Advertisement

Responsive Advertisement

Charak chikitsa Chapter 15 Grahani Dosha








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा|

ओजस्तेजोऽग्नयः प्राणाश्चोक्ता देहाग्निहेतुकाः||||

शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः|

रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते||||

यदन्नं देहधात्वोजोबलवर्णादिपोषकम्|

तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः||||

अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति|

तद्द्रवैर्भिन्नसङ्घातं स्नेहेन मृदुतां गतम्||||

समानेनावधूतोऽग्निरुदर्यः पवनोद्वहः|

काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये||||

एवं रसमलायान्नमाशयस्थमधः स्थितः|

पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम्||||

अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः|

मधुराद्यात् कफो भावात् फेनभूत उदीर्यते||||

परं तु पच्यमानस्य विदग्धस्याम्लभावतः|

आशयाच्च्यवमानस्य पित्तमच्छमुदीर्यते||१०||

पक्वाशयं तु प्राप्तस्य शोष्यमाणस्य वह्निना|

परिपिण्डितपक्वस्य वायुः स्यात् कटुभावतः||११||

अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभिः पृथक्|

देहे प्रीणाति गन्धादीन् घ्राणादीनीन्द्रियाणि ||१२||

भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः|

पञ्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्ति हि||१३||

यथास्वं स्वं पुष्णन्ति देहे द्रव्यगुणाः पृथक्|

पार्थिवाः पार्थिवानेव शेषाः शेषांश्च कृत्स्नशः||१४||

सप्तभिर्देहधातारो धातवो द्विविधं पुनः|

यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादवत् ||१५||

रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि |

अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः||१६||

रसात् स्तन्यं ततो रक्तमसृजः कण्डराः सिराः|

मांसाद्वसा त्वचः षट् मेदसः स्नायुसम्भवः||१७||

किट्टमन्नस्य विण्मूत्रं, रसस्य तु कफोऽसृजः|

पित्तं, मांसस्य खमला, मलः स्वेदस्तु मेदसः||१८||

स्यात्किट्टं केशलोमास्थ्नो, मज्ज्ञः स्नेहोऽक्षिविट्त्वचाम्|

प्रसादकिट्टे धातूनां पाकादेवंविधर्च्छतः ||१९||

परस्परोपसंस्तब्धा धातुस्नेहपरम्परा |

वृष्यादीनां प्रभावस्तु पुष्णाति बलमाशु हि||२०||

षड्भिः केचिदहोरात्रैरिच्छन्ति परिवर्तनम्|

सन्तत्या भोज्यधातूनां परिवृत्तिस्तु चक्रवत्||२१||

(इत्युक्तवन्तमाचार्यं शिष्यस्त्विदमचोदयत्|

रसाद्रक्तं विसदृशात् कथं देहेऽभिजायते||२२||

रसस्य रागोऽस्ति कथं याति रक्तताम्|

द्रवाद्रक्तात्स्थिरं मांसं कथं तज्जायते नृणाम्||२३||

द्रवधातोः स्थिरान्मांसान्मेदसः सम्भवः कथम्|

श्लक्ष्णाभ्यां मांसमेदोभ्यां खरत्वं कथमस्थिषु||२४||

खरेष्वस्थिषु मज्जा केन स्निग्धो मृदुस्तथा|

मज्ज्ञश्च परिणामेन यदि शुक्रं प्रवर्तते||२५||

सर्वदेहगतं शुक्रं प्रवदन्ति मनीषिणः|

तथाऽस्थिमध्यमज्ज्ञश्च शुक्रं भवति देहिनाम्||२६||

छिद्रं दृश्यतेऽस्थ्नां तन्निःसरति वा कथम्|

एवमुक्तस्तु शिष्येण गुरुः प्राहेदमुत्तरम्||२७||

तेजो रसानां सर्वेषां मनुजानां यदुच्यते|

पित्तोष्मणः रागेण रसो रक्तत्वमृच्छति||२८||

वाय्वम्बुतेजसा रक्तमूष्मणा चाभिसंयुतम्|

स्थिरतां प्राप्य मांसं स्यात् स्वोष्मणा पक्वमेव तत् ||२९||

स्वतेजोऽम्बुगुणस्निग्धोद्रिक्तं मेदोऽभिजायते|

पृथिव्यग्न्यनिलादीनां सङ्घातः स्वोष्मणा कृतः||३०||

खरत्वं प्रकरोत्यस्य जायतेऽस्थि ततो नृणाम्|

करोति तत्र सौषिर्यमस्थ्नां मध्ये समीरणः||३१||

मेदसस्तानि पूर्यन्ते स्नेहो मज्जा ततः स्मृतः|

तस्मान्मज्ज्ञस्तु यः स्नेहः शुक्रं सञ्जायते ततः||३२||

