For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातः खुड्डिकां गर्भावक्रान्तिं शारीरं
व्याख्यास्यामः||१|| इति ह स्माह
भगवानात्रेयः||२||
पुरुषस्यानुपहतरेतसः
स्त्रियाश्चाप्रदुष्टयोनिशोणितगर्भाशयाया यदा भवति संसर्गः ऋतुकाले, यदा
चानयोस्तथायुक्ते संसर्गेशुक्रशोणितसंसर्गमन्तर्गर्भाशयगतं जीवोऽवक्रामति
सत्त्वसम्प्रयोगात्तदा गर्भोऽभिनिर्वतेते, स सात्म्यरसोपयोगादरोगोऽभिवर्धते
सम्यगुपचारैश्चोपचर्यमाणः, ततः प्राप्तकालः सर्वेन्द्रियोपपन्नः
परिपूर्णशरीरो बलवर्णसत्त्वसंहननसम्पदुपेतः सुखेन जायतेसमुदयादेषां भावानां-मातृजश्चायं
गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्च, अस्ति च खलु सत्त्वमौपपादुकमिति
होवाच भगवानात्रेयः||३||
नेति भरद्वाजः, किं कारणं- न हि माता न
पिता नात्मा न सात्म्यं न पानाशनभक्ष्यलेह्योपयोगा गर्भं जनयन्ति, न
चपरलोकादेत्य गर्भं सत्त्वमवक्रामति (१)|४|
यदि हि मातापितरौ गर्भं जनयेतां, भूयस्यः
स्त्रियः पुमांसश्च भूयांसः पुत्रकामाः, ते सर्वे
पुत्रजन्माभिसन्धायमैथुनधर्ममापद्यमानाः पुत्रानेव जनयेयुर्दुहितॄर्वा दुहितृकामाः, न तु
काश्चित् स्त्रियः केचिद्वा पुरुषा निरपत्याः स्युरपत्यकामा वा परिदेवेरन् (२)|४|
न चात्माऽऽत्मानं जनयति| यदि
ह्यात्माऽऽत्मानं जनयेज्जातो वा जनयेदात्मानमजातो वा, तच्चोभयथाऽप्ययुक्तम्| न हि जातो
जनयति सत्त्वात्, न चाजातो जनयत्यसत्त्वात्, तस्मादुभयथाऽप्यनुपपत्तिः| तिष्ठतु
तावदेतत्| यद्ययमात्माऽऽत्मानं
शक्तो जनयितुं स्यात्, न त्वेनमिष्टास्वेव कथं योनिषु
जनयेद्वशिनमप्रतिहतगतिं कामरूपिणंतेजोबलजववर्णसत्त्वसंहननसमुदितमजरमरुजममरम्; एवंविधं
ह्यात्माऽऽत्मानमिच्छत्यतो वा भूयः (३)|४|
असात्म्यजश्चायं गर्भः| यदि हि
सात्म्यजःस्यात्, तर्हि सात्म्यसेविनामेवैकान्तेन प्रजा स्यात्, असात्म्यसेविनश्च
निखिलेनानपत्याः स्युः,तच्चोभयमुभयत्रैव दृश्यते (४)|४|
अरसजश्चायं गर्भः| यदि हि रसजः स्यात्,
न केचित्
स्त्रीपुरुषेष्वनपत्याः स्युः,
न हि कश्चिदस्त्येषां यो
रसान्नोपयुङ्क्ते; श्रेष्ठरसोपयोगिनांचेद्गर्भा
जायन्त इत्यभिप्रेतमिति, एवं
सत्याजौरभ्रमार्गमायूरगोक्षीरदधिघृतमधुतैलसैन्धवेक्षुरसमुद्गशालिभृतानामेवैकान्तेनप्रजा
स्यात्, श्यामाकवरकोद्दालककोरदूषककन्दमूलभक्षाश्च
निखिलेनानपत्याः स्युः, तच्चोभयमुभयत्र दृश्यते (५)|४| न खल्वपि परलोकादेत्य
