Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 14 arsh chikitsa








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातोऽर्शश्चिकित्सितं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

आसीनं मुनिमव्यग्रं कृतजाप्यं कृतक्षणम्|

पृष्टवानर्शसां युक्तमग्निवेशः पुनर्वसुम्||||

प्रकोप हेतुं संस्थानं स्थानं लिङ्गं चिकित्सितम्|

साध्यासाध्य विभागं तस्मै तन्मुनिरब्रवीत्||||

इह खल्वग्निवेश! द्विविधान्यर्शांसि- कानिचित् सहजानि, कानिचिज्जातस्योत्तरकालजानि|

तत्र बीजं गुदवलि बीजोप तप्तमायतनमर्शसां सहजानाम्|

तत्र द्विविधो बीजोपतप्तौ हेतुः- मातापित्रोरपचारः, पूर्वकृतं कर्म; तथाऽन्येषामपि सहजानां विकाराणाम्|

तत्र सहजानि सह जातानि शरीरेण, अर्शांसीत्यधिमांसविकाराः||||

सर्वेषां चार्शसां क्षेत्रं- गुदस्यार्ध पञ्चमाङ्गुलावकाशे त्रिभागान्तरास्तिस्रो गुदवलयः क्षेत्रमिति; केचित्तु भूयांसमेव देशमुपदिशन्त्यर्शसां- शिश्नमपत्यपथं गल तालु मुख नासिका कर्णाक्षि वर्त्मानि त्वक् चेति|

तदस्त्यधि मांस देशतया, गुदवलिजानां त्वर्शांसीति सञ्ज्ञा तन्त्रेऽस्मिन्|

सर्वेषां चार्शसामधिष्ठानं- मेदो मांसं त्वक् ||||

तत्र सहजान्यर्शांसि कानिचिदणूनि, कानिचिन्महान्ति, कानिचिद्दीर्घाणि, कानिचिद्ध्रस्वानि, कानिचिद्वृत्तानि, कानिचिद्विषमविसृतानि, कानिचिदन्तःकुटिलानि, कानिचिद्बहिःकुटिलानि, कानिचिज्जटिलानि, कानिचिदन्तर्मुखानि, यथास्वं दोषानुबन्धवर्णानि||||

तैरुपहतो जन्म प्रभृति भवत्यतिकृशो विवर्णः क्षामो दीनः प्रचुर विबद्ध वात मूत्र पुरीषः शर्कराश्मरीमान्, तथाऽनियतविबद्धमुक्तपक्वामशुष्कभिन्नवर्चा अन्तराऽन्तरा श्वेत पाण्डु हरित पीत रक्तारुण तनु सान्द्र पिच्छिल कुणपगन्ध्याम पुरीषोपवेशी, नाभि बस्ति वङ्क्षणोद्देशे प्रचुर परिकर्तिकान्वितः, सगुदशूल प्रवाहिका परिहर्ष प्रमेह प्रसक्त विष्टम्भान्त्रकूजोदावर्त हृदयेन्द्रियोपलेपः प्रचुर विबद्ध तिक्ताम्लोद्गारः, सुदुर्बलः, सुदुर्बलाग्निः, अल्पशुक्रः, क्रोधनो, दुःखोपचारशीलः, कास श्वास तमक तृष्णा हृल्लास च्छर्द्यरोचका विपाक पीनस क्षवथु परीतः, तैमिरिकः, शिरःशूली, क्षामभिन्नसन्नसक्तजर्जरस्वरः, कर्णरोगी, शून पाणिपाद वदनाक्षिकूटः, सज्वरः, साङ्गमर्दः, सर्व पर्वास्थि शूली , अन्तराऽन्तरा पार्श्व कुक्षि बस्ति हृदय पृष्ठ त्रिकग्रहोपतप्तः, प्रध्यानपरः, परमालसश्चेति; जन्म प्रभृत्यस्य गुदजैरावृतो मार्गोपरोधाद्वायुरपानः प्रत्यारोहन् समानव्यानप्राणोदानान् पित्तश्लेष्माणौ प्रकोपयति, एते सर्व एव प्रकुपिताः पञ्च वायवः पित्तश्लेष्माणौ चार्शसमभिद्रवन्त एतान् विकारानुपजनयन्ति; इत्युक्तानि सहजान्यर्शांसि||||

अत ऊर्ध्वं जातस्योत्तरकालजानि व्याख्यास्यामः- गुरु मधुर शीताभिष्यन्दि विदाहि विरुद्धाजीर्ण प्रमिताशना सात्म्य भोजनाद्गव्य मात्स्य वाराह माहिषा जाविक पिशित भक्षणात् कृश शुष्क पूतिमांस पैष्टिक परमान्न क्षीर दधि मण्ड तिलगुड विकृति सेवनान्माषयूषेक्षुरस पिण्याक पिण्डालुक शुष्क शाक- शुक्तल शुन किलाट तक्र पिण्डक बिस मृणाल शालूक क्रौञ्चादन कशेरुक शृङ्गाटकतरूट विरूढ नव शूक शमी- धान्याममूलकोपयोगाद्गुरु फल शाक राग हरितक मर्दक वसा शिरस्पद पर्युषित पूति शीत सङ्कीर्णान्नाभ्यवहारान्मन्द- कातिक्रान्त मद्यपानाद्व्यापन्न गुरु सलिलपानादति स्नेहपानादसंशोधनाद्बस्तिकर्म विभ्रमाद व्यायामाद व्यवायाद्दिवास्वप्नात् सुख शयनासन स्थान सेवनाच्चोपहताग्नेर्मलोपचयो भवत्यतिमात्रं, तथोत्कटक विषम कठिनासनसेवनादुद्भ्रान्तयानोष्ट्रयानादति व्यवायाद्बस्तिनेत्रा सम्यक्प्रणिधानाद्गुदक्षणनाद भीक्ष्णं शीताम्बु संस्पर्शाच्चेललोष्ट तृणादि घर्षणात् प्रतताति निर्वाहणाद्वातमूत्रपुरीषवेगोदीरणात् समुदीर्ण वेग विनिग्रहात् स्त्रीणां चामगर्भभ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतिभिश्च प्रकुपितो वायुरपानस्तं मलमुपचितमधोगमासाद्य गुदवलिष्वाधत्ते, ततस्तास्वर्शांसि प्रादुर्भवन्ति||||

सर्षप मसूर माष मुद्गमकुष्ठ कयव कलाय पिण्डिटिण्टिकेर केबुक तिन्दुक कर्कन्धु काकणन्तिका बिम्बी बदर करीरोदुम्बर- खर्जूर जाम्बव गोस्तनाङ्गुष्ठ कशेरु शृङ्गाटक शृङ्गीदक्ष शिखि शुकतुण्ड जिह्वा पद्ममुकुलकर्णिका संस्थानानि सामान्याद्वात पित्त कफ प्रबलानि||१०||

