Advertisement

Responsive Advertisement

Charak Nidan Chapter 4 prameh nidanam








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातःप्रमेहनिदानंव्याख्यास्यामः||||

इतिहस्माहभगवानात्रेयः|||

त्रिदोषकोपनिमित्ताविंशतिःप्रमेहाभवन्तिविकाराश्चापरेऽपरिसङ्ख्येयाः| तत्रयथात्रिदोषप्रकोपःप्रमेहानभिनिर्वर्तयतितथाऽनुव्याख्यास्यामः||||

इह खलु निदानदोषदूष्यविशेषेभ्यो विकारविघातभावाभाव प्रतिविशेषा भवन्ति| यदाह्येतेत्रयोनिदानादिविशेषाःपरस्परंनानुबध्नन्त्यथवा[] कालप्रकर्षादबलीयांसोऽथवाऽनुबध्नन्तिनतदाविकाराभिनिर्वृत्तिः, चिराद्वाऽप्यभिनिर्वर्तन्ते, तनवोवाभवन्त्ययथोक्तसर्वलिङ्गावा; विपर्ययेविपरीताः;इतिसर्वविकारविघातभावाभावप्रतिविशेषाभिनिर्वृत्तिहेतुर्भवत्युक्तः||||

तत्रेमेत्रयोनिदानादिविशेषाःश्लेष्मनिमित्तानांप्रमेहाणामाश्वभिर्निर्वृत्तिकराभवन्ति; तद्यथा- हायनकयवकचीनकोद्दालकनैषधेत्कटमुकुन्दकमहाव्रीहिप्रमोदकसुगन्धकानां नवानामतिवेलमतिप्रमाणेनचोपयोगः, तथासर्पिष्मतांनवहरेणुमाषसूप्यानां, ग्राम्यानूपौदकानांचमांसानां,शाकतिलपललपिष्टान्नपायसकृशराविलेपीक्षुविकाराणां, क्षीरनवमद्यमन्दकदधिद्रवमधुरतरुणप्रायाणांचोपयोगः, मृजाव्यायामवर्जनं, स्वप्नशयनासनप्रसङ्गः, यश्चकश्चिद्विधिरन्योऽपिश्लेष्ममेदोमूत्रसञ्जननः, ससर्वोनिदानविशेषः||||

बहुद्रवःश्लेष्मादोषविशेषः||||

बह्वबद्धं मेदोमांसंशरीरजक्लेदःशुक्रंशोणितंवसामज्जालसीका रसश्चौजःसङ्ख्यातइतिदूष्यविशेषाः||||

त्रयाणामेषांनिदानादिविशेषाणांसन्निपातेक्षिप्रंश्लेष्माप्रकोपमापद्यते, प्रागतिभूयस्त्वात्; सप्रकुपितःक्षिप्रमेवशरीरेविसृप्तिंलभते, शरीरशैथिल्यात्; सविसर्पञ्शरीरेमेदसैवादितोमिश्रीभावंगच्छति, मेदसश्चैवबह्वबद्धत्वान्मेदसश्चगुणैःसमानगुणभूयिष्ठत्वात्; मेदसामिश्रीभवन्दूषयत्येनत्, विकृतत्वात्; सविकृतोदुष्टेनमेदसोपहितः शरीरक्लेदमांसाभ्यांसंसर्गंगच्छति, क्लेदमांसयोरतिप्रमाणाभिवृद्धत्वात्; समांसेमांसप्रदोषात्पूतिमांसपिडकाःशराविकाकच्छपिकाद्याःसञ्जनयति,

अप्रकृतिभूतत्वात्; शरीरक्लेदंपुनर्दूषयन्मूत्रत्वेनपरिणमयति, मूत्रवहानांचस्रोतसांवङ्क्षणबस्तिप्रभवाणां[]मेदःक्लेदोपहितानिगुरूणिमुखान्यासाद्यप्रतिरुध्यते;ततःप्रमेहांस्तेषांस्थैर्यमसाध्यतांवाजनयति, प्रकृतिविकृतिभूतत्वात्||||

शरीरक्लेदस्तुश्लेष्ममेदोमिश्रःप्रविशन्मूत्राशयंमूत्रत्वमापद्यमानःश्लैष्मिकैरेभिर्दशभिर्गुणैरुपसृज्यतेवैषम्ययुक्तैः; तद्यथा- श्वेतशीतमूर्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादमन्दैः,तत्रयेनगुणेनैकेनानेकेनवाभूयस्तरमुपसृज्यतेतत्समाख्यंगौणंनामविशेषंप्राप्नोति||||

तेतुखल्विमेदशप्रमेहानामविशेषेणभवन्ति; तद्यथा- उदकमेहश्च, इक्षुवालिकारसमेहश्च, सान्द्रमेहश्च, सान्द्रप्रसादमेहश्च, शुक्लमेहश्च, शुक्रमेहश्च,शीतमेहश्च, सिकतामेहश्च, शनैर्मेहश्च, आलालमेहश्चेति||१०||

