Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 16 pandu roga








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातः पाण्डुरोगचिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः|

चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः||||

दोषाः पित्तप्रधानास्तु यस्य कुप्यन्ति धातुषु|

शैथिल्यं तस्य धातूनां गौरवं चोपजायते||||

ततो वर्णबलस्नेहा ये चान्येऽप्योजसो गुणाः|

व्रजन्ति क्षयमत्यर्थं दोषदूष्यप्रदूषणात्||||

सोऽल्परक्तोऽल्पमेदस्को निःसारः शिथिलेन्द्रियः|

वैवर्ण्यं भजते, तस्य हेतुं शृणु सलक्षणम्||||

क्षाराम्ललवणात्युष्णविरुद्धासात्म्यभोजनात्|

निष्पावमाषपिण्याकतिलतैलनिषेवणात्||||

विदग्धेऽन्ने दिवास्वप्नाद्व्यायामान्मैथुनात्तथा|

प्रतिकर्मर्तुवैषम्याद्वेगानां विधारणात्||||

कामचिन्ताभयक्रोधशोकोपहतचेतसः|

समुदीर्णं यदा पित्तं हृदये समवस्थितम्||||

वायुना बलिना क्षिप्तं सम्प्राप्य धमनीर्दश|

प्रपन्नं केवलं देहं त्वङ्मांसान्तरमाश्रितम्||१०||

प्रदूष्य कफवातासृक्त्वङ्मांसानि करोति तत्|

पाण्डुहारिद्रहरितान् वर्णान् बहुविधांस्त्वचि||११||

पाण्डुरोग इत्युक्तः ...|१२|

.. तस्य लिङ्गं भविष्यतः|

हृदयस्पन्दनं रौक्ष्यं स्वेदाभावः श्रमस्तथा||१२||

सम्भूतेऽस्मिन् भवेत् सर्वः कर्णक्ष्वेडी हतानलः|

दुर्बलः सदनोऽन्नद्विट् श्रमभ्रमनिपीडितः||१३||

गात्रशूलज्वरश्वासगौरवारुचिमान्नरः|

मृदितैरिव गात्रैश्च पीडितोन्मथितैरिव||१४||

शूनाक्षिकूटो हरितः शीर्णलोमा हतप्रभः|

कोपनः शिशिरद्वेषी निद्रालुः ष्ठीवनोऽल्पवाक्||१५||

पिण्डिकोद्वेष्टकट्यूरुपादरुक्सदनानि |

भवन्त्यारोहणायासैर्विशेषश्चास्य [] वक्ष्यते||१६||

आहारैरुपचारैश्च वातलैः कुपितोऽनिलः|

जनयेत्कृष्णपाण्डुत्वं [] तथा रूक्षारुणाङ्गताम्||१७||

अङ्गमर्दं रुजं तोदं कम्पं पार्श्वशिरोरुजम्|

वर्चःशोषास्यवैरस्यशोफानाहबलक्षयान्||१८||

पित्तलस्याचितं पित्तं यथोक्तैः स्वैः प्रकोपणैः|

दूषयित्वा तु रक्तादीन् पाण्डुरोगाय कल्पते||१९||

पीतो हरिताभो वा ज्वरदाहसमन्वितः|

तृष्णामूर्च्छापिपासार्तः [] पीतमूत्रशकृन्नरः||२०||

स्वेदनः शीतकामश्च चान्नमभिनन्दति|

कटुकास्यो चास्योष्णमुपशेतेऽम्लमेव ||२१||

उद्गारोऽम्लो विदाहश्च विदग्धेऽन्नेऽस्य जायते|

दौर्गन्ध्यं भिन्नवर्चस्त्वं दौर्बल्यं तम एव ||२२||

विवृद्धः श्लेष्मलैः श्लेष्मा पाण्डुरोगं पूर्ववत्|

करोति गौरवं तन्द्रा छर्दिं श्वेतावभासताम्||२३||

प्रसेकं लोमहर्षं सादं मूर्च्छां भ्रमं क्लमम्|

श्वासं कासं तथाऽऽलस्यमरुचिं वाक्स्वरग्रहम्||२४||

शुक्लमूत्राक्षिवर्चस्त्वं कटुरूक्षोष्णकामताम्|

श्वयथुं मधुरास्यत्वमिति [] पाण्ड्वामयः कफात्||२५||

सर्वान्नसेविनः सर्वे दुष्टा दोषास्त्रिदोषजम्| त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगं सुदुःसहम्||२६||

मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः| कषाया मारुतं, पित्तमूषरा, मधुरा कफम्||२७||

कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तं विरूक्षयेत् [] | पूरयत्यविपक्वैव स्रोतांसि निरुणद्धि ||२८||

इन्द्रियाणां बलं हत्वा तेजो वीर्यौजसी तथा| पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम्||२९||

शूनगण्डाक्षिकूटभ्रूः [] शूनपान्नाभिमेहनः| क्रिमिकोष्ठोऽतिसार्येत मलं सासृक् कफान्वितम्||३०||

पाण्डुरोगश्चिरोत्पन्नः खरीभूतो सिध्यति| कालप्रकर्षाच्छूनो [] ना यश्च पीतानि पश्यति||३१||

बद्धाल्पविट्कं सकफं हरितं योऽतिसार्यते| दीनः श्वेतातिदिग्धाङ्गश्छर्दिमूर्च्छातृषार्दितः||३२||

नास्त्यसृक्क्षयाद्यश्च पाण्डुः श्वेतत्वमाप्नुयात्| इति पञ्चविधस्योक्तं पाण्डुरोगस्य लक्षणम्||३३||

पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते| तस्य पित्तमसृग्मांसं दग्ध्वा रोगाय कल्पते||३४||

हारिद्रनेत्रः भृशं हारिद्रत्वङ्नखाननः| रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रियः||३५||

दाहाविपाकदौर्बल्यसदनारुचिकर्षितः| कामला बहुपित्तैषा कोष्ठशाखाश्रया मता||३६||

कालान्तरात् खरीभूता कृच्छ्रा स्यात् कुम्भकामला| 36½ |

कृष्णपीतशकृन्मूत्रो [] भृशं शूनश्च मानवः||३७||

सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति| दाहारुचितृषानाहतन्द्रामोहसमन्वितः||३८||

नष्टाग्निसञ्ज्ञः क्षिप्रं हि कामलावान् विपद्यते|38½|

साध्यानामितरेषां तु प्रवक्ष्यामि चिकित्सितम्||३९||

तत्र पाण्ड्वामयी स्निग्धस्तीक्ष्णैरूर्ध्वानुलोमिकैः| संशोध्यो मृदुभिस्तिक्तैः कामली तु विरेचनैः||४०||

ताभ्यां संशुद्धकोष्ठाभ्यां पथ्यान्यन्नानि दापयेत्| शालीन् सयवगोधूमान् पुराणान् यूषसंहितान्||४१||

मुद्गाढकीमसूरैश्च जाङ्गलैश्च रसैर्हितैः| यथादोषं विशिष्टं तयोर्भैषज्यमाचरेत्||४२||

पञ्चगव्यं महातिक्तं कल्याणकमथापि वा| स्नेहनार्थं घृतं दद्यात् कामलापाण्डुरोगिणे||४३||

दाडिमात् कुडवो धान्यात् कुडवार्धं पलं पलम्| चित्रकाच्छृङ्गवेराच्च पिप्पल्यष्टमिका तथा||४४||

तैः कल्कैर्विंशतिपलं घृतस्य सलिलाढके| सिद्धं हृत्पाण्डुगुल्मार्शःप्लीहवातकफार्तिनुत्||४५||

दीपनं श्वासकासघ्नं मूढवाते शस्यते| दुःखप्रसविनीनां वन्ध्यानां चैव गर्भदम्||४६||

इति दाडिमाद्यं घृतम्|

कटुका रोहिणी मुस्तं हरिद्रे वत्सकात् पलम्| पटोलं चन्दनं मूर्वा त्रायमाणा दुरालभा||४७||

कृष्णा पर्पटको निम्बो भूनिम्बो देवदारु | तैः कार्षिकैर्घृतप्रस्थः सिद्धः क्षीरचतुर्गुणः||४८||

रक्तपित्तं ज्वरं दाहं श्वयथुं भगन्दरम्| अर्शांस्यसृग्दरं चैव हन्ति विस्फोटकांस्तथा||४९||