सत्त्वं गर्भमवक्रामति; यदि ह्येनमवक्रामेत्, नास्य किञ्चित् पौर्वदेहिकं स्यादविदितमश्रुतमदृष्टं वा,स च तच्च न किञ्चिदपि स्मरति (६)||४||
तस्मादेतद्ब्रूमहे-
अमातृजश्चायं गर्भोऽपितृजश्चानात्मजश्चासात्म्यजश्चारसजश्च, न चास्ति सत्त्वमौपपादुकमिति (होवाचभरद्वाजः)||४||
नेति भगवानात्रेयः, सर्वेभ्य
एभ्यो भावेभ्यः समुदितेभ्यो गर्भोऽभिनिर्वर्तते||५|| मातृजश्चायं
गर्भः| न हि
मातुर्विना गर्भोत्पत्तिः स्यात्, न च जन्म जरायुजानाम्| यानि खल्वस्य
गर्भस्य मातृजानि, यानि चास्य मातृतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा- त्वक्चलोहितं
च मांसं च मेदश्च नाभिश्च हृदयं च क्लोम च यकृच्च प्लीहा च
वृक्कौ च बस्तिश्च पुरीषाधानं चामाशयश्चपक्वाशयश्चोत्तरगुदं चाधरगुदं च
क्षुद्रान्त्रं च स्थूलान्त्रं च वपा च वपावहनं चेति (मातृजानि)||६||
पितृजश्चायं गर्भः| नहि पितुरृते
गर्भोत्पत्तिः स्यात्, न च जन्म जरायुजानाम्| यानि खल्वस्य
गर्भस्य पितृजानि, यानि चास्य पितृतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा-केशश्मश्रुनखलोमदन्तास्थिसिरास्नायुधमन्यः
शुक्रं चेति (पितृजानि)||७||
आत्मजश्चायं गर्भः| गर्भात्मा
ह्यन्तरात्मा यः, तं ‘जीव’ इत्याचक्षते
शाश्वतमरुजमजरममरमक्षयमभेद्यमच्छेद्यमलोड्यं विश्वरूपंविश्वकर्माणमव्यक्तमनादिमनिधनमक्षरमपि| स
गर्भाशयमनुप्रविश्य शुक्रशोणिताभ्यां संयोगमेत्य गर्भत्वेन जनयत्यात्मनाऽऽत्मानम्, आत्मसञ्ज्ञा
हि गर्भे| तस्य
पुनरात्मनो जन्मानादित्वान्नोपपद्यते, तस्मान्न जात एवायमजातं गर्भं
जनयति, अजातो
ह्ययमजातं गर्भंजनयति; स चैव गर्भः कालान्तरेण बालयुवस्थविरभावान्
प्राप्नोति, स यस्यां
यस्यामवस्थायां वर्तते तस्यां तस्यां जातोभवति, या त्वस्य पुरस्कृतातस्यां
जनिष्यमाणश्च,
तस्मात् स एव
जातश्चाजातश्च युगपद्भवति; यस्मिंश्चैतदुभयं सम्भवतिजातत्वं जनिष्यमाणत्वं
च स जातो जन्यते, स चैवानागतेष्ववस्थान्तरेष्वजातो
जन्ययत्यात्मनाऽऽत्मानम्| सतो ह्यवस्थान्तरगमनमात्रमेव हि जन्म चोच्यते
तत्र तत्र वयसि तस्यां तस्यामवस्थायां; यथा- सतामेव
शुक्रशोणितजीवानांप्राक् संयोगाद्गर्भत्वं न भवति, तच्च संयोगाद्भवति; यथा- सतस्तस्यैव
पुरुषस्य प्रागपत्यात् पितृत्वं न भवति,तच्चापत्याद्भवति; तथा
सतस्तस्यैव गर्भस्य तस्यां तस्यामवस्थायां जातत्वमजातत्वं चोच्यते||८||
न खलु गर्भस्य न च मातुर्न पितुर्न चात्मनः
सर्वभावेषु यथेष्टकारित्वमस्ति; ते किञ्चित् स्ववशात् कुर्वन्ति, किञ्चित्कर्मवशात्, क्वचिच्चैषां
