Advertisement

Responsive Advertisement

Charak Sharir Chapter 6








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातः शरीरविचयं शारीरं व्याख्यास्यामः||||

इति ह स्माह भगवानात्रेयः||||

शरीरविचयः शरीरोपकारार्थमिष्यते| ज्ञात्वा हि शरीरतत्त्वं शरीरोपकारकरेषु भावेषु ज्ञानमुत्पद्यते| तस्माच्छरीरविचयं प्रशंसन्ति कुशलाः||||

 तत्र शरीरं नाम चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं समयोगवाहि | यदा ह्यस्मिञ् शरीरे धातवो वैषम्यमापद्यन्ते तदा क्लेशं विनाशं वा प्राप्नोति| वैषम्यगमनं हि पुनर्धातूनां वृध्दिह्रासगमनमकार्त्स्न्येन प्रकृत्या च||||

यौगपद्येन तु विरोधिनां धातूनां वृध्दिह्रासौ भवतः| यध्दि यस्य धातोर्वृध्दिकरं तत्ततो विपरीतगुणस्य धातोः प्रत्यवायकरं सम्पद्यते||||

तदेव तस्माद्भेषजं सम्यगवचार्यमाणं युगपन्न्यूनातिरिक्तानां धातूनां साम्यकरं भवति, अधिकमपकर्षतिन्यूनमाप्याययति||||

एतावदेव हि भैषज्यप्रयोगे फलमिष्टं स्वस्थवृत्तानुष्ठाने च यावध्दातूनां साम्यं स्यात्| स्वस्था ह्यपि धातूनां साम्यानुग्रहार्थमेव कुशला रसगुणानाहारविकारांश्च पर्यायेणेच्छन्त्युपयोक्तुं सात्म्यसमाज्ञातान्;एकप्रकारभूयिष्ठांश्चोपयुञ्जानास्तद्विपरीतकरसमाज्ञातया चेष्टया सममिच्छन्ति कर्तुम्|||

देशकालात्मगुणविपरीतानां हि कर्मणामाहारविकाराणां च क्रियोपयोगः सम्यक्, सर्वातियोगसन्धारणम्,असन्धारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनं, स्वस्थवृत्तमेतावध्दातूनां साम्यानुग्रहार्थमुपदिश्यते||||

धातवः पुनः शारीराः समानगुणैः समानगुणभूयिष्ठैर्वाऽप्याहारविकारैरभ्यस्यमानैर्वृध्दिं प्राप्नुवन्ति, ह्रासं तुविपरीतगुणैर्विपरीतगुणभूयिष्ठैर्वाऽप्याहारैरभ्यस्यमानैः||||

तत्रेमे शरीरधातुगुणाः संख्यासामर्थ्यकराः; तद्यथा-गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवाः| तेषु ये गुरवस्ते गुरुभिराहारविकारगुणैरभ्यस्यमानैराप्याय्यन्ते, लघवश्च ह्रसन्ति; लघवस्तु लघुभिराप्याय्यन्ते, गुरवश्चह्रसन्ति| एवमेव सर्वधातुगुणानां सामान्ययोगाद्वृध्दि:, विपर्ययादध्द्रासः| तस्मान्मांसमाप्याय्यते मांसेन भूयस्तरमन्येभ्यः शरीरधातुभ्यः, तथा लोहितं लोहितेन, मेदो मेदसा, वसा वसया, अस्थितरुणास्थ्ना, मज्जा मज्ज्ञा, शुक्रं शुक्रेण, गर्भस्त्वामगर्भेण||१०||

