Advertisement

Responsive Advertisement

Charak sutrasthan chapter 11








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातस्तिस्रैषणीयमध्यायं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

इह खलु पुरुषेणानुपहतसत्त्वबुद्धिपौरुषपराक्रमेण हितमिह चामुष्मिंश्च लोके समनुपश्यता तिस्र एषणाः पर्येष्टव्या भवन्ति| तद्यथा- प्राणैषणा, धनैषणा, परलोकैषणेति||||

आसां तु खल्वेषणानां प्राणैषणां तावत् पूर्वतरमापद्येत| कस्मात्? प्राणपरित्यागे हि सर्वत्यागः| तस्यानुपालनं- स्वस्थस्य स्वस्थवृत्तानुवृत्तिः, आतुरस्य विकारप्रशमनेऽप्रमादः,तदुभयमेतदुक्तं वक्ष्यते ;तद्यथोक्तमनुवर्तमानः प्राणानुपालनाद्दीर्घमायुरवाप्नोतीति प्रथमैषणा व्याख्याता भवति||||

अथ द्वितीयां धनैषणामापद्येत, प्राणेभ्यो ह्यनन्तरं धनमेव पर्येष्टव्यं भवति ; ह्यतः पापात् पापीयोऽस्तियदनुपकरणस्य दीर्घमायुः, तस्मादुपकरणानि पर्येष्टुं यतेत| तत्रोपकरणोपायाननुव्याख्यास्यामः; तद्यथा कृषिपाशुपाल्यवाणिज्यराजोपसेवादीनि, यानि चान्यान्यपि सतामविगर्हितानि कर्माणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुं; तथा कुर्वन् दीर्घजीवितं जीवत्यनवमतः पुरुषो भवति | इति द्वितीया धनैषणा व्याख्याता भवति||

अथ तृतीयां परलोकैषणामापद्येत| संशयश्चात्र, कथं? भविष्याम इतश्च्युता वेति; कुतः पुनः संशय इति, उच्यते- सन्ति ह्येके प्रत्यक्षपराः परोक्षत्वात् पुनर्भवस्यनास्तिक्यमाश्रिताः, सन्ति चागमप्रत्ययादेव पुनर्भवमिच्छन्ति; श्रुतिभेदाच्च- मातरं पितरं चैके मन्यन्ते जन्मकारणम् | स्वभावं परनिर्माणं यदृच्छां चापरे जनाः || इति | अतः संशयः- किं नु खल्वस्ति पुनर्भवो वेति||||

तत्र बुद्धिमान्नास्तिक्यबुद्धिं जह्याद्विचिकित्सां | कस्मात्? प्रत्यक्षं ह्यल्पम्; अनल्पमप्रत्यक्षमस्ति, यदागमानुमानयुक्तिभिरुपलभ्यते; यैरेव तावदिन्द्रियैः प्रत्यक्षमुपलभ्यते,तान्येव सन्ति चाप्रत्यक्षाणि||||

सतां रूपाणामतिसन्निकर्षादतिविप्रकर्षादावरणात् करणदौर्बल्यान्मनो|नवस्थानात् समानाभिहारादभिभवादतिसौक्ष्म्याच्चप्रत्यक्षानुपलब्धिः; तस्मादपरीक्षितमेतदुच्यते- प्रत्यक्षमेवास्ति, नान्यदस्तीति||||

श्रुतयश्चैता कारणं, युक्तिविरोधात्| आत्मा मातुः पितुर्वा यः सोऽपत्यं यदि सञ्चरेत्| द्विविधं सञ्चरेदात्मा सर्वोवाऽवयवेन वा||||

सर्वश्चेत् सञ्चरेन्मातुः पितुर्वा मरणं भवेत्| निरन्तरं, नावयवः कश्चित्सूक्ष्मस्य चात्मनः||१०||

बुद्धिर्मनश्च निर्णीते यथैवात्मा तथैव ते| येषां चैषा मतिस्तेषां योनिर्नास्ति चतुर्विधा||११||

विद्यात् स्वाभाविकं षण्णां धातूनां यत् स्वलक्षणम्| संयोगे वियोगे तेषां कर्मैव कारणम्||१२||

अनादेश्चेतनाधातोर्नेष्यते परनिर्मितिः| पर आत्मा चेद्धेतुरिष्टोऽस्तु परनिर्मितिः||१३||

