Advertisement

Responsive Advertisement

Charak Chikitsa Chapter 1.3 Karprichitiyam Rasayanpaadam








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातः करप्रचितीयं रसायनपादंव्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

करप्रचितानां यथोक्तगुणानामामलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे त्रिःसप्तकृत्वः स्वरसपरिपीतानां पुनः शुष्कचूर्णीकृतानामाढकमेकंग्राहयेत्, अथ जीवनीयानां बृंहणीयानां स्तन्यजननानां शुक्रजननानां वयःस्थापनानां षड्विरेचनशताश्रितीयोक्तानामौषधगणानांचन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणांचाणुशःत्तानामभयाबिभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानां समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत्, तस्मिन्नाढकावशेषे रसे सुपूते तान्यामलकचूर्णानि दत्त्वा गोमयाग्निभिर्वंशविदलशरतेजनाग्निभिर्वा साधयेद्यावदपनयाद्रसस्य, तमनुपदग्धमुपहृत्यायसीषु पात्रीष्वास्तीर्य शोषयेत्, सुशुष्कं तत् कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टमयःस्थाल्यां निधापयेत्सम्यक्, तच्चूर्णमयश्चूर्णाष्टभागसम्प्रयुक्तं मधुसर्पिर्भ्यामग्निबलमभिसमीक्ष्य प्रयोजयेदिति||||