यत्र त्वेवंलक्षणेन सामान्येन सामान्यवतामाहारविकाराणामसान्निध्यं स्यात्, सन्निहितानां वाऽप्ययुक्तत्वान्नोपयोगो घृणित्वादन्यस्माद्वा कारणात्, स च धातुरभिवर्धयितव्यः स्यात्, तस्य ये समानगुणाः स्युराहारविकारा असेव्याश्च, तत्रसमानगुणभूयिष्ठानामन्यप्रकृतीनामप्याहारविकाराणामुपयोगः स्यात्| तद्यथा- शुक्रक्षये क्षीरसर्पिषोरुपयोगो मधुरस्निग्धशीतसमाख्यातानां चापरेषां द्रव्याणां, मूत्रक्षये पुनरिक्षुरसवारुणीमण्डद्रवमधुराम्ललवणोपक्लेदिनां, पुरीषक्षये कुल्माषमाषकुष्कुण्डाजमध्ययवशाकधान्याम्लानां, वातक्षयेकटुकतिक्तकषायरूक्षलघुशीतानां, पित्तक्षयेऽम्ललवणकटुकक्षारोष्णतीक्ष्णानां, श्लेष्मक्षये स्निग्धगुरुमधुरसान्द्रपिच्छिलानां द्रव्याणाम्| कर्मापि यद्यस्य धातोर्वृध्दिकरं तत्तदासेव्यम्| एवमन्येषामपि शरीरधातूनां सामान्यविपर्ययाभ्यां वृध्दिह्रासौ यथाकालं कार्यौ| इति सर्वधातूनामेकैकशोऽतिदेशतश्च वृध्दिह्रासकराणि व्याख्यातानि भवन्ति||११||

कार्त्स्न्येन शरीरवृध्दिकरास्त्विमे भावा भवन्ति; तद्यथा- कालयोगः, स्वभावसंसिध्दि:, आहारसौष्ठवम्,अविघातश्चेति||१२||

बलवृध्दिकरास्त्विमे भावा भवन्ति| तद्यथा- बलवत्पुरुषे देशे जन्म बलवत्पुरुषे काले च, सुखश्च कालयोगः, बीजक्षेत्रगुणसंपच्च, आहारसंपच्च, शरीरसंपच्च,सात्म्यसंपच्च, सत्त्वसंपच्च, स्वभावसंसिध्दिश्च, यौवनं च, कर्म च, संहर्षश्चेति||१३||

आहारपरिणामकरास्त्विमे भावा भवन्ति| तद्यथा- ऊष्मा, वायुः, क्लेदः, स्नेहः, कालः, समयोगश्चेति ||१४||

तत्र तु खल्वेषामूष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति| तद्यथा- ऊष्मा पचति, वायुरपकर्षति, क्लेदः शैथिल्यमापादयति, स्नेहो मार्दवं जनयति, कालः पर्याप्तिमभिनिर्वर्तयति,समयोगस्त्वेषां परिणामधातुसाम्यकरः सम्पद्यते||१५||

परिणमतस्त्वाहारस्य गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुध्दा: ; विरुध्दाश्च विहन्युर्विहताश्च विरोधिभिःशरीरम्||१६||

शरीरगुणाः पुनर्व्दिविधाः संग्र्हेण- मलभूताः, प्रसादभूताश्च| तत्र मलभूतास्ते ये शरीरस्याबाधकराः स्युः| तद्यथा- शरीरच्छिद्रेषूपदेहाः पृथग्जन्मानो बहिर्मुखाः, परिपक्वाश्च धातवः, प्रकुपिताश्च वातपित्तश्लेष्माणः, ये चान्येऽपिकेचिच्छरीरे तिष्ठन्तो भावाः शरीरस्योपघातायोपपद्यन्ते, सर्वांस्तान्मले संचक्ष्महे; इतरांस्तु प्रसादे , गुर्वादींश्चद्रवान्तान् गुणभेदेन, रसादींश्च शुक्रान्तान् द्रव्यभेदेन||१७||

तेषां सर्वेषामेव वातपित्तश्लेष्माणो दुष्टा दूषयितारो भवन्ति, दोषस्वभावात्| वातादीनां पुनर्धात्वन्तरे कालान्तरे प्रदुष्टानां विविधाशितपीतीयेऽध्याये विज्ञानान्युक्तानि| एतावत्येव दुष्टदोषगतिर्यावत् संस्पर्शनाच्छरीरधातूनाम्| प्रकृतिभूतानां तु खलु वातादीनां फलमारोग्यम्| तस्मादेषां प्रकृतिभावे प्रयतितव्यं बुध्दिमद्भ्दिरिति||१८||

भवति चात्र- शरीरं सर्वथा सर्वं सर्वदा वेद यो भिषक्| आयुर्वेदं स कार्त्स्न्येन वेद लोकसुखप्रदम्||१९||