परीक्षा परीक्ष्यं कर्ता कारणं | देवा नर्षयः सिद्धाः कर्म कर्मफलं ||१४||

नास्तिकस्यास्ति नैवात्मा यदृच्छोपहतात्मनः| पातकेभ्यः परं चैतत् पातकं नास्तिकग्रहः||१५||

तस्मान्मतिं विमुच्यैताममार्गप्रसृतां बुधः| सतां बुद्धिप्रदीपेन पश्येत्सर्वं यथातथम्||१६||

द्विविधमेव खलु सर्वं सच्चासच्च; तस्य चतुर्विधा परीक्षा- आप्तोपदेशः, प्रत्यक्षम्, अनुमानं, युक्तिश्चेति||१७||

आप्तास्तावत्- रजस्तमोभ्यां निर्मुक्तास्तपोज्ञानबलेन ये| येषां त्रिकालममलं ज्ञानमव्याहतं सदा||१८||

आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम्| सत्यं, वक्ष्यन्ति ते कस्मादसत्यं नीरजस्तमाः ||१९||

आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते| व्यक्ता तदात्वे या बुद्धिः प्रत्यक्षं निरुच्यते||२०||

प्रत्यक्षपूर्वं त्रिविधं त्रिकालं चानुमीयते| वह्निर्निगूढो धूमेन मैथुनं गर्भदर्शनात्||२१||

एवं व्यवस्यन्त्यतीतं बीजात् फलमनागतम्| दृष्ट्वा बीजात् फलं जातमिहैव सदृशं बुधाः||२२||

प्रत्यक्षपूर्वं त्रिविधं त्रिकालं चानुमीयते| वह्निर्निगूढो धूमेन मैथुनं गर्भदर्शनात्||२१||

एवं व्यवस्यन्त्यतीतं बीजात् फलमनागतम्| दृष्ट्वा बीजात् फलं जातमिहैव सदृशं बुधाः||२२||

जलकर्षणबीजर्तुसंयोगात् सस्यसम्भवः| युक्तिः षड्धातुसंयोगाद्गर्भाणां सम्भवस्तथा||२३||

मथ्यमन्थन()मन्थानसंयोगादग्निसम्भवः| युक्तियुक्ता चतुष्पादसम्पद्व्याधिनिबर्हणी||२४||

बुद्धिः पश्यति या भावान् बहुकारणयोगजान्| युक्तिस्त्रिकाला सा ज्ञेया त्रिवर्गः साध्यते यया||२५||

एषा परीक्षा नास्त्यन्या यया सर्वं परीक्ष्यते| परीक्ष्यं सदसच्चैवं तया चास्ति पुनर्भवः||२६||

तत्राप्तागमस्तावद्वेदः, यश्चान्योऽपि कश्चिद्वेदार्थादविपरीतः परीक्षकैः प्रणीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तःशास्त्रवादः, चाऽऽप्तागमः; आप्तागमादुपलभ्यतेदानतपोयज्ञसत्याहिंसाब्रह्मचर्याण्यभ्युदयनिःश्रेयसकराणीति||२७||

चानतिवृत्तसत्त्वदोषाणामदोषैरपुनर्भवो धर्मद्वारेषूपदिश्यते||२८||

धर्मद्वारावहितैश्च व्यपगतभयरागद्वेषलोभमोहमानैर्ब्रह्मपरैराप्तैः कर्मविद्भिरनुपहतसत्त्वबुद्धिप्रचारैः पूर्वैःपूर्वतरैर्महर्षिभिर्दिव्यचक्षुभिर्दृष्ट्वोपदिष्टः पुनर्भव इति व्यवस्येदेवम् ||२९||

प्रत्यक्षमपि चोपलभ्यते- मातापित्रोर्विसदृशान्यपत्यानि, तुल्यसम्भवानां वर्णस्वराकृतिसत्त्वबुद्धिभाग्यविशेषाः,प्रवरावरकुलजन्म, दास्यैश्वर्यं, सुखासुखमायुः, आयुषो वैषम्यम्, इह कृतस्यावाप्तिः, अशिक्षितानां चरुदितस्तनपानहासत्रासादीनां प्रवृत्तिः, लक्षणोत्पत्तिः, कर्मसादृश्ये फलविशेषः, मेधा क्वचित् क्वचित् कर्मण्यमेधा,जातिस्मरणम्- इहागमनमितश्च्युतानामिति , समदर्शने प्रियाप्रियत्वम्||३०||