तेषामयं विशेषः- शुष्कम्लान कठिन परुष रूक्ष श्यावानि, तीक्ष्णाग्राणि, वक्राणि, स्फुटित मुखानि, विषम विसृतानि, शूलाक्षेपतोदस्फुरण चिमिचिमासंहर्ष परीतानि, स्निग्धोष्णोपशयानि, प्रवाहिका ध्मान शिश्न वृषण बस्ति वङ्क्षण हृद्ग्रहाङ्गमर्द हृदय द्रव प्रबलानि, प्रतत विबद्ध वात मूत्र वर्चांसि, ऊरु कटी पृष्ठ त्रिक पार्श्व कुक्षि बस्ति शूल शिरोऽभिताप क्षवथूद्गार प्रतिश्याय कासोदावर्तायाम शोष शोथ- मूर्च्छारोचक मुखवैरस्य तैमिर्य कण्डू नासा कर्ण शङ्ख शूल स्वरोपघातकराणि, श्यावारुण परुष नख नयन वदन त्वङ्मूत्र पुरीषस्य वातोल्बणान्यर्शांसीति विद्यात्||११||

भवतश्चात्र-
कषाय कटु तिक्तानि रूक्ष शीत लघूनि |
प्रमिताल्पाशनं तीक्ष्ण मद्य मैथुन सेवनम्||१२||
लङ्घनं देशकालौ शीतौ व्यायामकर्म |
शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः||१३||

मृदु शिथिल सुकुमाराण्य स्पर्शसहानि, रक्त पीत नील कृष्णानि, स्वेदोपक्लेद बहुलानि, विस्र गन्धि तनु पीत रक्त स्रावीणि, रुधिरवहानि, दाह कण्डू शूल निस्तोद पाकवन्ति, शीतोपशयानि, सम्भिन्नपीत हरित वर्चांसि, पीत विस्रगन्धि प्रचुर विण्मूत्राणि, पिपासा ज्वर तमक सम्मोह भोजन द्वेषकराणि पीत नख नयन त्वङ्मूत्र पुरीषस्य पित्तोल्बणान्यर्शांसीति विद्यात्||१४||

भवतश्चात्र-
कटूष्ण लवण क्षार व्यायामाग्न्यातप प्रभाः |
देश कालावशिशिरौ क्रोधो मद्यमसूयनम्||१५||
विदाहि तीक्ष्णमुष्णं सर्वं पानान्नभेषजम्|
पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम्||१६||

तत्र यानि प्रमाणवन्ति, उपचितानि, श्लक्ष्णानि, स्पर्शसहानि, स्निग्ध श्वेत पाण्डु पिच्छिलानि, स्तब्धानि, गुरूणि, स्तिमितानि, सुप्त सुप्तानि, स्थिर श्वयथूनि, कण्डू बहुलानि, बहुप्रतत पिञ्जर श्वेतरक्त पिच्छा स्रावीणि, गुरु पिच्छिल श्वेत मूत्र पुरीषाणि, रूक्षोष्णोपशयानि, प्रवाहिकातिमात्रोत्थानवङ्क्षणानाहवन्ति, परिकर्तिका हृल्लास निष्ठीविका कासारोचक प्रतिश्याय गौरव च्छर्दि मूत्रकृच्छ्र शोष शोथ- पाण्डु रोग शीतज्वराश्मरी शर्करा हृदयेन्द्रियोपलेपास्य माधुर्य प्रमेहकराणि, दीर्घकालानुबन्धीनि, अतिमात्रमग्निमार्दव क्लैब्यकराणि, आम विकार प्रबलानि, शुक्ल नख नयन वदन त्वङ्मूत्रपुरीषस्य श्लेष्मोल्बणान्यर्शांसीति विद्यात्||१७||

भवतश्चात्र-
मधुर स्निग्ध शीतानि लवणाम्ल गुरूणि |
अव्यायामो दिवास्वप्नः शय्यासनसुखे रतिः||१८||
प्राग्वातसेवा शीतौ देशकालावचिन्तनम्|
श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसाम्||१९||

हेतु लक्षण संसर्गाद्विद्याद्द्वन्द्वोल्बणानि |
सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणैः समम्||२०||

विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव |
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता||२१||
ग्रहणीदोषपाण्ड्वर्तेराशङ्का चोदरस्य |
पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये||२२||

अर्शांसि खलु जायन्ते नासन्निपतितैस्त्रिभिः|
दोषैर्दोषविशेषात्तु विशेषः कल्प्यतेऽर्शसाम्||२३||

पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम्|
सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे||२४||
तस्मादर्शांसि दुःखानि बहुव्याधिकराणि |
सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि ||२५||

हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा|
शोथो हृत्पार्श्वशूलं यस्यासाध्योऽर्शसो हि सः||२६||
हृत्पार्श्वशूलं सम्मोहश्छर्दिरङ्गस्य रुग् ज्वरः|
तृष्णा गुदस्य पाकश्च निहन्यर्गुदजातुरम्||२७||
सहजानि त्रिदोषाणि यानि चाभ्यन्तरां वलिम्|
जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्दिशेत्||२८||
शेषत्वादायुषस्तानि चतुष्पादसमन्विते|
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा||२९||
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि |
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि ||३०||
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि |
अर्शांसि सुखसाध्यानि चिरोत्पाततानि ||३१||
तेषां प्रशमने यत्नमाशु कुर्याद्विचक्षणः|
तान्याशु हि गुदं बद्ध्वा कुर्युर्बद्धगुदोदरम्||३२||

तत्राहुरेके शस्त्रेण कर्तनं हितमर्शसाम्|
दाहं क्षारेण चाप्येके, दाहमेके तथाऽग्निना||३३||
अस्त्येतद्भूरितन्त्रेण धीमता दृष्टकर्मणा|
क्रियते त्रिविधं कर्म भ्रंशस्तत्र सुदारुणः||३४||
पुंस्त्वोपघातः श्वयथुर्गुदे वेगविनिग्रहः|
आध्मानं दारुणं शूलं व्यथा रक्तातिवर्तनम्||३५||
पुनर्विरोहो रूढानां क्लेदो भ्रंशो गुदस्य |
मरणं वा भवेच्छीघ्रं शस्त्रक्षाराग्निविभ्रमात्||३६||
यत्तु कर्म सुखोपायमल्पभ्रंशमदारुणम्|
तदर्शसां प्रवक्ष्यामि समूलानां विवृत्तये||३७||

वातश्लेष्मोल्बणान्याहुः शुष्काण्यर्शांसि तद्विदः|
प्रस्रावीणि तथाऽऽर्द्राणि रक्तपित्तोल्बणानि ||३८||

