Advertisement

Responsive Advertisement

Charak Samhita chapter 23 santarpan adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातः सन्तर्पणीयमध्यायं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

सन्तर्पयति यः स्निग्धैर्मधुरैर्गुरुपिच्छिलैः|

नवान्नैर्नवमद्यैश्च मांसैश्चानूपवारिजैः||||

गोरसैर्गौडिकैश्चान्नैः पैष्टिकैश्चातिमात्रशः|

चेष्टाद्वेषी दिवास्वप्नशय्यासनसुखे रतः||||

रोगास्तस्योपजायन्ते सन्तर्पणनिमित्तजाः||

सन्तर्पयति यः स्निग्धैर्मधुरैर्गुरुपिच्छिलैः|

नवान्नैर्नवमद्यैश्च मांसैश्चानूपवारिजैः||||

गोरसैर्गौडिकैश्चान्नैः पैष्टिकैश्चातिमात्रशः|

चेष्टाद्वेषी दिवास्वप्नशय्यासनसुखे रतः||||

रोगास्तस्योपजायन्ते सन्तर्पणनिमित्तजाः||

शस्तमुल्लेखनं तत्र विरेको रक्तमोक्षणम्|

व्यायामश्चोपवासश्च धूमाश्च स्वेदनानि ||||

सक्षौद्रश्चाभयाप्राशः प्रायो रूक्षान्नसेवनम्|

चूर्णप्रदेहा ये चोक्ताः कण्डूकोठविनाशनाः||||

त्रिफलारग्वधं पाठां सप्तपर्णं सवत्सकम्|

मुस्तं समदनं निम्बं जलेनोत्क्वथितं पिबेत्||१०||

तेन मेहादयो यान्ति नाशमभ्यस्यतो ध्रुवम्|

मात्राकालप्रयुक्तेन सन्तर्पणसमुत्थिताः||११||

मुस्तमारग्वधः पाठा त्रिफला देवदारु |

श्वदंष्ट्रा खदिरो निम्बो हरिद्रे त्वक्च वत्सकात्||१२||

रसमेषां यथादोषं प्रातः प्रातः पिबन्नरः|

सन्तर्पणकृतैः सर्वैर्व्याधिभिः सम्प्रमुच्यते||१३||

एभिश्चोद्वर्तनोद्धर्षस्नानयोगोपयोजितैः|

त्वग्दोषाः प्रशमं यान्ति तथा स्नेहोपसंहितैः||१४||

कुष्ठं गोमेदको हिङ्गु क्रौञ्चास्थि त्र्यूषणं वचा|

वृषकैले श्वदंष्ट्रा खराह्वा चाश्मभेदकः||१५||

तक्रेण दधिमण्डेन बदराम्लरसेन वा|

मूत्रकृच्छ्रं प्रमेहं पीतमेतद्व्यपोहति||१६||

तक्राभयाप्रयोगैश्च त्रिफलायास्तथैव |

अरिष्टानां प्रयोगैश्च यान्ति मेहादयः शमम्||१७||

त्र्यूषणं त्रिफला क्षौद्रं क्रिमिघ्नमजमोदकः|

मन्थोऽयं सक्तवस्तैलं हितो लोहोदकाप्लुतः||१८||

व्योषं विडङ्गं शिग्रूणि त्रिफलां कटुरोहिणीम्|

बृहत्यौ द्वे हरिद्रे द्वे पाठामतिविषां स्थिराम्||१९||

हिङ्गु केबुकमूलानि यवानीधान्यचित्रकान्|

सौवर्चलमजाजीं हपुषां चेति चूर्णयेत्||२०||

चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः|

सक्तूनां षोडशगुणो भागः सन्तर्पणं पिबेत्||२१||

प्रयोगादस्य शाम्यन्ति रोगाः सन्तर्पणोत्थिताः|

प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः||२२||

प्लीहा पाण्ड्वामयः शोफो मूत्रकृच्छ्रमरोचकः|

हृद्रोगो राजयक्ष्मा कासः श्वासो गलग्रहः||२३||

क्रिमयो ग्रहणीदोषाः श्वैत्र्यं स्थौल्यमतीव |

नराणां दीप्यते चाग्निः स्मृतिर्बुद्धिश्च वर्धते||२४||

व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः|

सन्तर्पणकृतैर्दोषैः स्थौल्यं मुक्त्वा विमुच्यते||२५||

उक्तं सन्तर्पणोत्थानामपतर्पणमौषधम्|२६|

वक्ष्यन्ते सौषधाश्चोर्ध्वमपतर्पणजा गदाः||२६||

देहाग्निबलवर्णौजःशुक्रमांसपरिक्षयः|

ज्वरः कासानुबन्धश्च पार्श्वशूलमरोचकः||२७||

श्रोत्रदौर्बल्यमुन्मादः प्रलापो हृदयव्यथा|

विण्मूत्रसङ्ग्रहः शूलं जङ्घोरुत्रिकसंश्रयम्||२८||

पर्वास्थिसन्धिभेदश्च ये चान्ये वातजा गदाः|

ऊर्ध्ववातादयः सर्वे जायन्ते तेऽपतर्पणात्||२९||

तेषां सन्तर्पणं तज्ज्ञैः पुनराख्यातमौषधम्|

यत्तदात्वे समर्थं स्यादभ्यासे वा तदिष्यते ||३०||

सद्यःक्षीणो हि सद्यो वै तर्पणेनोपचीयते|

नर्ते सन्तर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति||३१||

देहाग्निदोषभैषज्यमात्राकालानुवर्तिना|

कार्यमत्वरमाणेन भेषजं चिरदुर्बले||३२||

हिता मांसरसास्तस्मै पयांसि घृतानि |

स्नानानि बस्तयोऽभ्यङ्गास्तर्पणास्तर्पणाश्च ये||३३||

ज्वरकासप्रसक्तानां कृशानां मूत्रकृच्छ्रिणाम्|

तृष्यतामूर्ध्ववातानां वक्ष्यन्ते तर्पणा हिताः||३४||

शर्करापिप्पलीतैलघृतक्षौद्रैः समांशकैः|

सक्तुद्विगुणितो वृष्यस्तेषां मन्थः प्रशस्यते||३५||

सक्तवो मदिरा क्षौद्रं शर्करा चेति तर्पणम्|

पिबेन्मारुतविण्मूत्रकफपित्तानुलोमनम्||३६||

फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्|

तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं पिबेत्||३७||

मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः|

परूषकैः सामलकैर्युक्तो मद्यविकारनुत्||३८||

स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा|

सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः||३९||

तत्र श्लोकः-

सन्तर्पणोत्था ये रोगा रोगा ये चापतर्पणात्|

सन्तर्पणीये तेऽध्याये सौषधाः परिकीर्तिताः||४०||

 

Post a Comment

0 Comments