Advertisement

Responsive Advertisement

Charak samhita chapter 24 vidhishonitiyam adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातो विधिशोणितीयमध्यायं व्याख्यास्यामः ||||

इति स्माह भगवानात्रेयः||||

विधिना शोणितं जातं शुद्धं भवति देहिनाम्|

देशकालौकसात्म्यानां विधिर्यः सम्प्रकाशितः||||

तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा|

युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्तते||||

प्रदुष्टबहुतीक्ष्णोष्णैर्मद्यैरन्यैश्च तद्विधैः|

तथाऽतिलवणक्षारैरम्लैः कटुभिरेव ||||

कुलत्थमाषनिष्पावतिलतैलनिषेवणैः|

पिण्डालुमूलकादीनां हरितानां सर्वशः||||

जलजानूपबैलानां प्रसहानां सेवनात्|

दध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य ||||

विरुद्धानामुपक्लिन्नपूतीनां भक्षणेन |

भुक्त्वा दिवा प्रस्वपतां द्रवस्निग्धगुरूणि ||||

अत्यादानं तथा क्रोधं भजतां चातपानलौ|

छर्दिवेगप्रतीघातात् काले चानवसेचनात्||||

श्रमाभिघातसन्तापैरजीर्णाध्यशनैस्तथा|

शरत्कालस्वभावाच्च शोणितं सम्प्रदुष्यति||१०||

ततः शोणितजा रोगाः प्रजायन्ते पृथग्विधाः|

मुखपाकोऽक्षिरागश्च पूतिघ्राणास्यगन्धिता||११||

गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः|

विद्रधी रक्तमेहश्च प्रदरो वातशोणितम्||१२||

वैवर्ण्यमग्निसादश्च पिपासा गुरुगात्रता|

सन्तापश्चातिदौर्बल्यमरुचिः शिरसश्च रुक्||१३||

विदाहश्चान्नपानस्य तिक्ताम्लोद्गिरणं क्लमः|

क्रोधप्रचुरता बुद्धेः सम्मोहो लवणास्यता||१४||

स्वेदः शरीरदौर्गन्ध्यं मदः कम्पः स्वरक्षयः|

तन्द्रानिद्रातियोगश्च तमसश्चातिदर्शनम्||१५||

कण्ड्वरुःकोठपिडकाकुष्ठचर्मदलादयः|

विकाराः सर्व एवैते विज्ञेयाः शोणिताश्रयाः||१६||

शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः|

सम्यक् साध्या सिध्यन्ति रक्तजांस्तान् विभावयेत्||१७||

कुर्याच्छोणितरोगेषु रक्तपित्तहरीं क्रियाम्|

विरेकमुपवासं स्रावणं शोणितस्य ||१८||

बलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा|

रुधिरं स्रावयेज्जन्तोराशयं प्रसमीक्ष्य वा||१९||

अरुणाभं भवेद्वाताद्विशदं फेनिलं तनु|

पित्तात् पीतासितं रक्तं स्त्यायत्यौष्ण्याच्चिरेण ||२०||

ईषत्पाण्डु कफाद्दुष्टं पिच्छिलं तन्तुमद्घनम्|

संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं ||२१||

तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम्|

गुञ्जाफलसवर्णं विशुद्धं विद्धि शोणितम्||२२||

नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्|

तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषेण रक्षितव्यः||२३||

प्रसन्नवर्णेन्द्रियमिन्द्रियार्थानिच्छन्तमव्याहतपक्तृवेगम्|

सुखान्वितं तु(पु)ष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति||२४||

यदा तु रक्तवाहीनि रससञ्ज्ञावहानि |

पृथक् पृथक् समस्ता वा स्रोतांसि कुपिता मलाः||२५||

मलिनाहारशीलस्य रजोमोहावृतात्मनः|

प्रतिहत्यावतिष्ठन्ते जायन्ते व्याधयस्तदा||२६||

मदमूर्च्छायसन्न्यासास्तेषां विद्याद्विचक्षणः|

यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु||२७||

दुर्बलं चेतसः स्थानं यदा वायुः प्रपद्यते|

मनो विक्षोभयञ्जन्तोः सञ्ज्ञां सम्मोहयेत्तदा||२८||

पित्तमेवं कफश्चैवं मनो विक्षोभयन्नृणाम्|

सञ्ज्ञां नयत्याकुलतां विशेषश्चात्र वक्ष्यते||२९||

सक्तानल्पद्रुताभाषं चलस्खलितचेष्टितम्|

विद्याद्वातमदाविष्टं रूक्षश्यावारुणाकृतिम्||३०||