तत्र शुष्कार्शसां पूर्वं प्रवक्ष्यामि चिकित्सितम्|
स्तब्धानि स्वेदयेत् पूर्वं शोफशूलान्वितानि ||३९||

चित्रक क्षार बिल्वानां तैलेनाभ्यज्य बुद्धिमान्|
यव माष कुलत्थानां पुलाकानां पोट्टलैः||४०||
गोखराश्वशकृत्पिण्डैस्तिलकल्कैस्तुषैस्तथा|
वचाशताह्वापिण्डैर्वा सुखोष्णैः स्नेहसंयुतैः||४१||
शक्तूनां पिण्डिकाभिर्वा स्निग्धानां तैलसर्पिषा|
शुष्कमूलकपिण्डैर्वा पिण्डैर्वा कार्ष्णगन्धिकैः||४२||
रास्नापिण्डैः सुखोष्णैर्वा सस्नेहैर्हापुषैरपि|
इष्टकस्य खराह्वायाः शाकैर्गृञ्जनकस्य वा||४३||
अभ्यज्य कुष्ठतैलेन स्वेदयेत् पोट्टलीकृतैः|

वृषार्कैरण्डबिल्वानां पत्रोत्क्वाथैश्च सेचयेत्||४४||

मूलक त्रिफलार्काणां वेणूनां वरुणस्य |
अग्निमन्थस्य शिग्रोश्च पत्राण्यश्मन्तकस्य ||४५||
जलेनोत्क्वाथ्य शूलार्तं स्वभ्यक्तमवगाहयेत्|
कोलोत्क्वाथेऽथवा कोष्णे सौवीरक तुषोदके||४६||
बिल्वक्वाथेऽथवा तक्रे दधिमण्डाम्लकाञ्जिके|
गोमूत्रे वा सुखोष्णे तं स्वभ्यक्तमवगाहयेत्||४७||

कृष्ण सर्प वराहोष्ट्र जतुकावृषदंशजाम्|
वसामभ्यञ्जने दद्याद्धूपनं चार्शसां हितम्||४८||
नृकेशाः सर्पनिर्मोको वृषदंशस्य चर्म |
अर्कमूलं शमीपत्रमर्शोभ्यो धूपनं हितम्||४९||
तुम्बुरूणि विडङ्गानि देवदार्वक्षता घृतम्|
बृहती चाश्वगन्धा पिप्पल्यः सुरसा घृतम्||५०||
वराहवृषविट् चैव धूपनं सक्तवो घृतम्|
कुञ्जरस्य पुरीषं तु घृतं सर्जरसस्तथा||५१||

हरिद्रा चूर्ण संयुक्तं सुधा क्षीरं प्रलेपनम्|
गोपित्त पिष्टाः पिप्पल्यः सहरिद्राः प्रलेपनम्||५२||
शिरीष बीजं कुष्ठं पिप्पल्यः सैन्धवं गुडः|
अर्क क्षीरं सुधा क्षीरं त्रिफला प्रलेपनम्||५३||
पिप्पल्यश्चित्रकः श्यामा किण्वं मदन तण्डुलाः|
प्रलेपः कुक्कुट शकृद्धरिद्रा गुडसंयुतः||५४||
दन्ती श्यामाऽमृतासङ्गः पारावतशकृद्गुडः|
प्रलेपः स्याद्गजास्थीनि निम्बो भल्लातकानि ||५५||
प्रलेपः स्यादलं कोष्णं वासन्तकवसायुतम्|
शूलश्वयथुहृद्युक्तं चुलूकीवसयाऽथवा||५६||
आर्कं पयः सुधाकाण्डं कटुकालाबुपल्लवाः|
करञ्जो बस्तमूत्रं लेपनं श्रेष्ठमर्शसाम्||५७||

अभ्यङ्गाद्याः प्रदेहान्ता एते परिकीर्तिताः|
स्तम्भ श्वयथु कण्ड्वर्ति शमनास्तेऽर्शसां मताः||५८||

प्रदेहान्तैरुपक्रान्तान्यर्शांसि प्रस्रवन्ति हि|
सञ्चितं दुष्टरुधिरं ततः सम्पद्यते सुखी||५९||

शीतोष्णा स्निग्ध रूक्षैर्हि व्याधि रुपशाम्यति|
रक्ते दुष्टे भिषक् तस्माद्रक्तमेवावसेचयेत्||६०||
जलौकोभिस्तथा शस्त्रैः सूचीभिर्वा पुनः पुनः|
अवर्तमानं रुधिरं रक्तार्शोभ्यः प्रवाहयेत्||६१||

गुद श्वयथु शूलार्तं मन्दाग्निं पाययेत्तु तम्|
त्र्यूषणं पिप्पलीमूलं पाठां हिङ्गु सचित्रकम्||६२||
सौवर्चलं पुष्कराख्यमजाजीं बिल्वपेषिकाम्|
बिडं यवानीं हपुषां विडङ्गं सैन्धवं वचाम्||६३||
तिन्तिडीकं मण्डेन मद्येनोष्णोदकेन वा|
तथाऽर्शोग्रहणीदोषशूलानाहाद्विमुच्यते||६४||
पाचनं पाययेद्वा तद्यदुक्तं ह्यातिसारिके|

गुडामभयां वाऽपि प्राशयेत् पौर्वभक्तिकीम्||६५||
पाययेद्वा त्रिवृच्चूर्णं त्रिफलारससंयुतम्|
हृते गुदाश्रये दोषे गच्छन्त्यर्शांसि सङ्क्षयम्||६६||
गोमूत्राध्युषितां दद्यात् सगुडां वा हरीतकीम्|
हरीतकीं तक्रयुतां त्रिफलां वा प्रयोजयेत्||६७||
सनागरं चित्रकं वा सीधुयुक्तं प्रयोजयेत्|
दापयेच्चव्ययुक्तं वा सीधुं साजाजिचित्रकम्||६८||
सुरां सहपुषापाठां दद्यात् सौवर्चलान्विताम्|
दधित्थ बिल्व संयुक्तं युक्तं वा चव्यचित्रकैः||६९||
भल्लातक युतं वाऽपि प्रदद्यात्तक्रतर्पणम्|
बिल्व नागर युक्तं वा यवान्या चित्रकेण ||७०||
चित्रकं हपुषां हिङ्गुं दद्याद्वा तक्रसंयुतम्|
पञ्चकोल युतं वाऽपि तक्रमस्मै प्रदापयेत्||७१||