अत एवानुमीयते- यत्- स्वकृतमपरिहार्यमविनाशि पौर्वदेहिकं दैवसञ्ज्ञकमानुबन्धिकं कर्म, तस्यैतत् फलम्;इतश्चान्यद्भविष्यतीति; फलद्बीजमनुमीयते, फलं बीजात्||३१||

युक्तिश्चैषा- षड्धातुसमुदयाद्गर्भजन्म, कर्तृकरणसंयोगात् क्रिया; कृतस्य कर्मणः फलं नाकृतस्य, नाङ्कुरोत्पत्तिरबीजात्;कर्मसदृशं फलं, नान्यस्माद्बीजादन्यस्योत्पत्तिः; इति युक्तिः||३२||

एवं प्रमाणैश्चतुर्भिरुपदिष्टे पुनर्भवे धर्मद्वारेष्ववधीयेत; तद्यथा- गुरुशुश्रूषायामध्ययने व्रतचर्यायां दारक्रियायामपत्योत्पादनेभृत्यभरणेऽतिथिपूजायां दानेऽनभिध्यायां तपस्यनसूयायां देहवाङ्मानसे कर्मण्यक्लिष्टे देहेन्द्रियमनोर्थबुद्ध्यात्मपरीक्षायांमनःसमाधाविति; यानि चान्यान्यप्येवंविधानि कर्माणि सतामविगर्हितानि स्वर्ग्याणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेतकर्तुं; तथा कुर्वन्निह चैव यशो लभते प्रेत्य स्वर्गम्| इति तृतीया परलोकैषणा व्याख्याता भवति||३३||

अथ खलु त्रय उपस्तम्भाः, त्रिविधं बलं, त्रीण्यायतनानि, त्रयो रोगाः, त्रयो रोगमार्गाः, त्रिविधा भिषजः, त्रिविधमौषधमिति||३४||

त्रय उपस्तम्भा इति- आहारः, स्वप्नो, ब्रह्मचर्यमिति; एभिस्त्रिभिर्युक्तियुक्तैरुपस्तब्धमुपस्तम्भैः शरीरंबलवर्णोपचयोपचितमनुवर्तते यावदायुःसंस्कारात् संस्कारमहितमनुपसेवमानस्य , इहैवोपदेक्ष्यते||३५||

त्रिविधं बलमिति- सहजं, कालजं, युक्तिकृतं | सहजं यच्छरीरसत्त्वयोः प्राकृतं, कालकृतमृतुविभागजं वयःकृतं , युक्तिकृतं पुनस्तद्यदाहारचेष्टायोगजम्||३६||

त्रीण्यायतनानीति- अर्थानां कर्मणः कालस्य चातियोगायोगमिथ्यायोगाः| तत्रातिप्रभावतां दृश्यानामतिमात्रं दर्शनमतियोगः, सर्वशोऽदर्शनमयोगः,अतिश्लिष्टातिविप्रकृष्टरौद्रभैरवाद्भुतद्विष्टबीभत्सनविकृतवित्रासनादिरूपदर्शनं मिथ्यायोगः;तथाऽतिमात्रस्तनितपटहोत्क्रुष्टादीनां शब्दानामतिमात्रं श्रवणमतियोगः, सर्वशोऽश्रवणमयोगः,परुषेष्टविनाशोपघातप्रधर्षणभीषणादिशब्दश्रवणं मिथ्यायोगः; तथाऽतितीक्ष्णोग्राभिष्यन्दिनां गन्धानामतिमात्रंघ्राणमतियोगः, सर्वशोऽघ्राणमयोगः, पूतिद्विष्टामेध्यक्लिन्नविषपवनकुणपगन्धादिघ्राणं मिथ्यायोगः; तथारसानामत्यादानमतियोगः, सर्वशोऽनादानमयोगः, मिथ्यायोगो राशिवर्ज्येष्वाहारविधिविशेषायतनेषूपदेक्ष्यते;तथाऽतिशीतोष्णानां स्पृश्यानां स्नानाभ्यङ्गोत्सादनादीनां चात्युपसेवनमतियोगः, सर्वशोऽनुपसेवनमयोगः, स्नानादीनांशीतोष्णादीनां स्पृश्यानामनानुपूर्व्योपसेवनं विषमस्थानाभिघाताशुचिभूतसंस्पर्शादयश्चेति मिथ्यायोगः||३७||

