For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातो गुल्मनिदानं
व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
इह खलु पञ्च गुल्मा भवन्ति; तद्यथा- वातगुल्मः, पित्तगुल्मः, श्लेष्मगुल्मो, निचयगुल्मः, शोणितगुल्म
इति||३||
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- कथमिह भगवन्
पञ्चानां गुल्मानां विशेषमभिजानीमहे; नह्यविशेषविद्रोगाणामौषधविदपि
भिषक् प्रशमनसमर्थो भवतीति||४||
तमुवाच भगवानात्रेयः- समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषेभ्यो
विशेषविज्ञानं गुल्मानां भवत्यन्येषां च रोगाणामग्निवेश! तत्तु खलु गुल्मेषूच्यमानं
निबोध||५||
यदा पुरुषो वातलो विशेषेण
ज्वरवमनविरेचनातीसाराणामन्यतमेन कर्शनेन कर्शितो वातलमाहारमाहरति, शीतं वा
विशेषेणातिमात्रम् अस्नेहपूर्वे वा वमनविरेचने पिबति, अनुदीर्णां
वा छर्दिमुदीरयति, उदीर्णान् वातमूत्रपुरीषवेगान्निरुणद्धि, अत्यशितो वा
पिबति नवोदकमतिमात्रम्, अतिसङ्क्षोभिणा वा यानेन याति, अतिव्यवायव्यायाममद्यशोकरुचिर्वा, अभिघातमृच्छति
वा, विषमासनशयनस्थानचङ्क्रमणसेवी
वा भवति, अन्यद्वा
किञ्चिदेवंविधं विषममतिमात्रं व्यायामजातमारभते, तस्यापचाराद्वातः प्रकोपमापद्यते||६||
स प्रकुपितो वायुर्महास्रोतोऽनुप्रविश्य
रौक्ष्यात् कठिनीभूतमाप्लुत्य पिण्डितोऽवस्थानं करोति हृदि बस्तौ
पार्श्वयोर्नाभ्यां वा; स शूलमुपजनयति ग्रन्थींश्चानेकविधान्, पिण्डितश्चावतिष्ठते, स
पिण्डितत्वाद् ‘गुल्म’ इत्यभिधीयते; स मुहुराधमति
मुहुरल्पत्वमापद्यते; अनियतविपुलाणुवेदनश्च भवति चलत्वाद्वायोः, मुहुः
पिपीलिकासम्प्रचार इवाङ्गेषु, तोदभेदस्फुरणायामसङ्कोचसुप्तिहर्षप्रलयोदयबहुलः; तदातुरः
सूच्येव शङ्कुनेव चाभिसंविद्धमात्मानं मन्यते, अपि च दिवसान्ते ज्वर्यते शुष्यति
चास्यास्यम्,
उच्छ्वासश्चोपरुध्यते, हृष्यन्ति
चास्य रोमाणि वेदनायाः प्रादुर्भावे;प्लीहाटोपान्त्रकूजनाविपाकोदावर्ताङ्गमर्दमन्याशिरःशङ्खशूलब्रध्नरोगाश्चैनमुपद्रवन्ति; कृष्णारुणपरुषत्वङ्नखनयनवदनमूत्रपुरीषश्च
भवति, निदानोक्तानि
चास्य नोपशेरते,
विपरीतानि
चोपशेरत इति वातगुल्मः||७||
तैरेव तु कर्शनैः
कर्शितस्याम्ललवणकटुकक्षारोष्ण तीक्ष्ण शुक्तव्यापन्न मद्यहरितकफलाम्लानां
विदाहिनां च शाकधान्य मांसादीनामुपयोगादजीर्णाध्यशनाद्रौक्ष्यानुगते चामाशये
वमनमतिवेलं सन्धारणं वातातपौ चातिसेवमानस्य पित्तं सह मारुतेन प्रकोपमापद्यते||८||
तत् प्रकुपितं मारुत आमाशयैकदेशे संवर्त्य
तानेव वेदनाप्रकारानुपजनयति, य उक्ता वातगुल्मे; पित्तं
त्वेनं विदहति कुक्षौ हृद्युरसि कण्ठे च; स विदह्यमानः
सधूममिवोद्गारमुद्गिरत्यम्लान्वितं, गुल्मावकाशश्चास्य दह्यते दूयते
धूप्यते ऊष्मायते स्विद्यति क्लिद्यति शिथिल इव स्पर्शासहोऽल्परोमाञ्चश्च भवति; ज्वरभ्रमदवथुपिपासागलतालुमुखशोषप्रमोहविड्भेदाश्चैनमुपद्रवन्ति; हरितहारिद्रत्वङ्नखनयनवदनमूत्रपुरीषश्च
भवति; निदानोक्तानि
चास्य नोपशेरते,
विपरीतान्युपशेरत
इति पित्तगुल्मः||९||
तैरेव तु कर्शनैः
कर्शितस्यात्यशनादतिस्निग्धगुरुमधुरशीताशनात् पिष्टेक्षुक्षीरतिलमाषगुडविकृतिसेवनान्मन्दकमद्यातिपानाद्धरितकातिप्रणनयादानूपौदकग्राम्यमांसातिभक्षणात्