वाय्वाकाशादिभिर्भावैः सौषिर्यं जायतेऽस्थिषु|

तेन स्रवति तच्छुक्रं नवात् कुम्भादिवोदकम्||३३||

स्रोतोभिः स्यन्दते देहात् समन्ताच्छुक्रवाहिभिः |

हर्षेणोदीरितं वेगात् सङ्कल्पाच्च मनोभवात्||३४||

विलीनं घृतवद्व्यायामोष्मणा स्थानविच्युतम्|

बस्तौ सम्भृत्य निर्याति स्थलान्निम्नादिवोदकम्)||३५||

व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा|

युगपत् सर्वतोऽजस्रं देहे विक्षिप्यते सदा||३६||

क्षिप्यमाणः खवैगुण्याद्रसः सज्जति यत्र सः|

करोति विकृतिं तत्र खे वर्षमिव तोयदः||३७||

दोषाणामपि चैवं स्यादेकदेशप्रकोपणम् |

इति भौतिकधात्वन्नपक्तॄणां कर्म भाषितम्||३८||

अन्नस्य पक्ता सर्वेषां पक्तॄणामधिपो मतः|

तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः||३९||

तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनैर्हितैः|

पालयेत् प्रयतस्तस्य स्थितौ ह्ययुर्बलस्थितिः||४०||

यो हि भुङ्क्ते विधिं त्याक्त्वा ग्रहणीदोषजान् गदान्|

लौल्याल्लभते शीघ्रं, वक्ष्यन्तेऽतः परं तु ते||४१||

अभोजनादजीर्णातिभोजनाद्विषमाशनात्|

असात्म्यगुरुशीतातिरूक्षसन्दुष्टभोजनात्||४२||

विरेकवमनस्नेहविभ्रमाद्व्याधिकर्षणात्|

देशकालर्तुवैषम्याद्वेगानां विधारणात्||४३||

दुष्यत्यग्निः, दुष्टोऽन्नं तत् पचति लघ्वपि|

अपच्यमानं शुक्तत्वं यात्यन्नं विषरूपताम् ||४४||

तस्य लिङ्गमजीर्णस्य विष्टम्भः सदनं तथा|

शिरसो रुक् मूर्च्छा भ्रमः पृष्ठकटिग्रहः||४५||

जृम्भाऽङ्गमर्दस्तृष्णा ज्वरश्छर्दिः प्रवाहणम्|

अरोचकोऽविपाकश्च, घोरमन्नविषं तत्||४६||

संसृज्यमानं पित्तेन दाहं तृष्णां मुखामयान्|

जनयत्यम्लपित्तं पित्तजांश्चापरान् गदान्||४७||

यक्ष्मपीनसमेहादीन् कफजान् कफसङ्गतम्|

करोति वातसंसृष्टं वातजांश्च गदान् बहून्||४८||

मूत्ररोगांश्च मूत्रस्थं कुक्षिरोगान् शकृद्गतम्|

रसादिभिश्च संसृष्टं कुर्याद्रोगान् रसादिजान्||४९||

विषमो धातुवैषम्यं करोति विषमं पचन्|

तीक्ष्णो मन्देन्धनो धातून् विशोषयति पावकः||५०||

युक्तं भुक्तवतो युक्तो धातुसाम्यं समं पचन्|

दुर्बलो विदहत्यन्नं तद्यात्यूर्ध्वमधोऽपि वा||५१||

अधस्तु पक्वमामं वा प्रवृत्तं ग्रहणीगदः|

उच्यते सर्वमेवान्नं प्रायो ह्यस्य विदह्यते||५२||

अतिसृष्टं विबद्धं वा द्रवं तदुपदिश्यते|

तृष्णारोचकवैरस्यप्रसेकतमकान्वितः||५३||

शूनपादकरः सास्थिपर्वरुक् छर्दनं ज्वरः|

लोहामगन्धिस्तिक्ताम्ल [१७] उद्गारश्चास्य जायते||५४||

पूर्वरूपं तु तस्येदं तृष्णाऽऽलस्यं बलक्षयः|

विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम्||५५||

अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता|

नाभेरुपर्यह्यग्निबलेनोपष्टब्धोपबृंहिता [१८] ||५६||

अपक्वं धारत्यन्नं पक्वं सृजति पार्श्वतः|

दुर्बलाग्निबला दुष्टा [१९] त्वाममेव विमुञ्चति||५७||

वातात् पित्तात् कफाच्च स्यात्तद्रोगस्त्रिभ्य एव |

हेतुं लिङ्गं रूपभेदाञ् शृणु तस्य पृथक् पृथक्||५८||

कटुतिक्तकषायातिरूक्षशीतलभोजनैः|

प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः||५९||

करोति कुपितो मन्दमग्निं सञ्छाद्य मारुतः [२२] |

तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता||६०||

कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः|

पार्श्वोरुवङ्क्षणग्रीवारुजोऽभीक्ष्णं विसूचिका||६१||

हृत्पीडा कार्श्यदौर्बल्यं वैरस्यं परिकर्तिका|

गृद्धिः सर्वरसानां मनसः सदनं तथा||६२||

जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति |

वातगुल्महृद्रोगप्लीहाशङ्की मानवः||६३||

चिरादुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत्|

पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात्||६४||

कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम्|

अग्निमाप्लावयद्धन्ति [२३] जलं तप्तमिवानलम्||६५||

सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्रवम्|

पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः||६६||

गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्|

भुक्तमात्रस्य स्वप्नाद्धन्त्यग्निं कुपितः कफः||६७||

तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः|

आस्योपदेहमाधुर्यकासष्ठीवनपीनसाः||६८||

हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु|

दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम्||६९||

भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्|

अकृशस्यापि दौर्बल्यमालस्यं कफात्मके||७०||

यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः|

तं चापि ग्रहणीदोषं समवर्जं प्रचक्ष्महे||७१||

पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे|

त्रिदोषं निर्दिशेत्तेषां भेषजं [२४] शृण्वतः परम्||७२||

ग्रहणीमाश्रितं दोषं विदग्धाहारमूर्च्छितम्|

सविष्टम्भप्रसेकार्तिविदाहारुचिगौरवैः||७३||

आमलिङ्गान्वितं दृष्ट्वा सुखोष्णेनाम्बुनोद्धरेत्|

फलानां वा कषायेण पिप्पलीसर्षपैस्तथा||७४||

लीनं पक्वाशयस्थं वाऽऽप्यामं स्राव्यं सदीपनैः|

शरीरानुगते सामे रसे लङ्घनपाचनम्||७५||

विशुद्धामाशयायास्मै पञ्चकोलादिभिः शृतम्|

दद्यात् पेयादि लघ्वन्नं पुनर्योगांश्च दीपनान्||७६||

ज्ञात्वा तु परिपक्वामं मारुतग्रहणीगदम्|

दीपनीययुतं सर्पिः पाययेताल्पशो भिषक्||७७||

किञ्चित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्|

द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत्||७८||

तत एरण्डतैलेन सर्पिषा तैल्वकेन वा|

सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत्||७९||

शुद्धं रूक्षाशयं बद्धवर्चसं चानुवासयेत्|

दीपनीयाम्लवातघ्नसिद्धातैलेन मात्रया||८०||

निरूढं विरिक्तं सम्यक् चैवानुवासितम्|

लघ्वन्नं प्रतिसम्भुक्तं सर्पिरभ्यासयेत् पुनः||८१||

द्वे पञ्चमूले सरलं देवदारु सनागरम्|

पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||८२||

शणबीजं यवान् कोलन् कुलत्थान् सुषवीं तथा [२७] |

पाचयेदारनालेन दध्ना सौवीरकेण वा||८३||

चतुर्भागावशेषेण पचेत्तेन घृताढकम्|

स्वर्जिकायावशूकाख्यौ क्षारौ दत्त्वा युक्तितः||८४||

सैन्धवौद्भिदसामुद्रबिडानां रोमकस्य |

ससौवर्चलपाक्यानां भागान्द्विपलिकान् पृथक्||८५||

विनीय चूर्णितान् तस्मात् पाययेत् प्रसृतं बुधः|

करोत्यग्निं बलं वर्णं वातघ्नं भुक्तपाचनम्||८६||

इति दशमूलाद्यं घृतम्

त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात् पले|

सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत्||८७||

इति त्र्यूषणाद्यं घृतम्

पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः|

रास्नाक्षारद्वयाजाजीविडङ्गशटिभिर्घृतम्||८८||

शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य |

शुष्कमूलककोलाम्बुचुक्रिकादाडिमस्य ||८९||

तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः|

काञ्जिकेन तत् पक्वमग्निदीप्तिकरं परम्||९०||

शूलगुल्मोदरश्वासकासानिलकफापहम्|

सबीजपूरकरसं सिद्धं वा पाययेद्घृतम्||९१||

सिद्धमभ्यञ्जनार्थं तैलमेतैः प्रयोजयेत्|

एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना||९२||

वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते|

दद्याच्चूर्णं पाचनार्थमग्निसन्दीपनं परम्||९३||

