For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातः स्नेहाध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
साङ्ख्यैः सङ्ख्यातसङ्ख्येयैः सहासीनं पुनर्वसुम्| जगद्धितार्थं पप्रच्छ वह्निवेशः स्वसंशयम्||३||
किंयोनयः कति स्नेहाः के च स्नेहगुणाः पृथक्| कालानुपाने के कस्य कति काश्च विचारणाः||४||
कति मात्राः कथम्मानाः का च केषूपदिश्यते| कश्च केभ्यो हितः स्नेहः प्रकर्षः स्नेहने च कः||५||
स्नेह्याः के के न च स्निग्धास्निग्धातिस्निग्धलक्षणम्|
किं पानात् प्रथमं पीते जीर्णे किञ्च हिताहितम्||६||
के मृदुक्रूरकोष्ठाः का व्यापदः सिद्धयश्च काः| अच्छे संशोधने चैव स्नेहे का वृत्तिरिष्यते||७||
विचारणाः केषु योज्या विधिना केन तत् प्रभो!|
स्नेहस्यामितविज्ञान ज्ञानमिच्छामि वेदितुम्||८||
अथ तत्संशयच्छेत्ता प्रत्युवाच पुनर्वसुः| स्नेहानां द्विविधा सौम्य योनिः स्थावरजङ्गमा||९||
तिलः प्रियालाभिषुकौ बिभीतकश्चित्राभयैरण्डमधूकसर्षपाः|
कुसुम्भबिल्वारुकमूलकातसीनिकोचकाक्षोडकरञ्जशिग्रुकाः||१०||
स्नेहाशयाः स्थावरसञ्ज्ञितास्तथा स्युर्जङ्गमा मत्स्यमृगाः सपक्षिणः|
तेषां दधिक्षीरघृतामिषं वसा स्नेहेषु मज्जा च तथोपदिश्यते||११||
सर्वेषां तैलजातानां तिलतैलं विशिष्यते| बलार्थे स्नेहने चाग्र्यमैरण्डं तु विरेचने||१२||
(कटूष्णं तैलमैरण्डं वातश्लेष्महरं गुरु | कषायस्वादुतिक्तैश्च योजितं पित्तहन्त्रपि ||१|||
सर्पिस्तैलं वसा मज्जा सर्वस्नेहोत्तमा मताः|
एषु चैवोत्तमं सर्पिः संस्कारस्यानुवर्तनात्||१३||
घृतं पित्तानिलहरं रसशुक्रौजसां हितम्| निर्वापणं मृदुकरं स्वरवर्णप्रसादनम्||१४||
मारुतघ्नं न च श्लेष्मवर्धनं बलवर्धनम्|
त्वच्यमुष्णं स्थिरकरं तैलं योनिविशोधनम्||१५||
विद्धभग्नाहतभ्रष्टयोनिकर्णशिरोरुजि| पौरुषोपचये स्नेहे व्यायामे चेष्यते वसा||१६||
बलशुक्ररसश्लेष्ममेदोमज्जविवर्धनः| मज्जा विशेषतोऽस्थ्नां च बलकृत् स्नेहने हितः||१७||
सर्पिः शरदि पातव्यं वसा मज्जा च माधवे| तैलं प्रावृषि नात्युष्णशीते स्नेहं पिबेन्नरः||१८||
वातपित्ताधिको रात्रावुष्णे चापि पिबेन्नरः| श्लेष्माधिको दिवा शीते पिबेच्चामलभास्करे||१९||
अत्युष्णे वा दिवा पीतो वातपित्ताधिकेन वा| मूर्च्छां पिपासामुन्मादं कामलां वा समीरयेत्||२०||
शीते रात्रौ पिबन् स्नेहं नरः श्लेष्माधिकोऽपि वा| आनाहमरुचिं शूलं पाण्डुतां वा समृच्छति||२१||
जलमुष्णं घृते पेयं यूषस्तैलेऽनु शस्यते|
वसामज्ज्ञोस्तु मण्डः स्यात् सर्वेषूष्णमथाम्बु वा||२२||
ओदनश्च वि लेपी च रसो मांसं पयो दधि|
यवागूः सूपशाकौ च यूषः काम्बलिकः खडः||२३||
सक्तवस्तिलपिष्टं च मद्यं लेहास्तथैव च| भक्ष्यमभ्यञ्जनं बस्तिस्तथा चोत्तरबस्तयः||२४||
गण्डूषः कर्णतैलं च नस्तःकर्णाक्षितर्पणम्| चतुर्विंशतिरित्येताः स्नेहस्य प्रविचारणाः ||२५||
ओदनश्च वि लेपी च रसो मांसं पयो दधि|