करणशक्तिर्भवति,
क्वचिन्न
भवति| यत्र सत्त्वादिकरणसम्पत्तत्र
यथाबलमेव यथेष्टकारित्वम्, अतोऽन्यथा विपर्ययः| न च
करणदोषादकरणमात्मासम्भवति गर्भजनने, दृष्टं चेष्टा योनिरैश्वर्यं
मोक्षश्चात्मविद्भिरात्मायत्तम्| नह्यन्यः सुखदुःखयोः कर्ता| न चान्यतो
गर्भो जायते जायमानः, नाङ्कुरोत्पत्तिरबीजात्||९||
यानि तु खल्वस्य गर्भस्यात्मजानि, यानि
चास्यात्मतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः तद्यथा- तासु
तासुयोनिषूत्पत्तिरायुरात्मज्ञानं मन इन्द्रियाणि प्राणापानौ प्रेरणं
धारणमाकृतिस्वरवर्णविशेषाः सुखदुःखे इच्छाद्वेषौ चेतनाधृतिर्बुद्धिः
स्मृतिरहङ्कारः प्रयत्नश्चेति (आत्मजानि)||१०||
सात्म्यजश्चायं गर्भः| नह्यसात्म्यसेवित्वमन्तरेण
स्त्रीपुरुषयोर्वन्ध्यत्वमस्ति, गर्भेषु वाऽप्यनिष्टो भावः| यावत्
खल्वसात्म्यसेविनां स्त्रीपुरुषाणां त्रयो दोषाः प्रकुपिताः शरीरमुपसर्पन्तो न
शुक्रशोणितगर्भाशयोपघातायोपपद्यन्ते,तावत् समर्था गर्भजननाय भवन्ति| सात्म्यसेविनां
पुनः स्त्रीपुरुषाणामनुपहतशुक्रशोणितगर्भाशयानामृतकाले सन्निपतितानां
जीवस्यानवक्रमणाद्गर्भा नप्रादुर्भवन्ति| नहि केवलं सात्म्यज एवायं गर्भः, समुदयोऽत्र
कारणमुच्यते|
यानि खल्वस्य
गर्भस्य सात्म्यजानि, यानि चास्य सात्म्यतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा-आरोग्यमनालस्यमलोलुपत्वमिन्द्रियप्रसादः
स्वरवर्णबीजसम्पत् प्रहर्षभूयस्त्वं चेति (सात्म्यजानि)||११||
रसजश्चायं गर्भः| न हि रसादृते मातुः प्राणयात्राऽपि
स्यात्, किं
पुनर्गर्भजन्म|
न
चैवासम्यगुपयुज्यमाना रसा गर्भमभिनिर्वर्तयन्ति, न च केवलं सम्यगुपयोगादेव रसानां
गर्भाभिनिर्वृत्तिर्भवति,समुदायोऽप्यत्र कारणमुच्यते| यानि तु
खल्वस्य गर्भस्य रसजानि, यानि चास्य रसतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा-शरीरस्याभिनिर्वृत्तिरभिवृद्धिः
प्राणानुबन्धस्तृप्तिः पुष्टिरुत्साहश्चेति (रसजानि)||१२||
अस्ति खलु सत्त्वमौपपादुकं; यज्जीवं
स्पृक्शरीरेणाभिसम्बध्नाति, यस्मिन्नपगमनपुरस्कृते शीलमस्य व्यावर्तते,भक्तिर्विपर्यस्यते, सर्वेन्द्रियाण्युपतप्यन्ते, बलं हीयते, व्याधय
आप्याय्यन्ते,
यस्माद्धीनः
प्राणाञ्जहाति,यदिन्द्रियाणामभिग्राहकं
च ‘मन’ इत्यभिधीयते; तत्त्रिविधमाख्यायते- शुद्धं, राजसं, तामसमिति| येनास्य खलु
मनो भूयिष्ठं,
तेन
