलेहाश्चिरप्रसक्तां वमिं जयन्ति||४७||

तत्र श्लोकः-

हेतुं सङ्ख्यां लक्षणमुपद्रवान् साध्यतां योगांश्च|

छर्दीनां प्रशमार्थं प्राह चिकित्सितं मुनिवर्यः||४८||

 

Post a Comment

0 Comments