सन्धारणादबुभुक्षस्य चातिप्रगाढमुदपानात् सङ्क्षोभणाद्वा शरीरस्य श्लेष्मा सह
मारुतेन प्रकोपमापद्यते||१०||
तं प्रकुपितं मारुत आमाशयैकदेशे संवर्त्य तानेव
वेदनाप्रकारानुपजनयति य उक्ता वातगुल्मे; श्लेष्मा त्वस्य
शीतज्वरारोचकाविपाकाङ्गमर्द
हर्षहृद्रोगच्छर्दिनिद्रालस्यस्तैमित्यगौरवशिरोभितापानुपजनयति, अपि च
गुल्मस्यस्थैर्यगौरवकाठिन्यावगाढसुप्तताः, तथाकासश्वासप्रतिश्यायान्
राजयक्ष्माणं चातिप्रवृद्धः, श्वैत्यं त्वङ्नखनयनवदनमूत्रपुरीषेषूपजनयति, निदानोक्तानि
चास्य नोपशेरते,
विपरीतानि
चोपशेरत इति श्लेष्मगुल्मः||११||
त्रिदोषहेतुलिङ्गसन्निपाते तु सान्निपातिकं
गुल्ममुपदिशन्ति कुशलाः| स विप्रतिषिद्धोपक्रमत्वादसाध्यो निचयगुल्मः||१२||
शोणितगुल्मस्तु खलु स्त्रिया एव भवति न
पुरुषस्य, गर्भकोष्ठार्तवागमन
वैशेष्यात्| पारतन्त्र्यादवैशारद्यात्
सततमुपचारानुरोधाद्वा वेगानुदीर्णानुपरुन्धत्या आमगर्भे
वाऽप्यचिरपतितेऽथवाऽप्यचिरप्रजाताया ऋतौ वा वातप्रकोपणान्यासेवमानायाः
क्षिप्रंवातः प्रकोपमापद्यते||१३||
स प्रकुपितो योनिमुखमनुप्रविश्यार्तवमुपरुणद्धि, मासि मासि
तदार्तवमुपरुध्यमानं |कुक्षिमभिवर्धयति| तस्याः
शूलकासातीसारच्छर्द्यरोचकाविपाकाङ्गमर्दनिद्रालस्यस्तैमित्य कफप्रसेकाः
समुपजायन्ते,
स्तनयोश्च
स्तन्यम्, ओष्ठयोः
स्तनमण्डलयोश्च कार्ष्ण्यम्, अत्यर्थं ग्लानिश्चक्षुषोः, मूर्च्छा, हृल्लासः, दोहदः, श्वयथुश्च
पादयोः, ईषच्चोद्गमो
रोमराज्याः, योन्याश्चाटालत्वम्, अपि च योन्या
दौर्गन्ध्यमास्रावश्चोपजायते, केवलश्चास्या गुल्मः पिण्डित एव स्पन्दते, तामगर्भां
गर्भिणीमित्याहुर्मूढाः||१४||
एषां तु खलु पञ्चानां गुल्मानां
प्रागभिनिर्वृत्तेरिमानि पूर्वरूपाणि भवन्ति; तद्यथा-अनन्नाभिलषणम्, अरोचकाविपाकौ, अग्निवैषम्यं, विदाहो
भुक्तस्य, पाककाले
चायुक्त्या छर्द्युद्गारौ, वातमूत्रपुरीषवेगानां चाप्रादुर्भावः, प्रादुर्भूतानां
चाप्रवृत्तिरीषदागमनं वा, वातशूलाटोपान्त्रकूजनापरिहर्षणातिवृत्तपुरीषताः, अबुभुक्षा, दौर्बल्यं,सौहित्यस्य
चासहत्वमिति||१५||
सर्वेष्वपि खल्वेतेषु गुल्मेषु न
कश्चिद्वातादृते सम्भवति गुल्मः| तेषां सान्निपातिकमसाध्यं ज्ञात्वा नैवोपक्रमेत, एकदोषजे तु
यथास्वमारम्भं प्रणयेत्, संसृष्टांस्तु साधारणेन कर्मणोपचरेत्| यच्चान्यदप्यविरुद्धं
मन्येत तदप्यवचारयेद्विभज्य गुरुलाघवमुपद्रवाणां, गुरूनुपद्रवांस्त्वरमाणश्चिकित्सेज्जघन्यमितरान्| त्वरमाणस्तु
विशेषमनुपलभमानो गुल्मेष्वात्ययिके कर्मणि वातचिकित्सितं प्रणयेत्, स्नेहस्वेदौ
वातहरौ स्नेहोपसंहितं च मृदु विरेचनं बस्तींश्च; अम्ललवणमधुरांश्च रसान्
युक्त्याऽवचारयेत्| मारुते ह्युपशान्ते स्वल्पेनापि प्रयत्नेन
शक्योऽन्योऽपि दोषो नियन्तुं गुल्मेष्विति||१६||
भवति चात्र- गुल्मिनामनिलशान्तिरुपायैः
सर्वशो विधिवदाचरितव्या| मारुते ह्यवजितेऽन्यमुदीर्णं दोषमल्पमपि कर्म
निहन्यात्||१७||
तत्र श्लोकः- सङ्ख्या
निमित्तं रूपाणि पूर्वरूपमथापि च| दिष्टं निदाने गुल्मानामेकदेशश्च कर्मणाम्||१८||
0 Comments