इति कटुकाद्यं घृतम्|

पथ्याशतरसे पथ्यावृन्तार्धशतकल्कवान्| प्रस्थः सिद्धो घृतात् पेयः पाण्ड्वामयगुल्मनुत्||५०||

इति पथ्याघृतम्|

दन्त्याश्चतुष्पलरसे पिष्टैर्दन्तीशलाटुभिः| तद्वत्प्रस्थो घृतात्सिद्धः प्लीहपाण्ड्वर्तिशोफजित्||५१||

इति दन्तीघृतम्|

पुराणसर्पिषः प्रस्थो द्राक्षार्धप्रस्थसाधितः| कामलागुल्मपाण्ड्वर्तिज्वरमेहोदरापहः||५२||

इति द्राक्षाघृतम्|

हरिद्रात्रिफलानिम्बबलामधुकसाधितम्| सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम्||५३||

इति हरिद्रादिघृतम्|

गोमूत्रे द्विगुणे दार्व्याः कल्काक्षद्वयसाधितः| दार्व्याः पञ्चपलक्वाथे कल्के कालीयके परः||५४||

माहिषात् सर्पिषः प्रस्थः पूर्वः पूर्वे परे परः|५५|

स्नेहैरेभिरुपक्रम्य स्निग्धं मत्वा विरेचयेत्||५५||

पयसा मूत्रयुक्तेन बहुशः केवलेन वा| दन्तीफलरसे कोष्णे काश्मर्याञ्जलिना शृतम्||५६||

द्राक्षाञ्जलिं मृदित्वा वा दद्यात् पाण्ड्वामयापहम्| द्विशर्करं त्रिवृच्चूर्णं पलार्धं पैत्तिकः पिबेत्||५७||

कफपाण्डुस्तु गोमूत्रक्लिन्नयुक्तां [] हरीतकीम्| आरग्वधं [] रसेनेक्षोर्विदार्यामलकस्य ||५८||

सत्र्यूषणं बिल्वपत्रं पिबेन्ना कामलापहम्| दन्त्यर्धपलकल्कं वा द्विगुडं शीतवारिणा||५९||

कामली त्रिवृतां वाऽपि त्रिफलाया रसैः पिबेत्| विशालात्रिफलामुस्तकुष्ठदारुकलिङ्गकान्||६०||

कार्षिकानर्धकर्षांशां कुर्यादतिविषां तथा| कर्षौ मधुरसाया द्वौ सर्वमेतत् [] सुखाम्बुना||६१||

मृदितं तं रसं पूतं पीत्वा लिह्याच्च मध्वनु| कासं श्वासं ज्वरं दाहं पाण्डुरोगमरोचकम्||६२||

गुल्मानाहामवातांश्च रक्तपित्तं नाशयेत्| त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम्||६३||

शीतं मधुयुतं प्रातः कामलार्तः पिबेन्नरः| क्षीरमूत्रं पिबेत् पक्षं गव्यं माहिषमेव वा||६४||

पाण्डुर्गोमूत्रयुक्तं वा सप्ताहं त्रिफलारसम्| तरुजान् ज्वलितान्मूत्रे निर्वाप्यामृद्य चाङ्कुरान्||६५||

मातुलुङ्गस्य तत् पूतं पाण्डुशोथहरं पिबेत्| स्वर्णक्षीरी त्रिवृच्छ्यामे भद्रदारु सनागरम्||६६||

गोमूत्राञ्जलिना पिष्टं मूत्रे वा क्वथितं पिबेत्| क्षीरमेभिः शृतं वाऽपि पिबेद्दोषानुलोमनम्||६७||

हरीतकीं प्रयोगेण गोमूत्रेणाथवा पिबेत्| जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा||६८||

सप्तरात्रं गवां मूत्रे भावितं वाऽप्ययोरजः| पाण्डुरोगप्रशान्त्यर्थं पयसा पाययेद्भिषक्||६९||

त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः| नवायोरजसो भागास्तच्चूर्णं क्षौद्रसर्पिषा||७०||

भक्षयेत् पाण्डुहृद्रोगकुष्ठार्शःकामलापहम्| नवायसमिदं चूर्णं कृष्णात्रेयेण भाषितम्||७१||