सक्रोधपरुषाभाषं सम्प्रहारकलिप्रियम्|

विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम्||३१||

स्वल्पासम्बद्धवचनं तन्द्रालस्यसमन्वितम्|

विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम्||३२||

सर्वाण्येतानि रूपाणि सन्निपातकृते मदे|३३|

जायते शाम्यति क्षिप्रं मदो मद्यमदाकृतिः||३३||

यश्च मद्यकृतः प्रोक्तो विषजो रौधिरश्च यः|

सर्व एते मदा नर्ते वातपित्तकफत्रयात्||३४||

नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम्|

पश्यंस्तमः प्रविशति शीघ्रं प्रतिबुध्यते ||३५||

वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य |

कार्श्यं श्यावारुणा च्छायामूर्च्छाये वातसम्भवे||३६||

रक्तं हरितवर्णं वा वियत् पीतमथापि वा|

पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते||३७||

सपिपासः ससन्तापो रक्तपीताकुलेक्षणः|

सम्भिन्नवर्चाः पीताभो मूर्च्छाये पित्तसम्भवे||३८||

मेघसङ्काशमाकाशमावृतं वा तमोघनैः|

पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते||३९||

गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा|

सप्रसेकः सहृल्लासो मूर्च्छाये कफसम्भवे||४०||

सर्वाकृतिः सन्निपातादपस्मार इवागतः|

जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः||४१||

दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम्|

स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना||४२||

वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः|

सन्न्यस्यन्त्यबलं जन्तुं प्राणायतनसंश्रिताः||४३||

ना सन्न्याससन्न्यस्तः काष्ठीभूतो मृतोपमः|

प्राणैर्वियुज्यते शीघ्रं मुक्त्वा सद्यःफलाः क्रियाः||४४||

दुर्गेऽम्भसि यथा मज्जद्भाजनं त्वरया बुधः|

गृह्णीयात्तलमप्राप्तं तथा सन्न्यासपीडितम्||४५||

अञ्जनान्यवपीडाश्च धूमाः प्रधमनानि |

सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे||४६||

लुञ्चनं केशलोम्नां दन्तैर्दशनमेव |

आत्मगुप्तावघर्षश्च हितं तस्यावबोधने||४७||

सम्मूर्च्छितानि तीक्ष्णानि मद्यानि विविधानि |

प्रभूतकटुयुक्तानि तस्यास्ये गालयेन्मुहुः||४८||

मातुलुङ्गरसं तद्वन्महौषधसमायुतम्|

तद्वत्सौवर्चलं दद्याद्युक्तं मद्याम्लकाञ्जिकैः||४९||

हिङ्गूषणसमायुक्तं यावत् सञ्ज्ञाप्रबोधनम्|

प्रबुद्धसञ्ज्ञमन्नैश्च लघुभिस्तमुपाचरेत्||५०||

विस्मापनैः स्मारणैश्च प्रियश्रुतिभिरेव |

पटुभिर्गीतवादित्रशब्दैश्चित्रैश्च दर्शनैः||५१||

स्रंसनोल्लेखनैर्धूमैरञ्जनैः कवलग्रहैः|

शोणितस्यावसेकैश्च व्यायामोद्घर्षणैस्तथा||५२||

प्रबुद्धसञ्ज्ञं मतिमाननुबन्धमुपक्रमेत्|

तस्य संरक्षितव्यं हि मनः प्रलयहेतुतः||५३||

स्नेहस्वेदोपपन्नानां यथादोषं यथाबलम्|

पञ्च कर्माणि कुर्वीत मूर्च्छायेषु मदेषु ||५४||

अष्टाविंशत्यौषधस्य तथा तिक्तस्य सर्पिषः|

प्रयोगः शस्यते तद्वन्महतः षट्पलस्य वा||५५||

त्रिफलायाः प्रयोगो वा सघृतक्षौद्रशर्करः|

शिलाजतुप्रयोगो वा प्रयोगः पयसोऽपि वा||५६||

पिप्पलीनां प्रयोगो वा पयसा चित्रकस्य वा|

रसायनानां कौम्भस्य सर्पिषो वा प्रशस्यते||५७||

रक्तावसेकाच्छास्त्राणां सतां सत्त्ववतामपि|

सेवनान्मदमूर्च्छायाः प्रशाम्यन्ति शरीरिणाम्||५८||

तत्र श्लोकौ-

विशुद्धं चाविशुद्धं शोणितं तस्य हेतवः|

रक्तप्रदोषजा रोगास्तेषु रोगेषु चौषधम्||५९||

मदमूर्च्छायसन्न्यासहेतुलक्षणभेषजम्|

विधिशोणितकेऽध्याये सर्वमेतत् प्रकाशितम्||६०||

 

Post a Comment

0 Comments