हपुषां कुञ्चिकां धान्यमजाजीं कारवीं शटीम्|
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||७२||
यवानीं चाजमोदां चूर्णितं तक्रसंयुतम्|
मन्दाम्लकटुकं विद्वान् स्थापयेद्धृतभाजने||७३||
व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम्|
प्रपिबेन्मात्रया कालेष्वन्नस्य तृषितस्त्रिषु||७४||
दीपनं रोचनं वर्ण्यं कफवातानुलोमनम्|
गुद श्वयथु कण्ड्वर्तिनाशनं बलवर्धनम्||७५||
इति तक्रारिष्टः|

त्वचं चित्रक मूलस्य पिष्ट्वा कुम्भं प्रलेपयेत्|
तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत्||७६||
वातश्लेष्मार्शसां तक्रात् परं नास्तीह भेषजम्|
तत् प्रयोज्यं यथादोषं सस्नेहं रूक्षमेव वा||७७||
सप्ताहं वा दशाहं वा पक्षं मासमथापि वा|
बलकालविशेषज्ञो भिषक् तक्रं प्रयोजयेत्||७८||
अत्यर्थमृदुकायाग्नेस्तक्रमेवावचारयेत्|
सायं वा लाजशक्तूनां दद्यात्तक्रावलेहिकाम्||७९||
जीर्णे तक्रे प्रदद्याद्वा तक्रपेयां ससैन्धवाम्|
तक्रानुपानं सस्नेहं तक्रौदनमतः परम्||८०||
यूषैर्मांसरसैर्वाऽपि भोजयेत्तक्रसंयुतैः|
यूषै रसेन वाऽप्यूर्ध्वं तक्रसिद्धेन भोजयेत्||८१||
कालक्रमज्ञः सहसा तक्रं निवर्तयेत्|
तक्रप्रयोगो मासान्तः क्रमेणोपरमो हितः||८२||
अपकर्षो यथोत्कर्षो त्वन्नादपकृष्यते|
शक्त्यागमनरक्षार्थं दार्ढ्यार्थमनलस्य ||८३||
बलोपचयवर्णार्थमेष निर्दिश्यते क्रमः|
रूक्षमर्धोद्धृतस्नेहं यतश्चानुद्धृतं घृतम्||८४||
तक्रं दोषाग्निबलवित्त्रिविधं तत् प्रयोजयेत्|
हतानि विरोहन्ति तक्रेण गुदजानि तु||८५||
भूमावपि निषिक्तं तद्दहेत्तक्रं तृणोलुपम्|
किं पुनर्दीप्तकायाग्नेः शुष्काण्यर्शांसि देहिनः||८६||
स्रोतःसु तक्रशुद्धेषु रसः सम्यगुपैति यः|
तेन पुष्टिर्बलं वर्णः प्रहर्षश्चोपजायते||८७||
वातश्लेष्मविकाराणां शतं चापि निवर्तते|
नास्ति तक्रात् परं किञ्चिदौषधं कफवातजे||८८||

पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्|
शृङ्गवेरमजाजीं कारवीं धान्यतुम्बुरु||८९||
बिल्वं कर्कटकं पाठां पिष्ट्वा पेयां विपाचयेत्|
फलाम्लां यमकैर्भृष्टां तां दद्याद्गुदजापहाम्||९०||
एतैश्चैव खडान् कुर्यादेतैश्च विपचेज्जलम्|
एतैश्चैव घृतं साध्यमर्शसां विनिवृत्तये||९१||

शटी पलाश सिद्धां वा पिप्पल्या नागरेण वा|
दद्याद्यवागूं तक्राम्लां मरिचैरवचूर्णिताम्||९२||

शुष्क मूलक यूषं वा यूषं कौलत्थमेव वा|
दधित्थ बिल्व यूषं वा सकुलत्थमकुष्ठकम्||९३||
छागलं वा रसं दद्याद्यूषैरेभिर्विमिश्रितम्|
लावादीनां फलाम्लं वा सतक्रं ग्राहिभिर्युतम्||९४||
रक्तशालिर्महाशालिः कलमो लाङ्गलः सितः|
शारदः षष्टिकश्चैव स्यादन्नविधिरर्शसाम्||९५||
इत्युक्तो भिन्नशकृतामर्शसां क्रियाक्रमः|९६|

येऽत्यर्थं गाढशकृतस्तेषां वक्ष्यामि भेषजम्||९६||
सस्नेहैः शक्तुभिर्युक्तां प्रसन्नां लवणी कृताम्|
दद्यान्मत्स्यण्डिकां पूर्वं भक्षयित्वा सनागराम्||९७||
गुडं सनागरं पाठां फलाम्लं पाययेच्च तम्|
गुडं घृत यव क्षार युक्तं वाऽपि प्रयोजयेत्||९८||
यवानीं नागरं पाठां दाडिमस्य रसं गुडम्|
सतक्र लवणं दद्याद्वातवर्चोऽनुलोमनम्||९९||
दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा|
एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम्||१००||
प्राग्भक्तं यमके भृष्टान् सक्तुभिश्चावचूर्णितान्|
करञ्ज पल्लवान् दद्याद्वातर्चोऽनुलोमनान्||१०१||
मदिरां वा सलवणां सीधुं सौवीरकं तथा|
गुड नागरसंयुक्तं पिबेद्वा पौर्वभक्तिकम्||१०२||

पिप्पली नागर क्षार कारवी धान्य जीरकैः|
फाणितेन संयोज्य फलाम्लं दापयेद्घृतम्||१०३||

पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली|
शृङ्गवेरयवक्षारौ तैः सिद्धं वा पिबेद्घृतम्||१०४||

चव्य चित्रक सिद्धं वा गुड क्षार समन्वितम्|
पिप्पलीमूल सिद्धं वा सगुडक्षार नागरम् ||१०५||

पिप्पली पिप्पलीमूल दधि दाडिम धान्यकैः |
सिद्धं सर्पि र्विधातव्यं वात वर्चो विबन्धनुत्||१०६||

चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बुरूणि |
यवानीं पिप्पलीमूलमुभे विडसैन्धवे||१०७||
चित्रकं बिल्वमभयां पिष्ट्वा सर्पिर्विपाचयेत्|
शकृद्वातानुलोम्यार्थं जाते दध्नि चतुर्गुणे||१०८||
प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम्|
गुदवङ्क्षणशूलं घृतमेतद्व्यपोहति||१०९||

नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली|
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका||११०||
चाङ्गेरीस्वरसे सर्पिः कल्कैरेतैर्विपाचयेत्|
चतुर्गुणेन दध्ना तद्घृतं कफवातनुत्||१११||
अर्शांसि ग्रहणीदोषं मूत्रकृच्छ्रं प्रवाहिकाम्|
गुदभ्रंशार्तिमानाहं घृतमेतद्व्यपोहति||११२||