इति पञ्चमूलाद्यं घृतं चूर्णं

मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले|

विनाऽतिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात्||९४||

परीक्ष्यैवं पुरा सामं निरामं चामदोषिणम्|

विधिनोपाचरेत् सम्यक् पाचनेनेतरेण वा||९५||

चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि |

व्योषं हिङ्ग्वजमोदां चव्यं चैकत्र चूर्णयेत्||९६||

गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा|

कृता विपाचयत्यामं दीपयत्याशु चानलम्||९७||

इति चित्रकाद्या गुटिका

नागरातिविषामुस्तक्वाथः स्यादामपाचनः|

मुस्तान्तकल्कः पथ्या वा नागरं चोष्णवारिणा||९८||

देवदारुवचामुस्तनागरातिविषाभयाः|

वारुण्यामासुतास्तोये कोष्णे वाऽलवणाः पिबेत्||९९||

वर्चस्यामे सशूले पिबेद्वा दाडिमाम्बुना|

विडेन [२९] लवणं पिष्टं बिल्वं चित्रकनागरम्||१००||

सामे वा सकफे वाते कोष्ठशूलकरे पिबेत्|

अभयां पिप्पलीमूलं वचां कटुकरोहिणीम्|

पाठां वत्सकबीजानि चित्रकं विश्वभेषजम्||१०३||

पिबेन्निष्क्वाथ्य चूर्णं वा कृत्वा कोष्णेन वारिणा|

पित्तश्लेष्माभिभृतायां ग्रहण्यां शूलनुद्धितम्||१०४||

सामे सातिविषं व्योषं लवणक्षारहिङ्गु |

निःक्वाथ्य पाययेच्चूर्णं कृत्वा वा कोष्णवारिणा||१०५||

पिप्पलीं नागरं पाठां सारिवां बृहतीद्वयम्|

चित्रकं कौटजं बीजं लवणान्यथ पञ्च ||१०६||

तच्चूर्णं सयवक्षारं दध्युष्णाम्बुसुरादिभिः|

पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं नरः||१०७||

मरिचं कुञ्चिकाम्बष्ठावृक्षाम्लाः कुडवाः पृथक्|

पलानि [३०] दश चाम्लस्य वेतसस्य पलार्धिकम्||१०८||

सौवर्चलं बिडं पाक्यं यवक्षारः ससैन्धवः|

शटीपुष्करमूलानि हिङ्गु हिङ्गुशिवाटिका||१०९||

तत् सर्वमेकतः सूक्ष्मं चूर्णं कृत्वा प्रयोजयेत्|

हितं वाताभिभूतायां ग्रहण्यामरुचौ तथा||११०||

इति मरिचाद्यं चूर्णम्

चतुर्णां प्रस्थमम्लानां त्र्यूषणस्य पलत्रयम्|

लवणानां चत्वारि शर्करायाः पलाष्टकम्|

सञ्चूर्ण्य शाकसूपान्नरागादिष्ववचारयेत्||१११||

कासाजीर्णारुचिश्वासाहृत्पाण्ड्वामयशूलनुत्|

चव्यत्वक्पिप्पलीमूलधातकीव्योषचित्रकान्||११२||

कपित्थं बिल्वमम्बष्ठां शाल्मलं हस्तिपिप्पलीम्|

शिलोद्भेदं तथाऽजाजीं पिष्ट्वा बदरसम्मितम्||११३||

परिभर्ज्य घृते दध्ना यवागूं साधयेद्भिषक्|

रसैः कपित्थचुक्रीकावृक्षाम्लैर्दाडिमस्य ||११४||

सर्वातिसारग्रहणीगुल्मार्शःप्लीहनाशिनी|

पञ्चकोलकयूषश्च मूलकानां सोषणः||११५||

स्निग्धो दाडिमतक्राम्लो जाङ्गलः संस्कृतो रसः|

क्रव्यादस्वरसः शस्तो भोजनार्थे सदीपनः||११६||

तक्रारनालमद्यानि पानायारिष्ट एव |

तक्रं तु ग्रहणीदोषे दीपनग्राहिलाघवात्||११७||

श्रेष्ठं मधुरपाकित्वान्न पित्तं प्रकोपयेत्|

कषायोष्णविकाशित्वाद्रौक्ष्याच्चैव कफे हितम्||११८||

वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्|

तस्मात् तक्रप्रयोगा ये जठराणां तथाऽर्शसाम्||११९||

विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत्|

यवान्यामलके पथ्या मरिचं त्रिपलंशिकम्||१२०||

लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत्|

तक्रे तदासुतं [३१] जातं तक्रारिष्टं पिबेन्नरः|

दीपनं शोथगुल्मार्शःक्रिमिमेहोदरापहम्||१२१||

इति तक्रारिष्टः

स्वस्थानगतमुत्क्लिष्टमग्निनिर्वापकं भिषक्|

पित्तं ज्ञात्वा विरेकेण निर्हरेद्वमनेन वा||१२२||

अविदाहिभिरन्नैश्च लघुभिस्तिक्तसंयुतैः|

जाङ्गलानां रसैर्यूषैर्मुद्गादीनां खडैरपि||१२३||

दाडिमाम्लैः ससर्पिष्कैर्दीपनग्राहिसंयुतैः|

तस्याग्निं दीपयेच्चूर्णैः सर्पिर्भिश्चापि तिक्तकैः||१२४||

चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम्|