यवागूः सूपशाकौ च यूषः काम्बलिकः खडः||२३||
सक्तवस्तिलपिष्टं च मद्यं लेहास्तथैव च| भक्ष्यमभ्यञ्जनं बस्तिस्तथा चोत्तरबस्तयः||२४||
गण्डूषः कर्णतैलं च नस्तःकर्णाक्षितर्पणम्| चतुर्विंशतिरित्येताः स्नेहस्य प्रविचारणाः ||२५||
ओदनश्च वि लेपी च रसो मांसं पयो दधि|
यवागूः सूपशाकौ च यूषः काम्बलिकः खडः||२३||
सक्तवस्तिलपिष्टं च मद्यं लेहास्तथैव च| भक्ष्यमभ्यञ्जनं बस्तिस्तथा चोत्तरबस्तयः||२४||
गण्डूषः कर्णतैलं च नस्तःकर्णाक्षितर्पणम्| चतुर्विंशतिरित्येताः स्नेहस्य प्रविचारणाः ||२५||
अहोरात्रमहः कृत्स्नमर्धाहं च प्रतीक्षते| प्रधाना मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति||२९||
इति तिस्रः समुद्दिष्टा मात्राः स्नेहस्य मानतः| तासां प्रयोगान् वक्ष्यामि पुरुषं पुरुषं प्रति||३०||
प्रभूतस्नेहनित्या ये क्षुत्पिपासासहा नराः| पावकश्चोत्तमबलो येषां ये चोत्तमा बले||३१||
गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये| उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च||३२||
पिबेयुरुत्तमां मात्रां तस्याः पाने गुणाञ्छृणु|
विकाराञ्छमयत्येषां शीघ्रं सम्यक्प्रयोजिता||३३||
दोषानुकर्षिणी मात्रा सर्वमार्गानुसारिणी| बल्या पुनर्नवकरी शरीरेन्द्रियचेतसाम्||३४||
अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः| कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये||३५||
नातिबह्वाशिनश्चैव मृदुकोष्ठास्तथैव च| पिबेयुर्मध्यमां मात्रां मध्यमाश्चापि ये बले||३६||
मात्रैषा मन्दविभ्रंशा न चातिबलहारिणी| सुखेन च स्नेहयति शोधनार्थे च युज्यते||३७||
ये तु वृद्धाश्च बालाश्च सुकुमाराः सुखोचिताः| रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये||३८||
ज्वरातीसारकासाश्च येषां चिरसमुत्थिताः|
स्नेहमात्रां पिबेयुस्ते ह्रस्वां ये चावरा बले||३९||
परिहारे सुखा चैषा मात्रा स्नेहनबृंहणी|
वृष्या बल्या निराबाधा चिरं चाप्यनुवर्तते||४०||
वातपित्तप्रकृत यो वातपित्तविकारिणः| चक्षुःकामाः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः||४१||
आयुःप्रकर्षकामाश्च बलवर्णस्वरार्थिनः| पुष्टिकामाः प्रजाकामाः सौकुमार्यार्थिनश्च ये||४२||
दीप्त्योजःस्मृतिमेधाग्निबुद्धीन्द्रियबलार्थिनः| पिबेयुः सर्पिरार्ताश्च दाहशस्त्रविषाग्निभिः||४३||
प्रवृद्धश्लेष्ममेदस्काश्चलस्थूलगलोदराः| वातव्याधिभिराविष्टा वातप्रकृतयश्च ये||४४||
बलं तनुत्वं लघुतां दृढतां स्थिरगात्रताम् | स्निग्धश्लक्ष्णतनुत्वक्तां ये च काङ्क्षन्ति देहिनः||४५||
कृमिकोष्ठाः क्रूरकोष्ठास्तथा नाडीभिरर्दिताः| पिबेयुः शीतले काले तैलं तैलोचिताश्च ये||४६||
वातातपसहा ये च रूक्षा भाराध्वकर्शिताः|
संशुष्करेतोरुधिरा निष्पीतकफमेदसः||४७||
अस्थिसन्धिसिरास्नायुमर्मकोष्ठमहारुजः| बलवान्मारुतो येषां खानि चावृत्य तिष्ठति||४८||