तत्रैकं स्पर्शनमिन्द्रियाणामिन्द्रियव्यापकं , चेतः- समवायि, स्पर्शनव्याप्तेर्व्यापकमपि चेतः; तस्मात् सर्वेन्द्रियाणांव्यापकस्पर्शकृतो यो भावविशेषः, सोऽयमनुपशयात् पञ्चविधस्त्रिविधविकल्पो भवत्यसात्म्येन्द्रियार्थसंयोगः; सात्म्यार्थोह्युपशयार्थः||३८||

कर्म वाङ्मनःशरीरप्रवृत्तिः| तत्र वाङ्मनःशरीरातिप्रवृत्तिरतियोगः; सर्वशोऽप्रवृत्तिरयोगः;वेगधारणोदीरणविषमस्खलनपतनाङ्गप्रणिधानाङ्गप्रदूषणप्रहारमर्दनप्राणोपरोधसङ्क्लेशनादिः शारीरो मिथ्यायोगः,सूचकानृताकालकलहाप्रियाबद्धानुपचारपरुषवचनादिर्वाङ्मिथ्यायोगः, भयशोकक्रोधलोभमोहमानेर्ष्यामिथ्यादर्शनादिर्मानसोमिथ्यायोगः||३९||

सङ्ग्रहेण चातियोगायोगवर्जं कर्म वाङ्मनःशरीरजमहितमनुपदिष्टं यत्तच्च मिथ्यायोगं विद्यात्||४०||

इति त्रिविधविकल्पं त्रिविधमेव कर्म प्रज्ञापराध इति व्यवस्येत्||४१|

शीतोष्णवर्षलक्षणाः पुनर्हेमन्तग्रीष्मवर्षाः संवत्सरः, कालः| तत्रातिमात्रस्वलक्षणः कालः कालातियोगः, हीनस्वलक्षणः (कालः) कालायोगः, यथास्वलक्षणविपरीतलक्षणस्तु (कालः)कालमिथ्यायोगः| कालः पुनः परिणाम उच्यते||४२||

इत्यसात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति त्रयस्त्रिविधविकल्पा हेतवो विकाराणां; समयोगयुक्तास्तु प्रकृतिहेतवोभवन्ति||४३||

सर्वेषामेव भावानां भावाभावौ नान्तरेण योगायोगातियोगमिथ्यायोगान् समुपलभ्येते; यथास्वयुक्त्यपेक्षिणौ हि भावाभावौ||४४||

त्रयो रोगा इति- निजागन्तुमानसाः| तत्र निजः शारीरदोषसमुत्थः, आगन्तुर्भूतविषवाय्वग्निसम्प्रहारादिसमुत्थः, मानसः पुनरिष्टस्यलाभाल्लाभाच्चानिष्टस्योपजायते||४५||

तत्र बुद्धिमता मानसव्याधिपरीतेनापि सता बुद्ध्या हिताहितमवेक्ष्यावेक्ष्य धर्मार्थकामानामहितानामनुपसेवने हितानांचोपसेवने प्रयतितव्यं, ह्यन्तरेण लोके त्रयमेतन्मानसं किञ्चिन्निष्पद्यते सुखं वा दुःखं वा; तस्मादेतच्चानुष्ठेयं-तद्विद्यानां चोपसेवने प्रयतितव्यम्, आत्मदेशकुलकालबलशक्तिज्ञाने यथावच्चेति||४६||

भवति चात्र- मानसं प्रति भैषज्यं त्रिवर्गस्यान्ववेक्षणम्| तद्विद्यसेवा विज्ञानमात्मादीनां सर्वशः||४७||

त्रयो रोगमार्गा इति- शाखा, मर्मास्थिसन्धयः, कोष्ठश्च| तत्र शाखा रक्तादयो धातवस्त्वक् , बाह्यो रोगमार्गः; मर्माणि पुनर्बस्तिहृदयमूर्धादीनि,अस्थिसन्धयोऽस्थिसंयोगास्तत्रोपनिबद्धाश्च स्नायुकण्डराः , मध्यमो रोगमार्गः; कोष्ठः पुनरुच्यते महास्रोतः शरीरमध्यंमहानिम्नमामपक्वाशयश्चेति पर्यायशब्दैस्तन्त्रे, रोगमार्ग आभ्यन्तरः||४८||