द्वितीयायामाजातौ सम्प्रयोगो भवति; यदा तु तेनैव शुद्धेन संयुज्यते, तदाजातेरतिक्रान्ताया
अपि स्मरति| स्मार्तं हि
ज्ञानमात्मनस्तस्यैव मनसोऽनुबन्धादनुवर्तते, यस्यानुवृत्तिं पुरस्कृत्य पुरुषो ‘जातिस्मर’ इत्युच्यते| यानि खल्वस्य
गर्भस्य सत्त्वजानि, यान्यस्य सत्त्वतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा- भक्तिः
शीलंशौचं द्वेषः स्मृतिर्मोहस्त्यागो मात्सर्यं शौर्यं भयं
क्रोधस्तन्द्रोत्साहस्तैक्ष्ण्यं मार्दवं
गाम्भीर्यमनवस्थितत्वमित्येवमादयश्चान्ये,ते सत्त्वविकारा यानुत्तरकालं
सत्त्वभेदमधिकृत्योपदेक्ष्यामः| नानाविधानि खलु सत्त्वानि, तानि
सर्वाण्येकपुरुषे भवन्ति, न च भवन्त्येककालम्, एकं तु
प्रायोवृत्त्याऽऽह ||१३||
एवमयं नानाविधानामेषां गर्भकराणां भावानां
समुदायादभिनिर्वर्तते गर्भः; यथा- कूटागारं नानाद्रव्यसमुदायात्, यथा वा- रथोनानारथाङ्गसमुदायात्; तस्मादेतदवोचाम- मातृजश्चायं
गर्भः,
पितृजश्च, आत्मजश्च, सात्म्यजश्च, रसजश्च, अस्ति
चसत्त्वमौपपादुकमिति (होवाच भगवानात्रेयः)||१४||
भरद्वाज उवाच-यद्ययमेषां नानाविधानां
गर्भकराणां भावानां समुदायादभिनिर्वर्तते गर्भः कथमयं सन्धीयते, यदि
चापिसन्धीयते कस्मात् समुदायप्रभवः सन् गर्भो मनुष्यविग्रहेण जायते, मनुष्यश्च
मनुष्यप्रभव उच्यते; तत्रचेदिष्टमेतद्यस्मान्मनुष्यो
मनुष्यप्रभवस्तस्मादेव मनुष्यविग्रहेण जायते, यथा- गौर्गोप्रभवः, यथा- चाश्वोऽश्वप्रभव
इति;
एवंसति
यदुक्तमग्रे समुदयात्मक इति तदयुक्तम्| यदि च मनुष्यो मनुष्यप्रभवः, कस्माज्जडान्धकुब्जमूकवामनमिम्मिनव्यङ्गोन्मत्तकुष्ठिकिलासिभ्यो
जाताः पितृसदृशरूपा न भवन्ति| अथात्रापि बुद्धिरेवं स्यात्- स्वेनैवायमात्मा
चक्षुषा रूपाणि वेत्ति, श्रोत्रेण शब्दान्, घ्राणेन
गन्धान्, रसनेन रसान्, स्पर्शनेनस्पर्शान्, बुद्ध्या
बोद्धव्यमित्यनेन हेतुना न जडादिभ्यो जाताः पितृसदृशा भवन्ति| अत्रापि
प्रतिज्ञाहानिदोषः स्यात्, एवमुक्ते ह्यात्मा सत्स्विन्द्रियेषु ज्ञः
स्यादसत्स्वज्ञः; यत्र चैतदुभयं सम्भवति ज्ञत्वमज्ञत्वं च,सविकारश्चात्मा
| यदि च
दर्शनादिभिरात्मा विषयान् वेत्ति, निरिन्द्रियो दर्शनादिविरहादज्ञः स्यात्, अज्ञत्वादकारणम्, अकारणत्वाच्च
नात्मेतिवाग्वस्तुमात्रमेतद्वचनमनर्थं स्यादिति (होवाच
भरद्वाजः)||१५||
आत्रेय उवाच- पुरस्तादेतत्
प्रतिज्ञातं- सत्त्वं जीवं
स्पृक्शरीरेणाभिसम्बध्नातीति| यस्मात्तु समुदायप्रभवः सन् स गर्भो