इति नवायसचूर्णम्|

गुडनागरमण्डूरतिलांशान्मानतः समान्| पिप्पलीद्विगुणां कुर्याद्गुटिकां पाण्डुरोगिणे||७२||

त्र्यूषणं त्रिफला मुस्तं विडङ्गं चव्यचित्रकौ| दार्वीत्वङ्माक्षिको धातुर्ग्रन्थिकं देवदारु ||७३||

एतान् द्विपलिकान्भागांश्चूर्णं कुर्यात् पृथक् पृथक्| मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम्||७४||

गोमूत्रेऽष्टगुणे पक्त्वा तस्मिंस्तत् प्रक्षिपेत्ततः| उदुम्बरसमान्कृत्वा वटकांस्तान् यथाग्नि ना||७५||

उपयुञ्जीत तक्रेण सात्म्यं जीर्णे भोजनम्| मण्डूरवटका ह्येते प्राणदाः पाण्डुरोगिणाम्||७६||

कुष्ठान्यजीर्णकं शोथमूरुस्तम्भं कफामयान्| अर्शांसि कामलां मेहं प्लीहानं शमयन्ति ||७७||

इति मण्डूरवटकाः|

ताप्याद्रिजतुरूप्यायोमलाः पञ्चपलाः पृथक्| चित्रकत्रिफलाव्योषविडङ्गैः पलिकैः सह||७८||

शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुनाऽऽप्लुताः| अभ्यस्यास्त्वक्षमात्रा हि जीर्णे हितमिताशिना||७९||

कुलत्थकाकमाच्यादिकपोतपरिहारिणा|८०|

त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य ||८०||

भागश्चित्रकमूलस्य विडङ्गानां तथैव | पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य ||८१||

माक्षिकस्य शुद्धस्य लौहस्य रजसस्तथा| अष्टौ भागाः सितायाश्च तत्सर्वं सूक्ष्मचूर्णितम्||८२||

माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे| उदुम्बरसमां मात्रां ततः खादेद्यथाग्नि ना||८३||

दिने दिने प्रयुञ्जीत जीर्णे भोज्यं यथेप्सितम्| वर्जयित्वा कुलत्थानि काकमाचीं कपोतकम्||८४||

योगराज इति ख्यातो योगोऽयममृतोपमः| रसायनमिदं श्रेष्ठं सर्वरोगहरं शिवम्||८५||

पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम्| कुष्ठान्यजीर्णकं मेहं शोषं श्वासमरोचकम्||८६||

विशेषाद्धन्त्यपस्मारं कामलां गुदजानि |

इति योगराजः|

कौटजत्रिफलानिम्बपटोलघननागरैः||८७||

भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा| शिलाजतुपलान्यष्टौ तावती सितशर्करा||८८||

त्वक्क्षीरी पिप्पली धात्री कर्कटाख्या पलोन्मिता|

निदिग्ध्याः फलमूलाभ्यां पलं युक्त्या त्रिगन्धकम्|

चूर्णितं मधुनः कुर्यात् त्रिपलेनाक्षिकान् गुडान्| दाडिमाम्बुपयःपक्षिरसतोयसुरासवान्||९०||

तान् भक्षयित्वाऽनुपिबेन्निरन्नो भुक्त एव वा| पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरान्||९१||

पूतिहृच्छुक्रमूत्राग्निदोषशोषगरोदरान् [] | कासासृग्दरपित्तासृक्शोथगुल्मगलामयान्||९२||

ते सर्वव्रणान् हन्युः सर्वरोगहराः शिवाः|

इति शिलाजतुवटकाः|

पुनर्नवा त्रिवृद्व्योषविडङ्गं दारु चित्रकम्||९३||

कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकाः| पिप्पली [] पिप्पलीमूलं मुस्तं चेति पलोन्मितम्||९४||

मण्डूरं द्विगुणं चूर्णाद्गोमूत्रे द्व्याढके पचेत्| कोलवद्गुटिकाः कृत्वा तक्रेणालोड्य ना पिबेत्||९५||

ताः पाण्डुरोगान् प्लीहानमर्शांसि विषमज्वरम्| श्वयथुं ग्रहणीदोषं हन्युः कुष्ठं क्रिमींस्तथा||९६||