तेदशप्रमेहाःसाध्याः;समानगुणमेदःस्थानकत्वात्, कफस्यप्राधान्यात्, समक्रियत्वाच्च||११||

तत्रश्लोकाः श्लेष्मप्रमेहविशेषविज्ञानार्थाभवन्ति-||१२||

अच्छंबहुसितंशीतंनिर्गन्धमुदकोपमम्| श्लेष्मकोपान्नरोमूत्रमुदमेहीप्रमेहति||१३||

अत्यर्थमधुरंशीतमीषत्पिच्छिलमाविलम्| काण्डेक्षुरसमङ्काशंश्लेष्मकोपात्प्रमेहति||१४||

यस्यपर्युषितंमूत्रंसान्द्रीभवतिभाजने| पुरुषंकफकोपेनतमाहुःसान्द्रमेहिनम्||१५||

यस्यसंहन्यतेमूत्रंकिञ्चित्किञ्चित्प्रसीदति| सान्द्रप्रसादमेहीतितमाहुःश्लेष्मकोपतः||१६||

शुक्लंपिष्टनिभंमूत्रमभीक्ष्णंयःप्रमेहति| पुरुषंकफकोपेनतमाहुःशुक्लमेहिनम्||१७||

शुक्राभंशुक्रमिश्रंवामुहुर्मेहतियोनरः| शुक्रमेहिनमाहुस्तंपुरुषंश्लेष्मकोपतः||१८||

अत्यर्थमधुरंशीतंमूत्रंमेहतियोभृशम्| शीतमेहिनमाहुस्तंपुरुषंश्लेष्मकोपतः||१९||

मूर्तान्मूत्रगतान्दोषानणून्मेहतियोनरः| सिकतामेहिनंविद्यात्तंनरंश्लेष्मकोपतः||२०||

मन्दंमन्दमवेगंतुकृच्छ्रंयोमूत्रयेच्छनैः| शनैर्मेहिनमाहुस्तंपुरुषंश्लेष्मकोपतः||२१||

तन्तुबद्धमिवालालंपिच्छिलंयःप्रमेहति| आलालमेहिनंविद्यात्तंनरंश्लेष्मकोपतः||२२||

इत्येतेदशप्रमेहाःश्लेष्मप्रकोपनिमित्ताव्याख्याताभवन्ति||२३||

उष्णाम्ललवणक्षारकटुकाजीर्णभोजनोपसेविनस्तथाऽतितीक्ष्णातपाग्निसन्तापश्रमक्रोधविषमाहारोपसेविनश्चतथाविधशरीरस्यैवक्षिप्रंपित्तंप्रकोपमापद्यते, तत्तुप्रकुपितंतयैवानुपूर्व्याप्रमेहानिमान्षट्क्षिप्रतरमभिनिर्वर्तयति||२४||

तेषामपितुखलुपित्तगुणविशेषेणैवनामविशेषाभवन्ति; तद्यथा- क्षारमेहश्च, कालमेहश्च, नीलमेहश्च, लोहितमेहश्च, माञ्जिष्ठमेहश्च, हारिद्रमेहश्चेति||२५||

तेषड्भिरेवक्षाराम्ललवणकटुकविस्रोष्णैःपित्तगुणैःपूर्ववद्युक्ताभवन्ति||२६||

सर्वएवतेयाप्याःसंसृष्टदोषमेदःस्थानत्वाद्विरुद्धोपक्रमत्वाच्चेति||२७||

तत्रश्लोकाःपित्तप्रमेहविशेषविज्ञानार्थाभवन्ति-||२८||

गन्धवर्णरसस्पर्शैर्यथाक्षारस्तथाविधम्| पित्तकोपान्नरोमूत्रंक्षारमेहीप्रमेहति||२९||

मसीवर्णमजस्रंयोमूत्रमुष्णंप्रमेहति| पित्तस्यपरिकोपेणतंविद्यात्कालमेहिनम्||३०||

चाषपक्षनिभंमूत्रमम्लंमेहतियोनरः| पित्तस्यपरिकोपेणतंविद्यान्नीलमेहिनम्||३१||

विस्रंलवणमुष्णंचरक्तंमेहतियोनरः| पित्तस्यपरिकोपेणतंविद्याद्रक्तमेहिनम्||३२||

मञ्जिष्ठोदकसङ्काशंभृशंविस्रंप्रमेहति| पित्तस्यपरिकोपात्तंविद्यान्माञ्जिष्ठमेहिनम्||३३||

हरिद्रोदकसङ्काशंकटुकंयःप्रमेहति| पित्तस्यपरिकोपात्तंविद्याद्धारिद्रमेहिनम्||३४||

इत्येतेषट्प्रमेहाःपित्तप्रकोपनिमित्ताव्याख्याताभवन्ति||३५||

कषायकटुतिक्तरूक्षलघुशीतव्यवायव्यायामवमनविरेचनास्थापन-शिरोविरेचनातियोगसन्धारणानशनाभिघातातपोद्वेगशोकशोणितातिषेक- जागरणविषमशरीरन्यासानुपसेवमानस्यतथाविधशरीरस्यैवक्षिप्रंवातः प्रकोपमापद्यते||३६||

