For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातो हिक्काश्वासचिकित्सितं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः ||२||
वेदलोकार्थतत्त्वज्ञमात्रेयमृषिमुत्तमम् |
अपृच्छत् संशयं धीमानग्निवेशः कृताञ्जलिः ||३||
य इमे द्विविधाः प्रोक्तास्त्रिदोषास्त्रिप्रकोपणाः |
रोगा नानात्मकास्तेषां कस्को भवति दुर्जयः ||४||
अग्निवेशस्य तद्वाक्यं श्रुत्वा मतिमतां वरः |
उवाच परमप्रीतः परमार्थविनिश्चयम् ||५||
कामं प्राणहरा रोगा बहवो न तु ते तथा |
यथा श्वासश्च हिक्का च प्राणानाशु निकृन्ततः ||६||
अन्यैरप्युपसृष्टस्य रोगैर्जन्तोः पृथग्विधैः |
अन्ते सञ्जायते हिक्का श्वासो वा तीव्रवेदनः ||७||
कफवातात्मकावेतौ पित्तस्थानसमुद्भवौ |
हृदयस्य रसादीनां धातूनां चोपशोषणौ ||८||
तस्मात् साधारणावेतौ मतौ परमदुर्जयौ |
मिथ्योपचरितौ क्रुद्धौ हत आशीविषाविव ||९||
पृथक् पञ्चविधावेतौ निर्दिष्टौ रोगसङ्ग्रहे |
तयोः शृणु समुत्थानं लिङ्गं च सभिषग्जितम् ||१०||
रजसा धूमवाताभ्यां शीतस्थानाम्बुसेवनात् |
व्यायामाद्ग्राम्यधर्माध्वरूक्षान्नविषमाशनात् ||११||
आमप्रदोषादानाहाद्रौक्ष्यादत्यपतर्पणात् |
दौर्बल्यान्मर्मणो घाताद्द्वन्द्वाच्छुद्ध्यतियोगतः ||१२||
अतीसारज्वरच्छर्दिप्रतिश्यायक्षतक्षयात् |
रक्तपित्तादुदावर्ताद्विसूच्यलसकादपि ||१३||
पाण्डुरोगाद्विषाच्चैव प्रवर्तेते गदाविमौ |
निष्पावमाषपिण्याकतिलतैलनिषेवणात् ||१४||
पिष्टशालूकविष्टम्भिविदाहिगुरुभोजनात् |
जलजानूपपिशितदध्यामक्षीरसेवनात् ||१५||
अभिष्यन्द्युपचाराच्च श्लेष्मलानां च सेवनात् |
कण्ठोरसः प्रतीघाताद्विबन्धैश्च पृथग्विधैः ||१६||
मारुतः प्राणवाहीनि स्रोतांस्याविश्य कुप्यति |
उरःस्थः कफमुद्धूय हिक्काश्वासान् करोति सः ||१७||
घोरान् प्राणोपरोधाय प्राणिनां पञ्च पञ्च च |१८|
उभयोः पूर्वरूपाणि शृणु वक्ष्याम्यतः परम् ||१८||
कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता | हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च ||१९||
आनाहः पार्श्वशूलं च पीडनं हृदयस्य च | प्राणस्य च विलोमत्वं श्वासानां पूर्वलक्षणम् ||२०||
प्राणोदकान्नवाहीनि स्रोतांसि सकफोऽनिलः | हिक्का करोति संरुध्य तासां लिङ्गं पृथक् शृणु ||२१||
क्षीणमांसबलप्राणतेजसः सकफोऽनिलः |
गृहीत्वा सहसा कण्ठमुच्चैर्घोषवतीं भृशम् ||२२||
करोति सततं हिक्कामेकद्वित्रिगुणं तथा | प्राणः स्रोतांसि मर्माणि संरुध्योष्माणमेव च ||२३||
सञ्ज्ञां मुष्णाति गात्राणां स्तम्भं सञ्जनयत्यपि | मार्गं चैवान्नपानानां रुणद्ध्युपहतस्मृतेः ||२४||
साश्रुविप्लुतनेत्रस्य स्तब्धशङ्खच्युतभ्रुवः | सक्तजल्पप्रलापस्य निर्वृतिं नाधिगच्छतः ||२५||
महामूला महावेगा महाशब्दा महाबला |
महाहिक्केति सा नॄणां सद्यः प्राणहरा मता ||२६||
इति महाहिक्का |
हिक्कते यः प्रवृद्धस्तु कृशो दीनमना नरः | जर्जरेणोरसा कृच्छ्रं गम्भीरमनुनादयन् ||२७||
सञ्जृम्भन् सङ्क्षिपंश्चैव तथाऽङ्गानि प्रसारयन् |