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच श्रुतमेतद्यदुक्तं भगवता शरीराधिकारे वचः| किन्नु खलु गर्भस्याङ्गं पूर्वमभिनिर्वर्तते कुक्षौ, कुतो मुखः कथं चान्तर्गतस्तिष्ठति, किमाहारश्च वर्तयति, कथम्भूतश्चनिष्क्रामति, कैश्चायमाहारोपचारैर्जातः सद्यो हन्यते, कैरव्याधिरभिवर्धते, किं चास्य देवादिप्रकोपनिमित्ता विकाराःसम्भवन्ति आहोस्विन्न, किंचास्य कालाकालमृत्य्वोर्भावाभावयोर्भगवानध्यवस्यति, किंचास्य परमायुः, कानि चास्यपरमायुषो निमित्तानीति||२०||

तमेवमुक्तवन्तमग्निवेशं भगवान् पुनर्वसुरात्रेय उवाच- पूर्वमुक्तमेतद्गर्भावक्रान्तौ यथाऽयमभिनिर्वर्तते कुक्षौ, यच्चास्य यदासंतिष्ठतेऽङ्गजातम्| विप्रतिवादास्त्वत्र बहुविधाः सूत्रकृतामृषीणां सन्ति सर्वेषां; तानपि निबोधोच्यमानान्- शिरः पूर्वमभिनिर्वर्तते कुक्षावितिकुमारशिरा भरव्दाजः पश्यति, सर्वेन्द्रियाणां तदधिष्ठानमिति कृत्वा; हृदयमिति काङ्कायनो बाह्लीकभिषक्,चेतनाधिष्ठानत्वात्; नाभिरिति भद्रकाप्यः, आहारागम इति कृत्वा; पक्वाशयगुदमिति भद्रशौनकः, मारुताधिष्ठानत्वात्;हस्तपादमिति बडिशः, तत्करणत्वात् पुरुषस्य; इन्द्रियाणीति जनको वैदेहः, तान्यस्य बुध्द्याधिष्ठानानीति कृत्वा;परोक्षत्वादचिन्त्यमिति मारीचिः कश्यपः; सर्वाङ्गाभिनिर्वृत्तिर्युगपदिति धन्वन्तरिः; तदुपपन्नं, सर्वाङ्गानांतुल्यकालाभिनिर्वृत्तत्वाध्दृदयप्रभृतीनाम्| सर्वाङ्गानां ह्यस्य हृदयं मूलमधिष्ठानं च केषाञ्चिद्भावानाम्, नच तस्मात् पूर्वाभिनिर्वृत्तिरेषां; तस्माध्दृदयप्रभृतीनां सर्वाङ्गानां तुल्यकालाभिनिर्वृत्तिः, सर्वे भावा ह्यन्योन्यप्रतिबध्दा:; तस्माद्यथाभूतदर्शनं साधु||२१||

गर्भस्तु खलु मातुः पृष्ठाभिमुख ऊर्ध्वशिराः सङ्कुच्याङ्गान्यास्तेऽन्तःकुक्षौ ||२२||

व्यपगतपिपासाबुभुक्षस्तु खलु गर्भः परतन्त्रवृत्तिर्मातरमाश्रित्य वर्तयत्युपस्नेहोपस्वेदाभ्यां गर्भाशये सदसभ्दूताङ्गावयवः,तदनन्तरं ह्यस्य कश्चिल्लोमकूपायनैरुपस्नेहः कश्चिन्नाभिनाड्ययनैः| नाभ्यां ह्यस्य नाडी प्रसक्ता, नाड्यां चापरा, अपरा चास्य मातुः प्रसक्ता हृदये, मातृहृदयं ह्यस्य तामपरामभिसम्प्लवतेसिराभिः स्यन्दमानाभिः; स तस्य रसो बलवर्णकरः सम्पद्यते, स च सर्वरसवानाहारः| स्त्रिया ह्यापन्नगर्भायास्त्रिधा रसः प्रतिपद्यते- स्वशरीरपुष्टये, स्तन्याय, गर्भवृध्दये च| स तेनाहारेणोपष्टब्धः (परतन्त्रवृत्तिर्मातरमाश्रित्य ) वर्तयत्यन्तर्गतः||२३||