षड्ग्रन्थासारिवास्फोतासप्तपर्णाटरूषकान्||१२५||

पटोलोदुम्बराश्वत्थवटप्लक्षकपीतनान्|

कटुकां रोहिणीं मुस्तं निम्बं द्विपलांशिकम्||१२६||

द्रोणेऽपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत्|

किराततिक्तेन्द्रयववीरामागधिकोत्पलैः||१२७||

कल्कैरक्षसमैः पेयं तत् पित्तग्रहणीगदे|

इति चन्दनाद्यं घृतम्

भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान्|

द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत्||१३२||

गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्|

कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत्||१३३||

इति भूनिम्बाद्यं चूर्णम्

वचामतिविषां पाठां सप्तपर्णं रसाञ्जनम्|

स्योनाकोदीच्यकट्वङ्गवत्सकत्वग्दुरालभाः||१३४||

दार्वीं पर्पटकं पाठां यवानीं मधुशिग्रुकम्|

पटोलपत्रं सिद्धार्थान् यूथिकां जातिपल्लवान्||१३५||

जम्ब्वाम्रबिल्वमध्यानि निम्बशाकफलानि |

तद्रोगशममन्विच्छन् भूनिम्बाद्येन योजयेत्||१३६||

किराततिक्तः षड्ग्रन्था त्रायमाणा कटुत्रिकम्|

चन्दनं पद्मकोशीरं दार्वीत्वक् कटुरोहिणी||१३७||

कुटजत्वक्फलं मुस्तं यवानी देवदारु |

पटोलनिम्बपत्रैलासौराष्ट्रयतिविषात्वचः||१३८||

मधुशिग्रोश्च बीजानि मूर्वा पर्पटकस्तथा|

तच्चूर्णं मधुना लेह्यं पेयं मद्यैर्जलेन वा||१३९||

हृत्पाण्डुग्रहणीरोगगुल्मशूलारुचिज्वरान्|

कामलां सन्निपातं मुखरोगांश्च नाशयेत्||१४०||

इति किराताद्यं चूर्णम्

ग्रहण्यां श्लेष्मदुष्टायां वमितस्य यथाविधि|

कट्वम्ललवणक्षारैस्तिक्तैश्चाग्निं विवर्धयेत्||१४१||

पलाशं चित्रकं चव्यं मातुलुङ्गं हरीतकीम्|

पिप्पलीं पिप्पलीमूलं पाठां नागरधान्यकम्||१४२||

कार्षिकाण्युदकप्रस्थे पक्त्वा पादावशेषितम्|

पानीयार्थं प्रयुञ्जीत यवागूं तैश्च साधयेत्||१४३||

शुष्कमूलकयूषेण कौलत्थेनाथवा पुनः|

कट्वम्लक्षारपटुना लघून्यन्नानि भोजयेत्||१४४||

अम्लं चानु पिबेत्तक्रं तक्रारिष्टमथापि वा|

मदिरां मध्वरिष्टं वा निगदं सीधुमेव वा||१४५||

द्रोणं मधूकपुष्पाणां विडङ्गानां ततोऽर्धतः|

चित्रकस्य ततोऽर्धं स्यात्तथा भल्लातकाढकम्||१४६||

मञ्जिष्ठाष्टपलं [३२] चैव त्रिद्रोणेऽपां विपाचयेत्|

द्रोणशेषं तु तच्छीतं मध्वर्धाढकसंयुतम्||१४७||

एलामृणालागुरुभिश्चन्दनेन रूषिते|

कुम्भे मासस्थितं जातमासवं तं प्रयोजयेत्||१४८||

ग्रहणीं दीपयत्येव बृंहणः [३३] कफपित्तजित्|

शोथं कुष्ठं किलासं प्रमेहांश्च प्रणाशयेत्||१४९||

इति मधूकासवः

मधूकपुष्पस्वरसं शृतमर्धक्षयीकृतम्|

क्षौद्रपादयुतं शीतं पूर्ववत् सन्निधापयेत्||१५०||

तं पिबन् ग्रहणीदोषाञ्जयेत् सर्वान् हिताशनः|

तद्वद्द्राक्षेक्षुखर्जूरस्वरसानासुतान् [३४] पिबेत्||१५१||

प्रस्थौ दुरालभाया द्वौ पस्थमामलकस्य |

दन्तीचित्रकमुष्टी [३५] द्वे प्रत्यग्रं चाभयाशतम्||१५२||

चतुर्द्रोणेऽम्भसः पक्त्वा शीतं द्रोणावशेषितम्|

सगुडद्विशतं पूतं मधुनः कुडवायुतम्||१५३||

तद्वत् प्रियङ्गोः पिप्पल्या विडङ्गानां चूर्णितैः|

कुडवैर्घृतकुम्भस्थं पक्षाज्जातं ततः पिबेत्||१५४||

ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत्|

स्वरवर्णकरश्चैष रक्तपित्तकफापहः||१५५||

इति दुरालभासवः

हरिद्रा पञ्चमूले द्वे वीरर्षभकजीवकम्|

एषां [३६] पञ्चपलान् भागांश्चतुर्द्रोणेऽम्भसः पचेत्||१५६||

द्रोणशेषे रसे पूते गुडस्य द्विशतं भिषक्|

चूर्णितान् कुडवार्धांशान् प्रक्षिपेच्च समाक्षिकान्||१५७||

प्रियङ्गुमुस्तमञ्जिष्ठाविडङ्गमधुकप्लवान्|

लोध्रं शाबरकं चैव मासार्धस्थं पिबेत्तु तम्||१५८||

एष मूलासवः सिद्धो दीपनो रक्तपित्तजित्|

आनाहकफहृद्रोगपाण्डुरोगाङ्गसादनुत्||१५९||