महच्चाग्निबलं येषां वसासात्म्याश्च ये नराः| तेषां स्नेहयितव्यानां वसापानं विधीयते||४९||
यःदीप्ताग्न क्लेशसहा घस्मराः स्नेहसेविनः| वातार्ताः क्रूरकोष्ठाश्च स्नेह्या मज्जानमाप्नुयुः||५०||
येभ्यो येभ्यो हितो यो यः स्नेहः स परिकीर्तितः|५१|
स्नेहनस्य प्रकर्षौ तु सप्तरात्रत्रिरात्रकौ||५१||
स्वेद्याः शोधयितव्याश्च रूक्षा वातविकारिणः| व्यायाममद्यस्त्रीनित्याः स्नेह्याः स्युर्ये च चिन्तकाः||५२||
संशोधनादृते येषां रूक्षणं सम्प्रवक्ष्यते| न तेषां स्नेहनं शस्तमुत्सन्नकफमेदसाम्||५३||
अभिष्यण्णाननगुदा नित्यमन्दाग्नयश्च ये| तृष्णामूर्च्छापरीताश्च गर्भिण्यस्तालुशोषिणः||५४||
अन्नद्विषश्छर्दयन्तो जठरामगरार्दिताः| दुर्बलाश्च प्रतान्ताश्च स्नेहग्लाना मदातुराः||५५||
न स्नेह्या वर्तमानेषु न नस्तो बस्तिकर्मसु| स्नेहपानात् प्रजायन्ते तेषां रोगाः सुदारुणाः||५६||
पुरीषं ग्रथितं रूक्षं वायुरप्रगुणो मृदुः|
पक्ता खरत्वं रौक्ष्यं च गात्रस्यास्निग्धलक्षणम्||५७||
वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्| मार्दवं स्निग्धता चाङ्गे स्निग्धानामुपजायते||५८||
पाण्डुता गौरवं जाड्यं पुरीषस्याविपक्वता| तन्द्रीररुचिरुत्केशः स्यादतिस्निग्धलक्षणम्||५९||
पुरीषं ग्रथितं रूक्षं वायुरप्रगुणो मृदुः|
पक्ता खरत्वं रौक्ष्यं च गात्रस्यास्निग्धलक्षणम्||५७||
वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्| मार्दवं स्निग्धता चाङ्गे स्निग्धानामुपजायते||५८||
पाण्डुता गौरवं जाड्यं पुरीषस्याविपक्वता| तन्द्रीररुचिरुत्केशः स्यादतिस्निग्धलक्षणम्||५९||
पुरीषं ग्रथितं रूक्षं वायुरप्रगुणो मृदुः|
पक्ता खरत्वं रौक्ष्यं च गात्रस्यास्निग्धलक्षणम्||५७||
वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्| मार्दवं स्निग्धता चाङ्गे स्निग्धानामुपजायते||५८||
पाण्डुता गौरवं जाड्यं पुरीषस्याविपक्वता| तन्द्रीररुचिरुत्केशः स्यादतिस्निग्धलक्षणम्||५९||
मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया| स्निह्यति क्रूरक्रोष्ठस्तु सप्तरात्रेण मानवः||६५||
गुडमिक्षुरसं मस्तु क्षीरमुल्लोडितं दधि| पायसं कृशरां सर्पिः काश्मर्यत्रिफलारसम्||६६||
द्राक्षारसं पीलुरसं जलमुष्णमथापि वा| मद्यं वा तरुणं पीत्वा मृदुकोष्ठो विरिच्यते||६७||
विरेचयन्ति नैतानि क्रूरकोष्ठं कदाचन| भवति क्रूरकोष्ठस्य ग्रहण्यत्युल्बणानिला||६८||
उदीर्णपित्ताऽल्पकफा ग्रहणी मन्दमारुता|
मृदुकोष्ठस्य तस्मात् स सुविरेच्यो नरः स्मृतः||६९||
मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया| स्निह्यति क्रूरक्रोष्ठस्तु सप्तरात्रेण मानवः||६५||
गुडमिक्षुरसं मस्तु क्षीरमुल्लोडितं दधि| पायसं कृशरां सर्पिः काश्मर्यत्रिफलारसम्||६६||
द्राक्षारसं पीलुरसं जलमुष्णमथापि वा| मद्यं वा तरुणं पीत्वा मृदुकोष्ठो विरिच्यते||६७||