तत्र, गण्डपिडकालज्यपचीचर्मकीलाधिमांसमषककुष्ठव्यङ्गादयो विकारा बहिर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयःशाखानुसारिणो भवन्ति रोगाः; पक्षवधग्रहापतानकार्दितशोषराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयः शिरोहृद्बस्तिरोगादयश्चमध्यममार्गानुसारिणो भवन्ति रोगाः; ज्वरातीसारच्छर्द्यलसकविसूचिकाकासश्वासहिक्कानाहोदरप्लीहादयोऽन्तर्मार्गजाश्चविसर्पश्वयथुगुल्मार्शोविद्रध्यादयः कोष्ठानुसारिणो भवन्ति रोगाः||४९||

त्रिविधा भिषज इति- भिषक्छद्मचराः सन्ति सन्त्येके सिद्धसाधिताः| सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिषजो भुवि||५०||

वैद्यभाण्डौषधैः पुस्तैः पल्लवैरवलोकनैः| लभन्ते ये भिषक्शब्दमज्ञास्ते प्रतिरूपकाः||५१||

श्रीयशोज्ञानसिद्धानां व्यपदेशादतद्विधाः| वैद्यशब्दं लभन्ते ये ज्ञेयास्ते सिद्धसाधिताः||५२||

प्रयोगज्ञानविज्ञानसिद्धिसिद्धाः सुखप्रदाः| जीविताभिसरास्ते स्युर्वैद्यत्वं तेष्ववस्थितमिति||५३||

त्रिविधमौषधमिति- दैवव्यपाश्रयं, युक्तिव्यपाश्रयं, सत्त्वावजयश्च| तत्र दैवव्यपाश्रयं- मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि,युक्तिव्यपाश्रयं- पुनराहारौषधद्रव्याणां योजना, सत्त्वावजयः- पुनरहितेभ्योऽर्थेभ्यो मनोनिग्रहः||५४||

त्रिविधमौषधमिति- दैवव्यपाश्रयं, युक्तिव्यपाश्रयं, सत्त्वावजयश्च| तत्र दैवव्यपाश्रयं- मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि,युक्तिव्यपाश्रयं- पुनराहारौषधद्रव्याणां योजना, सत्त्वावजयः- पुनरहितेभ्योऽर्थेभ्यो मनोनिग्रहः||५४||

भवन्ति चात्र-

प्राज्ञो रोगे समुत्पन्ने बाह्येनाभ्यन्तरेण वा| कर्मणा लभते शर्म शस्त्रोपक्रमणेन वा||५६||

बालस्तु खलु मोहाद्वा प्रमादाद्वा बुध्यते| उत्पद्यमानं प्रथमं रोगं शत्रुमिवाबुधः||५७||

अणुर्हि प्रथमं भूत्वा रोगः पश्चाद्विवर्धते| जातमूलो मुष्णाति बलमायुश्च दुर्मतेः||५८||

मूढो लभते सञ्ज्ञां तावद्यावन्न पीड्यते| पीडितस्तु मतिं पश्चात् कुरुते व्याधिनिग्रहे||५९||

अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहूय भाषते| सर्वस्वेनापि मे कश्चिद्भिषगानीयतामिति||६०||

तथाविधं कः शक्तो दुर्बलं व्याधिपीडितम्| कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुषम्||६१||

त्रातारमनासाद्य बालस्त्यजति जीवितम्| गोधा लाङ्गूलबद्धेवाकृष्यमाणा बलीयसा||६२||

तस्मात् प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा| भेषजैः प्रतिकुर्वीत इच्छेत् सुखमात्मनः||६३||

तत्र श्लोकौ-

एषणाः समुपस्तम्भा बलं कारणमामयाः| तिस्रैषणीये मार्गाश्च भिषजो भेषजानि ||६४||

त्रित्वेनाष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता| भावा, भावेष्वसक्तेन येषु सर्वं प्रतिष्ठितम्||६५||

 

 

Post a Comment

0 Comments