पार्श्वे चोभे समायम्य कूजन् स्तम्भरुगर्दितः ||२८||
नाभेः पक्वाशयाद्वाऽपि हिक्का चास्योपजायते |
क्षोभयन्ती भृशं देहं नामयन्तीव ताम्यतः ||२९||
रुणद्ध्युच्छ्वासमार्गं तु प्रनष्टबलचेतसः | गम्भीरा नाम सा तस्य हिक्का प्राणान्तिकी मता ||३०||
इति गम्भीरा हिक्का |
व्यपेता जायते हिक्का याऽन्नपाने चतुर्विधे | आहारपरिणामान्ते भूयश्च लभते बलम् ||३१||
प्रलापवम्यतीसारतृष्णार्तस्य विचेतसः |
जृम्भिणो विप्लुताक्षस्य शुष्कास्यस्य विनामिनः ||३२||
पर्याध्मातस्य हिक्का या जत्रुमूलादसन्तता | सा व्यपेतेति विज्ञेया हिक्का प्राणोपरोधिनी ||३३||
इति व्यपेता हिक्का |
क्षुद्रवातो यदा कोष्ठाद्व्यायामपरिघट्टितः | कण्ठे प्रपद्यते हिक्कां तदा क्षुद्रां करोति सः ||३४||
अतिदुःखा न सा चोरःशिरोमर्मप्रबाधिनी | न चोच्छ्वासान्नपानानां मार्गमावृत्य तिष्ठति ||३५||
वृद्धिमायस्यतो याति भुक्तमात्रे च मार्दवम् | यतः प्रवर्तते पूर्वं तत एव निवर्तते ||३६||
हृदयं क्लोम कण्ठं च तालुकं च समाश्रिता |
मृद्वी सा क्षुद्रहिक्केति नृणां साध्या प्रकीर्तिता ||३७||
इति क्षुद्रहिक्का |
सहसाऽत्यभ्यवहृतैः पानान्नैः पीडितोऽनिलः | ऊर्ध्वं प्रपद्यते कोष्ठान्मद्यैर्वाऽतिमदप्रदैः ||३८||
तथाऽतिरोषभाष्याध्वहास्यभारातिवर्तनैः | वायुः कोष्ठगतो धावन् पानभोज्यप्रपीडितः ||३९||
उरःस्रोतः समाविश्य कुर्याद्धिक्कां ततोऽन्नजाम् | तथा शनैरसम्बन्धं क्षुवंश्चापि स हिक्कते ||४०||
न मर्मबाधाजननी नेन्द्रियाणां प्रबाधिनी | हिक्का पीते तथा भुक्ते शमं याति च साऽन्नजा ||४१||
इत्यन्नजा हिक्का |
अतिसञ्चितदोषस्य भक्तच्छेदकृशस्य च | व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः ||४२||
आसां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम् |
यमिका च प्रलापार्तितृष्णामोहसमन्विता ||४३||
अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः |
तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा ||४४||
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः | विष्वग्व्रजति संरुद्धस्तदा श्वासान्करोति सः ||४५||
उद्धूयमानवातो यः शब्दवद्दुखितो नरः | उच्चैः श्वसिति संरुद्धो मत्तर्षभ इवानिशम् ||४६||
प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः |
विकृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक् ||४७||
दीनः प्रश्वसितं चास्य दूराद्विज्ञायते भृशम् | महाश्वासोपसृष्टः स क्षिप्रमेव विपद्यते ||४८||
इति महाश्वासः |
दीर्घं श्वसिति यस्तूर्ध्वं न च प्रत्याहरत्यधः | श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः ||४९||
ऊर्ध्वदृष्टिर्विपश्यंश्च विभ्रान्ताक्ष इतस्ततः | प्रमुह्यन् वेदनार्तश्च शुष्कास्योऽरतिपीडितः ||५०||
ऊर्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुध्यते |
मुह्यतस्ताम्यतश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून् ||५१||
इत्यूर्ध्वश्वासः |
यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः | न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः ||५२||
आनाहस्वेदमूर्च्छार्तो दह्यमानेन बस्तिना | विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः ||५३||
विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः |
छिन्नश्वासेन विच्छिन्नः स शीघ्रं प्रजहात्यसून् ||५४||
इति छिन्नश्वासः |
प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते | ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च ||५५||
करोति पीनसं तेन रुद्धो घुर्घुरुकं तथा | अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम् ||५६||
प्रताम्यत्यतिवेगाच्च कासते सन्निरुध्यते | प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः ||५७||
श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः |
तस्यैव च विमोक्षान्ते मुहूर्तं लभते सुखम् ||५८||
अथास्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम् | न चापि निद्रां लभते शयानः श्वासपीडितः ||५९||
पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः |
आसीनो लभते सौख्यमुष्णं चैवाभिनन्दति ||६०||
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान् |
विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते ||६१||
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्चाभिवर्धते | स याप्यस्तमकश्वासः साध्यो वा स्यान्नवोत्थितः ||६२||
इति तमकश्वासः |
ज्वरमूर्च्छापरीतस्य विद्यात् प्रतमकं तु तम् |
उदावर्तरजोऽजीर्णक्लिन्नकायनिरोधजः ||६३||
तमसा वर्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति |
मज्जतस्तमसीवाऽस्य विद्यात् सन्तमकं तु तम् ||६४||
इति प्रतमकसन्तमकश्वासौ |
रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन् | क्षुद्रश्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः ||६५||
हिनस्ति न स गात्राणि न च दुःखो यथेतरे | न च भोजनपानानां निरुणद्ध्युचितां गतिम् ||६६||
नेन्द्रियाणां व्यथां नापि काञ्चिदापादयेद्रुजम् | स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः ||६७||
इति श्वासाः समुद्दिष्टा हिक्काश्चैव स्वलक्षणैः |६८|
एषां प्राणहरा वर्ज्या घोरास्ते ह्याशुकारिणः ||६८||
भेषजैः साध्ययाप्यांस्तु क्षिप्रं भिषगुपाचरेत् |
उपेक्षिता दहेयुर्हि शुष्कं कक्षमिवानलः ||६९||
कारणस्थानमूलैक्यादेकमेव चिकित्सितम् |
द्वयोरपि यथादृष्टमृषिभिस्तन्निबोधत ||७०||
हिक्काश्वासार्दितं स्निग्धैरादौ स्वेदैरुपाचरेत् | आक्तं लवणतैलेन नाडीप्रस्तरसङ्करैः ||७१||
तैरस्य ग्रथितः श्लेष्मा स्रोतःस्वभिविलीयते | खानि मार्दवमायान्ति ततो वातानुलोमता ||७२||
यथाऽद्रिकुञ्जेष्वर्कांशुतप्तं विष्यन्दते हिमम् | श्लेष्मा तप्तः स्थिरो देहे स्वेदैर्विष्यन्दते तथा ||७३||
स्विन्नं ज्ञात्वा ततस्तूर्णं भोजयेत् स्निग्धमोदनम् | मत्स्यानां शूकराणां वा रसैर्दध्युत्तरेण वा ||७४||