विरेचयन्ति नैतानि क्रूरकोष्ठं कदाचन| भवति क्रूरकोष्ठस्य ग्रहण्यत्युल्बणानिला||६८||
उदीर्णपित्ताऽल्पकफा ग्रहणी मन्दमारुता|
मृदुकोष्ठस्य तस्मात् स सुविरेच्यो नरः स्मृतः||६९||
अकाले चाहितश्चैव मात्रया न च योजितः| स्नेहो मिथ्योपचाराच्च व्यापद्येतातिसेवितः||७९||
स्नेहात् प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्| स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्||८०||
एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्|
स्यात्त्वसंशोधनार्थीये वृत्तिः स्नेहे विरिक्तवत्||८१||
स्नेहद्विषः स्नेहनित्या मृदुकोष्ठाश्च ये नराः| क्लेशासहा मद्यनित्यास्तेषामिष्टा विचारणा||८२||
लावतैत्तिरमायूरहांसवाराहकौक्कुटाः| गव्याजौरभ्रमात्स्याश्च रसाः स्युः स्नेहने हिताः||८३||
यवकोलकुलत्थाश्च स्नेहाः सगुडशर्कराः| दाडिमं दधि सव्योषं रससंयोगसङ्ग्रहः||८४||
स्नेहयन्ति तिलाः पूर्वं जग्धाः सस्नेहफाणिताः|
कृशराश्च बहुस्नेहास्तिलकाम्बलिकास्तथा||८५||
फाणितं शृङ्गवेरं च तैलं च सुरया सह| पिबेद्रूक्षो भृतैर्मांसैर्जीर्णेऽश्नीयाच्च भोजनम्||८६||
तैलं सुराया मण्डेन वसां मज्जानमेव वा| पिबन् सफाणितं क्षीरं नरः स्निह्यति वातिकः||८७||
धारोष्णं स्नेहसंयुक्तं पीत्वा सशर्करं पयः|
नरः स्निह्यति पीत्वा वा सरं दध्नः सफाणितम्||८८||
पाञ्चप्रसृतिकी पेया पायसो माषमिश्रकः| क्षीरसिद्धो बहुस्नेहः स्नेहयेदचिरान्नरम्||८९||
सर्पिस्तैलवसामज्जातण्डुलप्रसृतैः शृ(कृ)ता| पाञ्चप्रसृतिकी पेया पेया स्नेहनमिच्छता||९०||
(शौकरो वा रसः स्निग्धः सर्पिर्लवणसंयुतः | पीतो द्विर्वासरे यत्नात् स्नेहयेदचिरान्नरम् ||१||)|
ग्राम्यानूपौदकं मांसं गुडं दधि पयस्तिलान्|
कुष्ठी शोथी प्रमेही च स्नेहने न प्रयोजयेत्||९१||
स्नेहैर्यथार्हं तान् सिद्धैः स्नेहयेदविकारिभिः| पिप्पलीभिर्हरीतक्या सिद्धैस्त्रिफलयाऽपि वा||९२||
द्राक्षामलकयूषाभ्यां दध्ना चाम्लेन साधयेत्| व्योषगर्भं भिषक् स्नेहं पीत्वा स्निह्यति तं नरः||९३||
यवकोलकुलत्थानां रसाः क्षारः सुरा दधि|
क्षीरसर्पिश्च तत् सिद्धं स्नेहनीयं घृतोत्तमम्||९४||
तैलमज्जवसासर्पिर्बदरत्रिफलारसैः| योनिशुक्रप्रदोषेषु साधयित्वा प्रयोजयेत्||९५||
गृह्णात्यम्बु यथा वस्त्रं प्रस्रवत्यधिकं यथा|
यथाग्नि जीर्यति स्नेहस्तथा स्रवति चाधिकः||९६||
यथा वाऽऽक्लेद्य मृत्पिण्डमासिक्तं त्वरया जलम्| स्रवति स्रंसते स्नेहस्तथा त्वरितसेवितः||९७||
लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम्| तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च||९८|| स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम्|
स्नेहस्वेदोपपन्नस्य संशोधनमथेतरत् [१] ||९९||
तत्र श्लोकः- स्नेहाः स्नेहविधिः कृत्स्नव्यापत्सिद्धिः सभेषजा| यथाप्रश्नं भगवता व्याहृतं चान्द्रभागिना||१००||
0 Comments