भवन्तिचात्र-

एतद्रसायनं पूर्वं वसिष्ठःकश्यपोऽङ्गिराः|

जमदग्निर्भरद्वाजो भृगुरन्ये तद्विधाः||||

प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात्|

यावदैच्छंस्तपस्तेपुस्तत्प्रभावान्महाबलाः||||

इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम्|

जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम्||||

(इत्यामलकायसं ब्राह्मरसायनम्)|

तपसा ब्रह्मचर्येण ध्यानेन प्रशमेन |

रसायनविधानेन कालयुक्तेन चायुषा||||

स्थिता महर्षयः पूर्वं, नहिकिञ्चिद्रसायनम्|

ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम्||||

संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा|

सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः||||

संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम्|

त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम्||१०||

बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम्|

गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात्||११||

तदा ह्यवश्यममृतं वसत्यामलके क्षणम्|

शर्करामधुकल्पानि स्नेहवन्ति मृदूनि ||१२||

भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत्|

जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः||१३||

सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः|

स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् रूपिणी||१४||

(इति केवलामलकरसायनम्)|

त्रिफलाया रसे मूत्रे गवां क्षारे लवणे|

क्रमेणचेङ्गुदीक्षारे किंशुकक्षार एव ||१५||

तीक्ष्णायसस्य पत्राणि वह्निवर्णानि साधयेत् |

चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि ||१६||

ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत्|

तानि चूर्णानि मधुना रसेनामलकस्य ||१७||

युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते|

संवत्सरं निधेयानि यवपल्ले तथैवच||१८||

दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः|

संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा||१९||

प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे भोजनम्|

एष एव लौहानां प्रयोगः सम्प्रकीर्तितः||२०||

नाभिघातैर्न चातङ्कैर्जरयान मृत्युना|

धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः||२१||

धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः|

भवेत् समां प्रयुञ्जानो नरो लौहरसायनम्||२२||

अनेनैव विधानेन हेम्नश्च रजतस्यच|

आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत्||२३||

(इति लौहादिरसायनम्)|

ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला|

पिप्पल्यो लवणं हेम शङ्खपुष्पी विषंघृतम्||२४||

एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना|

द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्यच||२५||

सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत्|

घृतप्रभूतं सक्षौद्रं जीर्णे चान्नंप्रशस्यते||२६||

जराव्याधिप्रशमनं स्मृतिमेधाकरं परम्|

आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम्||२७||

परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम्|

नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं रुक्||२८||

श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च|

मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः||२९||

(इत्यैन्द्रं रसायनम्)|

मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्|

रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः||३०||

आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि|

मेध्यानि चैतानि रसायनानि मेध्या विशेषेण चशङ्खपुष्पी||३१||

(इतिमेध्यरसायनानि)|

पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा|

रसायनगुणान्वेषी समामेकां प्रयोजयेत्||३२||

तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य |

पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः||३३||

प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा|

जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान्||३४||

अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम्|

वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम्||३५||

(इति पिप्पलीरसायनम्)|

क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम्|

वर्धयेत् पयसा सार्धं तथैवापनयेत्पुनः||३६||

जीर्णे जीर्णे भुञ्जीत षष्टिकं क्षीरसर्पिषा|

पिप्पलीनां सहस्रस्य प्रयोगोऽयंरसायनम्||३७||

पिष्टास्ता बलिभिः सेव्याः, शृता मध्यबलैर्नरैः|

चूर्णीकृता ह्रस्वबलैर्योज्या दोषामयान् प्रति||३८||

दशपैप्पलिकः श्रेष्ठो मध्यमः षट्प्रकीर्तितः|

प्रयोगो यस्त्रिपर्यन्तः कनीयान् सचाबलैः||३९||

बृहणं स्वर्यमायुष्यं प्लीहोदरविनाशनम्|

वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम्||४०||

(इति पिप्पलीवर्धमानं रसायनम्)|

जरणान्तेऽभयामेकां प्राग्भुक्ताद् द्वे बिभीतके|

भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि ||४१||

प्रयोजयन् समामेकां त्रिफलाया रसायनम्|

जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव ||४२||

(इति त्रिफलारसायनम्)|

त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्|

तमहोरात्रिकं लेपं पिबेत्क्षौद्रोदकाप्लुतम्||४३||

प्रभूतस्नेहमशनं जीर्णे तत्र प्रशस्यते|

अजरोऽरुक् समाभ्यासाज्जीवेच्चैव समाः शतम्||४४||

(इति त्रिफलारसायनमपरम्)|

मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा|

त्रिफला सितया चापि युक्ता सिद्धं रसायनम्||४५||

(इति त्रिफलारसायनमपरम्)|

सर्वलौहैः सुवर्णेन वचयामधुसर्पिषा|

विडङ्गपिप्पलीभ्यां त्रिफला लवणेन ||४६||

संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा|

भवत्यायुःप्रदा धन्याजरारोगनिबर्हणी||४७||

(इति त्रिफलारसायनमपरम्)|

अनम्लं कषायं कटु पाके शिलाजतु|

नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्यसम्भवः||४८||

हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि|

रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत्||४९||

वातपित्तकफघ्नैश्च निर्यूहैस्तत् सुभावितम्|

वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा||५०||

प्रक्षिप्तोद्धृतमप्येनत् पुनस्तत् प्रक्षिपेद्रसे|

कोष्णे सप्ताहमेतेन विधिना तस्य भावना||५१||

पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह|

तत् पीतं पयसा दद्याद्दीर्घमायु सुखान्वितम्||५२||

जराव्याधिप्रशमनं देहदार्ढ्यकरं परम्|

मेधास्मृतिकरं धन्यं क्षीराशी तत् प्रयोजयेत्||५३||

प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः|

निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा||५४||

पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता |

जातेर्विशेषं सविधिं तस्य वक्ष्याम्यतः परम्||५५||

हेमाद्याः सूर्यसन्तप्ताः स्रवन्ति गिरिधातवः|

जत्वाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु||५६||

मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः|

कटुर्विपाके शीतश्च सुवर्णस्य निस्रवः ||५७||

रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते|

ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु ||५८||

यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः|

कटुर्विपाके शीतश्च सर्वश्रेष्ठः चायसः ||५९||

गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः|

रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ||६०||

यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु|

विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः ||६१||

शिलाजतुप्रयोगेषु विदाहीनि गुरूणि |

वर्जयेत् सर्वकालं तु कुलत्थान् परिवर्जयेत्||६२||

ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम्|

लोके दृष्टास्ततस्तेषां प्रयोगःप्रतिषिध्यते||६३||

पयांसि तक्राणि रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः|

आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्यकार्यम्||६४||

सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं जयेत् प्रसह्य|

तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति||६५||

(इति शिलाजतुरसायनम्)|

तत्रश्लोकः-

करप्रचितिके पादे दश षट् महर्षिणा|

रसायनानां सिद्धानां संयोगाः समुदाहृताः||६६||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः||||

Post a Comment

0 Comments