ततः श्लेष्मणि संवृद्धे वमनं पाययेत्तु तम् | पिप्पलीसैन्धवक्षौद्रैर्युक्तं वाताविरोधि यत् ||७५||
निर्हृते सुखमाप्नोति स कफे दुष्टविग्रहे | स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः ||७६||
लीनश्चेद्दोषशेषः स्याद्धूमैस्तं निर्हरेद्बुधः | हरिद्रां पत्रमेरण्डमूलं लाक्षां मनःशिलाम् ||७७||
सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत् | तां घृताक्तां पिबेद्धूमं यवैर्वा घृतसंयुतैः ||७८||
मधूच्छिष्टं सर्जरसं घृतं मल्लकसम्पुटे |
कृत्वा धूमं पिबेच्छृङ्गं बालं वा स्नायु वा गवाम् ||७९||
स्योनाकवर्धमानानां नाडीं शुष्कां कुशस्य वा |
पद्मकं गुग्गुलुं लोहं शल्लकीं वा घृताप्लुतम् ||८०||
स्वरक्षीणातिसारासृक्पित्तदाहानुबन्धजान् | मधुरस्निग्धशीताद्यैर्हिक्काश्वासानुपाचरेत् ||८१||
न स्वेद्याः पित्तदाहार्ता रक्तस्वेदातिवर्तिनः | क्षीणधातुबला रूक्षा गर्भिण्यश्चापि पित्तलाः ||८२||
कोष्णैः काममुरःकण्ठं स्नेहसेकैः सशर्करैः |
उत्कारिकोपनाहैश्च स्वेदयेन् मृदुभिः क्षणम् ||८३||
तिलोमामाषगोधूमचूर्णैर्वातहरैः सह |
स्नेहैश्चोत्कारिका साम्लैः सक्षीरैर्वा कृता हिता ||८४||
नवज्वरामदोषेषु रूक्षस्वेदं विलङ्घनम् | समीक्ष्योल्लेखनं वाऽपि कारयेल्लवणाम्बुना ||८५||
अतियोगोद्धतं वातं दृष्ट्वा वातहरैर्भिषक् |
रसाद्यैर्नातिशीतोष्णैरभ्यङ्गैश्च शमं नयेत् ||८६||
उदावर्ते तथाऽऽध्माने मातुलुङ्गाम्लवेतसैः | हिङ्गुपीलुबिडैश्चान्नं युक्तं स्यादनुलोमनम् ||८७||
हिक्काश्वासामयी ह्येको बलवान् दुर्बलोऽपरः |
कफाधिकस्तथैवैको रूक्षो बह्वनिलोऽपरः ||८८||
कफाधिके बलस्थे च वमनं सविरेचनम् | कुर्यात् पथ्याशिने धूमलेहादिशमनं ततः ||८९||
वातिकान् दुर्बलान् बालान् वृद्धांश्चानिलसूदनैः | तर्पयेदेव शमनैः स्नेहयूषरसादिभिः ||९०||
अनुत्क्लिष्टकफास्विन्नदुर्बलानां विशोधनात् |
वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून् ||९१||
दृढान् बहुकफांस्तस्माद्रसैरानूपवारिजैः | तृप्तान्विशोधयेत्स्विन्नान् बृंहयेदितरान् भिषक् ||९२||
बर्हितित्तिरिदक्षाश्च जाङ्गलाश्च मृगद्विजाः | दशमूलीरसे सिद्धाः कौलत्थे वा रसे हिताः ||९३||
निदिग्धिकां बिल्वमध्यं कर्कटाख्यां दुरालभाम् |
त्रिकण्टकं गुडूचीं च कुलत्थांश्च सचित्रकान् ||९४||
जले पक्त्वा रसः पूतः पिप्पलीघृतभर्जितः | सनागरः सलवणः स्याद्यूषो भोजने हितः ||९५||
रास्नां बलां पञ्चमूलं ह्रस्वं मुद्गान् सचित्रकान् | पक्त्वाऽम्भसि रसे तस्मिन् यूषः साध्यश्च पूर्ववत् ||९६||
पल्लवान्मातुलुङ्गस्य निम्बस्य कुलकस्य च | पक्त्वा मुद्गांश्च सव्योषान् क्षारयूषं विपाचयेत् ||९७||
दत्त्वा सलवणं क्षारं शिग्रूणि मरिचानि च | युक्त्या संसाधितो यूषो हिक्काश्वासविकारनुत् ||९८||
कासमर्दकपत्राणां यूषः शोभाञ्जनस्य च | शुष्कमूलकयूषश्च हिक्काश्वासनिवारणः ||९९||
सदधिव्योषसर्पिष्को यूषो वार्ताकजो हितः | शालिषष्टिकगोधूमयवान्नान्यनवानि च ||१००||
हिङ्गुसौवर्चलाजाजीबिडपौष्करचित्रकैः | सिद्धा कर्कटशृङ्ग्या च यवागूः श्वासहिक्किनाम् ||१०१||