स चोपस्थितकाले जन्मनि प्रसूतिमारुतयोगात् परिवृत्त्यावाक् शिरा निष्क्रामत्यपत्यपथेन, एषा प्रकृतिः, विकृतिःपुनरतोऽन्यथा| परं त्वतः स्वतन्त्रवृत्तिर्भवति||२४||

तस्याहारोपचारौ जातिसूत्रीयोपदिष्टावविकारकरौ चाभिवृध्दिकरौ भवतः||२५||

ताभ्यामेव च विषमसेविताभ्यां जातः सद्य उपहन्यते तरुरिवाचिरव्यपरोपितो वातातपाभ्यामप्रतिष्ठितमूलः||२६||

आप्तोपदेशादद्भुतरूपदर्शनात् समुत्थानलिङ्गचिकित्सितविशेषाच्चादोषप्रकोपानुरूपा देवादिप्रकोपनिमित्ता विकाराःसमुपलभ्यन्ते||२७||

कालाकालमृत्य्वोस्तु खलु भावाभावयोरिदमध्यवसितं नः- यः कश्चिन् म्रियते स काल एव म्रियते, न हि कालच्छिद्रमस्तिइत्येके भाषन्ते| तच्चासम्यक्| न ह्यच्छिद्रता सच्छिद्रता वा कालस्योपपद्यते, कालस्वलक्षणस्वभावात्| तत्राहुरपरे- यो यदा म्रियते स तस्य नियतो मृत्युकालः; स सर्वभूतानां सत्यः, समक्रियत्वादिति| एतदपि चान्यथाऽर्थग्रहणम्| न हि कश्चिन्न म्रियत इति समक्रियः| कालो ह्यायुषः प्रमाणमधिकृत्योच्यते| यस्य चेष्टं यो यदा म्रियते स तस्य मृत्युकाल इति, तस्य सर्वे भावा यथास्वं नियतकाला भविष्यन्ति; तच्च नोपपद्यते, प्रत्यक्षंह्यकालाहारवचनकर्मणां फलमनिष्टं, विपर्यये चेष्टं; प्रत्यक्षतश्चोपलभ्यते खलु कालाकालव्यक्तिस्तासु तास्ववस्थासु तंतमर्थमभिसमीक्ष्य, तद्यथा- कालोऽयमस्य व्याधेराहारस्यौषधस्य प्रतिकर्मणो विसर्गस्य, अकालो वेति| लोकेऽप्येतभ्दवति- काले देवो वर्षत्यकाले देवो वर्षति, काले शीतमकाले शीतं, काले तपत्यकाले तपति, काले पुष्पफलमकाले चपुष्पफलमिति| तस्मादुभयमस्ति- काले मृत्युरकाले च; नैकान्तिकमत्र| यदि ह्यकाले मृत्युर्न स्यान्नियतकालप्रमाणमायुः सर्वं स्यात्; एवं गते हिताहितज्ञानमकारणं स्यात्,प्रत्यक्षानुमानोपदेशाश्चाप्रमाणानि स्युर्ये प्रमाणभूताः सर्वतन्त्रेषु, यैरायुष्याण्यनायुष्याणि चोपलभ्यन्ते| वाग्वस्तुमात्रमेतद्वादमृषयो मन्यन्ते- नाकाले मृत्युरस्तीति||२८||

वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले||२९||

तस्य निमित्तं प्रकृतिगुणात्मसंपत् सात्म्योपसेवनं चेति||३०||

तत्र श्लोकाः- शरीरं यद्यथा तच्च वर्तते क्लिष्टमामयैः| यथा क्लेशं विनाशं च याति ये चास्य धातवः||३१||

वृध्दिह्रासौ यथा तेषां क्षीणानामौषधं च यत्| देहवृध्दिकरा भावा बलवृद्धिकराश्च ये||३२||

परिणामकरा भावा या च तेषां पृथक् क्रिया| मलाख्याः सम्प्रसादाख्या धातवः प्रश्न एव च||३३||

नवको निर्णयश्चास्य विधिवत् संप्रकाशितः| तथ्यः शरीरविचये शारीरे परमर्षिणा||३४||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने शरीरविचयशारीरं नाम षष्ठोऽध्यायः||||

Post a Comment

0 Comments