इति मूलासवः

प्रास्थिकं [३७] पिप्पलीं पिष्ट्वा गुडं मध्यं बिभीतकात्|

उदकप्रस्थसंयुक्तं यवपल्ले निधापयेत्||१६०||

तस्मात् पलं सुजातात्तु सलिलाञ्जलिसंयुतम्|

पिबेत्पिण्डासवो ह्येष रोगानीकविनाशनः||१६१||

स्वस्थोऽप्येनं पिबेन्मासं नरः स्निग्धरसाशनः [३८] |

इच्छंस्तेषामनुत्पत्तिं रोगाणां येऽत्र कीर्तिताः||१६२||

इति पिण्डासवः

नवे पिप्पलिमध्वाक्ते कलसेऽगुरुधूपिते|

मध्वाढकं जलसमं चूर्णानीमानि दापयेत्||१६३||

कुडवार्धं विडङ्गानां पिप्पल्याः कुडवं तथा|

चतुर्थिकांशां त्वक्क्षीरीं केशरं मरिचानि ||१६४||

त्वगेलापत्रकशटीक्रमुकातिविषाघनान्|

हरेण्वेल्वालुतेजोह्वापिप्पलीमूलचित्रकान्||१६५||

कार्षिकांस्तत् स्थितं मासमत ऊर्ध्वं प्रयोजयेत्|

मन्दं सन्दपयत्यग्निं करोति विषमं समम्||१६६||

हृत्पाण्डुग्रहणीरोगकुष्ठार्शःश्वयथुज्वरान्|

वातश्लेष्मामयांश्चान्यान्मध्वरिष्टो व्यपोहति||१६७||

इति मध्वरिष्टः

नवे पिप्पलिमध्वाक्ते कलसेऽगुरुधूपिते|

मध्वाढकं जलसमं चूर्णानीमानि दापयेत्||१६३||

कुडवार्धं विडङ्गानां पिप्पल्याः कुडवं तथा|

चतुर्थिकांशां त्वक्क्षीरीं केशरं मरिचानि ||१६४||

त्वगेलापत्रकशटीक्रमुकातिविषाघनान्|

हरेण्वेल्वालुतेजोह्वापिप्पलीमूलचित्रकान्||१६५||

कार्षिकांस्तत् स्थितं मासमत ऊर्ध्वं प्रयोजयेत्|

मन्दं सन्दपयत्यग्निं करोति विषमं समम्||१६६||

हृत्पाण्डुग्रहणीरोगकुष्ठार्शःश्वयथुज्वरान्|

वातश्लेष्मामयांश्चान्यान्मध्वरिष्टो व्यपोहति||१६७||

इति मध्वरिष्टः

बिडं कालोत्थलवणं सर्जिकायवशूकजम्|

सप्तलां कण्टकारीं चित्रकं चेति दाहयेत्||१७१||

सप्तकृत्वः स्रुतस्यास्य क्षारस्य [३९] द्व्याढकेन तु|

आढकं सर्पिषः पक्त्वा पिबेदग्निविवर्धनम्||१७२||

इति क्षारघृत

समूलां पिप्पलीं पाठां चव्येन्द्रयवनागरम्|

चित्रकातिविषे हिङ्गु श्वदंष्ट्रां कटुरोहिणीम्||१७३||

वचां कार्षिकं पञ्चलवणानां पलानि |

दध्नः प्रस्थद्वये तैलसर्पिषोः कुडवद्वये||१७४||

खण्डीकृतानि निष्क्वाथ्य शनैरन्तर्गते रसे|

अन्तर्धूमं ततो दग्धवा चूर्णं कृत्वा घृताप्लुतम्||१७५||

पिबेत् पाणितलं तस्मिञ्जीर्णे स्यान्मधुराशनः|

वातश्लेष्मामयान्सर्वान्हन्याद्विषगरांश्च सः||१७६||

भल्लातकं त्रिकटुकं त्रिफलां लवणत्रयम्|

अन्तर्धूमं द्विपलिकं गोपुरीषाग्निना दहेत्||१७७||

क्षारः सर्पिषा पीतो भोज्ये वाऽप्यवचूर्णितः|

हृत्पाण्डुग्रहणीदोषगुल्मोदावर्तशूलनुत्||१७८||

दुरालभां करञ्जौ द्वौ सप्तपर्णं सवत्सकम्|

षड्ग्रन्थां मदनं मूर्वां पाठामारग्वधं तथा||१७९||

गोमूत्रेण समांशानि कृत्वा चूर्णानि दाहयेत्|

दग्ध्वा तं पिबेत् क्षारं ग्रहणीबलवर्धनम्||१८०||

भूनिम्बं रोहिणीं तिक्तां पटोलं निम्बपर्पटम्|

दहेन्माहिषमूत्रेण क्षार एषोऽग्निवर्धनः||१८१||

द्वे हरिद्रे वचा कुष्ठं चित्रकः कटुरोहिणी|

मुस्तं बस्तमूत्रेण दहेत् क्षारोऽग्निवर्धनः||१८२||

चतुष्पलं सुधाकाण्डात्त्रिपलं लवणत्रयात्|

वार्ताकीकुडवं चार्कादष्टौ द्वे चित्रकात् पले||१८३||

दग्धानि वार्ताकुरसे गुटिका भोजनोत्तराः|

भुक्तं भुक्तं पचन्त्याशु कासश्वासार्शसां हिताः||१८४||

विसूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः|

इत्येषा क्षारगुटिका कृष्णात्रेयेण कीर्तिता||१८५||

इति क्षारगुडिका

वत्सकातिविषे पाठां दुःस्पर्शां हिङ्गु चित्रकम्|

चूर्णीकृत्य पलाशाग्रक्षारे मूत्रस्रुते पचेत्||१८६||

आयसे भाजने सान्द्रात्तस्मात् [४०] कोलं सुखाम्बुना|

मद्यैर्वा ग्रहणीदोषशोथार्शःपाण्डुमान् पिबेत्||१८७||

इति चतुर्थक्षारः

त्रिफलां कटभीं चव्यं बिल्वमध्यमयोरजः|

रोहिणीं कटुकां मुस्तं कुष्ठं पाठां हिङ्गु ||१८८||