पिप्पलीं नागरं पाठां श्वदंष्ट्रां पृथक् पृथक्|
भागांस्त्रिपलिकान् कृत्वा कषायमुपकल्पयेत्||११३||
गण्डीरं पिप्पलीमूलं व्योषं चव्यं चित्रकम्|
पिष्ट्वा कषाये विनयेत् पूते द्विपलिकं भिषक्||११४||
पलानि सर्पिषस्तस्मिंश्चत्वारिंशत् प्रदापयेत्|
चाङ्गेरीस्वरसं तुल्यं सर्पिषा दधि षड्गुणम्||११५||
मृद्वग्निना ततः साध्यं सिद्धं सर्पिर्निधापयेत्|
तदाहारे विधातव्यं पाने प्रायोगिके विधौ||११६||
ग्रहण्यर्शोविकारघ्नं गुल्महृद्रोगनाशनम्|
शोथप्लीहोदरानाहमूत्रकृच्छ्रज्वरापहम्||११७||
कासहिक्कारुचिश्वाससूदनं पार्श्वशूलनुत्|
बलपुष्टिकरं वर्ण्यमग्निसन्दीपनं परम्||११८||

सगुडां पिप्पली युक्तां घृतभृष्टां हरीतकीम्|
त्रिवृद्दन्तीयुतां वाऽपि भक्षयेदानुलोमिकीम्||११९||
विड्वात कफ पित्तानामानुलोम्येऽथ निर्वृते|
गुदेऽर्शांसि प्रशाम्यन्ति पावकश्चाभिवर्धते||१२०||

बर्हि तित्तिरि लावानां रसानम्लान् सुसंस्कृतान्|
दक्षाणां वर्तकानां दद्याद्विड्वातसङ्ग्रहे||१२१||

त्रिवृद्दन्तीपलाशानां चाङ्गेर्याश्चित्रकस्य |
यमके भर्जितं दद्याच्छाकं दधि समन्वितम्||१२२||
उपोदिकां तण्डुलीयं वीरां वास्तुक पल्लवान्|
सुवर्चलां सलोणीकां यव शाकमवल्गुजम्||१२३||
काकमाचीं रुहापत्रं महापत्रं तथाऽम्लिकाम्|
जीवन्तीं शटिशाकं शाकं गृञ्जनकस्य ||१२४||
दधि दाडिम सिद्धानि यमके भर्जितानि |
धान्य नागर युक्तानि शाकान्येतानि दापयेत्||१२५||

गोधालोपाक मार्जार श्वाविदुष्ट्रगवामपि|
कूर्म शल्लकयोश्चैव साधयेच्छाकवद्रसान्||१२६||
रक्त शाल्योदनं दद्याद्रसैस्तैर्वात शान्तये|१२७|

ज्ञात्वा वातोल्बणं रूक्षं मन्दाग्निं गुदजातुरम्||१२७||
मदिरां शार्करं जातं सीधुं तक्रं तुषोदकम्|
अरिष्टं दधिमण्डं वा शृतं वा शिशिरं जलम्||१२८||
कण्टकार्या शृतं वाऽपि शृतं नागरधान्यकैः|
अनुपानं भिषग्दद्याद्वातवर्चोऽनुलोमनम्||१२९||

उदावर्त परीता ये ये चात्यर्थं विरूक्षिताः|
विलोमवाताः शूलार्तास्तेष्विष्टमनुवासनम्||१३०||

पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम्|
कुष्ठं शटीं पुष्कराख्यं चित्रकं देवदारु ||१३१||
पिष्ट्वा तैलं विपक्तव्यं पयसा द्विगुणेन |
अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम्||१३२||
गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम्|
कट्यूरुपृष्ठदौर्बल्यमानाहं वङ्क्षणाश्रयम्||१३३||
पिच्छास्रावं गुदे शोफं वातवर्चोविनिग्रहम्|
उत्थानं बहुशो यच्च जयेत्तच्चानुवासनात्||१३४||

आनुवासनिकैः पिष्टैः सुखोष्णैः स्नेहसंयुतैः|
दार्वन्तैः स्तब्ध शूलानि गुदजानि प्रलेपयेत्||१३५||
दिग्धास्तैः प्रस्रवन्त्याशु श्लेष्म पिच्छां सशोणिताम्|
कण्डूः स्तम्भः सरुक् शोफः स्रुतानां विनिवर्तते||१३६||

निरूहं वा प्रयुञ्जीत सक्षीरं दाशमूलिकम्|
समूत्र स्नेह लवणं कल्कैर्युक्तं फलादिभिः||१३७||

हरीतकीनां प्रस्थार्धं प्रस्थमामलकस्य |
स्यात् कपित्थाद्दशपलं ततोऽर्धा चेन्द्रवारुणी||१३८||
विडङ्गं पिप्पली लोध्रं मरिचं सैलवालुकम्|
द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत्||१३९||
द्रोणशेषे रसे तस्मिन् पूते शीते समावपेत्|
गुडस्य द्विशतं तिष्ठेत्तत् पक्षं घृतभाजने||१४०||
पक्षादूर्ध्वं भवेत् पेया ततो मात्रा यथाबलम्|
अस्याभ्यासादरिष्टस्य गुदजा यान्ति सङ्क्षयम्||१४१||
ग्रहणी पाण्डु हृद्रोग प्लीह गुल्मोदरापहः|
कुष्ठ शोफारुचिहरो बलवर्णाग्निवर्धनः||१४२||
सिद्धोऽयमभयारिष्टः कामलाश्वित्रनाशनः|
कृमिग्रन्थ्यर्बुद व्यङ्ग राजयक्ष्म ज्वरान्तकृत्||१४३||
इत्यभयारिष्टः|

दन्ती चित्रक मूलानामुभयोः पञ्चमूलयोः|
भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत्||१४४||
त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत्|
रसे चतुर्थ शेषे तु पूते शीते समावपेत्||१४५||
तुलां गुडस्य तत्तिष्ठेन्मासार्धं घृतभाजने|
तन्मात्रया पिबन्नित्यमर्शोभ्यो विप्रमुच्यते||१४६||
ग्रहणी पाण्डु रोगघ्नं वातवर्चोऽनुलोमनम्|
दीपनं चारुचिघ्नं दन्त्यरिष्टमिमं विदुः||१४७||
इति दन्त्यरिष्टः|

हरीतकी फलप्रस्थं प्रस्थमामलकस्य |
विशालाया दधित्थस्य पाठाचित्रकमूलयोः||१४८||
द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम्|
पादावशेषे पूते रसे तस्मिन् प्रदापयेत्||१४९||
गुडस्यैकां तुलां वैद्यस्तत् स्थाप्यं घृतभाजने|
पक्षस्थितं पिबेदेनं ग्रहण्यर्शोविकारवान्||१५०||
हृत्पाण्डुरोगं प्लीहानं कामलां विषमज्वरम्|
वर्चोमूत्रानिलकृतान् विबन्धानग्निमार्दवम्||१५१||
कासं गुल्ममुदावर्तं फलारिष्टो व्यपोहति|
अग्निसन्दीपनो ह्येष कृष्णात्रेयेण भाषितः||१५२||
इति फलारिष्टः|