सप्रकुपितस्तथाविधेशरीरेविसर्पन्यदावसामादायमूत्रवहानिस्रोतांसिप्रतिपद्यतेतदावसामेहमभिनिर्वर्तयति; यदापुनर्मज्जानंमूत्रबस्तावाकर्षतितदामज्जमेहमभिनिर्वर्तयति; यदातुलसीकांमूत्राशयेऽभिवहन्मूत्रमनुबन्धंच्योतयतिलसीकातिबहुत्वाद्विक्षेपणाच्चवायोःखल्वस्यातिमूत्रप्रवृत्तिसङ्गं[]करोति, तदासमत्तइवगजःक्षरत्यजस्रंमूत्रमवेगं, तंहस्तिमेहिनमाचक्षते; ओजःपुनर्मधुरस्वभावं, तद्यदारौक्ष्याद्वायुःकषायत्वेनाभिसंसृज्यमूत्राशयेऽभिवहतितदामधुमेहंकरोति||३७||

इमांश्चतुरः प्रमेहान् वातजानसाध्यानाचक्षते भिषजः, महात्ययिकत्वाद्विरुद्धोपक्रमत्वाच्चेति||३८||

तेषामपि पूर्ववद्गुणविशेषेण नामविशेषा भवन्ति; तद्यथा- वसामेहश्च, मज्जमेहश्च, हस्तिमेहश्च, मधुमेहश्चेति||३९||

तत्र श्लोका वातप्रमेहविशेषविज्ञानार्था भवन्ति-||४०||

वसामिश्रं वसाभं वा मुहुर्मेहति यो नरः| वसामेहिनमाहुस्तमसाध्यं वातकोपतः||४१||

मज्जानं सह मूत्रेण मुहुर्मेहति यो नरः| मज्जमेहिनमाहुस्तमसाध्यं वातकोपतः||४२||

हस्ती मत्त इवाजस्रं मूत्रं क्षरति यो भृशम्| हस्तिमेहिनमाहुस्तमसाध्यं वातकोपतः||४३||

कषायमधुरं पाण्डु रूक्षं मेहति यो नरः| वातकोपादसाध्यं तं प्रतीयान्मधुमेहिनम्||४४||

इत्येते चत्वारः प्रमेहा वातप्रकोपनिमित्ता व्याख्याता भवन्ति||४५||

एवं त्रिदोषप्रकोपनिमित्ता विंशतिः प्रमेहा व्याख्याता भवन्ति||४६||

त्रयस्तुखलुदोषाःप्रकुपिताःप्रमेहानभिनिर्वर्तयिष्यन्तइमानि पूर्वरूपाणिदर्शयन्ति; तद्यथा- जटिलीभावंकेशेषु, माधुर्यमास्यस्य, करपादयोःसुप्ततादाहौ, मुखतालुकण्ठशोषं, पिपासाम्, आलस्यं, मलंकाये,कायच्छिद्रेषूपदेहं, परिदाहंसुप्ततांचाङ्गेषु, षट्पदपिपीलिकाभिश्चशरीरमूत्राभिसरणं, मूत्रेचमूत्रदोषान्, विस्रंशरीरगन्धं, निद्रां, तन्द्रांचसर्वकालमिति||४७||

उपद्रवास्तुखलुप्रमेहिणांतृष्णातीसारज्वरदाहदौर्बल्यारोचकाविपाकाः पूतिमांसपिडकालजीविद्रध्यादयश्चतत्प्रसङ्गाद्भवन्ति||४८||

तत्रसाध्यान्प्रमेहान्संशोधनोपशमनैर्यथार्हमुपपादयंश्चिकित्सेदिति||४९||

भवन्तिचात्र- गृध्नुमभ्यवहार्येषुस्नानचङ्क्रमणद्विषम्| प्रमेहःक्षिप्रमभ्येतिनीडद्रुममिवाण्डजः||५०||

मन्दोत्साहमतिस्थूलमतिस्निग्धंमहाशनम्| मृत्युःप्रमेहरूपेणक्षिप्रमादायगच्छति||५१||

यस्त्वाहारंशरीरस्यधातुसाम्यकरंनरः| सेवतेविविधाश्चान्याश्चेष्टाःससुखमश्नुते||५२||

तत्रश्लोकाः- हेतुर्व्याधिविशेषाणांप्रमेहाणांचकारणम्| दोषधातुसमायोगोरूपंविविधमेवच||५३||

दशश्लेष्मकृतायस्मात्प्रमेहाःषट्चपित्तजाः| यथाचवायुश्चतुरःप्रमेहान्कुरुतेबली||५४||

साध्यासाध्यविशेषाश्चपूर्वरूपाण्युपद्रवाः| प्रमेहाणांनिदानेऽस्मिन्क्रियासूत्रंचभाषितम्||५५||

 

Post a Comment

0 Comments