मधुकं मुष्ककयवक्षारौ त्रिकटुकं वचाम्|

विडङ्गं पिप्पलीमूलं स्वर्जिकां निम्बचित्रकौ||१८९||

मूर्वाजमोदेन्द्रयवान् गुडूचीं देवदारु |

कार्षिकं लवणानां पञ्चानां पलिकान्पृथक्||१९०||

भागान् दध्नि त्रिकुडवे घृततैलेन मूर्च्छितम्|

अन्तर्धूमं शनैर्दग्ध्वा तस्मात् पाणितलं पिबेत्||१९१||

सर्पिषा कफवातार्शोग्रहणीपाण्डुरोगवान्|

प्लीहमूत्रग्रहश्वासहिक्काकासक्रिमिज्वरान्||१९२||

शोषातिसारौ श्वयथुं प्रमेहानाहहृद्ग्रहान्|

हन्यात् सर्वविषं [४१] चैव क्षारोऽग्निजननो वरः||१९३||

जीर्णे रसैर्वा मधुरैरश्नीयात् पयसाऽपि वाइति पञ्चमक्षारः

त्रिदोषे विधिविद्वैद्यः पञ्च कर्माणि कारयेत्||१९४||

घृतक्षारासवारिष्टान् दद्याच्चाग्निविवर्धनान्|

क्रिया या चानिलादीनां निर्दिष्टा ग्रहणीं प्रति||१९५||

व्यत्यासात्तां समस्तां वा कुर्याद्दोषविशेषवित्|

स्नेहनं स्वेदनं शुद्धिर्लङ्घनं दीपनं यत्||१९६||

चूर्णानि लवणक्षारमध्वरिष्टसुरासवाः|

विविधास्तक्रयोगाश्च दीपनानां सर्पिषाम्||१९७||

ग्रहणीरोगिभिः सेव्याः

क्रियां चावस्थिकीं शृणु|

ष्ठीवनं श्लैष्मिके रूक्षं दीपनं तिक्तसंयुतम्||१९८||

सकृद्रूक्षं सकृत्स्निग्धं कृशे बहुकफे हितम्|

परीक्ष्यामं शरीरस्य दीपनं स्नेहसंयुतम्||१९९||

दीपनं बहुपित्तस्य तिक्तं मधुरसंयुतम्|

बहुवातस्य तु स्नेहलवणाम्लयुतं हितम्||२००||

सन्धुक्षति तथा वह्निरेषां विधिवदिन्धनैः|

स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्||२०१||

नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि|

मन्दाग्निरविपक्वं तु पुरीषं योऽतिसार्यते||२०२||

दीपनीयौषधैर्युक्तां घृतमात्रां पिबेत्तु सः|

तया समानः पवनः प्रसन्नो [४२] मार्गमास्थितः||२०३||

अग्नेः समीपचारित्वादाशु प्रकुरुते बलम्|

काठिन्याद्यः पुरीषं तु कृच्छ्रान्मुञ्चति मानवः||२०४||

सघृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत्|

रौक्ष्यान्मन्दे पिबेत्सर्पिस्तैलं वा दीपनैर्युतम्||२०५||

अतिस्नेहात्तु मन्देऽग्नौ चूर्णारिष्टासवा हिताः|

भिन्ने गुदोपलेपात्तु मले तैलसुरासवाः||२०६||

उदावर्तात्तु मन्देऽग्नौ निरूहाः स्नेहबस्तयः|

दोषवृद्ध्या तु मन्देऽग्नौ शुद्धो दोषविधिं चरेत्||२०७||

व्याधियुक्तस्य मन्दे तु सर्पिरेवाग्निदीपनम्|

उपवासाच्च मन्देऽग्नौ यवागूभिः पिबेद्घृतम्||२०८||

अन्नावपीडितं बल्यं दीपनं बृंहणं तत्|

दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान्||२०९||

प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम्|

लघु, तीक्ष्णोष्णशोधित्वाद्दीपयन्त्याशु तेऽनलम्||२१०||

मांसोपचितमांसत्वात्तथाऽऽशुतरबृंहणाः|

नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्||२११||

यथा निरिन्धनो वह्निरल्पो वाऽतीन्धनावृतः|

स्नेहान्नविधिभिश्चित्रैश्चूर्णारिष्टसुरासवैः ||२१२||

सम्यक्प्रयुक्तैर्भिषजा बलमग्नेः प्रवर्धते|

यथा हि सारदार्वग्निः स्थिरः सन्तिष्ठते चिरम्||२१३||

स्नेहान्नविधिभिस्तद्वदन्तरग्निर्भवेत् स्थिरः|

हितं जीर्णे मितं चाश्नंश्चिरमारोग्यमश्नुते||२१४||

अवैषम्येण धातूनामग्निवृद्धौ यतेत ना|

समैर्दोषैः समो मध्ये देहस्योष्माऽग्निसंस्थितः||२१५||

पचत्यन्नं तदारोग्यपुष्ट्यायुर्बलवृद्धये|

दोषैर्मन्दोऽतिवृद्धो वा विषमैर्जनयेद्गदान्||२१६||

वाच्यं मन्दस्य तत्रोक्तमतिवृद्धस्य वक्ष्यते|

नरे क्षीणकफे पित्तं कुपितं मारुतानुगम्||२१७||

स्वोष्मणा पावकस्थाने बलमग्नेः प्रयच्छति|

तदा लब्धबलो देहे विरूक्षे सानिलोऽनलः||२१८||

परिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहुः|

पक्त्वाऽन्नं ततो धातूञ्छोणितादीन् पचत्यपि||२१९||

ततो दौर्बल्यमातङ्कान्मृत्युं चोपनयेन्नरम्|

भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति||२२०||

तृट्श्वासदाहमूर्च्छाद्या व्याधयोऽत्यग्निसम्भवाः|

तमत्यग्निं गुरुस्निग्धशीतैर्मधुरविज्जलैः||२२१||

अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः|

मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत्||२२२||

निरिन्धनोऽन्तरं लब्ध्वा यथैनं विपादयेत्|

पायसं कृशरां स्निग्धं पैष्टिकं गुडवैकृतम्||२२३||

अद्यात्तथौदकानूपपिशितानि भृतानि |

मत्स्यान्विशेषतः श्लक्ष्णान्स्थिरतोयचरांस्तथा||२२४||

आविकं भृतं मांसमद्यादत्यग्निनाशनम् [४६] |

यवागूं समधूच्छिष्टां घृतं वा क्षुधितः पिबेत्||२२५||

गोधूमचूर्णमन्थं वा व्यधयित्वा सिरां पिबेत्|

पयो वा शर्करासर्पिर्जीवनीयौषधैः शृतम्||२२६||

फलानां तैलयोनीनामुत्क्रुञ्चाश्च [४७] सशर्कराः|

मार्दवं जनयन्त्यग्नेः स्निग्धा मांसरसास्तथा||२२७||

पिबेच्छीताम्बुना सर्पिर्मधूच्छिष्टेन संयुतम्|

गोधूमचूर्णं पयसा ससर्पिष्कं पिबेन्नरः||२२८||

आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवर्जितान्|

पयसा सम्मितं [४८] चापि घनं त्रिस्नेहसंयुतम्||२२९||

नारिस्तन्येन संयुक्तां पिबेदौदुम्बरीं त्वचम्|

ताभ्यां वा पायसं सिद्धमद्यादत्यग्निशान्तये||२३०||

श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्|

असकृत् पित्तशान्त्यर्थं पायसप्रतिभोजनम्||२३१||

प्रसमीक्ष्य भिषक् प्राज्ञस्तस्मै दद्याद्विधानवित्|

यत्किञ्चिन्मधुरं मेद्यं श्लेष्मलं गुरुभोजनम्||२३२||

सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा|

मेद्यान्यन्नानि योऽत्यग्नावप्रतान्तः [४९] समश्नुते||२३३||

तन्निमित्तं व्यसनं लभते पुष्टिमेव |

कफे वृद्धे जिते पित्ते मारुते चानलः समः||२३४||

भवन्ति चात्र-

पथ्यापथ्यमिहैकत्र भुक्तं समशनं मतम्||२३५||

विषमं बहु वाऽल्पं वाऽप्यप्राप्तातीतकालयोः|

भुक्तं पूर्वान्नशेषे तु पुनरध्यशनं मतम्||२३६||

त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्सृजन्ति वा|

प्रातराशे त्वजीर्णेऽपि सायमाशो दुष्यति||२३७||

दिवा प्रबुध्यतेऽर्केण हृदयं पुण्डरीकवत्|

तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः||२३८||

व्यायामाच्च विहाराच्च विक्षिप्तत्वाच्च चेतसः|

क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः||२३९||

अक्लिन्नेष्वन्नमासिक्तमन्यत्तेषु दुष्यति|

अविदग्ध इव क्षीरे क्षीरमन्यद्विमिश्रितम्||२४०||

नैव दूष्यति तेनैव समं सम्पद्यते यथा|

रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु |

यान्ति कोष्ठे परिक्लेदं संवृते देहधातवः||२४१||

क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति|

विदग्धेषु पयःस्वन्यत् पयस्तप्तमिवार्पितम्||२४२||

नैशेष्वाहारजातेषु नाविपक्वेषु बुद्धिमान्|

तस्मादन्यत्समश्नीयात्पालयिष्यन्बलायुषी||२४३||

तत्र श्लोकाः-

अन्तरग्निगुणा देहं यथा धारयते सः|

यथाऽन्नं पच्यते यांश्च यथाऽऽहारः करोत्यपि||२४४||

येऽग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान्|

रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव ||२४५||

वृष्याणामाशुकृद्धेतुर्धातुकालोद्भवक्रमः|

रोगैकदेशकृद्धेतुरन्तरग्निर्यथाऽधिकः||२४६||

प्रदुष्यति यथा दुष्टो यान् रोगाञ्जनयत्यपि|

ग्रहणी या यथा [५३] यच्च ग्रहणीदोषलक्षणम्||२४७||

पूर्वरूपं पृथक् चैव व्यञ्जनं सचिकित्सितम्|

चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया||२४८||

जायते यथाऽत्यग्निर्यच्च तस्य चिकित्सितम्|

उक्तवानिह तत् सर्वं ग्रहणीदोषके मुनिः||२४९||

 

Post a Comment

0 Comments