दुरालभायाः प्रस्थः स्याच्चित्रकस्य वृषस्य |
पथ्यामलकयोश्चैव पाठाया नागरस्य ||१५३||
दन्त्याश्च द्विपलान् भागाञ्जलद्रोणे विपाचयेत्|
पादावशेषे पूते सुशीते शर्कराशतम्||१५४||
प्रक्षिप्य स्थापयेत् कुम्भे मासार्धं घृतभाविते|
प्रलिप्ते पिप्पली चव्य प्रियङ्गु क्षौद्र सर्पिषा||१५५||
तस्य मात्रां पिबेत् काले शार्करस्य यथाबलम्|
अर्शांसि ग्रहणीदोषमुदावर्तमरोचकम्||१५६||
शकृन्मूत्रानिलोद्गारविबन्धानग्निमार्दवम्|
हृद्रोगं पाण्डुरोगं सर्वमेतेन साधयेत्||१५७||
इति द्वितीयफलारिष्टः |

नवस्यामलकस्यैकां कुर्याज्जर्जरितां तुलाम्|
कुडवांशाश्च पिप्पल्यो विडङ्गं मरिचं तथा||१५८||
पाठां पिप्पली मूलं क्रमुकं चव्य चित्रकौ|
मञ्जिष्ठैल्वालुकं लोध्रं पलिकानुपकल्पयेत्||१५९||
कुष्ठं दारुहरिद्रां सुराह्वं सारिवाद्वयम्|
इन्द्राह्वं भद्रमुस्तं कुर्यादर्धपलोन्मितम्||१६०||
चत्वारि नागपुष्पस्य पलान्यभिनवस्य |
द्रोणाभ्यामम्भसो द्वाभ्यां साधयित्वाऽवतारयेत्||१६१||
पादावशेषे पूते शीते तस्मिन् प्रदापयेत्|
मृद्वीकाद्व्याढकरसं शीतं निर्यूहसम्मितम्||१६२||
शर्करायाश्च भिन्नाया दद्याद्द्विगुणितां तुलाम्|
कुसुमस्य रसस्यैकमर्धप्रस्थं नवस्य ||१६३||
त्वगेलाप्लवपत्राम्बुसेव्यक्रमुककेशरान्|
चूर्णयित्वा तु मतिमान् कार्षिकानत्र दापयेत्||१६४||
तत् सर्वं स्थापयेत् पक्षं सुचौक्षे घृतभाजने|
प्रलिप्ते सर्पिषा किञ्चिच्छर्करागुरुधूपिते||१६५||
पक्षादूर्ध्वमरिष्टोऽयं कनको नाम विश्रुतः|
पेयः स्वादुरसो हृद्यः प्रयोगाद्भक्तरोचनः||१६६||
अर्शांसि ग्रहणीदोषमानाहमुदरं ज्वरम्|
हृद्रोगं पाण्डुतां शोथं गुल्मं वर्चोविनिग्रहम्||१६७||
कासं श्लेष्मामयांश्चोग्रान् सर्वानेवापकर्षति|
वलीपलितखालित्यं दोषजं व्यपोहति||१६८||
इति कनकारिष्टः|

पत्रभङ्गोदकैः शौचं कुर्यादुष्णेन वाऽम्भसा|
इति शुष्कार्शसां सिद्धमुक्तमेतच्चिकित्सितम्||१६९||

चिकित्सितमिदं सिद्धं स्राविणां शृण्वतः परम् |
तत्रानुबन्धो द्विविधः श्लेष्मणो मारुतस्य ||१७०||

विट् श्यावं कठिनं रूक्षं चाधो वायुर्न वर्तते|
तनु चारुणवर्णं फेनिलं चासृगर्शसाम्||१७१||
कट्यूरुगुदशूलं दौर्बल्यं यदि चाधिकम्|
तत्रानुबन्धो वातस्य हेतुर्यदि रूक्षणम्||१७२||

शिथिलं श्वेतपीतं विट् स्निग्धं गुरु शीतलम्|
यद्यर्शसां घनं चासृक् तन्तुमत् पाण्डु पिच्छिलम्||१७३||
गुदं सपिच्छं स्तिमितं गुरु स्निग्धं कारणम्|
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः||१७४||

स्निग्धशीतं हितं वाते रूक्षशीतं कफानुगे|
चिकित्सितमिदं तस्मात् सम्प्रधार्य प्रयोजयेत्||१७५||
पित्तश्लेष्माधिकं मत्वा शोधनेनोपपादयेत्|
स्रवणं चाप्युपेक्षेत लङ्घनैर्वा समाचरेत्||१७६||

प्रवृत्तमादावर्शोभ्यो यो निगृह्णात्यबुद्धिमान्|
शोणितं दोषमनिलं तद्रोगाञ्जनयेद्बहून्||१७७||
रक्तपित्तं ज्वरं तृष्णामग्निसादमरोचकम्|
कामलां श्वयथुं शूलं गुद वङ्क्षण संश्रयम्||१७८||
कण्ड्वरुःकोठपिडकाः कुष्ठं पाण्ड्वाह्वयं गदम्|
वात मूत्र पुरीषाणां विबन्धं शिरसो रुजम्||१७९||
स्तैमित्यं गुरुगात्रत्वं तथाऽन्यान् रक्तजान् गदान्|
तस्मात् स्रुते दुष्टरक्ते रक्तसङ्ग्रहणं हितम्||१८०||
हेतु लक्षण कालज्ञो बल शोणित वर्णवित्|
कालं तावदुपेक्षेत यावन्नात्ययमाप्नुयात्||१८१||

अग्नि सन्दीपनार्थं रक्त सङ्ग्रहणाय |
दोषाणां पाचनार्थं परं तिक्तैरुपाचरेत्||१८२||

यत्तु प्रक्षीणदोषस्य रक्तं वातोल्बणस्य |
वर्तते स्नेहसाध्यं तत् पानाभ्यङ्गानुवासनैः||१८३||

यत्तु पित्तोल्बणं रक्तं घर्मकाले प्रवर्तते|
स्तम्भनीयं तदेकान्तान्न चेद्वातकफानुगम्||१८४||

कुटज त्वङ्निर्यूहः सनागरः स्निग्ध रक्त सङ्ग्रहणः|
त्वग्दाडिमस्य तद्वत् सनागरश्चन्दनरसश्च||१८५||
चन्दन किराततिक्तक धन्वयवासाः सनागराः क्वथिताः|
रक्तार्शसां प्रशमना दार्वीत्वगुशीर निम्बाश्च||१८६||
सातिविषा कुटज त्वक् फलं सरसाञ्जनं मधुयुतानि|
रक्तापहानि दद्यात् पिपासवे तण्डुलजलेन||१८७||