मनुष्यविग्रहेण जायते, मनुष्यो मनुष्यप्रभव इत्युच्यते, तद्वक्ष्यामः- भूतानां
चतुर्विधायोनिर्भवति- जराय्वण्डस्वेदोद्भिदः| तासां खलु
चतसृणामपि योनीनामेकैका योनिरपरिसङ्ख्येयभेदा भवति, भूतानामाकृतिविशेषापरिसङ्ख्येयत्वात्| तत्र
जरायुजानामण्डजानां च प्राणिनामेते गर्भकरा भावा यां यां योनिमापद्यन्ते, तस्यां
तस्यां योनौ तथातथारूपा भवन्ति;यथा- कनकरजतताम्रत्रपुसीसकान्यासिच्यमानानि
तेषु तेषु मधूच्छिष्टविग्रहेषु, तानि यदा मनुष्यबिम्बमापद्यन्ते
तदामनुष्यविग्रहेण जायन्ते, तस्मात् समुदायप्रभावः सन् गर्भो
मनुष्यविग्रहेण जायते; मनुष्यश्च मनुष्यप्रभव उच्यते,तद्योनित्वात्||१६||
यच्चोक्तं- यदि च
मनुष्यो मनुष्यप्रभवः, कस्मान्न जडादिभ्यो जाताः पितृसदृशरूपा
भवन्तीति; तत्रोच्यते-यस्य
यस्यह्यङ्गावयवस्य बीजे बीज भाग उपतप्तो भवति, तस्य
तस्याङ्गावयवस्य विकृतिरुपजायते, नोपजायते चानुपतापात्;तस्मादुभयोपपत्तिरप्यत्र| सर्वस्य
चात्मजानीन्द्रियाणि, तेषां भावाभावहेतुर्दैवं; तस्मान्नैकान्ततो
जडादिभ्यो जाताः पितृसदृशरूपा भवन्ति||१७||
न चात्मा सत्स्विन्द्रियेषु ज्ञः, असत्सु वा
भवत्यज्ञः; न ह्यसत्त्वः
कदाचिदात्मा,
सत्त्वविशेषाच्चोपलभ्यते
ज्ञानविशेष इति||१८||
भवन्ति चात्र- न
कर्तुरिन्द्रियाभावात् कार्यज्ञानं प्रवर्तते| या क्रिया वर्तते भावैः सा विना
तैर्न वर्तते||१९||
जानन्नपि मृदोऽभावात् कुम्भकृन्न प्रवर्तते| श्रूयतां चेदमध्यात्ममात्मज्ञानबलं
महत्||२०||
इन्द्रियाणि च सङ्क्षिप्य मनः सङ्क्षिप्य
चञ्चलम्| प्रविश्याध्यात्ममात्मज्ञः
स्वे ज्ञाने पर्यवस्थितः||२१||
सर्वत्रावहितज्ञानः सर्वभावान् परीक्षते| गृह्णीष्व चे(वे)दमपरं
भरद्वाज विनिर्णयम्||२२||
निवृत्तेन्द्रियवाक्चेष्टः सुप्तः स्वप्नगतो
यदा| विषयान्
सुखदुःखे च वेत्ति नाज्ञोऽप्यतः स्मृतः||२३||
नात्मज्ञानादृते चैकं ज्ञानं किञ्चित्
प्रवर्तते| न ह्येको
वर्तते भावो वर्तते नाप्यहेतुकः||२४||
तस्माज्ज्ञः प्रकृतिश्चात्मा द्रष्टा कारणमेव च| सर्वमेतद्भरद्वाज
निर्णीतं जहि संशयम्||२५||
तत्र श्लोकौ- हेतुर्गर्भस्य
निर्वृत्तौ वृद्धौ जन्मनि चैव यः|
पुनर्वसुमतिर्या च
भरद्वाजमतिश्च या||२६||
प्रतिज्ञाप्रतिषेधश्च
विशदश्चात्मनिर्णयः| गर्भावक्रान्तिमुद्दिश्य
खुड्डीकां तत्प्रकाशितम्||२७||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते
शारीरस्थाने खुड्डीकागर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः||३||
0 Comments