दशमूलीशटीरास्नापिप्पलीमूलपौष्करैः | शृङ्गीतामलकीभार्गीगुडूचीनागराम्बुभिः ||१०२||
यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः | कासहृद्ग्रहपार्श्वार्तिहिक्काश्वासप्रशान्तये ||१०३||
पुष्कराह्वशटीव्योषमातुलुङ्गाम्लवेतसैः | योजयेदन्नपानानि ससर्पिर्बिडहिङ्गुभिः ||१०४||
दशमूलस्य वा क्वाथमथवा देवदारुणः |
तृषितो मदिरां वाऽपि हिक्काश्वासी पिबेन्नरः ||१०५||
पाठां मधुरसां रास्नां सरलं देवदारु च | प्रक्षाल्य जर्जरीकृत्य सुरामण्डे निधापयेत् ||१०६||
तं मन्दलवणं कृत्वा भिषक् प्रसृतसम्मितम् | पाययेत्तु ततो हिक्का श्वासश्चैवोपशाम्यति ||१०७||
हिङ्गु सौवर्चलं कोलं समङ्गां पिप्पलीं बलाम् | मातुलुङ्गरसे पिष्टमारनालेन वा पिबेत् ||१०८||
सौवर्चलं नागरं च भार्गीं द्विशर्करायुतम् | उष्णाम्बुना पिबेदेतद्धिक्काश्वासविकारनुत् ||१०९||
भार्गीनागरयोः कल्कं मरिचक्षारयोस्तथा | पीतद्रुचित्रकास्फोतामूर्वाणां चाम्बुना पिबेत् ||११०||
मधूलिका तुगाक्षीरी नागरं पिप्पली तथा | उत्कारिका घृते सिद्धा श्वासे पित्तानुबन्धजे ||१११||
श्वाविधं शशमांसं च शल्लकस्य च शोणितम् | पिप्पलीघृतसिद्धानि श्वासे वातानुबन्धजे ||११२||
सुवर्चलारसो दुग्धं घृतं त्रिकटुकान्वितम् | शाल्योदनस्यानुपानं वातपित्तानुगे हितम् ||११३||
शिरीषपुष्पस्वरसः सप्तपर्णस्य वा पुनः | पिप्पलीमधुसंयुक्तः कफपित्तानुगे मतः ||११४||
मधुकं पिप्पलीमूलं गुडो गोश्वशकृद्रसः [१] | घृतं क्षौद्रं कासश्वासहिक्काभिष्यन्दिनां शुभम् ||११५||
खराश्वोष्ट्रवराहाणां मेषस्य च गजस्य च |
शकृद्रसं बहुकफे चैकैकं मधुना पिबेत् ||११६||
क्षारं चाप्यश्वगन्धाया लिह्यान्ना क्षौद्रसर्पिषा |
मयूरपादनालं वा शकलं शल्लकस्य वा ||११७||
श्वाविज्जाण्डकचाषाणां [२] रोमाणि कुररस्य वा |
शृङ्ग्येकद्विशफानां [३] वा चर्मास्थीनि खुरांस्तथा ||११८||
सर्वाण्येकैकशो वाऽपि दग्ध्वा क्षौद्रघृतान्वितम् | चूर्णं लीढ्वा जयेत् कासं हिक्कां श्वासं च दारुणम् ||११९||
एते हि कफसंरुद्धगतिप्राणप्रकोपजाः [४] | तस्मात्तन्मार्गशुद्ध्यर्थं देया लेहा न निष्कफे ||१२०||
कासिने च्छर्दनं दद्यात् स्वरभङ्गे च बुद्धिमान् | वातश्लेष्महरैर्युक्तं तमके तु विरेचनम् ||१२१||
उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम् | यथा तथाऽनिलस्तस्य मार्गं नित्यं विशोधयेत् ||१२२||
शटीचोरकजीवन्तीत्वङ्मुस्तं पुष्कराह्वयम् |
सुरसं तामलक्येला पिप्पल्यगुरु नागरम् ||१२३||
वालकं च समं चूर्णं कृत्वाऽष्टगुणशर्करम् | सर्वथा तमके श्वासे हिक्कायां च प्रयोजयेत् ||१२४||
मुक्ताप्रवालवैदूर्यशङ्खस्फटिकमञ्जनम् | ससारगन्धकाचार्कसूक्ष्मैलालवणद्वयम् [१] ||१२५||
ताम्रायोरजसी रूप्यं ससौगन्धिकसीसकम् [२] | जातीफलं शणाद्बीजमपामार्गस्य तण्डुलाः ||१२६||
एषां पाणितलं चूर्णं तुल्यानां क्षौद्रसर्पिषा | हिक्कां श्वासं च कासं च लीढमाशु नियच्छति ||१२७||