कुटज त्वचो विपाच्यं पलशतमार्द्रं महेन्द्रसलिलेन|
यावत्स्याद्गतरसं तद्द्रव्यं पूतो रसस्ततो ग्राह्यः||१८८||
मोचरसः ससमङ्गः फलिनी समांशिकैस्त्रिभिस्तैश्च |
वत्सकबीजं तुल्यं चूर्णितमत्र प्रदातव्यम्||१८९||
पूतोत्क्वथितः सान्द्रः रसो दर्वीप्रलेपनो ग्राह्यः|
मात्राकालोपहिता रसक्रियैषा जयत्यसृक्स्रावम्||१९०||

छगली पयसा पीता पेयामण्डेन वा यथाग्निबलम्|
जीर्णौषधश्च शालीन् पयसा छागेन भुञ्जीत||१९१||
रक्तार्शांस्यतिसारं रक्तं सासृग्रुजो निहन्त्याशु|
बलवच्च रक्तपित्तं रसक्रियैषा जयत्युभयभागम् ||१९२||
इति कुटजादिरसक्रिया|

नीलोत्पलं समङ्गा मोचरसश्चन्दनं तिला लोध्रम्|
पीत्वा च्छगलीपयसा भोज्यं पयसैव शाल्यन्नम्||१९३||

छागलि पयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसं |
धन्व विहङ्ग मृगाणां रसो निरम्लः कदम्लो वा||१९४||

पाठा वत्सकबीजं रसाञ्जनं नागरं यवान्यश्च|
बिल्वमिति चार्शसैश्चूर्णितानि पेयानि शूलेषु||१९५||

दार्वी किराततिक्तं मुस्तं दुःस्पर्शकश्च रुधिरघ्नम्|

रक्तेऽतिवर्तमाने शूले घृतं विधातव्यम्||१९६||
कुटजफल वल्क केशर नीलोत्पल लोध्र धातकी कल्कैः|
सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा||१९७||
सर्पिः सदाडिमरसं सयावशूकं शृतं जयत्याशु|
रक्तं सशूलमथवा निदिग्धिकादुग्धिकासिद्धम्||१९८||

लाजापेया पीता सचुक्रिका केशरोत्पलैः सिद्धा|
हन्त्याश्वस्रस्रावं तथा बला पृश्निपर्णीभ्याम्||१९९||
ह्रीवेर बिल्व नागर निर्यूहे साधितां सनवनीताम्|
वृक्षाम्ल दाडिमाम्लामम्लीकाम्लां सकोलाम्लाम्||२००||
गृञ्जनकसुरासिद्धां दद्याद्यमकेन भर्जितां पेयाम्|
रक्तातिसार शूल प्रवाहिका शोथ निग्रहणीम्||२०१||

काश्मर्यामलकानां सकर्बुदारान् फलाम्लांश्च|
गृञ्जनक शाल्मलीनां क्षीरिण्याश्चुक्रिकायाश्च||२०२||
न्यग्रोध शुङ्गकानां खण्डांस्तथा कोविदार पुष्पाणाम्|
दध्नः सरेण सिद्धान् दद्याद्रक्ते प्रवृत्तेऽति||२०३||

सिद्धं पलाण्डुशाकं तक्रेणोपोदिकां सबदराम्लाम्|
रुधिरस्रवे प्रदद्यान्मसूरसूपं तक्राम्लम्||२०४||

पयसा शृतेन यूषै र्मसूर मुद्गाढकीमकुष्ठानाम् |
भोजनमद्यादम्लैः शालि श्यामाक कोद्रवजम्||२०५||

शश हरिण लाव मांसैः कपिञ्जलैणेयकैः सुसिद्धैश्च|
भोजनमद्यादम्लैर्मधुरैरीषत् समरिचैर्वा||२०६||

दक्ष शिखि तित्तिरि रसैर्द्विककुदलो पाकजैश्च मधुराम्लैः|
अद्याद्रसैरतिवहेष्वर्शःस्वनिलोल्बणशरीरः||२०७||

रस खड यूष यवागू संयोगतः केवलोऽथवा जयति|
रक्तमतिवर्तमानं वातं पलाण्डुरुपयुक्तः||२०८||

छागान्तराधि तरुणं सरुधिरमुपसाधितं बहु पलाण्डु|
व्यत्यासान्मधुराम्लं विट्शोणितसङ्क्षये देयम्||२०९||

नवनीत तिलाभ्यासात् केशर नवनीत शर्कराभ्यासात्|
दधि सर मथिताभ्यासादर्शांस्यपयान्ति रक्तानि||२१०||

नवनीतघृतं छागं मांसं सषष्टिकः शालिः|
तरुणश्च सुरा मण्डस्तरुणी सुरा निहन्त्यस्रम्||२११||

प्रायेण वात बहुलान्यर्शांसि भवन्त्यतिस्रुते रक्ते|
दुष्टेऽपि कफ पित्ते तस्मादनिलोऽधिको ज्ञेयः||२१२||

दृष्ट्वा तु रक्तपित्तं प्रबलं कफ वात लिङ्गमल्पं |
शीता क्रिया प्रयोज्या यथेरिता वक्ष्यते चान्या ||२१३||

मधुकं सपञ्चवल्कं बदरीत्वगुदुम्बरं धवपटोलम्|
परिषेचने विदध्याद्वृषककुम यवास निम्बांश्च||२१४||

रक्तेऽतिवर्तमाने दाहे क्लेदेऽवगाहयेच्चापि|
मधुक मृणाल पद्मक चन्दन कुश काश निष्क्वाथे||२१५||

इक्षुरस मधुक वेतस निर्यूहे शीतले पयसि वा तम्|
अवगाहयेत् प्रदिग्धं पूर्वं शिशिरेण तैलेन||२१६||

दत्त्वा घृतं सशर्करमुपस्थदेशे गुदे त्रिकदेशे |
शिशिर जल स्पर्श सुखा धारा प्रस्तम्भनी योज्या||२१७||

कदलीदलैरभिनवैः पुष्करपत्रैश्च शीतजलसिक्तैः|
प्रच्छादनं मुहुर्मुहुरिष्टं पद्मोत्पलदलैश्च||२१८||

दुर्वाघृतप्रदेहः शतधौतसहस्रधौतमपि सर्पिः|
व्यजनपवनः सुशीतो रक्तस्रावं जयत्याशु||२१९||