इति पुनर्नवामण्डूरम्|

दार्वीत्वक् त्रिफला व्योषं विडङ्गमयसो रजः| मधुसर्पिर्युतं लिह्यात् कामलापाण्डुरोगवान्||९७||

तुल्या अयोरजःपथ्याहरिद्राः क्षौद्रसर्पिषा| चूर्णिताः कामली लिह्याद्गुडक्षौद्रेण वाऽभयाः||९८||

त्रिफला द्वे हरिद्रे कटुरोहिण्ययोरजः| चूर्णितं क्षौद्रसर्पिर्भ्यां लेहः कामलापहः||९९||

द्विपलांशां तुगाक्षीरीं नागरं मधुयष्टिकाम्| प्रास्थिकीं पिप्पलीं द्राक्षां शर्करार्धतुलां शुभाम्||१००||

धात्रीफलरसद्रोणे चूर्णितं लेहवत् पचेत्| शीतं मधुप्रस्थयुतं लिह्यात् पाणितलं ततः||१०१||

हन्त्येष कामलां पित्तं पाण्डुं कासं हलीमकम्|

इति धात्र्यवलेहः|

त्र्यूषणं त्रिफला चव्यं चित्रको देवदारु ||१०२||

विडङ्गान्यथ मुस्तं वत्सकं चेति चूर्णयेत्| मण्डूरतुल्यं तच्चूर्णं गोमूत्रेऽष्टगुणे पचेत्||१०३||

शनैः सिद्धास्तथा शीताः कार्याः कर्षसमा गुडाः| यथाग्नि भक्षणीयास्ते प्लीहपाण्ड्वामयापहाः||१०४||

ग्रहण्यर्शोनुदश्चैव तक्रवाट्याशिनः स्मृताः|

इति मण्डूरवटकाः|

मञ्जिष्ठा रजनी द्राक्षा बलामूलान्ययोरजः||१०५||

लोध्रं चैतेषु गौडः स्यादरिष्टः पाण्डुरोगिणाम्|

इति गौडोऽरिष्टः|

बीजकात्षोडशपलं त्रिफलायाश्च विंशतिः||१०६||

द्राक्षायाः पञ्च लाक्षायाः सप्त द्रोणे जलस्य तत्| साध्यं पादावशेषे तु पूतशेषे समावपेत्||१०७||

शर्करायास्तुलां प्रस्थं माक्षिकस्य कार्षिकम्| व्योषं व्याघ्रनखोशीरं क्रमुकं सैलवालुकम्||१०८||

मधुकं कुष्ठमित्येतच्चूर्णितं घृतभाजने| यवेषु दशरात्रं तद्ग्रीष्मे द्विः शिशिरे स्थितम्||१०९||

पिबेत्तद्ग्रहणीपाण्डुरोगार्शःशोथगुल्मनुत्| मूत्रकृच्छ्राश्मरीमेहकामलासन्निपातजित्||११०||

बीजकारिष्ट इत्येष आत्रेयेण प्रकीर्तितः|

इति बीजकारिष्टः|

धात्रीफलसहस्रे द्वे पीडयित्वा रसं तु तम्||१११||

क्षौद्राष्टांशेन संयुक्तं कृष्णार्धकुडवेन | शर्करार्धतुलोन्मिश्रं पक्षं स्निग्धघटे स्थितम्||११२||

प्रपिबेन्मात्रया प्रातर्जीर्णे हितमिताशनः| कामलापाण्डुहृद्रोगवातासृग्विषमज्वरान्||११३||

कासहिक्कारुचिश्वासांश्चैषोऽरिष्टः प्रणाशयेत्|

इति धात्र्यरिष्टः

स्थिरादिभिः शृतं तोयं पानाहारे प्रशस्यते||११४||

पाण्डूनां, कामलार्तानां मृद्वीकामलकीरसः|११५|

पाण्डुरोगप्रशान्त्यर्थमिति प्रोक्तं महर्षिणा||११५||

विकल्प्यमेतद्भिषजा पृथग्दोषबलं प्रति| वातिके स्नेहभूयिष्ठं, पैत्तिके तिक्तशीतलम्||११६||

श्लैष्मिके कटुतिक्तोष्णं [] , विमिश्रं सान्निपातिके|११७|

निपातयेच्छरीरात्तु मृत्तिकां भक्षितां भिषक्||११७||

युक्तिज्ञः शोधनैस्तीक्ष्णैः प्रसमीक्ष्य बलाबलम्| शुद्धकायस्य सर्पींषि बलाधानानि योजयेत्||११८||