अञ्जनात्तिमिरं काचं नीलिकां पुष्पकं तमः | मल्यं [३] कण्डूमभिष्यन्दमर्म चैव प्रणाशयेत् ||१२८||
इति मुक्ताद्यं चूर्णम् |
शटीपुष्करमूलानां चूर्णमामलकस्य च | मधुना संयुतं लेह्यं चूर्णं वा काललोहजम् ||१२९||
सशर्करां तामलकीं द्राक्षां गोश्वशकृद्रसम् |
तुल्यं गुडं नागरं च प्राशयेन्नावयेत्तथा ||१३०||
लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा | नावयेच्चन्दनं वाऽपि नारीक्षीरेण संयुतम् ||१३१||
सुखोष्णं घृतमण्डं वा सैन्धवेनावचूर्णितम् | नावयेन्माक्षिकीं विष्ठामलक्तकरसेन वा ||१३२||
नारीक्षीरेण सिद्धं वा सर्पिर्मधुरकैरपि | पीतं नस्तो निषिक्तं वा सद्यो हिक्कां नियच्छति ||१३३||
सकृदुष्णं सकृच्छीतं व्यत्यासाद्धिक्किनां पयः | पाने नस्तःक्रियायां वा शर्करामधुसंयुतम् ||१३४||
अधोभागैर्घृतं सिद्धं सद्यो हिक्कां नियच्छति | पिप्पलीमधुयुक्तौ वा रसौ धात्रीकपित्थयोः ||१३५||
लाजालाक्षामधुद्राक्षापिप्पल्यश्वशकृद्रसान् | लिह्यात् कोलमधुद्राक्षापिप्पलीनागराणि वा ||१३६||
शीताम्बुसेकः सहसा त्रासो विस्मापनं भयम् | क्रोधहर्षप्रियोद्वेगा हिक्काप्रच्यावना मताः ||१३७||
हिक्काश्वासविकाराणां निदानं यत् प्रकीर्तितम् | वर्ज्यमारोग्यकामैस्तद्धिक्काश्वासविकारिभिः ||१३८||
हिक्काश्वासानुबन्धा [१] ये शुष्कोरःकण्ठतालुकाः | प्रकृत्या रूक्षदेहाश्च सर्पिर्भिस्तानुपाचरेत् ||१३९||
दशमूलरसे सर्पिर्दधिमण्डे च साधयेत् |
कृष्णासौवर्चलक्षारवयःस्थाहिङ्गुचोरकैः ||१४०||
कायस्थया च तत् पानाद्धिक्काश्वासौ प्रणाशयेत् |१४१|
तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी ||१४१||
भूतीकं पौष्करं मूलं पलाशश्चित्रकः शटी | सौवर्चलं तामलकी सैन्धवं बिल्वपेशिका ||१४२||
तालीसपत्रं जीवन्ती वचा तैरक्षसम्मितैः |
हिङ्गुपादैर्घृतप्रस्थं पचेत्तोये चतुर्गुणे ||१४३||
एतद्यथाबलं पीत्वा हिक्काश्वासौ जयेन्नरः |
शोथानिलार्शोग्रहणीहृत्पार्श्वरुज [१] एव च ||१४४||
इति तेजोवत्यादिघृतम् |
मनःशिलासर्जरसलाक्षारजनिपद्मकैः | मञ्जिष्ठैलैश्च कर्षांशैः प्रस्थः सिद्धो घृताद्धितः ||१४५||
जीवनीयोपसिद्धं वा सक्षौद्रं लेहयेद्धृतम् |
त्र्यूषणं दाधिकं वाऽपि पिबेद्वासाघृतं तथा ||१४६||
इति मनःशिलादिघृतम् |
यत्किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम् | भेषजं पानमत्रं वा तद्धितं श्वासहिक्किने ||१४७||
वातकृद्वा कफहरं कफकृद्वाऽनिलापहम् | कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम् ||१४८||
सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत् | नात्यर्थं शमनेऽपायो भृशोऽशक्यश्च कर्शने ||१४९||
तस्माच्छुद्धानशुद्धांश्च शमनैर्बृंहणैरपि |
हिक्काश्वासार्दिताञ्जन्तून् प्रायशः समुपाचरेत् ||१५०||
तत्र श्लोकः
दुर्जयत्वे समुत्पत्तौ क्रियैकत्वे च कारणम् | लिङ्गं पथ्यं च हिक्कानां श्वासानां चेह दर्शितम् ||१५१||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने हिक्काश्वासचिकित्सितं नाम सप्तदशोऽध्यायः ||१७||
0 Comments