समङ्गा मधुकाभ्यां तिल मधुकाभ्यां रसाञ्जनवृताभ्याम्|
सर्जरस घृताभ्यां वा निम्बघृताभ्यां मधुघृताभ्यां वा||२२०||
दार्वीत्वक्सर्पिर्भ्यां सचन्दनाभ्यामथोत्पलघृताभ्याम्|
दाहे क्लेदे गुदभ्रंशे गुदजाः प्रतिसारणीयाः स्युः||२२१||

आभिः क्रियाभिरथवा शीताभिर्यस्य तिष्ठति रक्तम्|
तं काले स्निग्धोष्णैर्मांसरसैस्तर्पयेन्मतिमान्||२२२||
अवपीडक सर्पिर्भिः कोष्णै र्घृत तैलिकैस्तथाऽभ्यङ्गैः|
क्षीर घृत तैल सेकैः कोष्णैस्तमुपाचरेदाशु||२२३||
कोष्णेन वातप्रबले घृतमण्डेनानुवासयेच्छीघ्रम्|
पिच्छाबस्तिं दद्यात् काले तस्याथवा सिद्धम्||२२४||

यवास कुश काशानं मूलं पुष्पं शाल्मलम्|
न्यग्रोधोदुम्बराश्वत्थ शुङ्गाश्च द्विपलोन्मिताः||२२५||
त्रिप्रस्थं सलिलस्यैतत् क्षीरप्रस्थं साधयेत्|
क्षीरशेषं कषायं पूतं कल्कैर्विमिश्रयेत्||२२६||
कल्काः शाल्मलि निर्यास समङ्गा चन्दनोत्पलम्|
वत्सकस्य बीजानि प्रियङ्गुः पद्मकेशरम्||२२७||
पिच्छाबस्तिरयं सिद्धः सघृतक्षौद्रशर्करः|
प्रवाहिका गुदभ्रंश रक्तस्राव ज्वरापहः||२२८||
प्रपौण्डरीकं मधुकं पिच्छाबस्तौ यथेरितान्|
पिष्ट्वाऽनुवासनं स्नेहं क्षीरद्विगुणितं पचेत्||२२९||
इति पिच्छाबस्तिः|`

ह्रीवेरमुत्पलं लोध्रं समङ्गा चव्य चन्दनम्|
पाठा सातिविषा बिल्वं धातकी देवदारु ||२३०||
दार्वी त्वङ् नागरं मांसी मुस्तं क्षारो यवाग्रजः|
चित्रकश्चेति पेष्याणि चाङ्गेरीस्वरसे घृतम्||२३१||
ऐकध्यं साधयेत् सर्वं तत् सर्पिः परमौषधम्|
अर्शोतिसार ग्रहणी पाण्डुरोगे ज्वरेऽरुचौ||२३२||
मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहणे|
पिच्छास्रावेऽर्शसां शूले योज्यमेतत्त्रिदोषनुत्||२३३||
इति ह्रीवेरादिघृतम्|

अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः|
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः||२३४||
कषाय एषां पेष्यास्तु जीवन्ती कटुरोहिणी|
पिप्पली पिप्पलीमूलं नागरं सुरदारु ||२३५||
कलिङ्गाः शाल्मलं पुष्पं वीरा चन्दनमुत्पलम् |
कट्फलं चित्रको मुस्तं प्रियङ्ग्वतिविषास्थिराः||२३६||
पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका|
बिल्वं मोचरसः पाठा भागाः कर्षसमन्विताः||२३७||
चतुष्प्रस्थे शृतं प्रस्थं कषायमवतारयेत्|
त्रिंशत्पलानि प्रस्थोऽत्र विज्ञेयो द्विपलाधिकः||२३८||
सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसस्य |
सर्वैरेतैर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत्||२३९||
एतदर्शःस्वतीसारे रक्तस्रावे त्रिदोषजे|
प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु ||२४०||
उत्थाने चातिबहुशः शोथशूले गुदाश्रये|
मूत्रग्रहे मूढवाते मन्देऽग्नावरुचावपि||२४१||
प्रयोज्यं विधिवत् सर्पिर्बलवर्णाग्निवर्धनम्|
विविधेष्वन्नपानेषु केवलं वा निरत्ययम्||२४२||
इति सुनिषण्णकचाङ्गेरीघृतम्|

भवन्ति चात्र-
व्यत्यासान्मधुराम्लानि शीतोष्णानि योजयेत्|
नित्यमग्निबलापेक्षी जयत्यर्शःकृतान् गदान्||२४३||

त्रयो विकाराः प्रायेण ये परस्परहेतवः|
अर्शांसि चातिसारश्च ग्रहणीदोष एव ||२४४||
एषामग्निबले हीने वृद्धिर्वृद्धे परिक्षयः|
तस्मादग्निबलं रक्ष्यमेषु त्रिषु विशेषतः||२४५||

भृष्टैः शाकै र्यवागूभिर्यूषैर्मांसरसैः खडैः|
क्षीर तक्र प्रयोगैश्च विविधैर्गुदजाञ्जयेत्||२४६||

यद्वायोरानुलोम्याय यदग्निबलवृद्धये|
अन्नपानौषधद्रव्यं तत् सेव्यं नित्यमर्शसैः||२४७||
यदतो विपरीतं स्यान्निदाने यच्च दर्शितम्|
गुदजाभिपरीतेन तत् सेव्यं कदाचन||२४८||

तत्र श्लोकाः-
अर्शसां द्विविधं जन्म पृथगायतनानि |
स्थान संस्थानलिङ्गानि साध्यासाध्यविनिश्चयः||२४९||
अभ्यङ्गाः स्वेदनं धूमाः सावगाहाः प्रलेपनाः|
शोणितस्यावसेकश्च योगा दीपनपाचनाः||२५०||
पानान्न विधिरग्र्यश्च वातवर्चोऽनुलोमनः|
योगाः संशमनीयाश्च सर्पींषि विविधानि ||२५१||
बस्तयस्तक्रयोगाश्च वरारिष्टाः सशर्कराः|
शुष्काणामर्शसां शस्ताः स्राविणां लक्षणानि ||२५२||
द्विविधं सानुबन्धानां तेषां चेष्टं यदौषधम्|
रक्त सङ्ग्रहणाः क्वाथाः पेष्याश्च विविधात्मकाः||२५३||
स्नेहाहार विधिश्चाग्र्यो योगाश्च प्रतिसारणाः|
प्रक्षालनावगाहाश्च प्रदेहाः सेचनानि ||२५४||
अतिवृत्तस्य रक्तस्य विधातव्यं यदौषधम्|
तत्सर्वमिह निर्दिष्टं गुदजानां चिकित्सिते||२५५||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते
चिकित्सास्थानेऽर्शश्चिकित्सितं नाम चतुर्दशोऽध्यायः||१४||

Post a Comment

0 Comments