व्योषं बिल्वं हरिद्रे द्वे त्रिफला द्वे पुनर्नवे| मुस्तान्ययोरजः पाठा विडङ्गं देवदारु ||११९||

वृश्चिकाली भार्गी सक्षीरैस्तैः [] समैर्घृतम्| साधयित्वा पिबेद्युक्त्या नरो मृद्दोषपीडितः||१२०||

तद्वत् केशरयष्ट्याह्वपिप्पलीक्षारशाद्वलैः| मृद्भक्षणादातुरस्य लौल्यादविनिवर्तिनः||१२१||

द्वेष्यार्थं भावितां कामं दद्यात्तद्दोषनाशनैः| विङ्गैलातिविषया निम्बपत्रेण पाठया||१२२||

वार्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाऽपि वा|१२३|

यथादोषं प्रकुर्वीत भैषज्यं पाण्डुरोगिणाम्||१२३||

क्रियाविशेष एषोऽस्य मतो हेतुविशेषतः|१२४|

तिलपिष्टनिभं यस्तु वर्चः सृजति कामली||१२४||

श्लेष्मणा रुद्धमार्गं तत् पित्तं कफहरैर्जयेत्| रूक्षशीतगुरुस्वादुव्यायामैर्वेगनिग्रहैः||१२५||

कफसम्मूर्च्छितो वायुः स्थानात् पित्तं क्षिपेद्बली| हारिद्रनेत्रमूत्रत्वक् श्वेतवर्चास्तदा नरः||१२६||

भवेत् साटोपविष्टम्भो गुरुणा हृदयेन | दौर्बल्याल्पाग्निपार्श्वार्तिहिक्काश्वासारुचिज्वरैः||१२७||

क्रमेणाल्पेऽनुसज्येत [] पित्ते शाखासमाश्रिते|१२८|

बर्हितित्तिरिदक्षाणां रूक्षाम्लैः कटुकै रसैः||१२८||

शुष्कमूलककौलत्थैर्यूषैश्चान्नानि भोजयेत्| मातुलुङ्गरसं क्षौद्रपिप्पलीमरिचान्वितम्||१२९||

सनागरं पिबेत् पित्तं तथाऽस्यैति स्वमाशयम्|१३०|

कटुतीक्ष्णोष्णलवणैर्भृशाम्लैश्चाप्युपक्रमः||१३०||

आपित्तरागाच्छकृतो [] वायोश्चाप्रशमाद्भवेत्| स्वस्थानमागते पित्ते पुरीषे पित्तरञ्जिते||१३१||

निवृत्तोपद्रवस्य स्यात् पूर्वः कामलिको विधिः|१३२|

यदा तु पाण्डोर्वर्णः स्याद्धरितश्यावपीतकः||१३२||

बलोत्साहक्षयस्तन्द्रा मन्द्राग्नित्वं मृदुज्वरः| स्त्रीष्वहर्षोऽङ्गमर्दश्च श्वासस्तृष्णाऽरुचिर्भ्रमः||१३३||

हलीमकं तदा तस्य विद्यादनिलपित्ततः|१३४|

गुडूचीस्वरसक्षीरसाधितं माहिषं घृतम्||१३४||

पिबेत्त्रिवृतां स्निग्धो रसेनामलकस्य तु| विरिक्तो मधुरप्रायं भजेत् पित्तानिलापहम्||१३५||

द्राक्षालेहं पूर्वोक्तं सर्पींषि मधुराणि | यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान्||१३६||

मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याऽग्निवृद्धये| कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम्||१३७||

पयसा प्रयुञ्जीत यथादोषं यथाबलम्|१३८|

तत्र श्लोकौ-

पाण्डोः पञ्चविधस्योक्तं हेतुलक्षणभेषजम्||१३८||

कामला द्विविधा तेषां साध्यासाध्यत्वमेव |

तेषां विकल्पो यश्चान्यो महाव्याधिर्हलीमकः| तस्य चोक्तं समासेन व्यञ्जनं सचिकित्सितम्||१३९||

 

Post a Comment

0 Comments